तत्त्वस्य कक्ष्याद्वयं न तु तत्त्वद्वयम्॥
वैदिकं मतम्
वैदिकैस्तु जगतः ब्रह्म-मूलकत्वाङ्गीकाराद्
रज्जुसर्पवन् मिथ्यात्वम् अ-स्वीकृत्य
केवलम् अ-नित्यत्व–स्वीकाराद्
ब्रह्मणो द्वैविध्य-प्रसक्तिर् एव नास्ति ।
यदि जगतो मिथ्यात्वं स्यात्
तदा सविशेष-ब्रह्मणोऽपि मिथ्यात्वं वक्तव्यं भवेत् ।
वैदिक-वादे सविशेष-ब्रह्मणः सत्यत्व-स्वीकाराद् एव
ब्रह्मणः उपादानत्वे स-विकारत्वापत्ति-परिहाराय
उत्तर-भागस्य द्वितीयाध्यायः प्रवृत्तः ।+++(4)+++
ब्रह्मण एव मिथ्यात्वे
दोषाणाम् एवाभावात्
तत्-परिहार-परिश्रमः सर्वोऽपि व्यर्थ एव स्यात् ।+++(5)+++
प्रासाद-निगरणादिवद् अनुपपन्नैक-वेषायाः मायायाः सर्वं भूषणम् एव
न तु दूषणम्
इत्येव तेषाम् आशयः ।+++(4)+++
अत एव सविशेष-निर्विशेष-ब्रह्म-विचारः
न कूलङ्-कष-रूपः ।
अयम् अर्थः श्रीभाष्य–गूढार्थ-सङ्ग्रहे
एवं “ब्रह्म-विभागः सर्वथा न प्रामाणिकः" इति विस्तरेण प्रतिपादितः ।
[[35]]
इदं सर्वं जानन्तोऽपि
श्रीशङ्कराचार्याः कथम् एवं वर्णयाम् आसुः
इति प्रश्नस्योत्तरं तु निर्विशेष-वादि-बौद्धानां सन्तृप्त्य्-अर्थम् एवेति स्पष्टम् ।
शुद्धवैदिकपक्षे तु ब्रह्मद्वयविभागो नास्त्येव ।
यदि विभागं कृत्वा गणनीयं चेत्, ब्रह्म बहुविधं भवेत् ।+++(4)+++
शाङ्करम् मतम्
अ-द्वैत-मते ब्रह्म-द्वयं प्रतिपाद्यते - निर्विशेषं सविशेषञ् च
जन्मादि-कारणत्वं स-विशेष-ब्रह्मणो लक्षणं
जन्माद्य्-अधिकरणे विचार्यते।
तद् एव
निर्विशेषस्य कूट-स्थानस्य निर्विकारस्य
शुद्ध-बुद्ध-मुक्त-स्वभावस्य ब्रह्मण
उपलक्षणं भवति -
“सत्यं ज्ञानम् अन्-अन्तम्”
इत्य् एव ब्रह्मणः स्वरूप-लक्षणं,
तद् एव ब्रह्म सर्वोत्तीर्णञ् चेति ।
… “सत्यं ज्ञानम् अनन्तम्” इत्येव ब्रह्मणः स्व-रूप-लक्षणम्,
तद् एव ब्रह्म सर्वोत्तीर्णं च ।
एवं सति
“ब्रह्म द्विविधं वा” इति प्रश्ने
शङ्कराचार्या एव
" किं द्वे ब्रह्मणी परञ्चापरञ्चेति?
बाढं द्वे ।“एतद् वै सत्यकाम
परञ्चापरञ्च ब्रह्म यद् ओङ्कारः” (प्रश्नो.उ. ५।२ )इत्यादिदर्शनात् ।
किं पुनः परं ब्रह्म, किम् अपरम् इति?
उच्यते-यत्राविद्या-माया-कृत—नाम-रूपादि विशेष-प्रतिषेधाद्
अस्थूलादि-शब्दैः ब्रह्मोपदिश्यते,
तत् परम् ।तद् एव यत्र नाम-रूपादि-विशेषेण केनचिद् विशिष्टम्
उपासनाय +उपदिश्यते
“मनोमयः पाण-शरीरो भा-रूपः"
इत्य्-आदि-शब्दैः +तद् अ-परम् ।नन्व् एवम् अ-द्वितीय-श्रुतिर् उपरुध्येत ?
