इदानीं तु अध्यात्म-विज्ञानं शून्यम् इव दृश्यते ।
अत एव आत्म-विषयेऽपि +असङ्ख्याताः पक्षाः काल-क्रमेण प्रवृत्ताः ।
अतः अध्यात्म-विज्ञानान्वेषणे प्रथमं प्रवृत्तिः कर्तव्या ॥
अध्यात्म-विज्ञानं नाम किम् ?
आत्मानुभव-रूपं ज्ञानं तु
अध्यात्म-ज्ञानम् इत्य् उच्यते ।
अध्यात्मविज्ञानं च तद्-विषय-कारणादि-विमर्श-रूपम् ।
दर्शनादि, गुरुः
… अत एव-
आत्मा वाऽरे द्रष्टव्यः श्रोतव्यः मन्तव्यः निदिध्यासितव्यः
आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते
इदं सर्वं विदितं भवति
(बृह.उ.२।५।६)
इति श्रुतिः प्रवृत्ताः ।
अत्र प्रथमं “द्रष्टव्यः” इति दर्शनम्,
अनन्तरं श्रोतव्य इति श्रवणम्,
अनन्तरं मन्तव्य इति मननरूपो विचारः,
तदनन्तरं निदिध्यासितव्यः इति ध्यानम् इत्येव क्रमः दृश्यते ।
प्रथममेव दर्शनं भवेत्,
तर्हि अनन्तरं श्रवणादिनां प्रसक्तिः कथं स्यात् ?
अतः साम्प्रदायिकैः सर्वैरपि
“अर्थक्रमानुरोधेन पाठक्रमः परिवर्तनीयः” इति न्यायेन
द्रष्टव्य इति दर्शनस्य ध्यानानन्तरमेव निर्देशः ।
अतः श्रवणम् एव प्रथमं कर्तव्यम् इति निर्णीतं वर्तते ।
परन्त्व् अत्र (कश्चन ) संशयः -
श्रवणं नाम श्रोत्रेन्द्रियजन्य-शब्दविषयक–तद्-अर्थ-श्रवणम् ।
तच्च कथं भवितुमर्हति?
श्रोत्रेन्द्रियेण तु शब्दस्य श्रवणं भवति।
तथा च श्रवणं शब्दविषयकं, न तु अर्थविषयकम् ।
“घटं श्रृणोति” इति कथने
घटज्ञानं जायमानं घ-ट-शब्दानुपूर्वी-विषयकम् एव भवितुम् अर्हति ।
अनन्तरं जायमानं घटार्थ-विषयकं ज्ञानं तु परोक्ष-रूपम् एव +++(5)+++ -
घटस्य बाह्यत्वात् ।
तज्-ज्ञानम् अपरोक्षम् इति भ्रान्तिर् एव ।+++(5)+++
एवम् आत्मनि कथं वक्तव्यम् -
आत्मनः +अत्यन्तम् अलौकिकत्वात्
शरीरातिरिक्तः आत्मा कदा केन ज्ञातः ?
अतः एतादृशश्रवणे इन्द्रिजन्यश्रवणविषयः आत्मा
कथं भवितुम् अर्हति?
इति महती समस्या।
“कः समाधिः ?” इति चेद्
अत्रैव वर्तते +अध्यात्म-शास्त्र-रहस्यम् ।
गुरोः स्थानम् अपि +अत्रैव वर्तते ।
गुरूपदेशः इत्य्-आदिकम् अपि
परम-रहस्यम् एव जायते ।
वस्तुतः +गुरुस् तत्-तादृशो भवेत्
सः तु न शब्दम् उपदिशति,
स्वीय-तपः-शक्त्या अर्थम् एव सकृत् प्रदर्शयति
न तु शब्द-मात्रम् ।+++(5)+++
यतो हि +उपदेशः त्रिविधः -
तत्र प्रथम “उपदिशती"त्य् उपदेशः -
“दिश अतिसर्जने” इति धातुः ।
अतिसर्जनं नाम दानं,
तस्मै शब्दं ददातीति प्रथमः कल्पः।
अयं शब्दोपदेशः अधमः ।
[[76]]
मध्यमस्तु चिन्-मुद्रयोपदेशः ।
उत्तमस्तु मौनेन +उपदेशः ।+++(5)+++
अयं तृतीयः कल्पस्तु दक्षिणामूर्तिविषयकेन-
" चित्रं वटतरोर्मूले
वृद्धाः शिष्या गुरुर् युवा ।
गरोस्तु मौनं व्याख्यानं
शिष्यास्तु छिन्नसंशयाः " ॥
इति ध्यान-श्लोकेन ज्ञातुं शक्यते ।
अत्र कल्पे गुरौ अन्तर्-विद्यमानम् आत्म-तत्त्वम् एव
साक्षाच् छिष्यस्यापि प्रकाशितो भवति स्वयमेव ।
प्रथम-कल्पेऽपि अधिकारी यदि पूर्वजन्मनः सुकृत-वशाद् भाग्यशाली स्याच् चेत्
शब्द-श्रवण-मात्रेणैव तस्य +आत्मनः जागरणं स्यात्,
अनन्तरम्
“अहं ब्रह्म”, तर्हि कथम् एतादृशसंसारे पतितः?
इति जिज्ञासया उत्तरोत्तरम् आत्मज्ञानं लब्ध्वा
आत्म-तत्त्वं प्राप्नुयात् ।
किन्तु द्वितीय-तृतीय-कल्पापेक्षया विलम्बो भवेत् -
यतो हि द्वितीय-तृतीय-कल्पे तु
गुरोर् अनुग्रहेण साक्षाद् आत्म-दर्शनं तदैव भवति,
अनन्तरं त्वरयैव तद्-विषयक-जिज्ञासा,
अनन्तरं मनन-ध्यानादिना शीघ्रम् एव +आत्मतत्त्वं लभते ।
एवं वस्तूनि प्रदर्शिते
तद्विषयक-ध्यानम् अपि सुकरं भविष्यति ।
मनन-निदिध्यासनयोः प्रथम-जातस्य दर्शनस्य दृढीकरणम् एव फलम् ।
अतः “आत्मा वा अरे द्रष्टव्यः” इति प्रथमं
तद्-अनन्तरं तद्-विषयकः प्रश्नः,
तद्-अनन्तरं “श्रोतव्यः” इति,
तद्-अनन्तरं “मन्तव्यः” इति,
तद्-अनन्तरं “निदिध्यासनम्” इत्य् एव क्रमः साधुः
इति तद्-रहस्य-ज्ञाः वदन्ति । +++(5)+++
केषाञ्चित्तु सुकृतपाकवशात्
पूर्वजन्मनि दृष्टस्यात्मनः
एतज्-जन्मनि संस्कार-वशाद् अनुवर्तेताऽपि । +++(4)+++
इदम् एवोक्तं गीतायां
“जिज्ञासुर् अपि दर्शनम् योगस्य शब्द-ब्रह्मातिवर्तते”
इति ( गी. ६।४४ ) एतादृशाधिकारिणः +अतिविरला एवेति
पृथक् +न वक्तव्यम् ।
सारतः,
आत्मोपासन-विषये
तत्-तादृश-गुरु-लाभो वा,
पूर्व-जन्मन एव ध्यानारम्भानुवृत्तिर् वा
इति द्वयी एव गतिः,
नान्या
इति मर्मज्ञा वदन्ति।
अयम् एव वैदिको मार्गः ।
नेति नेति रीत्या वर्ण्यमानः +ज्ञान-मार्गस् तु जैनबौद्धानां
यतस् ते +ईश्वर-तत्त्वं नाङ्गीकुर्वन्ति ।+++(5)+++
सैव प्रक्रिया निर्विशेषाद्वैत-मतेऽपि +आगता ।
वैदिकानां तु निरुपाधिक-भक्ति-मार्ग इत्येव ।
गीताद्वादशाध्याये इदं मार्गद्वयं विस्तरेण निरुपितं,
तदेव अत्रापि विस्तरेण विचारितं वर्तते ॥
आत्मा
… प्रथमम्, आत्मा नाम कः ?
अयम् एव महान् प्रश्नः -
यत आत्म-शब्दार्थः शरीराद् आरभ्य
परमात्म-पर्यन्तः सर्वोऽपि भवति ।
अत एव आत्म-ज्ञानं साधना-रहितं चेत्,
दुर्-ऊहं गहनञ् च संवृत्तम् ।+++(4)+++
(विज्ञान-रहितं चेत् प्रतिष्ठितं च न भवति) ।
जनक-याज्ञवल्क्य-संवादः
अत आत्म-तत्त्व-ज्ञान-सम्बन्धि-विज्ञानं यद् अन्वेष्टव्यं
तद्-अर्थं प्रयत्नः कर्तव्यः ।
अस्य उपक्रमः बृहद्-आरण्यकोपक्रमय् एव
जनक-याज्ञवल्क्य-संवादे वर्तते ।
जनको याज्ञवल्क्यं पृच्छति ।
अन्धकारे वर्तमानस्य पुरुषस्य
न किञ्चिद् अवभासते,
न किञ्चित् कर्तुं शक्यते ।
अतो ऽन्धकारे प्रकाशो ऽपेक्ष्यते ।
[[20]]
तत्र प्रश्नोत्तराणि एवं वर्तन्ते
प्र. किञ् ज्योतिर् आस्ते पुरुषः ?
उ. आदित्य एवास्य ज्योतिः ।
प्र. आदित्ये अस्तम् इते किञ् ज्योतिर् आस्ते पुरुषः ?
उ. चन्द्रमा एवास्य ज्योतिः ।
प्र. आदित्ये अस्तमिते, चन्द्रमसि अस्तमिते, किञ्ज्योतिरास्ते पुरुषः ?
