शब्दः, ज्ञानम्, अर्थः
विचारे +++(वक्ष्यमाण-रीत्या)+++ शुष्क-पण्डितानां नाधिकारः ॥
शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् सङ्करः (यो.सू. ३।१७ )
इति पातञ्जलं सूत्रम् ।
“गौर् इति शब्दः गौरिति ज्ञानम्, गौरित्यर्थः+++(→वस्तु)+++" इति महाभाष्यकारः ।+++(5)+++
एतादृश-वचन-गाम्भीर्यं यावत्-पर्यन्तं ज्ञातुं न शक्यते
तावत्पर्यन्तं सः न विमर्शनशास्त्राधिकारी ।
प्रथमं वस्तुथितिः, अनन्तरं तद्विषयकं ज्ञानम्, अनन्तरमेव शब्दप्रयोगः,
एतेषां कालभेदः स्पष्टः ।
एवं सति ज्ञानार्थयोः शब्दस्य च परस्परम् अ-भेदः कथं सम्भवेत् ।
सन्ति ज्ञानार्थयोर् अ-भेद-वादिनः, शब्दार्थयोर् अ-भेद-वादिनश् च ।
इदं सर्वम् अर्थ-प्रत्यय-शब्द-साङ्कर्य-कृतम् इति स्पष्टम् ।
एतत्साङ्कर्यं यदा ज्ञायते तदैव तस्याध्यात्मतत्त्वविचारे अधिकारः ।
एतत्-साङ्कर्य-परिहारस् तु सर्वैरपि साधयितुं न शक्यते ।
ज्ञानम् एव सर्वस्याप्य् अर्थस्य निश्चायकम् ।
ज्ञानेषु प्रत्यक्षात्मकं ज्ञानम् एव सर्व-मूर्धन्यम् ।+++(4)+++
अनुमान-शब्दयोस् तन्-मूलकत्वात् स्व-तन्त्र-प्रमाणत्वं नास्ति ।
अत एवोक्तम् अभियुक्तैः
“परश्-शत-परिक्षोदात्
परस्ताद् अपि वादिभिः ।
उपलम्भ-बले स्थेयं
किम् आदौ तन् न गृह्यते॥"+++(5)+++
(न्यायसिद्धा. जड. परि. ४)
इति ।
[[46]]
प्रत्यक्षात्मक ज्ञानेऽपि अनेकविध-परिक्षानन्तरं
जायमानम् उपलम्भ-पद-वाच्यं
ज्ञानम् अतीवान्तरम् ।
“अहम् उपलभे” इति अनुभवस्यान्तरत्वं सर्वानुभवसिद्धम्।
बुद्धिः, उपलब्धिः, ज्ञानम्
… मूल-सूत्रकारैः भाष्यकारैश्च
तत्त्व-ज्ञानोपयोग्य्-अंश-प्रबोधन-दृष्ट्यैव सूत्राणि भाष्याणि च रचितानि ।
शब्द-जन्य-ज्ञान-मात्रेण निःश्रेयसं न भवतीति
अपरोक्ष-तत्त्व-ज्ञानाय योग-मार्गश् च प्रदर्शितः ।
तथापि बुद्धि-जीविन इति ख्यातिं लब्धवद्भिः पण्डितैः
बुद्धि-ज्ञानयोः तारतम्यम् अजानद्भिः
बुद्धिवर्धनम् एव पुरुषार्थं मन्यमानैः
एतानि सभाष्याणि चत्वारि शास्त्राणि
केवलं शब्द-जाल-मात्रेण परस्-पर-खण्डनादिना
अद्य बहु वर्धितानि । +++(4)+++
यद्य् अपि तर्कस्य बाह्यविषयेष्व् एव प्रवृत्तेः
‘बुद्धिः ज्ञानम् उपलब्धिः’ इत्य्-अनर्थान्तरम् इति तार्किकैर् उच्यते,
परन् तु त्रयाणाम् अपि सूक्ष्म-भेदं तत्त्व-ज्ञाः वर्णयन्ति ।
बुद्धिर् इति स्थूला बाह्य-विषयिणी प्रकृतेर् विकार-रूपा ।
उपलब्धिर् इति तु आन्तरं तत्-प्रतिफलन-रूपम् ।+++(4)+++
ज्ञानम् इति तु द्वयोर् अपि फल-भूतं
केवलं तत्त्व-विषयकम् ।
कोशकारोऽपि “मोक्षे धीर् ज्ञानम्” इति वदति ।
एतत्-तत्त्वम् अ-ज्ञात्वैव
बुद्धि-चातुर्य-प्रदर्शनार्थं नवीन-पण्डितैः
नवीन-व्याख्यान-निर्माणेन क्रियमाणा हानिः
वक्तुम् एव न शक्यते ।
अध्यात्मक्षेत्रं शून्यमिव क्रियमाणं वर्तते उत्तरोत्तरम् ।+++(5)+++
ज्ञानं, वृत्तिः
… सर्वेषां सिद्धान्ते, अद्वैतमतेऽपि
इदानीम् एतावद् एवाङ्गीकर्तव्यं -
वयं ज्ञानमार्गिण इति आर्भाटं कुर्वताम् अपि
