विश्वास-टिप्पनी - सावधानम्!
वरदार्य-प्रेरितैः कैश्चिद् अन्तेवासिभिस् सङ्गृहीतम् इदम्,
न तु परिष्कृतम्।
वरदार्येण तु स्पष्टं तन्-नाम्नाऽस्य प्रकाशनं निषिद्धम्।
ततस् तत्-प्रेरितापि नेयं तत्कृतिर् मन्तव्या।
विचार-बीजान्य् एव ग्राह्याणीतः, न तावन् निश्चयः।
विश्वास-टिप्पनी - स्वाभिप्रायः
ग्रन्थोऽयम् अंशतो ऽत्यन्तम् उपादेयः - केषुचिद् विषयेषु स्पष्टतायै।
यद्य् अयं तीक्ष्णधीर् अद्याजीविष्यद् यन्त्र-धी-युगे,
यदि तेन सह मुक्तं चर्चयितुम् अवकाशोऽभविष्यत् …!
Satya-siddhi is a work of genius
(which crosses into madness regarding shankara apologetics) -
a real page turner!
शङ्करार्य-दुर्-व्याख्यानाय बौद्ध-बलं कारणम् इति प्रमाणविकलं वदति।
अयं वरदाचार्यवर्यो ऽन्येष्व् अपि केषुचिद् विषयेषु साम्प्रदायिकावगतेः स्पष्टं व्यावृत्तो भाति (ज्ञान-योग-शब्दस्यावगतौ, “योग”-प्रामुख्ये, जीवन्-मुक्तौ …)।
तत् सर्वं श्रीरङ्गमहागुर्व्-आख्य-योगि-सङ्गति-प्रेरितम् भाति,
न परकाल-यत्य्-उपज्ञम्।
ततः स्फुटं रामकृष्ण-परमहंस–अज्ज-महोदयादि-भणिति-प्रभावोऽपि।
अत्र द्वितीयो मङ्गळूरु-परिसरय् उवास।
किन्तु, तद्-भक्तानाम् अभिप्राये त्व् अन्ये विद्वांस एव भ्रान्ताः -
कारणं तु न सम्यक् प्रतिपादयितुं शक्नुवन्ति,
केवलं “योग-जन्य-साक्षात्-कारो नास्ति तव, त्वया न तावद् अधीतम्” इत्य्-आदि कथयन्ति।
copy paste error ??
हृदयनामके ग्रन्थे उदाहारि । सा च उपवर्षेण सङ्गृहीतेत्यपि