उ. अग्निरेवास्य ज्योतिः ।
प्र. आदित्ये अस्तम् इते, चन्द्रमसि अस्तम् इते, अग्नौ शान्ते, किं ज्योतिर् आस्ते पुरुषः ?
उ. वाग् एवास्य ज्योतिः ।
( परस्परं वाग्-व्यवहारेण
विषयम् अवगच्छन्ति अन्धकारे ऽपि )
प्र. आदित्ये अस्तम् इते, चन्द्रमसि अस्तमिते, शान्तेऽग्नौ, शान्तायां वाचि, किं ज्योतिर् आस्ते पुरुषः ?
उ. आत्मैवास्य ज्योतिः । (बृह.उ. ४.२.६)
शरीरात्मा
अन्धकारे उपविष्टस्य पुरुषस्य
स्व-विषयकं ज्ञानं वर्तत एव ।
अहम् अत्र एवम् उपविष्टः,
मदीय-हस्त-पादादय इमे
इत्यादि सर्वम् अन्धकारे उपविष्टः, निमीलितचक्षुः सन्न् अपि जानात्य् एव ।
कथम् एतज् जानाति? साधनं किम्?
इति प्रश्ने, आत्मैवेति वक्तव्यम् ।
तर्हि आत्मनः हस्तपादादयः सन्ति वा ?
हस्त-पादादीनाम् अपि स्व-प्रकाशत्वं वा ?
हस्त-पादादिर् जड-पदार्थ इति स्पष्टम् ।
अथापि अङ्गुलिर् वक्रा वा, दीर्घो वा इत्यादिकम् अपि अन्धकारेऽपि जानाति ।
दक्षिणहस्तेन वामपादं स्पृशेति।
मनसि +आज्ञा भवति चेत्, दक्षिणहस्तः वामपादं स्पृशति ।
कथं दक्षिणहस्तः वामपादं जानातीत्य्-आदि-प्रश्नानाम् उत्तरम् अन्वेष्टव्यम् ।
शरीर-रूपेण परिणतस्य चैतन्यस्य
स्व-प्रकाशत्वाद् आत्मानम् अ-खण्डम् एकं शरीराकारं जानाति ।
तद्-अवयवं हस्तादिकम् अपि जानाति ।
अतः प्रथम-कक्ष्यायां शरीरम् एव आत्मा ।
… एतावता कालेन
अ-प्रधानम् उपाधिं प्रधानं कृत्वा
यन्-मूलं चैतन्यं,
तस्य मूल्यम् अज्ञात्वा,
आत्मन उपाधि-भूतैर् देहेन्द्रिय-मनो-बुद्धिभिश् च
स्वस्यैक्यं मत्वा
“अहं स्थूल” इत्यादि व्यवहाराः प्रसृताः ।
ते सर्वेऽपि औपाधिका इत्य् अपि
तेनैव वचनेन
अर्थात् सिध्यति ।
अध्यात्मक्षेत्रे भ्रम-स्वरूपम्
… लोके “भ्रम” इति पदं प्रसिद्धं वर्तते ।
तस्य लक्षणं तु “तद्-अभाववति तत्-प्रकारानुभवः” इति नैय्यायिकैर् उच्यते ।
“अ-तस्मिन् तद्-बुद्धिर्” इति श्रीशङ्कराचार्यस्योक्तिः ।
यथा शुक्तिकायां रजतभ्रमः,
रज्जौ सर्पभ्रम
इति सर्वानुभवसिद्धम् ।
परन्तु देहात्म-भ्रमे पूवोक्त-भ्रम-लक्षणस्य कथं समन्वयः ?
विषय-दृष्ट्या देहात्म-भ्रमः कः ?
“देहे आत्मभ्रमः” इत्यर्थो वा
“आत्मनि देहभ्रमः” इत्यर्थो वा ?
भ्रमो यत्र भवति,
तस्याधिष्ठानम् इति सञ्ज्ञा ।
यद् भवति,
तस्य अध्यस्तम् इति सञ्ज्ञा ।
यथा रज्जु-सर्प-भ्रमे
रज्जुः अधिष्ठानम्, सर्पः अध्यस्तः ।
यथा कथञ्चिद् अपि
उभयोः पूर्व-परिचयः आवश्यकः ।+++(4)+++
तत्रापि अध्यस्तस्य तु पूर्वपरिचयः अनिवार्यः।
तथोक्तं शङ्कराचार्यैर् अध्यास-भाष्य एव
“स्मृति-रूपः परत्र पूर्व-दृष्टावभासः अध्यासः" इति ।+++(5)+++
एवं सति
अहम्-पदार्थस्य वा,
शरीरस्य वा पूर्वं प्रत्येकं द्रष्टा कः ?
परत्र पूर्व-दर्शने सत्य् एव अध्यास
इति निर्णयः ।
आपणे रजतादिकम्,
सत्य-सर्पं च यो पूर्वं न जानाति
तस्य कथं भास्वर-शुक्ल-वस्तु-दर्शनेन रजतस्य स्मरणम्,
दीर्घत्वाद्य्-आकार-विशिष्ट-वस्तु-दर्शनेन सर्पस्य स्मरणं भवेत् ।
[[49]]
तत्र स्मृतित्वस्य आच्छादनात्
पुरो-वर्ति वस्तुनश् च +ऐन्द्रियकत्वात्
“इदं रजतम्”, “अयं सर्पः” इत्यादिभ्रमः उपपादयितुं शक्यते ।
अत एवात्र स्मृति-प्रमोष-वादिनः प्राभाकरादयः
“स्मृतित्वस्याग्रहणम् एव भ्रम” इति वदन्ति ।
अत एव “तज्-ज्ञानं ग्रहण-स्मरण-द्वयात्मकम्” इति ते वदन्ति ।
नैय्यायिकास् तु सर्वत्र विशिष्ट-ज्ञान-वादिनः,
अतः “इदं रजतम्” इति एकम् अखण्डज्ञानम् ।
तेषां मते स्मृति-प्रमोषादयस् तु कारण-वर्गे निवेश्यन्ते ।
एतद्-विषयक-विस्तरः सर्वङ्कषायां द्रष्टव्यः ।
एवं च प्रकृते
पूर्वं प्रत्येकं शरीरस्यात्म-चैतन्यस्य चाननुभवेऽपि
यद्-आत्म-चैतन्य बुद्ध्य्-आदि-द्वारा अवतीर्यावतीर्य शरीरं सर्वं व्याप्नोति
“निष्टप्ते लोहपिण्डे हुत-वहमतिवत " (तत्त्व.जीव. २),
इति श्रीवेङ्कटनाथार्योक्त-दिशा “अयो दहती"तिवत्
“अहं जानामि”, " अहं स्थूलः”, “अहं कृशः” इति भ्रमः ।
अयं भ्रमः - अज्ञानिनां दृष्ट्या ।
ज्ञानिनां दृष्ट्या तु - औपाधिकः व्यवहारः ।
लोह-पिण्डे अग्निर् एव दहति, न त्व् अयः,
तौ पृथक् पदार्थौ ।
अग्निः पृथक् दृष्टः,
अयोऽपि पृथक् दृष्टं पूर्वम् ।
अनन्तरं कदाचन लोह-पिण्डे अग्नेर् व्याप्ति-दृट्या “अयो दहती"ति व्यवहारो भवति ।
तथा शरीरात् पृथग्-आत्मचैतन्यं,
चैतन्यात् पृथक् शरीरं च न कदापि दृष्टम् ।
चैतन्य-निर्गमनान्तरं
शरीरं पृथक् दृश्यते खलु
इति वक्तुं न शक्यते ।
तस्य शरीरत्व-व्यवहारः भ्रान्त्यैव,
वस्तुतः “शव” इत्येव नाम ।
भूत-पूर्व–गत्य्-आश्रयणेन शरीरम् इति व्यवहारः ।
शरीरे आत्मनो व्याप्त्या यथा “ऽहं स्थूलः, अहं गच्छामि” इति व्यवहारस्
तथैव इन्द्रियादिष्व् अपि तद्-व्याप्त्यैव
“अहं पश्यामि, अहं मन्ये, अहं जानामि” इत्यादि अहम्-प्रत्ययः स्वरसो भवति ।+++(5)+++
अत एव तैत्तिरीयोपनिषदि
अन्नमयः, प्राणमय, मनोमयः, विज्ञानमयः, आनन्दमयः इति पञ्च कोशाः वर्णिताः (तैति. ३.२) ।
तद्-अनुभव-प्रकारस् तु
“अन्नं ब्रह्मेति व्यजानात्,
प्राणो ब्रह्मेति व्यजानात्,
मनो ब्रह्मेति व्यजानात्,
विज्ञानं ब्रह्मेति व्यजानात्,
आनन्दो ब्रह्मेति व्यजानात्”
इति (तै. ३.२ - ६) द्रष्टव्यः।
तथा च तप्त-लोह-पिण्डवद् एव
देहे चैतन्य-व्याप्त्यैव भ्रमः,
न तु प्रत्येकं शरीरम् आत्मानं च पूर्वं दृष्ट्वा
अनन्तरम् एकस्मिन्न् अधिष्ठाने
अन्यस्य तत्र-विद्यमानस्य भ्रमः
इत्येव प्रामाणिकः पन्थाः ।
इतरत् सर्वं शब्दजालमात्रम् ।
एतेन
“न चायम् एकान्तेनाविषयः - अस्मत्-प्रत्यय-विषयत्वात्,
अपरोक्षत्वाच् च प्रत्यग्-आत्म-प्रसिद्धेः "
( शां. अ.भा.)
