चतुर्-दश-विद्या-स्थानानि
भारतीयम् आर्ष-ज्ञान-क्षेत्रं विद्यास्थान-नाम्ना परिगणितमिति सर्वे जानन्ति ।
तच्च चतुर्दशधा विभक्तम् -
ऋग्यजुस्सामाथर्वाख्याश्चत्वारो वेदाः,
शिक्षाव्याकरणछन्दोनिरुक्तज्यौतिषकल्पाख्यानि षडङ्गानि,
पूर्वोत्तरमीमांसे, न्यायशास्त्रं, पुराणानि धर्मशास्त्रं चेति ।
महाभारते-
अङ्गानि वेदाश्चत्वारो
मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च
विद्या ह्येताश् चतुर्दश ॥
इति ॥ ( महाभारतम् १.६६.७)।
याज्ञवल्क्येन तान्येव
पुराण-तर्क-मीमांसा–
धर्मशास्त्राङ्ग-मिश्रिताः । वेदाः स्थानानि विद्यानां
धर्मस्य च चतुर्दश ॥ ( याज्ञवल्क्यस्मृतिः १.१.३)
इति धर्मस्य च स्थानानि इत्युक्तम् ।
निःश्रेयसः, धर्मः
तत्र धर्मशब्देन एतानि
न केवलं बुद्धेः स्थानानि
किन्तु पुंसां निःश्रेयसस्यापि स्थानानीति ज्ञायते ।
“यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः" (वै.सू. १.१. २)
इति कणाद-महर्षिः ।
" धर्मो हि विश्वस्य जगतः प्रतिष्ठा"
तेन ज्ञायते
धर्मो ऽतिसूक्ष्मः, फलानुमेयः, अन्ततः स्व-स्वहृदय-साक्षिकः ।
यतो धर्मो हि मानवम् अधिभूताद् अधिदैवं,
ततः अध्यात्मं च नयति,
अत एव “धर्म-ज्ञ-समयः प्रमाणम्” इत्य्-आदि-वचनानि प्रवृत्तानि ।
तेन ज्ञायते निःश्रेयसं न केवलं बुद्धि-साध्यम्
अपि तु धर्म-साध्य—तत्त्व-ज्ञान-साध्यम् ।
तद् अपि बहुजन्म-तपः-साध्यम् इति
लोकानुभव-सिद्धम् अनूद्यते ।
इदञ् च तत्-तत्-पुरुष–मनः-साक्षिकं ज्ञेयम् ।
न हि पठन-मात्रेण सकृच्-छ्रवण-मात्रेण वा निःश्रेयसं सिध्यति ।
न्यायसूत्र-भाष्यकार-वात्स्यायनः
“कथं [[2]] तत्त्वज्ञानम्” इति प्रश्नस्योत्तररूपेणान्ते
“समाधि-विशेषाभ्यासात्" (न्या.सू. ४.२.३८)
“अरण्य-पुलिनादिषु योगाभ्यासोपदेशः " (न्या.सू. ४.२.४२ ) "
“तद्-अर्थं यम-नियमाभ्यामात्म-संस्कारो योगाच् चाध्यात्म-विध्य्-उपायैः” (न्या.सू. ४.२.४६ )
इत्यादि सूत्राणि उपस्थाप्य
योगाभ्यास-जनित-धर्मेणैव तत्त्व-ज्ञानं सम्भवतीति
सूत्राभिप्रायम् उक्तवान् ।
महर्षिकणादश्च
धर्म-विशेष-प्रसूताद्
द्रव्य-गुण-कर्म-सामान्य-विशेषसमवायानां पदार्थानां
साधर्म्य-वैधर्म्याभ्यां तत्त्व-ज्ञानान् निःश्रेयसम्” ( वै. सू. १.१.४)
इति सूत्रे तत्त्वज्ञानस्य विशेषणतया ‘धर्म-विशेष-प्रसूतात्’ इति पदं प्रयुक्तवान् ।
एतैः प्रमाणैः महर्षीणामभिप्रायः धर्मेणैव तत्त्व-ज्ञानं सम्भवतीति निश्चीयते ।
चतुःशास्त्राणि