ज्ञानं न विशुद्धम्,
किन्तु वृत्ति-रूपम् एवाङ्गीक्रियते,
तच्च ज्ञानं गौणम् ।
वस्तुतः ज्ञान-पदम् आत्म-स्वरूप-वाची।
लोके तु सर्वेषां मते वृत्तिरूपम् एवाङ्गीक्रियते ।
ज्ञान-विज्ञानयोः स्वरूप-विचारः
… ज्ञानम् अनुभवात्मकम् ।
यद्य् अपि विज्ञानम् अपि अनुभवात्मकं -
किन्तु कारणानुभवात्मकम् ।+++(5)+++
कारणानुभवेऽपि -
यदि विप्रतिपत्तिस्
तदा तस्यापि कारणम् अन्वेषणीयम् ।
तत्रापि सन्देहे
तस्यापि मूलमन्वेषणीयम्।
यावत्-पर्यन्तं मूलं न प्राप्यते
तावद् अन्वेषणम् आवश्यकम् ।
[[48]]
तादृश-कारणान्वेषण-ज्ञान–विषयक-ज्ञानम् एव विज्ञानम् इत्य् उच्यते ।
ज्ञान-विज्ञानयोर् अन्तरम्
“मोक्षे धीर् ज्ञानम्, अन्यत्र विज्ञानं शिल्प-शास्त्रयोः” इति कोशात् ।
“अन्यत्र” इति चेन् मोक्ष-व्यतिरिक्त-ज्ञाने “विज्ञान”-पदं प्रयुज्यते ।
गीतायां बहुषु स्थलेषु
ज्ञान-विज्ञानपदे सहैव प्रयुज्येते ।
एवं सति उभयोः अर्थभेदः आवश्यकः ।+++(5)+++
केवलं विशिष्टं ज्ञानम् इति विविध-ज्ञानम् इति वा विवरण-मात्रेण
पदस्य सार्थक्यं दुर्घटम् एव ।
अतः ज्ञान-परिचयार्थं विचार्यमाणं कारण-विषयात्मकं ज्ञानम् एव
विज्ञान-पदेन विवक्षितम् ।
अत एव गीतायाम् एव
" ज्ञानं तेऽहं सविज्ञानम्
इदं वक्ष्याम्य् अ-शेषतः" (गी. ७.२)
इति कथन-मात्रेण तृप्तिम् अलभमानः भगवान् कृष्णः
“यज्-ज्ञात्वा नेह भूयो
ऽन्यज् ज्ञातव्यम् अवशिष्यते" (गी. ७.२ ),
इति ज्ञान-विज्ञानयोः प्रशंसां करोति ।
अत एव लोकेऽपि विज्ञान-रहितं केवलम् अनुभवात्मकं ज्ञानं
स्वार्थ-साधने न समर्थं दृश्यते ।
विज्ञान-सम्पादनम्
… दूरात् स्थाणुरूपं किञ्चिद् वस्तु पश्यन्न्
“अयं स्थाणुर्” इति कश्चिद् भ्राम्यति ।
अन्यश् च “कश्चित् पुरुष एवे"ति भ्राम्यति चेत्,
तदा ऽर्थ-विवेकिनः किं कुर्वन्ति ?
केवलानुभवात्मकोपलम्भेन न तृप्यन्ति ।
किन्तु तज्-ज्ञान-कारणान्वेषणे प्रवर्तन्ते ।+++(5)+++
शाखादि-रूपं किञ्चिद् दृश्यते चेत्,
“स्थाणुर्” इति निश्चिन्वन्ति ।
हस्तादिरूपं किञ्चिच् चिह्नं दृश्यते चेत्,
“पुरुष” इति निश्चिन्वन्ति ।
एवं पुनर् विकल्प-प्रसक्ति-शून्यस्य निश्चयस्य कारणान्वेषणम् एव
विज्ञानम् इत्य् उच्यते ॥
[[19]] … यथा ऽऽह जयन्तः
प्रथमं दूराज् जलस्थानं पश्यति
“तादृश-जल-ज्ञानं प्रामाणिकं वा न वा” इति संशये,
समीपम् उपसृप्य
जलं पश्यति, पिबति च ।
पिपासाशान्तिश् च जायते ।
तत्रापि स्वप्नत्व-सन्देहे
अन्यं पृष्ट्वापि
“नायं स्वप्न” इति निश्चिनोति ।
तदनन्तरं न सन्दहावकाशः । +++(5)+++
… एवं तत्त्वार्थ-निर्णयः
विज्ञान-द्वाराऽपि कर्तुं न शक्यते चेत्,
तूष्णीम् एव स्थातव्यम् ॥
सन्देहाधिक्यम्
… एतद्-उपर्य् अपि यदि सन्देग्धि
तस्य यथार्थज्ञानं कथं भवेत्,
नाश एव स्यात् । +++(4)+++
तद् उक्तं भगवता
अज्ञश् चाश्रद् दधानश् च
संशयात्मा विनश्यति । नायं लोकोऽस्ति न परः
न सुखं संशयात्मनः "
(गी. ४.४० )
इति ।
सत्-सङ्गः