इत्य्-आदिकं बालोपच्छन्दन-मात्रम् ।+++(4)+++
एवं च शरीरे आत्मभ्रमः
संसारिणाम् अनुभवरूपो न भवितुम् अर्हति ।
[[50]]
किन्तु शास्त्राद् एव “+अयं भ्रमः” इति ज्ञेयम्।
अतो लोक-दृष्ट–रज्जु-सर्प–शुक्तिका-रजतादि-भ्रमवन् नायम् अपरोक्ष-भ्रमः ।
इदं सर्वम् अभिप्रेत्यैवोक्तम् अभियुक्तैः
“देहात्मप्रत्ययो यद्वत्
प्रमाणत्वेन कल्पितः ।
लौकिकं, तद्वद् एवेदं
प्रमाणं त्वाऽऽत्म-निश्चयात्”
( ब्र.सू.शा. भा. १.१.४)
इति । अत्र कल्पित इत्य् अस्य निश्चित इत्यर्थः ।
प्रत्यक्त्वम्
… “तत्-प्रत्यग्-अर्थः स्वयम् आत्मानं पश्यति”
इत्य् अर्थः ।
“प्रतीपम् अञ्चतीति प्रत्यग्” इति व्युत्पत्तिः प्रदर्श्यते ।
बुद्धिस् तु स्वतो बाह्यविषयेषु न प्रसरण-शीला ।
तत्-प्रतिकोटितया चैतन्यन् तु स्व-विषयय् एव यदा व्याप्रियते,
तदानीं तत् प्रत्यग्-अर्थः इत्युच्यते ।
“अञ्चु गति-पूजनयोः” इति धातुर्
गत्य्-अर्थकानां ज्ञानार्थकत्वात्
प्रकृते स्वात्मानं स्वयम् एव जानातीत्यर्थः ।
एष एव प्रत्यग्-आत्मा ।
पञ्च-कोश-प्रकरणम्
अत एव पञ्च-कोश-प्रकरणम् इति प्रसिद्धम् ।
आनन्द-वल्ल्यां प्रथमः कोशः - अन्नमय-कोश इत्य् उच्यते।
“स वा एष पुरुषो ऽन्न-रसमयः " ( तैत्ति. उ. २.२),
इति प्रथमः अन्नमयकोशः ।
एवं च शरीर-रूपेण परिणतं चैतन्यम् एव
तत्-कक्षायां “शारीर आत्मा” इत्युच्यते -
तस्यैव तदानीम् अहम्-अर्थत्वात् ।
अहम् इति निर्दिश्यमान एव च प्रत्यग्-आत्मा ।
एवमेव प्राणमय, मनोमयः, विज्ञानमयः, आनन्दमयः इत्येते कोशाः ज्ञातव्याः ।
तत्र क्रमेण उत्तरोत्तरम् उत्तमत्वेन च चैतन्य-परिणाम-विशेषो द्रष्टव्यः ॥
एवम् अनुभव-विश्लेषणं कृत्वा
“कथं कथं कस्यां कस्यां कक्षायां वर्तत” इति ज्ञात्वा
सद्भिर् वर्तितव्यम् ।
तत् परित्यज्य चर्चा-करणेन
न कोऽपि लाभः,
प्रत्युत बुद्धिः कलुषिता भवेत् ।
पुनः पुनर् एतादृश-चैतन्य-तत्त्वस्य चिन्तनया,
पुनः पुनर् अनुभवो गाढो भवेत् ।21
स्थूलारुन्धती-न्यायेन
आत्मनः प्रदर्शनार्थम् एव एषा प्रक्रिया
इति सर्वसम्मतम् ।
अपरोक्षता
तत्र-स्थ-पङ्क्तीनां पठन-मात्रेण
“भुवि सर्वं ज्ञातम् अभूद्” इति न भ्रमितव्यम् ।
शब्द-जन्यं ज्ञानम् इदं केवलं परोक्षरूपम् ।
यदि इदं ज्ञानं बहु-प्रयत्नेन तपसा अपरोक्षरूपं भवेत् -
तदानीम् एव तज् ज्ञान-पदवाच्यं भवेत् ।
एतत् सर्वं नैक-जन्म-साध्यम् ।
एतादृशम् अध्यात्म-तत्त्वम् अधिकृत्यैव –
“यदा ह्य् एवैष एतस्मिन्न्
अदृश्ये, अनात्म्ये, अनिरुक्ते, अनिलयने,
अभयं प्रतिष्ठां विन्दते ।
अथ सोऽभयं गतो भवति ।
यदा ह्य् एवैष एतस्मिन् उदरम् अन्तरं कुरुते,
अथ तस्य भयं भवति "
( तैत्ति. उ. २.७),
इत्य्-उक्तम् ।
अतश् च
एतादृशात्म-तत्त्व-ज्ञानस्य
कथं प्राप्तिर्
इति विचार आवश्यकः,
यद्-अ-भावे भयं भवतीति +उच्यते ।
एतादृश-ज्ञान-सम्पादनम् एव
ब्रह्म-निष्ठानां ब्राह्मणानां प्रथमं कृत्यम् ।
एतादृशम् आत्म-तत्त्व-ज्ञानं कथं भवेत् पुरुषाणाम् ?
इत्यत्र मैत्रेयीब्राह्मणे
" आत्मा वारे द्रष्टव्यः, श्रोतव्यो, मन्तव्यो, निदिध्यासितव्यः ।
आत्मनि खल्व् अरे श्रुते मते विज्ञाते
सर्वम् इदं विज्ञातं भवति”
(बृह. उ. २.४.५ )
इति ।
इदम् एव एक-विज्ञानेन सर्व-विज्ञानम् इत्य् उच्यते ।
“आत्मैवेदं सर्वम्” (छा.उ. ७.२५.११),
“आत्मनि विदिते सर्वं विदितम्”
इत्य्-आदौ +आत्मन एव सर्वात्मकत्व-श्रवणाद्
“आत्म-ज्ञानम् एव सम्पादनीयम्”
इति सारांशः ।
“आत्मा वारे द्रष्टव्यः” इत्यत्र
आत्मपदार्थः कः ?
जीवात्मा वा परमात्मा वा ?
जीवात्मनः उपासनया
कथं सर्वं विदितं भवेत् ?
परमात्मन उपासनं कर्तव्यं चेत्,
परमात्म-स्वरूपावगमः प्रथमं कथं भवेत् ?
परमात्म-स्वरूपे ऽवगते सति
उपासनादिकं व्यर्थम् एव ।
अतः कथम् इयं श्रुतिर्निर्वाह्या ?
इत्य्-अत्र +अस्ति महान् क्लेशः ॥
आत्मा, परमात्मा
पूर्वं जनक-याज्ञवल्क्य-संवादेऽपि
“आत्मैवास्य ज्योतिर्” इत्य्-अत्र प्रश्नोपक्रमस्तु
“किं ज्योतिरास्ते पुरुषः” इत्यादिना वर्तते ।
अत्र पुरुष-शब्दः जीव-पर एव ।
एवं च “आत्मैवास्य ज्योतिर्” इत्य्-अत्र +एव
अस्य पदस्य प्रकृति-पुरुष-परत्वाज् जीवात्मैवात्राऽपि आत्म-पदार्थो वक्तव्यो भवति ।
यदि आत्म-पदार्थः जीवस्
तर्हि परमात्मा कुत्र गतः ? इति प्रश्नः उदेति ।
[[22]]
यदि परमात्मा एव जीवस्
तर्हि “तद् द्वयम्+++(=द्विविधः)+++ अस्ति वा न वा ?” इति संशयो ऽस्त्येव ।
आत्मा द्विविधः - जीवात्मा परमात्मा चेति नैय्यायिका मन्यन्ते ।
परन्तु इदं वेदान्तिभिः नाङ्गीकर्तुं शक्यते ।
कुत इति चेत्,
- निर्विशेषवादे तु मिथ्यात्वाङ्गीकाराज् जीवात्मा नास्ति ।
अतस्तथा विभागो न सम्भवत्येव । - सविशेषवादेऽपि “यथाग्नेः क्षुद्राः विस्फुलिङ्गाः” (बृह.उ. २.१.२०), इत्यादिवचनैः
परमात्मनः सकाशाद् एव जीवात्मनाम् आविर्भावात्
समानतया जीवात्म-परमात्म-विभागो न भवत्येव ।
अतः कश्चित् सर्वसम्मत आत्मशब्दार्थनिर्णयः कर्तव्यो भवति ।
(आत्मा) आत्म-पदं हि प्रयोग-दृष्ट्या
शरीराद् आरभ्य परमात्म-पर्यन्ते ऽर्थे प्रयुज्यते ।
किं बहुना !
“मृद्-आत्मा घटः” इत्य्-अत्राऽपि
स्व-रूप-मात्र-पर्यायात्म-शब्दो दृश्यते ।+++(4)+++
अध्यात्म-शास्त्रे तु
“आत्मैवास्य ज्योतिः” (बृह.उ. ४.२. ६)
इति दर्शनात्
स्व-प्रकाश-रूपं यत्-किञ्चित् तत्त्वम् एवात्म-शब्दार्थः ।+++(4)+++
तच् च जीवात्मा वा परमात्मा वेति विषये
स्वस्वात्मैव सर्वेषां स्व-प्रकाशत्वात्
“प्रत्यग्-आत्मे"त्य् उच्यते ।
परमात्म-प्रत्यक्ता
तत्र जीव एव प्रत्यग्-आत्मेति रामानुजीयाः ।
परमात्मैव प्रत्यग्-आत्मेति शाङ्कराः ।
रामानुज-भाष्ये भूमाधिकरणे
“प्रत्यग्-अर्थस्य परमात्मनि पर्यवसानात्”
इति वाक्य-दर्शनात्
परमात्मन्य् अपि प्रत्यग्-आत्मत्वं ज्ञायते ।
अत एव स्वस्वात्मैव सर्वेषां प्रत्यग्-आत्मा
इति वक्तव्यं भवति ।
एवं सति प्रत्यग्-आत्मानः +अनन्ता भवन्ति ।
कस्य प्रत्यगात्मनः अन्तिमत्वम्?