एतेषु चतुर्दश-विद्या-स्थानेष्व् अप्य् अङ्गेषु व्याकरणम्,
उपाङ्गेषु पूर्वोत्तरमीमांसे न्याय-विस्तर-पदवाच्यं न्याय-शास्त्रम्
इति चत्वारि पृथक्-कृत्य चतुः-शास्त्रणीति अनन्तर-कालिकैः विद्वद्भिः परिकल्पितानि ।
एतेषु चतुर्षु बुद्धिविकासावकाश-सम्भवात् तथोक्तिः ।
पद-वाक्य-प्रमाणानि
… चतुःशास्त्रेषु व्याकरणं पद-साधुत्व-बोधकम् अतः पदशास्त्रम्।
पूर्वमीमांसा कर्म-भाग-स्थ–वाक्य-सम्बन्धि-न्याय-प्रदर्शन-परं शास्त्रम् ।
उत्तर-मीमांसा उपनिषद्-गत-वाक्य-सम्बन्धि-न्याय-प्रदर्शनपरं शास्त्रम् ।
अत उभयमपि वाक्य-शास्त्रम्,
तेन तयोः ऐकशास्त्र्यमपि सिद्ध्यति ।
न्याय-शास्त्रम् अर्थ-सम्बन्धि-न्याय-प्रदर्शन-परं शास्त्रम् ।
भाष्याणि
[[3]]
एषां पाणिनिः, जैमिनिः, बादरायणः, अक्षपादश् चेति चत्वारो महर्षयः सूत्रकाराः,
तत्र पाणिनिसूत्राणां पतञ्जलि-महर्षि-विरचितं महाभाष्यम्,
पूर्वमीमांसायाः शबरस्वामि-विरचितं शाबरभाष्यम्,
न्यायसूत्राणां वात्स्यायन-मुनि-विरचितं वात्स्यायन-भाष्यं च सर्व-सम्प्रतिपन्नम् ।
ब्रह्म-सूत्र-भाष्यम्
परन्तु उत्तरमीमांसायाः तादृशं सर्वसम्प्रतिपन्नं भाष्यं कुतो न दृश्यते ?
इति विमर्शकैः तट-स्थ-दृष्ट्या चिन्तनीयम् ।
यद्य् अपि बोधायनमहर्षिः प्राचीनः कश्चित् तस्य वृत्तिं रचयामासेति
श्रीमद्रामानुज-भाष्यारम्भ-पीठिकायाम् अभिहितम्,
शाङ्कर-भाष्येऽपि वृत्तिकार-मतम् इति श्रीशङ्कराचार्यैः ब्रह्म-सूत्रेषु बहुषु स्थलेषु अनूद्य निराकृतम् ।
एवं तैर् एव “एक आत्मनः शरीरे भावात्” ( ब्र.सू. ३.३.५३ ) इत्य्-अस्मिन् सूत्रे
“अत एव च भगवतोपवर्षेण
प्रथमे तन्त्रे आत्मास्तित्वाभिधान-प्रसक्तौ
“शारीरके वक्ष्याम” इत्य् उद्धारः कृतः”
इत्य् उक्तम् ।
तत्र पूर्वोत्तर मीमांसा-वृत्ति-कारम् एनं “भगवान् उपवर्षः” इति सगौरवं प्रशंसितवन्तः श्रीशङ्कराचार्याः ।
प्राचीने दशमशताब्दीये प्रपञ्च-हृदय-नामके ग्रन्थे
“तस्य विंशत्य्-अध्याय-निबद्धस्य मीमांसाशास्त्रस्य
कृत-कोटि-नाम-धेयं भाष्यं बोधायनेन कृतम्,
तद् ग्रन्थ-बाहुल्याद् उपेक्ष्य किञ्चित् सङ्क्षिप्तम् उपवर्षेण कृतम्"
इत्युल्लेखो वर्तते ।
स च प्राचीनो वृत्तिग्रन्थः कदा गलित इति न ज्ञायते ।
प्रायः बौद्धानाम् अत्यन्तप्राबल्य-काले
ब्रह्मणः उपादानत्व-स्वीकारे
बौद्धैः तस्य विकारापत्ति-दोषापादने
तदानीं वैदिकैः तत्-समाधातुम् अशक्यत्वाद् गलितः स्याद् इत्यूह्यते ।
