०१ ब्रह्माङ्गीकारः

… अन्ततः तत्-तद्-वस्तूनाम् अ-साधारण-शक्तयो ऽनिवार्याः,
ताः अनुभवविषया भवन्तु वा न वा ।
कार्य-वेलायां तु
कार्यानुमेया भवन्त्येव ।

बौद्धाः

यद्य् अपि ते +++(नास्तिका)+++ वदन्ति
प्रमाणाभावाद् ब्रह्म नाङ्गीकर्तुं शक्यते
तस्येदम् उत्तरम्

“नह्येष स्थाणोर् अपराधः
यद् एनम् अन्धो न पश्यति"

इत्येव । +++(5)+++

आस्तिकाः

आस्तिकानां तु कर्तुम्, अकर्तुम्, अन्यथा कर्तुं समर्थं यत्,
तद् एव ब्रह्मेत्य् उच्यते ।
तादृशं वस्तु निर्विशेषं कथं भवितुम् अर्हति ?