“अहम् एवेदं सर्वम्” (छा.उ. ७.२५. १),
इति भूमविद्यायां जगत् सर्वम् अपि
प्रत्यग्-आत्मन्य् अन्तर्भवतीत्य् उच्यते ।
अतश् च प्रत्यग्-आत्मनः स्व-रूपम् एव
विचार-विषयो भवति ।
परमात्म-पर्यायस् तु प्रत्यग्-आत्मा एक एव -
परमात्मनः एकत्वस्य सर्वैर् अङ्गीकारात् ।
विश्वास-टिप्पनी
द्वौ त्व् ईश्वरतत्त्वय् इति रामानुजः।
जीवात्मोत्पत्त्यादि
एवं परमात्मन एव प्रत्यग्-अर्थत्वं सर्वसम्मतमिति निश्चिते
इतरेषां प्रत्यगात्मत्वम् औपाधिकम् एवेति मन्यन्ते निर्विशेष-वादिनः ।
“यथाग्नेः क्षुद्राः विस्फुलिङ्गाः” (बृह. उ. २.१.२०),
इति श्रुतावपि
जीवात्मनः परमात्मनः सकाशाद् आविर्भावः प्रतिपादितः ।
“आत्मा वारे द्रष्टव्यः” इति प्रकरणेऽपि +अग्रे
विज्ञान-घन एवैतेभ्यो भूतेभ्यः समुत्थाय
तान्य् एवानुविनश्यति
(बृह.उ.२.४.१२),
इति वचने विज्ञानमयस्यात्मनः उत्पत्ति-विनाशौ श्रूयेते ॥
[[23]]
आत्मनो ऽहम्-अर्थत्व-विचारः
बौद्ध-मतम्
आत्मा अहम्-अर्थो न वा ?
इति विचारे बौद्धाः आत्मा नाहम्-अर्थः इत्येव वदन्ति ।
बौद्ध-मत अहम्-अर्थस् तु पञ्चानां स्कन्धानां सङ्घातः ।
ते च रूप-विज्ञान-वेदना-सञ्ज्ञा-संस्काराख्याः ।
तत्र रूप्यन्ते एभिर् इति व्युत्पत्त्या
स-विषयाणीन्द्रियाणि रूप-स्कन्धः ।
विज्ञान-स्कन्धः वैदिकैः चैतन्य-पद-वाच्यः मूल-धातुः ।
सुख-दुःखान्यतर-साक्षात्कारः वेदना-स्कन्धः ।
सञ्ज्ञा-स्कन्धः मनुष्य-पश्व्-आदि-सञ्ज्ञात्मकः ।
संस्कार-स्कन्धः स्मृति-हेतु-भूतः
पुनर् अपि रूप-स्कन्धादि-प्रवर्तने हेतु-भूतः ।
एतेषां पञ्चानां मिलितानाम् एव अहम्-अर्थत्वान्
मुक्तौ विज्ञान-धातु-व्यतिरिक्तानां सर्वेषां धातूनां लयाद्
आत्मा नाहम्-अर्थः इति वदन्ति । +++(4)+++
नैय्यायिकाः
नैय्यायिकाद् आरभ्य स-विशेष-वादि-पर्यन्ताः दार्शनिकाः
अहम्-अर्थ आत्मेति स्वीकुर्वन्ति ।
तत्र नैय्यायिकाः
आत्मनः अहम्-अर्थत्वं स्वीकृत्यापि
स्वयं-प्रकाशत्वं तु न स्वीकुर्वन्ति,
किन्तु चेष्टादिभिः ज्ञानेच्छादिभिश् च अनुमेयत्वं वदन्ति ।
निर्विशेषाद्वैतिनः
निर्विशेषाद्वैतिनस् तु
आत्मा तु वर्तते
किन्तु सः नाहम्-अर्थः
इति वदन्ति -
मुक्तौ सुषुप्तौ च अहम्पदप्रयोगाभावात् ।
तर्हि तदा तस्य व्यवहारः कथम्?
इति शङ्कायां
तत्-काले व्यवहाराभावात्
प्रश्न एवाबद्धः ।
तद्-आत्म-सद्-भावे
किं प्रमाणम्?
इति प्रश्ने
त्वम् असि इत्य्-अत्र किं प्रमाणम्?
इति प्रश्न इव अ-सम्बद्धोऽयं प्रश्नः
इति वदन्ति -
यतः आत्म-सद्भावे
कस्य वा एतादृशः प्रश्नः उदेति ।
अर्थ-प्रत्यय-शब्दाध्यासः
… कथं वा इदम् अङ्गीकार्यम्?
इति प्रश्ने,
“त्वं कः?” इति प्रष्टारं प्रत्येव प्रश्नः क्रियते चेत्
तेन किम् उत्तरं वक्तव्यम् ?
“अहं पृच्छामि” इत्येवोत्तरं वक्तव्यम् ।
“स चाहमर्थः कः?” इति प्रश्नस्योत्तरं
“किं ? स एव प्रत्यग्-अर्थः” इत्य् एवोत्तरम् ।
अहम्-अर्थ एव यदि नाङ्गीक्रियते
तर्हि जगद्-आन्ध्य-प्रसङ्गः ।
“अहम् अस्मि वा न वे"ति
न कोऽपि बुद्धिमान् विप्रतिपद्यते ।
[[82]]
बृहद्-आरण्यके
“किं ज्योतिरास्ते पुरुषः” इत्युपक्रम्य
" आत्मैवास्य ज्योतिः" इति तत्तदात्मनः सदा
“अहम्” इति एव ज्योतीरूपत्वं स्पष्टं वर्णितम् ।
अतः निरुपाधिकं स्वप्रकाशत्वं तत्तदात्मन एव ।
दीपादीनान्तु आत्मवन् न स्वप्रकाशत्वम् ।
न ह्य् अन्धस्य दीपः प्रकाशते ।
आत्मातु अन्धस्यापि प्रत्यक्तया भासते एव ।
अत एव अहम्-अर्थानात्मत्व-वादः
अर्थ-प्रत्यय-शब्दानाम् इतरेतराध्यास-मूलक-साङ्कर्य-कृतः ।
न हि
+अहम् इति यदा यदा भासते
तदा तदा शब्दप्रयोगः कर्तव्य
इति नियमः ।
शब्दप्रयोगे कृतय् एव +अहम्,
अन्यथा न,
इत्यपि नियमो नास्त्येव ।
घटादि-बाह्य-वस्तु-विषयेऽपि
घटादिशब्दप्रयोगे कृत एव घटो भासते
इति न नियमः ।
यदा हि चक्षुर्-घट-संयोगो भवति
तदा प्रतिबन्धक-राहित्ये
घटः प्रकाशेतैव ।
अत एव शब्दार्थयोर् अ-विनाभाव-वादोऽपि
नैतत् कक्षाम् आदाय प्रवृत्तः
किन्तु अतीवान्तरः (प्रणव-नादम् आत्म-तत्त्वं चादाय) ।
अतः अहमर्थ एव आत्मा
स एव असत्-सद्-इत्य्-आदि-रूपेण विकसितः सन्
शरीरेन्द्रियादि-रूपेणापि
सर्वेषां प्रकाशमानः वर्तते ॥
अहम्-अर्थ-योग्यता
… वस्तुतः आत्मनः अहम्-अर्थत्वं नास्तीत्य् अयं वादः
अर्थ-प्रत्यय-शब्दानां साङ्कर्यस्य प्रथम-निदर्शनम् ।
पद-प्रयोगाभावेऽपि प्रथमं वस्तु-स्वरूपं भवत्य् एव ।
अनन्तरं तद्-विषयकं ज्ञानम् ।+++(5)+++
ततः तद्-वाचक-शब्द-प्रयोगः लोक-सिद्धः ।
तृतीय-कक्ष्यायाम् एव शब्द-प्रयोगार्हत्वेन
“प्रथम-सिद्धं वस्तु न शब्द-वाच्यम्” इति
“सः अहम्-अर्थ एव न भवती"ति वक्तुं न शक्यते ।
पद-प्रयोगाभावेऽपि
वस्तुनः स्वरूपं सिद्ध्यत्य् एव ।
अन्यथा लोके प्रयुक्तानां सर्वेषां शब्दानाम् अवाचकत्वं स्यात् ।
[[47]]
यतः अर्थ-कालः अन्यः,
तद्-अनुभव-कालः अन्यः,
शब्द-प्रयोग-कालश् च अन्य
इति नियमो जगत्-प्रसिद्धः ।
तावता “तृतीयक्षणेऽपि
अहं-पदस्य आत्मनि शक्तिर् नास्ती"ति वक्तुं न शक्यते ।
यद्य् उच्यते तर्हि अहंशब्दस्य कुत्र शक्तिर्वक्तव्या ?
