प्रवेशः॥
… शास्त्रे बहुविधा विचाराः क्रियन्ते।
ते काक-दन्त-परीक्षावद् वृथा क्रियन्ते,
उत कश्चन महान् उद्देशो ऽस्ति ।
काक-दन्त-परीक्षादिकं तु उन्मत्तायितम् एव ।+++(5)+++
[[44]]
वेदान्तशास्त्रे तु
“परीक्ष्य लोकान् कर्मचितान्” (मुण्ड.उ.१.२.१२) इत्यादिश्रुतिभिः
सकल-क्लेशापहारायात्मतत्त्वं प्रतिपादितम्
इत्य् एव सर्वैर् अङ्गी-कृतम् ।
मानव-जन्मनः उद्देश्यम् एव एतादृश-परम-पुरुषार्थ-प्राप्तिर् एवेति
सर्व-विवेकि-जन-सम्मतम् ।
अत एव “पुरुषे+++(=मनुष्ये)+++ त्व् आविस्तराम् आत्मा” इत्य् उपक्रम्य
“मर्त्येनामृतम् ईक्षते” इति मानव-जन्म प्रशस्यते
ऐतरेयारण्यकान्ते ।
‘आत्मा=आत्म-तत्त्वं’,
पुरुषे = मानवजन्मनि,
आविस्तराम् = आविर्भवतितरां नितरां विकसितम् ।
अत एव सः=पुरुषः, मर्त्येन=नश्वरेणानेन शरीरेण, अमृतं = अमृतत्वं प्राप्तम् ईक्षते
इति स्पष्टं मनुष्यजन्म प्रशंसितम् ।+++(4)+++
कठोपनिषद्य् अपि
“अनित्यैर् द्रव्यैः प्राप्तवान् अस्मि नित्यम्” (कठ.उ. १.२.१०)
इति प्रकरणम् एतादृशात्म-तत्त्व-प्राप्ति-साधन-विषयक-प्रश्नस्य उत्तर-दृष्ट्या प्रवृत्तम् ।
[[44]]
सुखेच्छा
… पीठिका॥
सर्वस्य प्राणिनः इयम् आत्माशीः नित्या भवति ।
“मा न भूवं भूयासमिति” (पा.यो.सू.व्यासभा.२।९) ।
यद्य् अपि अत्र वाक्ये “अहं”-पदनिर्देशो नास्ति
तथापि “भूयासम्” इति उत्तमपुरूषेणैव “अहं”-पदं लब्धम् ।
अतश्च
अहं सदा सुखी स्यां
न कदापि दुःखी स्याम्
इति सर्व-प्राणिनाम् आशंसा इत्यर्थः ।
एतत् प्राणिनां सामान्यं लक्षणम्,
सहज-स्वभावश् च ।
स्वभावस्य सहजत्वेऽपि
तद्-अनुकूल-प्रयत्नः +न सर्व-प्राणिनां समानम्,
किन्तु मनुष्याणाम् एव ।
यतः मनुष्यस्य तु बुद्धिजीवित्वात्
सर्वं ज्ञात्वैव तेन कर्तव्यं भवति ।
ज्ञानानन्तरम् इच्छा,
अनन्तरमेव प्रयत्नः
इत्येव क्रमः ।
एतद् अपि जागरणकाल एव ।
श्वासः
जीवन-प्रयोजक-भूतः श्वासोच्छ्वासः प्रयत्नः
सुषुप्ताव् अपि अनुवर्तते
इति सर्वे जानन्ति ।
सुषुप्तौ तु ज्ञानेच्छाप्रयत्नानां नाशेऽपि
कथं श्वासोच्छ्वासादिश् चलति?