एतद्विस्तरः श्रीभाष्य-गूढार्थ-सङ्ग्रहे अष्टमपृष्टे द्रष्टव्यः ।
मध्य-काले भर्तृ-प्रपञ्च-नामकेन ब्रह्म-स्वरूप-परिणाम-वादिना
वेदान्तसूत्राणां व्याख्यानं कृतमिति
श्रीभाष्य-शाङ्करभाष्याभ्याम् अवगम्यते ।
एतन्-मतं रामानुजभाष्ये समन्वयाधिकरणे,
शाङ्करभाष्ये प्रकृतैतावत्वाधिकरणे च परिशीलितम् ।
तच् च ब्रह्मणः स्वरूप-परिणामे सविकारत्वादि-दोष-प्रदर्शनेन
प्रबलैः तात्कालिक-बौद्धैः शतशः खण्डितम्
इत्य् अस्ति किं-वदन्ती।
समस्या
अद्यतन-प्रत्यक्ष-दृष्ट्या तु
प्रधानतया श्रीशङ्कर-श्रीमद्रामानुज-श्रीमदानन्दतीर्थैस् त्रिभिः कृतं भाष्यम् एव
बादरायण-सूत्राणां विशेषतः प्रसिद्धम् उपलभ्यते ।
अन्यानि भाष्याणि अत्रैव अन्तर्भवन्ति।
यतो हि भेदः अभेदः भेदाभेदौ वा -
एतत् त्रितयातिरिक्तं न कोऽपि सिद्धान्तः उपलभ्यते।
[[14]]
तत्र शङ्कराचार्यकृतं भाष्यं ब्रह्म-विवर्त-वादाभिप्रायेण,
रामानुजकृतं भाष्यं ब्रह्म-परिणाम-वादाभिप्रायेण,
मध्वाचार्यकृतं तु केवलं ब्रह्म-निमित्तकारणत्व-मात्राभिप्रायेण ।
एतत् त्रयं तु
परस्परं प्रतीप-मार्ग-गामीत्य् एव
सर्वैर् अपि पण्डितैः अङ्गीक्रियते ।
एवं सति
बादरायणसूत्राणां तात्पर्यं सम्प्रतिपन्नं कीदृशं स्याद्
इति तु विचारः शिष्यत एव ।
…
एतद्-ग्रन्थ-लेखनस्य परमोद्देश्यं किम् ?
वेदान्तशास्त्रमूलग्रन्थ एक एव ।
अथापि बहुविध व्याख्यानानि विलक्षणतया कथं जातानि ?
तत्र कारणं च किम् ?
कश्च परिहारः? मूलभूतसमस्या च का ?
इति एतादृशांशा गाम्भीर्येण चिन्तनीयाः ।
अध्यात्म-शास्त्रसम्बन्धि-श्रुतीनां विप्रतिपत्त्या
तद्-अर्थ-विचारे मति-भेदात्
परस्परं कलहो ऽवर्जनीयः संवृत्तः ।
अतः व्याख्यान-भेदोऽपि अनिवार्यो बभूव ।
यतो हि
तत्-तन्-मत-पण्डितास् तु
स्व-स्वाचार्यमान-संरक्षण-दृष्ट्या
प्रायः स्वप्रतिष्ठार्थम् एव यतमाना वर्तन्त
इति प्रत्यक्षो विषयः ।+++(5)+++
एवं सति एतेषाम् ऐकरस्यं कथं कर्तुं शक्यम्
इति महती समस्या समजनि ।
परिहार-मार्गः
… एवं विप्रतिपत्ति-परम्परायां जातायां
विप्रतिपत्तेर् मूलान्वेषण-रूपं विज्ञानम् एव शरणी-कर्तव्यम् -
यथा व्याध्यादि-कारणे संशय-ग्रस्ते
विज्ञानेन व्याध्यादि-कारणं निर्णीयते, ततश्च चिकित्स्यते,
एवम् एव आत्म-विषये बहूनां विप्रतिपत्तीनां श्रवणाद्
अध्यात्म-विज्ञानम् एवात्र समर्थम् उत्तरं भवितुम् अर्हति ।
वस्तुनि सामान्यतो ऽवगते
विशेषतो ऽवगमार्थं विचार
इति विचार-शास्त्र-मर्यादा ।