यद्यपि वस्तुस्वरूप-कक्ष्याऽन्या,
तद्विषयकं ज्ञानम् अन्यत्,
तद्-वाचक-शब्द-प्रयोगश् च अन्यः,
तथाऽपि तृतीय-कक्षायां तु
शब्दवाच्यं वस्तु भवत्य् एव ।
एवम् एव अहम्-अर्थः प्रथमः,
तद्-विषकं ज्ञानम् अनन्तरम्,
तद्-वाचक-शब्दश् च तृतीयः ।
तदा आत्मा अहं-पदार्थो भवति ।
कक्षाभेदेऽपि “अहम्-पद-वाच्य एव आत्मा न भवती"ति कथने
“अहं-शब्दस्य शक्तिः कस्मिन् विषये” इति वक्तव्यम् ।
अयं शब्दः न ध्वनिरूपः निरर्थकः,
किन्तु वर्णात्मकः शब्दः ।
“तस्य शक्तिः स्वयं-प्रकाश-भूत-पदार्थे अस्ती"त्य् अपि
अन्धकारे उपविष्टस्य,
दिवा प्रकाशे उपविष्टस्य वा
नेत्रनमीलनेऽपि शरीर-रूपेण विद्यमानस्य आत्मनः
“अहम्” इति स्वयं-प्रकाशमानत्वं लोकप्रसिद्धम्।
एवं विभागम् अ-ज्ञात्वैव एतादृशऽहम्-अर्थानात्मवादः आगतः ।
“तस्योपनिषद् - अहम् इति” (बृह.उ. ५.५.३ )
इति श्रुत्या स्पष्टं
तस्य सन्निहितः शब्दः “अहम्” इति उक्तम् ।
अहम्-अर्थ-वैशिष्ट्यम्
अत्र अहम्-अर्थ-विषये
अन्य-वस्त्व्-अपेक्षया एतद्-अन्तरं ज्ञेयम् ।
घटादिषु पदार्थेषु कम्बु-ग्रीवादिमान् कश्चन पदार्थः,
तद्-अनन्तरम् “अयं घट” इति ज्ञानं,
ततः तद्-विषयक-शब्द-प्रयोगः
इति कक्षा-त्रयं वर्तते ।
आत्म-विषये तु
आत्मनः स्वयं प्रकाशरूपत्वाज्
ज्ञानिनां दृष्ट्या
अहम्-अर्थः प्रत्यक्-चैतन्यं तद्-विषयक-ज्ञानं च
समान-काले एव भवति ।+++(4)+++
शब्द-प्रयोगः द्वितीय-कक्षायाम् ।
सारांशस् तु -
अहन्त्वं भिन्नं,
तद्-विषयकं ज्ञानं भिन्नं,
तद्-वाचक-शब्द-प्रयोगश् च भिन्नः
इति सत्यांशे सत्य् अपि
आत्मनः अहं-पद-प्रयोगस्य विषयत्वाभावे ऽपि
स्वयं-प्रकाशत्व-रूपम् अहन्त्वं तु
न निराकर्तुं शक्यम् -
पद-प्रयोगाभाव-कालेऽपि
वस्तुनः निराकर्तुम् अशक्यत्वात् ।
ततश् च अहं-पदार्थः+++(=??)+++ अन्यः,
अहम्-अर्थश् चान्यः।
अतः अहम्-अर्थानात्म-वादः बौद्ध-मत-दृष्ट्या
न तु वैदिक-सम्मतः ।
अनिराकार्यता
… एवञ् च आत्मतत्त्वं
न तत् तावत्-सुलभतया निरूपयितुं ज्ञातुं वा शक्यम् ।
अत एव च +आत्मनः +अहम्-अर्थत्वे बहु-विधाः वादाः प्रावर्तन्त ।
परन्तु, “आत्मा” इति पदं कञ्चित् प्रत्यग्-अर्थं स्पृशति ।
प्रतीपम् अञ्चतीति व्युत्पत्त्या
तस्य स्व-प्रकाशत्वान्
न केनाऽपि तन् निराकर्तुं शक्यम् ।
तस्यैव निराकरणे जगद्-आन्ध्यम् एव प्रसज्येत ।
अत एव जनक-याज्ञवल्क्य-संवादे
“आत्मैवास्य ज्योतिः” इति उपसंहारः कृतः ।
एतादृश-स्वयञ्-ज्योतिषः तत्त्वस्य +अपलापः
केन वा विवेकिना कर्तुं शक्यः,
यच् च तत्त्वं सर्वेषां व्यवहाराणां मूलरूपं वर्तते ।
अत एव तन्निराकरणे जगद्-आन्ध्य-प्रसङ्ग इत्य् उक्तम् ।
विवाद-हेतुः
एवं प्रत्यग्-अर्थ–स्व-रूपस्य +अविप्रतिपन्नत्वेऽपि
कथं तद्-विषये विवादाः प्रावर्तन्त ?
इति प्रश्ने
तादृशम् अहम्-अर्थ-रूपं यत् तत्त्वं
यदि शुद्धं ज्ञातं भवेत्
सर्वेऽपि संशयाः उच्छिद्येरन्
इत्य् एवोत्तरम्।
एतद् एवोक्तं मुण्डकोपनिषदि-
" भिद्यते हृदयग्रन्थिश्
छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि
तस्मिन् दृष्टे परावरे " ॥
इति ॥ (मुण्ड.उ.२।८)
स्वरूपतः स्वयं-प्रकाशस्यापि
कथं विचार-विषयत्वसम्भवः?
इति चेत्,
सर्वेषां लेशतो वा तादृश-प्रतीतेर् अनुभव-सिद्धत्वात्
स्वरूपे न विवादः ।
किन्तु तद् एव परमं तत्त्वं
बहुविधोपाधिभिर् अवरुद्धं सद्
अन्तत एतच्-छरीरम् अभिव्याप्याऽपि
“अहम्” इति प्रतीयमानं सर्वानुभव-सिद्धम् ॥
श्रीभाष्ये तु
“अहम्-अर्थो न चेद् आत्मा”
(श्रीभाष्य-जिज्ञासाऽधिकरणम्, महासिद्धान्तः)
इत्यादिना बहुविस्तरेण अहम्-अर्थविचारः प्रस्तुतः ।
तत् समयान्तरे बहु विमृशामः ।
क्लिष्टता
अवस्थातीत-स्थितिः
… वस्तुतः
आत्मतत्त्वस्य सर्वापेक्षया उत्तमत्वाद्,
विलक्षणत्वाद्, अतिगहनत्वात्,
सर्वांशेन ज्ञातुम् अशक्यत्वाद्
“अवाच्यम्, अवेद्यम्” इत्य्-आदि वादाः प्रसृताः ।
तत्र
‘यस्यामतं तस्य मतं,
मतं यस्य न वेद सः ।
अविज्ञातं विजानतां
विज्ञातम् अविजानताम्”
इति श्रुतिरेव प्रमाणम् ।
तादृशात्म-तत्त्वस्य बोधनार्थम् एवावतीर्णा आचार्याः
देशकालाधिकार्य्-अनुसारम् एव
आत्मतत्त्वम् उपदिष्टवन्तः ।
तेषाम् आचार्याणां तथोपदेश-भेदः
काल-देशाधिकारि-भेदाद् एव ।
[[83]]
न तावता आत्म-तत्त्व–स्व-रूपे भेदः ।
… तस्यात्मनः जागरिताद्य्-अवस्थाभी रहितं रूपं तु
वर्णनातीतं परिपूर्ण-शुद्ध-चैतन्य-स्वरूपम्,
तज्-ज्ञानम् एव ज्ञान-विज्ञानमय्याः तपः-प्रधानायाः भारती-यसंस्कृतेः
चरमोद्देश्य-भूतं फलम् ।
एतत् सर्वं
माण्डूक्योपनिषदि
“ नान्तः-प्रज्ञं
न बहिः-प्रज्ञं
न प्रज्ञं, नाप्रज्ञम् अ-दृष्टम्
अव्यवहार्यम् अ-लक्षणम् अचिन्त्यम्
अव्यपदेश्यम् ऐकात्म्य-प्रत्यय-सारं
प्रपञ्चोपशमं शान्तं शिवम् अद्वैतं
चतुर्थं मन्यन्ते।
स आत्मा, स विज्ञेयः”
इत्य्-आदि-वचनैर् निरूपितं वर्तते ।
तत्रापि ऐकात्म्य-प्रत्यय-सारम्
इति वचनेन
ऐकात्म्यानुभव एव ज्ञानस्योत्तमोत्तमावस्थेति ज्ञायते ।
परन्तु
सा कक्षा कियद् गहना
इति तु
“ऐकात्मप्रत्ययसारम्” इत्य् एव गहनं प्रमाणं भवति ।
बुद्ध्य्-अतितता
… पण्डितानां तर्क-प्रिया वाद-विवादमयी बुद्धिर्
इमां कक्षाम् आरोढुं न शक्नोति,
बुध्य्-अतीतत्वात् तस्याः ।+++(5)+++
अत्र वादविवादयोः प्रसक्तिर् एव न सम्भवति ।
एवम् अध्यात्म-तत्त्वस्य अध्यात्म-शास्त्र-सर्वस्वस्य बुद्ध्यतीतस्य विद्यमानत्वेऽपि
पण्डितानां वादविवादौ न कदापि शाम्यतः
इत्यपि निश्चप्रचम् ।
यतो हि बुद्धिः
प्रकृति-परिणाम-विशेषः,
तस्या लये सत्य् एव अध्यात्म-ज्ञानस्यावकाशः,
तस्यैवोत्तरोत्तरं विकासश् च सम्भवति ।
अन्तिमे तस्यैव पर्यवसानं
चैतन्यात्मके शान्ति-सागरोपम-तत्त्वे भवति ।
यावत् पर्यन्तं वाद-विवादमयी तर्क-प्रिया बुद्धिर् जागर्ति
तावत् तस्य तत्त्वस्य स्पर्शोऽपि न सम्भवतीत्य् अपि सत्यम् एव
+++(बुद्धि-शुद्धता-प्रभावो वक्ष्यते)+++।
वस्तुतो बुद्धिः, अहङ्कारः, मन
इति वैज्ञानिकी सृष्टि-प्रक्रिया ।
तत्र बुद्धिः स्वतो ऽध्यवसायात्मिका ।
वाद विवादयोः कारणं तु
मन एव ।
[[84]]
मनसः कालुष्ये सति
बुद्धिर् अपि कलुषिता भवति ।
मनो-बुद्ध्योर् मध्ये वर्तमानो ऽहङ्कारोपहितो ऽहम्-अर्थोऽपि
कलुषितो भूत्वा
रजस्-तमः-प्रचुरो भवति ।
तामसाहङ्कारे सति
काम-क्रोधादयः,
राजसाहङ्कारे सति आशा-पाशादयः वर्धन्ते ।
मनसः शुद्धौ तु
बुद्धिः स्वतः सत्त्वमयी +अकल्मषा निरवद्यैव
निश्चला तिष्ठति ।
मध्ये विद्यमानोऽहम्-अर्थोऽपि
राजस–तामस-भाव-शून्यः सात्विको भवति ।
सत्त्वगुणस्य वृद्धौ सत्यां
सर्वं दैवाधीनम् इति
आत्म-ज्ञानोदयो भवति ।+++(4)+++
तदा क्रियमाणानि सर्वाणि कर्माणि
‘मयि सर्वाणि कर्माणि
सन्न्यस्याध्यात्म-चेतसा ।
निराशीर् निममो भूत्वा
युध्यस्व विगतज्वरः” ॥
इति भगवद्-उक्त-प्रकारेण
सात्त्विक-त्याग-पूर्वकाणि भवन्ति ।+++(5)+++
" मन एव मनुष्याणां
कारणं बन्धमोक्षयोः ।
बन्धाय विषयासङ्गि
मुक्त्यै निर्विषयं मनः " ॥
इत्य्-अत्र पूर्वोक्त-सर्वाभिप्रायो ऽपि
निहितो वर्तते ।
नेदम् आकस्मिकं वचनम्,
“बुद्धिर् एव मनुष्याणाम्” इति कथनेऽपि वृत्तं समानम् एव ।
तथापि मन एवेति मनः-पद-योजनम्
अध्यात्म-विज्ञान-पराणां महर्षीणां दीर्घ-दर्शनं सूचयति ।+++(4)+++
आत्मा, ब्रह्म, बीजम्
परन्तु
“एको वशी
निष्क्रियाणां बहूनाम्
एकं बीजं
बहुधा यः करोति "
( श्वे. उ. ६.१२)
इति श्रुत्या निर्दिष्टो ऽंशः
विवेकिभिः सर्वैर् अप्य् अवधेयः ।
भूमौ उप्तम् एकं व्रीह्य्-आदि-बीजं
क्रमेण वर्धते
ततः तस्माद् एव बीजात्
शतशो बीजानि कथं भवन्ति ?