न अ-विद्या-माया-कृतनाम् अ-रूपोपाधिकतया परिहृतत्वात् "
(ब्र.सू.शा.भा. ४.३.१४),
इत्य् उक्तवन्तः ।
अत्र तैः सविशेषस्य ब्रह्मणः मिथ्यात्वम् उक्त्वा
“तद् एवापरम्” इति
मिथ्या सत्यञ् चेति द्वयं ब्रह्म क्रोडीकृत्य
ब्रह्मणो द्वैविध्यञ् च उक्तम् ।
मिथ्या-सत्य-क्रोडी-करणम्
… मिथ्या-भूतं सत्य-भूतञ् चैकी कृत्य
“बाढं द्वे ब्रह्मणी” इत्य् उत्तर-दानं
कथं वा सङ्गच्छेत ?
सर्पो द्विविधः रज्जुसर्पः वल्मीकसपश्चेतिवत् खलु तद्भवति।
यदि “तत्रापि विरोधो नास्ति” इत्य् अङ्गीक्रियते
तदा वल्मीक-सर्पस्य प्रतिकोटिभूताः
रज्जुसर्पः भूविदलनसर्पः मालासर्पः दण्डसर्पः इत्यादयो बहवः सर्पाः भवेयुः ।
… तद् युक्तं वा?
यथा
सर्पो द्विविधः -
एकः वल्मीक-सर्पः, अपरस् तु रज्जु-सर्पः
इति क्रोडी कृत्य सर्प-द्वैविध्य-कथनवन् न भवति वा ?
भवतु इति चेद् दण्ड-सर्पः, भू-विदलन-सर्पः इत्यादि - अनन्तसर्पाः भवेयुः ।
को वा मतिमान्
एतादृशम् एकं मिथ्यावस्तु एकञ् च सत्यं वस्तु इति
मिथ्यासत्यवस्तु-द्वयम् आदाय
गणनां कुर्यात् ?
सगुण-निर्गुण-ब्रह्म-सम्बन्धः
उभयोरपि ब्रह्मणोः परस्परं सम्बन्धोऽस्ति वा न वा ?
“बाढं द्वे” इत्युक्त्वा
प्रथमं परं ब्रह्म निर्दिश्य
“तद् एव” इत्य् उपक्रम्य
अ-पर-ब्रह्म-निरूपणं क्रियते ।
परस्परम् उभयोः अ-सम्बन्धे ब्रह्मद्वयं स्वतन्त्रं स्यात् ।
तदा “अद्वितीयम्” इत्य्-आदि श्रुतिविरोधः स्यात् ।
अतः उभयोः सम्बन्धः कथम् अपि वक्तव्यः ।
अन्यथा केनाऽपि कारणेन
परं ब्रह्म अपरं ब्रह्म न भवेत्,
तर्हि न केवलं ब्रह्म-द्वयम्
अपि तु तद्-उपरि वर्तमानं सर्वमपि ब्रह्मैवेति ब्रह्मानन्तं भवेत् । +++(4)+++
ब्रह्म-द्वित्वे कारणास्पष्टता
जगन्-मूल-कारण-प्रतिपादकानि वाक्यानि ॥
यदि च सृष्टिप्रकरणानि सर्वाणि क्रोडीकृत्य परिशील्यन्ते चेत्
तदा जगन्-मूल-कारण-प्रतिपादकानि वाक्यानि
“आत्मा वा इदम् एकम् एवाग्र आसीत्” ( ऐत. उ. १.१.१),
“असद्वा इदमग्र आसीत्, ततो वै सद् अ-जायत " ( तैत्ति. उ. २.७),
“सद् एव सौम्येदम् अग्र आसीत्” (छा.उ. ६.२.१),
“ब्रह्म वा इदम् एकम् एवाग्र आसीत् " ( बृह. उ. १.४.१०),
“तद्धेदं तर्ह्य् अव्याकृतम् आसीत्, तन् नाम-रूपाभ्यां व्याक्रियत” ( बह. उ. १।४।७),
इत्यादिवाक्यानि दृश्यन्ते।
एषु वाक्येषु प्रतिपादितानि जगन्मूलकारणान्य् अपि भिन्नभिन्नानि स्युः ।
एतेषामैककण्ठ्यं कथं सम्पादनीयम् ?