श्री-बादरायण-महर्षि-प्रणीता ब्रह्म-मीमांसाऽपि तद्-अनन्तर्गता ।
शास्त्र-योनित्वात् = विज्ञान-मूलत्वात्
शास्त्र-योनित्वाधिकरणे शास्त्र-पदस्यापि विज्ञानार्थे एव तात्पर्यम्
इति प्राचीन-व्याख्या-शोधनेन अवगम्यते ।
बहु-व्रीहिर् न, योनिर् उपादानम्
अद्य तु “शास्त्रं योनिर् यस्य” इति बहुव्रीहिः प्रदर्श्यते ।
बहु-व्रीहिस् तु अतीव-जघन्य इति तु सर्व-सम्मतम् ।+++(4)+++
योनि-पदम् अपि उपादानय् एव स्वरसं सर्वसम्मतं च ।
“तं भूत-योनिं परिपश्यन्ति धीराः” (मुण्ड.उ. १.१.६),
“कर्तारमीशं पुरुषं ब्रह्म-योनिम्” (मुण्ड.उ. १.१.३)
इत्य्-एतत् श्रुति-द्वयम् अपि
“योनिश्च हि गीयते” (ब्र.सू. १.४. २७) इत्य्-अस्य
शङ्कर-रामानुज-भाष्य-द्वयेऽपि सूत्र-विषय-वाक्यत्वेनोपन्यस्तम् ।
लोकेऽपि योनि-पदम् उपादानार्थय् एव प्रसिद्धम् ।
एवं सति योनि-शब्दस्य प्रमाणार्थकत्वम् अपि अतीव क्लिष्टम् एव ।+++(5)+++
[[18]]
“शास्त्रस्य योनिः” इति तत्-पुरुष-समास एव बहुव्रीह्यपेक्षया श्रेयान् ।
शास्त्रम् = विज्ञानम्
अत्र
शास्त्र-पदेन ऋग्-वेदादि-रूपस्य वेद-शास्त्रस्य मूल-कारणं ब्रह्म
इति यद्य् अर्थः विवक्षितः,
तर्हि ब्रह्मणः सर्व-जगत्-कारणत्वस्य पूर्वस्मिन् जन्माद्य्-अधिकरण एव समर्थितत्वेन
अत्र पौनर्-उक्त्यं भवेत्,
इत्य्-अतः द्वितीय-व्याख्याने “प्रवृत्तिः” इत्य्-अभिप्रयन्ति सर्वे ॥
वस्तुतस् तु शास्त्र-पदार्थः कः ?
“शासु अनुशिष्टौ” इति धातु-मूलक औणादिकोऽयं शब्दः ।
तथा च “शासनं” नाम अनतिक्रमणीयम् आज्ञा-रूपम्,
राज-शासनादिवद् इति +अनुभवसिद्धम् ।
तद्वद् एव जगति परिदृश्यमानं क्रमादिकं सर्वं
सृष्टि-शासनानुगुणम् ।
यथा वा
आम्र-बीजादिकं यदि उप्यते,
अग्रे तस्य विकासः कथं भवेद्
इति जिज्ञासायाम्
आम्र-बीजस्य विकासः
आम्राङ्कुर-शाखा-पत्र-फलादि-क्रमेणैव भवति ।
एतादृश-परिणामः किङ्कृतः?
इति प्रश्ने
“अनतिक्रमणीय-वस्तु-निसर्गाधीनः” इत्य् एव समीचीनम् उत्तरम् ।
एवं सर्वम् अपि बीजं
निसर्ग-सिद्ध-शासनं नातिवर्तते ।
एतादृश-शासन-क्रमः प्राणिष्व् अपि समानः -
मनुष्येष्व् अपि प्रकृति-सिद्ध-विकासादिकम् एतादृश-शासनानुसार्य् एव ।
मनुष्याणाम् इतर-प्राण्य्-अपेक्षया बुद्धि-कौशलं प्रत्यक्ष-सिद्धम् ।
तादृश-बुद्धेः स्वेच्छात उपयोगे
मनुष्य-जन्म दुष्यति । +++(4)+++
ततश् च शास्त्रं नाम
प्रकृति-सहज-सिद्धं विज्ञानम् एव।
एवञ् च “शास्त्र-योनित्वात्” इति सूत्रस्यापि
“विज्ञान-मूलत्वाद्” इत्य् एव व्याख्येयम् ।