बीजपदार्थः स-खण्डो वा, अ-खण्डो वा ?
सखण्डत्वे तस्माद् अङ्कुरोऽपि न भवेत्, अ-पूर्णत्वात् ।
एवम् अ-पूर्णत्वात् शतशो वर्धनं कथम् अपि न सम्भवेत् ।
अतश् चात्म-तत्त्वं न बुद्धि-ग्राह्यम् ।
एवं चाखण्डोऽपि बीज-पदार्थः बहु-भावं प्राप्नोतीति प्रत्यक्षसिद्धत्वात्
केन वेदम् अपलपितुं शक्यम् ।
अतः अखण्डाद् एव बीजाद् अखण्डानि अनन्तान्यपि बीजानि सहजतया भवन्ति।
एतद् अभिप्रायेणैव
" एकं बीजं
बहुधा यः करोति” (श्वे.उ.६.१२)
इति श्वेताश्वतर-वचनम् अपि ।
एवं च कारणावस्थायां वा कार्यावस्थायां वा
बीजानि सर्वाण्य् अपि समानानि परिपूर्णान्य् एव ।
[[81]]
एतद्-अभिप्रायेणैव
‘पूर्णम् अदः पूर्णम् इदं
पूर्णात् पूर्णम् उदच्यते।
पूर्णस्य पूर्णम् आदाय
पूर्णम् एवावशिष्यते’
(बृह.उ. ५.१.१)
इति वाक्यम्
आत्म-तत्त्वस्य सर्वावस्थास्व् अपि पूर्णत्वं
स्पष्टं प्रतिपादयति ।
एतादृशात्म-तत्त्वम् आदायैव
आश्चर्यवत् पश्यति कश्चिद् एनम्
आश्चर्यवद् वदति तथैव चान्यः ।
आश्चर्यवच् चैनम् अन्यः श्रुणोति
श्रुत्वाप्य् एनं वेद न चैव कश्चित् " ॥
(गी. २।२९)
इत्य्-आदीनि वचनानि प्रवृत्तानि ।
एतद्-उपर्य् अपि
कश्चन मूर्खः “कथं तत्-सम्भव?” इति पृच्छति चेद्
“गुडो मधुरः कथं भवती"ति प्रश्न-तुल्यं तद्
इति प्रामाणिकम् उत्तरम् ।
एतावता प्रकरणेन
ब्रह्मसूत्रेषु ब्रह्मण एव सर्व-जगद्-उपादानत्वं प्रतिष्ठापितम् ।
एतद्-उपर्यपि अयमाक्षेपः —
एकम् एव ब्रह्म
अनन्त-विविध-विचित्र-नाम-रूपापन्नं जगत्-पद-वाच्यं यदि भवेत्
तद् ब्रह्म सखण्डं वा +अखण्डं वा ?अखण्डत्वे कृत्स्नम् अपि ब्रह्म
जगद्-रूपेण परिणतम् अभूद्
इत्येव खलु वक्तव्यम् ।
तथा च ब्रह्मैव जगद्रूपापन्नं
तर्हि ब्रह्मैव नावशिष्येत ।
एकदेशेन परिणामाङ्गीकारे तु
स्पष्टो दोषः - ब्रह्मणः अखण्डत्वं कथं स्यात् ? +++(सखण्डत्वम् अनिष्टम् इति??)+++
अतो द्वेधापि ब्रह्मोपादान-वादो न युक्तिसहः
इत्येव पूर्वपक्षः ।
समाधानं तु " श्रुतेस्तु शब्दमूलत्वात् (२।१।२७)” इति ।
श्रुतिर् वा कथम् अ-सम्बन्धं किञ्चिद् ब्रूयाद्
इति प्रश्नस्योत्तरं किमुक्तं भवति ?
किं ब्रह्माङ्गीकृत्यायं पूर्वपक्षो वा
उत ब्रह्मानङ्गीकृत्य पूर्वपक्षो वा ?
प्रथम-पक्षे केन प्रमाणेन ब्रह्माङ्गीकारः ?
ब्रह्म तु +अत्यन्तालौकिकं प्रत्यक्षादि-प्रमाणेषु न केनापि प्रमाणेन निरूपयितुं शक्यम् ।
अतः +वैदिक-सम्प्रदाय-दृष्ट्या तद्-द्रष्टृ-पुरुष-वचन-सापेक्षम् ।
तेषाम् अनुभवे यदि न विश्वासस्
तर्हि तदा बौद्ध-मत-प्रवेशस्यावकाशः ।
तन्मते जगद् अनादि,
न तु ब्रह्म-सृष्टम् ।
एवञ् च “यतो वा इमानि भूतानि जायन्ते " ( तैत्ति. उ. ३।१ )
इत्य्-आदि-श्रुतीनां का गतिः ?