एकैकस्यापि पदस्य प्रवृत्तिनिमित्तं भिन्नभिन्नम् अस्तीति
तावन्मात्रेण वस्तुभेदः स्वीक्रियते चेत्,
तदा जगत्कारणम् अव्यवस्थितम् एव स्यात् ।
किं बहुना, अत्यन्त-प्रसिद्धे तैत्तिरीयवाक्ये
“बह्मविद् आप्नोति परम्" (तैत्ति.उ. २.१), इत्य्–अत्र ब्रह्मपदम् एव वर्तते ।
अनन्तरं तु “आत्मन आकाशः सम्भूतः” (तैत्ति.उ. २.१), इत्यत्र आत्म-पदं वर्तते ।
ब्रह्म-पद-प्रवृत्ति-निमित्तं तु
बृहत्त्व-बृंहणत्वादिकम्
इति प्रसिद्धम् ।
आत्मपदप्रवृत्तिनिमित्तं तु व्याप्त्यादिकं प्रसिद्धम् ।
एवं सति प्रवृत्ति-निमित्त-भेद-मात्रेण वस्तुभेदे सति
आरम्भ अन्येन, मध्ये अन्य
इति पदानामैककण्ठ्यं न स्यात् ।
अतः प्रवृत्तिनिमित्तभेदे सत्य् अपि
वस्तुभेदः न प्रामाणिकः।
किम् अधिकोक्त्या?
विष्णुः नारायणः कृष्णः (अ.को. १.१.३५),
इति अमरकोशे विष्णुपर्यायाः पठ्यन्ते ।
[[45]]
एतेषां पदानां प्रवृत्तिनिमित्तभेदे सत्यपि
तद्-अर्थैक्यं सर्व-सम्मतम् एव ।
अन्यथा विष्णु-सहस्र-नामसु सहस्रं नामानि
एकस्य विष्णोः कथं स्युः ।
अतः एकस्मिन् वस्तुनि नानाधर्म-समवायः सहजः, प्रामाणिकः, अनिवार्यश्च ।
एवं सति
किं द्वे ब्रह्मणी परमपरं चेति ?
“बाढं द्वे” इत्यादि वचनं कथं सङ्गतं भवेत् ।
ब्रह्मणः निर्विशेषत्वेन
इतरस्य सर्वस्यापि सविशेषत्वात्
तस्य च मिथ्यात्वान्
मिथ्यासत्ययोर् मेलनेन
“द्वे” इति कथनं कथं घटताम् ?
एवं तर्हि सर्पो द्विविधः वल्मीकसर्पः, रज्जु-सर्पश् चेति
इत्यपि वचनं समीचीनं स्यात् ।
इष्टापत्तौ रज्जुसर्पः, मालासर्पः, अम्बुधारासर्पः, भूविदलनसर्पः, दण्डसर्प इत्यादिरीत्या
सर्पाः बहुविधाः स्युः ।+++(5)+++
को वा मतिमान् इदं सर्वम् अङ्गी कुर्यात् ।
श्रुति-विरोधः
… ब्रह्म-द्वित्वे “एकम् एवाद्वितीयम्” (छा. उ. ६.२.१), इत्य्-आदि-श्रुतीनां का गतिः ?