“तस्य हितं कथं स्याद्” इति चेत् सत्-सङ्गेनैव ।+++(4)+++
उक्तञ्च-
“सङ्गः सर्वात्मना त्याज्यः
स चेद् +धातुं न शक्यते । स सद्भिः सह कर्तव्यः
सन्तः सङ्गस्य भेषजम्” +++(5)+++
इति ।
सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलितत्त्वं
निश्चलितत्त्वे जीवन्मुक्तिः ।
इत्य्-आदि-वचनैः
सर्व-विध-दोष-निराकरणौषधं सत्-सङ्ग इति ज्ञायते ।+++(5)+++
विज्ञान-प्रशस्तिः
… यद्यपि
“परश्-शत-परिक्षोदात्
परस्ताद् अपि वादिभिः ।
उपलम्भबले स्थेयम्”
(न्यायसिद्धाञ्जनं जड. ४)
इति न्यायः दृश्यते -
परन्तु +अत्र विज्ञानोपलम्भस्यैव निर्णय-हेतुत्वं दृश्यते ।
अद्यतन-जगति सर्वस्यापि विज्ञानमयत्वे परिदृश्यमाने इदं स्पष्टम् ।
अत एव उपनिषद् अपि
“विज्ञानेनात्मानं वेदयते" ( तैत्ति.महा. ७९) इति वदति ।
इदम् एव वेदान्त-विज्ञानम्, अध्यात्म-विज्ञानम् इत्य्-आदि-पदैर् उच्यते ।
“वेदान्त-विज्ञान-सुनिश्चितार्थाः" (तैत्ति. १३ ) इति श्रुतौ
कस्यचिद् वेदान्त-विज्ञानेनार्थः यदि सुनिश्चितः,
तस्यैव श्रेय
इति घोषितम् ।
कार्यकारणभावस्वरूपं
… जगत् सर्वं परस्परं कार्य-कारण-भावापन्नं वर्तते।
नित्यस्यापि परमाण्व्-आदेः कारणत्वम् अङ्गी-क्रियते।
अतः कारणत्वं केवलान्वयि-धर्मः ।
न किम् अपि वस्तु कारणत्व-रहितं भवेत्।
यद्य् अपि
“पारिमाण्डल्य-भिन्नानां
कारणत्वम् उदाहृतम्”
इति परमाणु-परिमाणस्य द्व्य्-अणुक-परिमाणं प्रति कारणत्वं निषिध्यते
तथापि ज्ञान-विषयत्वेन कारणत्वं तु
तत्रापि स्वीकर्तव्यम् एव ।
यस्य कस्यापि विचारस्यारम्भः
कार्य-कारण-मूलक एव भवति ।
अतः प्रथमं कार्य-कारण-भावश् चिन्त्यते ।
कार्य-कारण-भाव-विषये चत्वारः +वादाः सन्ति
- आरम्भवादः परिणामवादः विवर्तवादः सङ्घातवादश्चेति ।
तत्र आरम्भवादो नैय्यायिकानाम्।
मनुष्यप्रयत्नेन यत्र कार्यमारभ्यते तत्रायं वादः ।
काशान् कटं कर्तुम् आरभते,
मृदं घटं कर्तुमारभते
इति प्रयोगात् ।
[[108]]
परिणामवादः साङ्ख्यानाम्-
यत्र कारणं स्वयम् एव स्वानुगुणं यत्-किञ्चिन् निमित्तं प्राप्य विकसति
तत्रायं वादः ।
यथा बीजं मृज्-जलादि-निमित्तं प्राप्य
स्वयम् एव वृक्षादि-रूपेण परिणमते।
तत्र परिणामे
न मनुष्य-प्रयत्नः आवश्यकः ।
“बीजम् अङ्कुरं भवति, अङ्कुरं नालं भवती"त्यादि प्रयोगाः क्रियन्ते
न तु “पुरुषः बीजम् अङ्कुरं कर्तुम् आरभते” इति ।
विवर्तवादः परिणाम-विशेष एव, न त्व् अतिरिक्तः ।
यत्र कारणं विलक्षणतया परिणमते
येन कार्ये कारणस्य प्रत्यभिज्ञा न भवति
तत्रैव विवर्तवादः - +++(4)+++
यथा साङ्ख्य-सिद्धान्ते पूर्व-पूर्व-कारणस्य
उत्तरोत्तरं विलक्षण-कार्य-रूपेण परिणामो दृश्यते
तेजसः +अप्त्वाकारेण परिणामः।
अत्र तेजसः औष्ण्यादिकं सर्वथा न दृश्यते ।
एतादृश स्थले परिणामविशेषः
विवर्तः इति वक्तुं शक्यते ।
सङ्घातवादः बौद्धानाम्।
एको महान् धान्यराशिः, आम्र-वनम् इत्यादीनि अस्य उदाहरणानि।
एते सर्वेऽपि वादाः तत्तत्स्थलेषु सर्वैरपि स्वीकर्तव्या एव॥