अतः पूर्वोक्त-प्रश्नस्योत्तरं
बीज-दृष्टान्तेनैवावगन्तव्यं नान्यरीत्या ।
अत एव गीतायाम् अपि
“बीजं मां सर्वभूतानां
विद्धि पार्थ सनातनम् " (गी. ७।१०),
" यच्चापि सर्व-भूतानां
बीजं तद् अहम् अर्जुन ।
न तदस्ति विना यत् स्यान्
मया भूतं चराचरम्” ॥
(गी. १०। ३९)
इति भगवता कृष्णेन
स्वस्यैव सर्वबीजत्वम् उक्तम् ।
अध्यास-भाष्यम्
… एवं मध्यकाले
शङ्कराचार्यैः बौद्धच्छायया ग्रन्थानां करणे
अध्यासभाष्यम् एकं साक्षित्वेन वर्तते ।
अध्यासभाष्यं जगत्सर्वं मिथ्यारूपम्
इति केवल-युक्तिभिः साधयति ।
नैकापि श्रुतिः तत्र प्रमाणत्वेन उपात्ता ।
तेनैव ज्ञायते तदध्यासभाष्यं सर्वम् अवैदिकम् इति ।
प्रतिज्ञा
… उपनिषद्भाष्यं सूत्रभाष्यं द्वयमेव आदिशङ्करकर्तृकम्,
न तु गीताभाष्यमिति केचन नवीन-विमर्शकाः अभिप्रयन्ति ।
श्रीशङ्कराचार्यैस् तु ब्रह्मसूत्राणां
भाष्यपीठिकारूपेण अध्यासभाष्यमेकं
केवलं युक्त्यैव विलिख्य
एकामपि श्रुतिं कुत्राप्य् अनुदाहृत्य
कञ्चनार्थं बहु विस्तरेण प्रसाध्य
यथा चायम् अर्थो वदान्तानां
तथा वयम् अस्यां शारीरक-मीमांसायां +++(हठेन)+++ प्रदर्शयिष्यामः”
इति निर्धर्मके वस्तुनि
उपनिषदां समन्वयस्य प्रतिज्ञा कृता ।
तेन स्व-कल्पितार्थस्यैव सूत्राणाम् उपर्यारोपः प्रतिज्ञायते । +++(5)+++
बौद्धानां विश्वासार्थम् एव
सूत्रभाष्यस्य +उपोद्घातत्वेन लिखिते अध्यासभाष्ये
नैकाऽपि श्रुतिः प्रमाणत्वेनोपन्यस्ता ।
एवं च वेदान्त-शास्त्रम् अपि
बौद्धसम्मतम् अर्थम् एव प्रदर्शयतीति प्रतिज्ञा-वचनेन
श्रीशङ्कराचार्यैर् बौद्धानां सन्तृप्त्य्-अर्थम् एव सूत्रभाष्यं लिखितम्
इति ज्ञायते ।+++(4)+++
… एतद्विलक्षणतया श्रीभाष्ये तु
“भगवद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्याः सचिक्षिपुः ।
तन्-मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते”
इति पीठिका विन्यस्ता ।
बोधायनकृता वृत्तिः
प्रपञ्च-हृदये उल्लिखितेत्य्-आद्यंशः
पर-काल-मुनिभिः स्वीय-श्रीभाष्य-व्याख्याने वर्णितः ।
तत्रैव वर्णितम् ।
… शङ्कराचार्यभाष्यविषये चिन्तनम्॥
यद्य् अपि शङ्कर-भाष्य-पीठिकायाम् अध्यास-भाष्ये प्रदर्शितानां विषयाणां
वस्तुतः श्रीशङ्कराचार्याभिमतत्वं नास्तीति
तदीय-वचनैर् एव ज्ञातुं शक्यते -
यतो हि ब्रह्मसूत्राणाम् अपि जगन्-मिथ्यात्व-परत्वम् एवेति
शपथीकरणम् अत्यन्त-साहसम् एवाभूत् ।+++(5)+++
केवलं युक्ति-वादैर् दुस्-तर्क-रूपैर्
जगतः सर्वस्यापि मिथ्यात्वं साधयित्वा
“यथा चायमर्थो वेदान्तानां
तथा वयमस्यां शारीरक मीमांसायां प्रदर्शयिष्यामः”
इति विन्यास एव
एतत् सत्यं प्रकाशयति ।
… स्वतः +ब्रह्मसूत्राणि
न जगन्मिथ्यात्ववादे अनुकूलानि,
परन्तु “वयं तथा प्रदर्शयिष्यामः” इति कथनेन
तदीय-पाण्डित्यस्य फलम् इदं
न तु वस्तु-स्थिति-कथनम्
इति निर्णेतव्यम् अभूद्
विवरणकारादिभिः विद्वद्भिः ।
परन्तु पूर्ववासनाग्रस्तैः वैदिकपण्डितवेषधारिभिः विवरण-कारादिभिः
शङ्कराचार्यस्य हृदयमेव न ज्ञातम् ।
द्वितीय-सूत्रे ऽसङ्गतिः
" अथातो ब्रह्मजिज्ञासा" इति प्रथमसूत्रेण
सूत्रकारेण ब्रह्मजिज्ञासां प्रतिज्ञाय
“जन्माद्य् अस्य यतः” इति द्वितीयसूत्रेण
तस्य जगज्-जन्मादि-कारणत्व-लक्षणेऽभिहिते सत्य् अपि
इदं लक्षणं न मुख्यस्य निर्विशेषस्य ब्रह्मणः
इत्यादिव्याख्यानं कथं स्वरसं भवेत्? +++(5)+++
… अत एव जन्माद्य्-अधिकरणाद् आरभ्यैव
तत्र तत्र विपरीत-लेखनं दृश्यते ।
जगज्-जन्मादि-कारणत्व-लक्षणं
न निर्विशेष-ब्रह्मणः,
अपि तु सविशेषस्य ।
… अतः जगज्जन्मादिकारणत्वं
ब्रह्मणो लक्षणमित्येव सूत्रकारमतम्,
न तु ब्रह्म द्वयं परिकल्प्य,
तत्र सविशेषस्य ब्रह्मणः एतल् लक्षणम्,
निर्विशेषस्य तु तटस्थ-लक्षणम् इति कथनं युक्तम् ।
ब्रह्म द्वयस्य अप्रामाणिकत्वात् ।
कार्याधिकरणे पूर्वपक्षस्य सिद्धान्ती-कृतिः
… प्रत्युत कार्याधिकरणे
“कार्यं बादरिः” इति प्रथमं बादरिमतम् उक्त्वा
अनन्तरं “परं जैमिनिर् मुख्यत्वात्” इति सूत्रे
परं ब्रह्मैव ब्रह्म-शब्दस्य मुख्योऽर्थ
इति कण्ठतो ऽभिधाने ऽपि
प्रथमं पूर्वपक्षसूत्रमेव सिद्धान्तसूत्रमिति निर्णीय
तत्रैवान्ते “किं द्वे ब्रह्मणी” इति प्रश्नमुत्थाप्य
“बाढम्” इति एकं निर्विशेषं ब्रह्म, तद् एव मुख्यम्,
सविशेषं तु गौणं ब्रह्म मिथ्या चेति कृतं
ब्रह्मणो द्वैविध्य-व्यवस्थापनं
को वा पण्डितः अनुमोदेत ।+++(4)+++
[[16]]
आनन्दमयाद्य्-अधिकरणेषु
एवम् एव उपरि आनन्दमयाद्य्-अधिकरणेष्व् अपि
स्वेच्छया व्याख्यानं क्रियते
न तु कुत्रापि सूत्रानुगुणं स्वरसम् ।
तद्वद् एव आनन्दमयस्यैव ब्रह्मत्वे
सूत्रकारेण प्रतिपादितेऽपि आनन्दमयाधिकरणान्ते तन्-निराकरणम् एव क्रियते
" तस्माद् आनन्द-मयः परमात्मेति स्थितम्"
इति वाक्यार्थं परिसमाप्य
केवलं स्व-बुद्ध्यैव तत्-सर्वं खण्डयितुं प्रारब्धम् ।
“इदं त्व् इह वक्तव्यम्” इति प्रारभ्य
“अपराण्यपि सूत्राणि
यथा-सम्भवं पुच्छ-वाक्य-निर्दिष्टस्यैव ब्रह्मणः उपपादकानि द्रष्टव्यानि "
इत्य्-एतदन्तं सर्वं निर्विशेष-ब्रह्म-प्रतिपादनं
बौद्धानां सन्तृप्त्य्-अर्थम् एवेति मन्तव्यम् ।
[[44]]
तथा च “सर्व-धर्मोपपत्तेश्च”
“सर्व-शक्त्य्-उपेता च तद्-दर्शनात्”
इत्यादि सूत्राणां का गतिः ?
एवमेव आन्तं विचार्यते चेत्
प्रत्येकं स्वतन्त्र-ग्रन्थ एव भवेत्
तथा सूत्राणां स्वेच्छया व्याख्यानं क्रियते श्रीशङ्कराचार्यैः ।
एकशास्त्रता
… अन्ततः उपवर्षस्तु शङ्कराचार्यैरपि उल्लिखितः।
स चोपवर्षः पूर्वोत्तरमीमांसा-वृत्ति-कार इत्य् अपि
शङ्कराचार्यैरेव सूचितम्।
“अत एव च
भगवतोपवर्षेण प्रथमतन्त्रय्
आत्मास्तित्वाभिधान-प्रसक्तौ
“शारीरके वक्ष्यामः” इत्य्-उद्धारः कृतः” इति
( ब्रह्म.सू.शा. भा. ३.३.५३)
अत्र प्रथमतन्त्रपदेन पूर्वमीमांसाशास्त्रं ज्ञेयम् ।
एवं च मीमांसाशास्त्रं पूर्वोत्तरभेदेन भिन्नम् अप्य्
एकं शास्त्रम् इत्य् एव स्वरसम् इत्य् उपवर्षस्याशयः ।+++(5)+++
परन्तु एवमङ्गीकारे जैनाः बौद्धाश्च नाङ्गीकुर्युः,
आत्मानं शुद्धं वैदिकं मन्येरन्न् इति भावनयैव
श्रीशङ्कराचार्यैर् ऐक-शास्त्र्यं निराकृतम्
इति भावयितुम् अस्त्य् अवकाशः ।
सूत्र-श्रुति-विरोध-परिहारः
… केवल-युक्ति-वादेन अध्यासवादं प्रसाध्य
“यथा चायम् अर्थो वेदान्तानां
तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः”
इत्येव प्रतिज्ञा कृता दृश्यते ।
निर्विशेषवाद-विरोधे
मध्ये मध्ये ब्रह्मसूत्राण्य् एवान्यथा नीयन्ते ।+++(5)+++
स्वभाष्यस्य सत्-सम्प्रदायमूलत्वं नास्तीति तैरेव सूचितञ् च ।+++(5 पूर्वोक्त-प्रतिज्ञायाम्??)+++
तद्-अभिप्रायम् अज्ञात्वा
तद्व्याख्यातारोऽपि श्रुति-सूत्रयोर् विरोधे
श्रुत्य्-अनुगुणम् एव सूत्रं नेयम् इति वदन्ति ।
परन्तु श्रुत्य्-अर्थ-निर्णयार्थम् एव ब्रह्मसूत्राणां प्रवृत्तत्वाद्
उक्त-नियमो नैतन्-न्याय-परेषु सूत्रेष्व् अन्वेति ।+++(5)+++
सविशेषता
… एवं सर्वसम्मतम् अपि तत्त्वम् अधिकृत्य
अद्याऽपि विचारः कुतो न समाप्तः ?
इति प्रश्ने ऽत्रोच्यते -
कस्मिंश्चिद् विषये
विचारः कदा भवति ?