…
निर्विशेषं किं तत् -
सविशेषस्यैव मूलरूपं वा
भिन्नरूपं वा ।
मूलरूपत्वे
" तद्धेदं तर्ह्य् अव्याकृतम् आसीत्
तन् नामरूपाभ्यां व्याक्रियत"
इत्य्-आदि श्रुतिभिर् एव
तद्-अर्थ-प्रतिपादनान्
निर्विशेष-ब्रह्मणः शश-शृङ्ग-तुल्यत्वम् एव ।
अव्याकृतावस्थायां तच्-छब्देन यद्-उच्यते
तद् एव तन्-नाम-रूपाभ्यां व्याक्रियत
इति नाम-रूपवद् यद् ब्रह्म
तद् अपि तच्-छब्देनैव प्रत्यभिज्ञायते +++(इति सामानाधिकरण्यम्)+++।
अत उभयोर् ऐक्यम् एव ।
अतश्च ब्रह्मणः साक्षाद्-उपादानत्वम् एव श्रौत-सिद्धान्तः (←“जन्माद्य् अस्य यतः”)।
उपादानम् अमन्यत्, उपादेयमन्यद् इति तु तार्किक-वादः ।
शङ्कराचार्यैस् तथा विभाग-करणञ् च
बौद्धानां सन्तृप्त्यर्थमेव ।
सङ्गीतवित् सुषुप्तः
… तत्त्व-शास्त्र-दृष्ट्या ऽपि
तत्त्वस्य कक्ष्याद्वयम् अनिवार्यम् ।
तच् च पूर्वं सङ्गीत-विद्वद्-दृष्टान्तेन प्रदर्शितम् ।
तस्यायम् अभिप्रायः -
सङ्गीतविद्वान् सन्न् अपि
सदा सङ्गीतं गायन् न तिष्ठत्य् एव ।
निद्रायां तु सम्पूर्ण-ज्ञान-लोपो भवति ।
तथापि गायन-शक्तिस् तु तद्-अन्तर्निहिता वर्तत एव ।
तस्या अपि लोपे तु
जागरणानन्तरं स एव गायतीति लोकव्यवहारः सर्वसम्मतः कथं स्यात् ?
निगमनम्
एवम् एव
ब्रह्मणोऽपि एकस्यैव कक्ष्या-द्वयम् अनिवार्यम् ।
सर्वोत्तीर्णा स्थितिर् एका,
किञ्चिद् अवतीर्य जगद्-रूपेणावस्थितिर् अन्या
वेदान्तेषु दृश्यते एव ।
न च तावता ब्रह्म-द्वयं वा
सर्वथा शक्ति-शून्यं वा स्वीकर्तव्यम् ।+++(5)+++
निर्विशेषम् इति पदं तु
धर्माणां तदा अनुन्मेष-मात्रेण
विवक्षित-धर्माणाम् अभावेन वा कथञ्चन प्रयोक्तुं शक्यते,
न तु सर्वथा धर्माभावेन ।
निर्विशेष-वस्तुः शश-शृङ्गायितम्
इति पूर्वं बहुधा प्रतिपादितम् एव ।
शङ्कराङ्गीकारः क्वचित्
आरम्भणाधिकरणीयं शाङ्करभाष्यम् अपि
“सत्त्वाच्चापरस्य " ( ब्र.सू. २.१.१६) इति सूत्रे
" यथा च कारणं ब्रह्म
त्रिषु कालेषु सत्त्वं न व्यभिचरति,
एवं कार्यम् अपि जगत्
त्रिषु कालेषु सत्त्वं न व्यभिचरति ।
एकं च पुनस् तत्त्वम् ।+++(4)+++
अतोऽप्य् अनन्यत्वं कारणात् कार्यस्य "
इत्य् उक्त्वा जगद्-रूपेण विद्यमानस्य ब्रह्मणः
सविशेषत्वम् एव स्पष्टी करोति ।+++(4)+++
जन्मादि-कारणत्वं सविशेष-ब्रह्मणो लक्षणं
जन्माद्य्-अधिकरणे विचार्यते ।
तद् एव निर्विशेषस्य कूट-स्थस्य निर्विकारस्य शुद्ध-बुद्ध-मुक्त-स्वभावस्य ब्रह्मणः उपलक्षणं भवति ।
[[34]]
… जगद्-रूपेण विद्यमानस्यापि ब्रह्मणः
कारण-ब्रह्म-समानम् एव स-विशेषत्वं वा प्रतिपादयति ।
न तु मिथ्यात्वम् ।
ब्रह्म-द्वय-वचने हेतुः
अतः ब्रह्मणः पूर्वरीत्या द्वैविध्य-व्यवस्था न कर्तुं शक्या ।
परन्तु श्रीशङ्कराचार्याणां तथा कथनं
जगतः मूल-कारणम् ईश्वरम् अनङ्गीकुर्वतां बौद्धानां सन्तृप्त्य्-अर्थम् एव ।+++(5)+++