इति चेत् तस्य जीवनादृष्टम् एव तथा तं कारयति ।
तादृशादृष्ट-मूलकत्वात् श्वासोच्छ्वासयोः,
श्वासोच्छ्वास-रूप-क्रियाया अपि प्रयत्न-जन्यत्वात्,
सः प्रयत्नः एव “जीवन-योनि-यत्न” इत्य् अभिधीयते ।
निद्रामूर्च्छादि-काले एवं श्वासोच्छ्वासयोर् अदृष्ट-मूलकत्वेऽपि
तयोः क्रियारूपत्वात्
प्रयत्नः आवश्यकः ।
एवं प्रयत्नः कथं भवति
इति प्रश्ने आहारादिकम् अन्तरा
न हि प्रयत्नः +भवितुम् अर्हति ।
अत एव -
आहारार्थं कर्म कुर्याद् अनिन्द्यम्
आहारं तु प्राणसन्धारणार्थम् ।
प्राणाः सन्धार्यास् तत्त्व-जिज्ञासनार्थं
तत्वं जिज्ञास्यं येन भूयो न दुःखम् ॥ +++(5)+++
[[75]]
इति परस्परं कार्यकारणभाव प्रदर्शितः ।
अन्ते पर्यवसानं तु पुनर् दुःखं यथा न भवेत्
तावत्-पर्यन्तं प्रयत्नः अनुवर्तत एवेत्यर्थः ।
तत्त्वम् आत्मा
शास्त्राणाम् उपयोगश्च तत्त्वजिज्ञासनार्थम् इत्येव ।
तत्त्वं नाम किम् इति प्रश्ने
“तस्य भावः तत्त्वम्” इति हि तस्य व्युत्पत्तिः ।
“तस्य” इत्यत्र तच्-छब्दस्य कोऽर्थः?
यः कोऽपि भवितुं शक्नोति - तस्य सर्वनामत्वाद्
इत्य् आशङ्कायां
यादृश-तत्त्वस्य ज्ञानेन
पुनर् दुःखं न भवेत्
तादृशं तत्त्वम् एव +अत्र तत्त्व-शब्देन विवक्षितम् ।
अतः अन्ते तत्त्वं नाम आत्मैव ।
अध्यात्म-शास्त्र-प्राधान्यम्
… बहु-संवत्सरेभ्यः पूर्वम् एव श्रुतम्
अध्यात्म-शास्त्रम् एव
सर्वेषां शास्त्राणां परम-लक्ष्य-भूतं शास्त्रम्
इति ।
वदन्ति च तथैवाध्यात्म-शास्त्र-मर्मज्ञाः ।
अत्र शास्त्रं नाम विज्ञानम् ।
विज्ञानस्य +अन्तिमं फल-रूपं विज्ञानं तु अध्यात्मविज्ञानमेव ।+++(5)+++
… आध्यात्मिकाधिदैविक-क्षेत्रेषु
अन्तिमम् उत्तमोत्तमं क्षेत्रम् एव अध्यात्मक्षेत्रम् ।
अन्यत् सर्वं क्षेत्रं
तद् आत्म-तत्त्व-व्याप्यम् एव वर्तते +++(आत्म-भोग्यत्वात्)+++।+++(5)+++
सर्वा जागरिताद्य्-अवस्था अपि तन्मूला एव ।
तत् तत्त्वं
स्व-शक्त्या, मायया,
अनेकानि रूपाणि अनेकाश् च अवस्था धारयित्वा
क्रीडन्न् इव वर्तते ।
… तादृश आत्म-स्वरूपावाप्तय एव मनुष्य-जन्म,
तत्रापि ज्ञान-विज्ञान-तपो-भूमि-भूते भारत-वर्षे जन्म ।+++(5)+++
अस्मिन् जन्मन्य् एव
“स्वात्मा कः?
मम परमलक्ष्यं किम्?"
इति तत्त्वजिज्ञासा सम्भवति ।
एतादृशे काले एव
अध्यात्मगुरोर् अध्यात्म-शास्त्रस्य च आवश्यकता वर्तते ।
अध्यात्मशास्त्रस्य परमोद्देश्यम्
आत्म-तत्त्व-विज्ञान-बोधनं तत्-प्राप्तये तद्-अनुकूल-साधन–स्व-रूप–प्रकाशश् च ।
स्वस्थितिः
… वादः अद्वैतपरो वा भवतु
द्वैतपरो वा भवतु -
इदानीन्तना ऽस्माकं परिस्थितिः कीदृशी?
वयं कस्यां कक्षायां वर्तामहे?
इत्यपि केनचिन् न ज्ञायते चेत्,
तेन किं वा साधयितुं शक्यम्?
अतः प्रथमं स्व–स्वरूप-ज्ञानं सम्पादनीयम् ।
तथालोचने - वयं सर्वेऽपि न सिद्धपुरुषाः ।
मनुष्यजन्मनः सार्थक्यसाधनमेव परमोद्देश्यं
त्रि-करण-शुद्ध्या भवेद् यदि
तर्हि स्वात्मानम् एव साक्षी कृत्यैव
विचारः सर्वोऽपि कर्तव्यो भवति ।