सामान्येन केनचिद् रूपेणावगते
विशेषाकारापरिज्ञानेन सर्वेऽपि विचाराः प्रवर्तन्ते ।+++(4)+++
यथा वा स्थाणुर् वा पुरुषो वा इत्यादौ
ऊर्ध्वत्वादिना सामान्य-रूपेणावगते वस्तुन्य् एव
स्थाणुर् वा पुरुषो वेति संशयो वा विचारो वा प्रवर्तते ।
वस्तुनो निर्विशेषत्वे
एतादृश-विचाराणाम् अवतार एव न स्यात् ।
अतः मूलभूतो विचारः तद् आत्मतत्त्वं निर्विशेषम् उत सविशेषम् इति विचारेण
प्रथमं निर्धारणीयम् ।
अत एव श्रीभाष्ये
“स-विशेष-विषयत्वात् सर्व-प्रमाणानाम्” ( श्रीभाष्यजिज्ञासधिकरणम्, महासिद्धान्तारम्भः)
इति विचारोपक्रमः प्रदर्शितः ॥
[[24]]
चतुस्-सूत्री
अत एव
इदानीं तत्त्व-दृष्ट्या शङ्कर-रामानुज-मतयोर् एव सम्बन्धः,
न तु आनन्दतीर्थीय-मतस्य ।
यतः आनन्दतीर्थीयं मूल-तत्त्वं
जन्मादिनिमित्त-कारणमात्रं, न तूपादानम् ।
अतः तन्मतं नैय्यायिकमतवद् वेदान्त-शास्त्राद् बहुदूरे एव वर्तते ।+++(4)+++
“तावता न तद् अप्रामाणिकम्” इत्य्-आदिकं प्रकृत-शङ्कर-रामानुज-मतविचारानन्तरं प्रदर्श्यते ॥
अध्यात्म-विचार-शास्त्रस्य उपोद्घात-रूपा चतुस्-सूत्री ।
तत्र प्रथम-सूत्रे प्रतिज्ञा ।
प्रतिज्ञा-सूत्रे ब्रह्म-पदस्यैव प्रयुक्तत्वात्
तत्-पदार्थाद् आरभ्यैव विचार-प्रवृत्तिर् सहजा
इति ब्रह्मणः लक्षण-प्रदर्शन-मुखेनैव विचारोपक्षेपः कृतः
“जन्माद्य् अस्य यतः” (ब्र.सू. १.१.२),
इत्य् अनेन ।
यदि सृष्टि-प्रकरणानि सर्वाणि क्रोडी-कृत्य परिशील्यन्ते
तदा
“आत्मा वा इदम् एकम् एवाग्र आसीन्
नान्यत् किञ्चन मिषत्”, (ऐत. उ. १.१),
" असद् वा इदम् एकम् एवाग्र आसीत् " ( तैत्ति. उ. २.७),
“तद्धेदं तर्ह्य् अव्याकृतम् आसीत्,
तन् नाम-रूपाभ्यां व्याक्रियत”
(बृह.उ. १.४.७),
“सद् एव सौम्येदम् अग्र आसीत्" (छा.उ. ६.२.१),
“ब्रह्म वा इदम् एकम् एवाग्र आसीत्” (बृह.उ. १.४.१०),
“आत्मैवेदम् अग्र आसीत् पुरुष-विधः " (बृह.उ. १.४.१),
इत्यादिवाक्यानि दृश्यन्ते ।
यथा “असद् वा इदमग्र आसीत्” इत्य्-अत्र असच्छब्देन
नाम-रूप-रहितं कारणावस्थं ब्रह्मोच्यते,
तथा
“तद् +धेदं तर्ह्य् अव्याकृतम् आसीत्,
तन्-नामरूपाभ्यां व्याक्रियत”
इत्यस्यां श्रुतौ अ-व्यक्त-पदेन नाम-रूप-रहितं ब्रह्मोच्यते ।
“कथम् असतः सज् जायेत” इति श्रुतौ तु
“अभावात् कथं सज् जायेत” इत्याक्षेपो
बौद्ध-मत-सम्मतासत्-कार्यवाद-निराकरणार्थम्,
न तु तत्र नाम-रूप-रहितावस्था ब्रह्मणः प्रतिपाद्यते इति ज्ञेयम्।+++(4)+++
अनिर्वचनीयता न बाधते
यद्य् अपि जगन्-मूल-भूत-तत्त्वस्यात्मनो ऽनिर्वचनीयत्वाभिप्रायेण
“नासद् आसीन् नो सद् आसीत् तदानीम् " (ऋग्वेद., १०.११.१२९, तैत्ति. २.८.९.३),
“नेह नानास्ति किञ्चन” (बृह.उ. ४.४.१९),
इत्य्-आदीनि वाक्यानि प्रवृत्तानि दृश्यन्ते ।
तेन चानिर्वचनीयत्वे विचार-प्रवृत्तिः कथम् इति प्रश्नः समुदेति ।+++(4)+++
तथाऽपि सद्–अ-सद्-आदि-क्रमेण
ब्रह्मत्वावस्थायां प्राप्तं ब्रह्म-तत्त्वम् एव
विचारस्य विषयो भवति ।
अनेन च विचारस्य मूलाधारभूतम् आत्मतत्त्वम् एवेति निर्णेतुं शक्यते ।
एवम् आत्मा, असत्, सत्, ब्रह्म, पुरुषः इत्यादिक्रमेण विकसितः सन्
जगद्-आकारं प्राप्नोति ।+++(4)+++
अङ्कुर-पूर्व-बीजस्योच्छूनावस्थेव
जगन्-मूल-भूत-तत्त्वस्यापि +उच्छूनावस्था ब्रह्म,
तच्च बृह/बृहि बृद्धौ इति धातु-मूलक-ब्रह्म-पद-शक्त्या ज्ञातुं शक्यते ।
अत एव जगतः +मूल-बीजस्य +उच्छूनावस्था ब्रह्मपदेनोच्यते ।
बीजं यदा सहज-जल-सेकादि-वशात् स्वयम् उच्छूनं भवति,
अनन्तरम् एव तत्र अङ्कुरारम्भः ।
[[25]]
अत एव ब्रह्म-लक्षण-प्रदर्शन-मुखेनैव
“यतो वा इमानि भूतानि जायन्ते
येन जातानि जीवन्ति,
यत् प्रयन्त्य् अभिसंविशन्ति” (तैत्ति.उ. ३.१),
इति श्रुतिम् आदाय जन्माद्य्-अधिकरणं प्रवृत्तम्,
न तु “सत्यं ज्ञानम् अनन्तम्” इत्यादाय,
तस्य लोके अपरिचितत्वात् ।+++(4)+++
तत् तु शुद्धं मूलभूतम् आत्म-तत्त्वम् इति,
यद् विचारस्य विषयो भवितुं नार्हति ।
अयमंशः समस्या-मध्ये-योजितः
अध्यात्मविज्ञानम् एव ब्रह्मसूत्रेषु प्रदर्श्यते ।
मीमांसक-प्रत्याख्यानम्
पूर्वपक्षः
सिद्धं वस्तु
मीमांसकाः -
सिद्धे वस्तुनि शब्दानां बोधनासामर्थ्याद्
ब्रह्मणश्च सिद्ध-वस्तुत्वाद्
उपनिषदां ब्रह्म-प्रतिपादन-सामर्थ्याभावाद्
ब्रह्म-विचार-रूपोत्तर-मीमांसा नारम्भणीया ।
लोके शब्दस्य प्रवृत्ति-निवृत्ति-रूप–क्रियान्वय-योग्ये वस्तुनि +एव बोधन-सामर्थ्यान्
नियमेन शब्द-व्यापारो अ-प्रवृत्त-प्रवर्तनम् एव ।
यथा घट इत्युक्ते न श्रोतुः यथार्थ-कर्त-व्यनिर्णयो भवति ।
“घटम् आनय” इति क्रियान्वित-पद-प्रयोगे तु
भवति स्व-कर्तव्यावबोधः ।
तेन “गुरुः घटानयनार्थं मां नियोजयती"ति ज्ञात्वा
शिष्यः घटानयने प्रवर्तते ।
गुरु-वचनं च सार्थकं भवति।
[[44]]
ब्रह्म तु नयनानयनादि-क्रिया-शून्यम्,
अतः न शब्द-वाच्यमिति वदन्ति । +++(4)+++
जानीहीति न
न च “ब्रह्म सर्वोत्कृष्टं जानीहि” इत्य्-एतद्-अर्थं
“सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादि-वाक्य-प्रयोग इति शङ्क्यम्,
“जानीहि” इति ज्ञानस्य विधातुम् अशक्यत्वात्।
अन्धं प्रति “पश्य” इति प्रयोगवत् स्यात् तत् ।+++(4)+++
अतस् तत्-तद्-उचित-करणानां सामीचीन्ये
ज्ञानं स्वयं भवति
न तु तत् पुरुष-तन्त्रम्,
अपि तु करण-तन्त्रम्।
पङ्गुं प्रति “गच्छ धाव” इतिवत् तद्-वाक्यं निरर्थकं भवेत्।
अत उपनिषच्-छास्त्रस्य ब्रह्म-प्रतिपादन-सामर्थ्याभावाद्
ब्रह्म-विचार-शास्त्रं नारम्भणीयम्
इति पूर्वपक्षे
उत्तर-पक्षः
सिद्धेऽपि वस्तुनि
सिद्ध्यति शब्दानां बोधन-सामर्थ्यम्
इति उत्तर-मीमांसा आरम्भणीयैवेति सिद्धान्तः ।
“क्रियान्विते एव वस्तुनि शब्द-शक्तिर्” इति
नियमापवादोऽत्र क्रियते
ब्रह्ममीमांसायां जिज्ञासाधिकरणे।
स्वयं पुरुषार्थभूते वस्तुनि क्रियान्वयाभावेऽपि
आदरातिशयः प्रदर्श्यतेऽत्र ।
यथा “तव गृहे निधिर् अस्ती"ति वाक्ये श्रुते
तद्-गृहस्वामिन आनन्दो भवति,
तथा बह्म-सत्ता ज्ञायते चेद्
आस्तिकानां सन्तोषो भवत्य् एव ।+++(5)+++
तेन प्रयोजनादिकं तु अन्यद् एतत् ।
[[15]]