सत्यान्वेषणम् मूलम्
भूमिका॥
सत्य-सिद्धि-रचनायां प्रेरकं किम्
इति प्रश्ने,
तत्त्व-मुक्ता-कलापस्य व्याख्यान-भूतायाः सर्वङ्कषायाः भूमिका-भूतं सत्यान्वेषणम् एव ।
किन्तु तादृशाध्यात्म-शास्त्राणां मूल-भूतानां बादरायण-सूत्राणां
कथम् एवं परस्परविरुद्धानि भाष्याणि जातानि,
यद् आधारीकृत्यैव द्वैत–निर्विशेषाद्वैत–स-विशेषाद्वैता (विशिष्टाद्वैता) ऽऽख्यानि
मतान्य् अपि उद्भूतानि ?
मूलं तु सर्वेषां ब्रह्मसूत्राण्येव ।
तर्हि वस्तुस्थितिः का ?
इति विचारः कृतः बहुसंवत्सरान् ।
तस्य सत्यान्वेषणस्य फल-भूतेयं सत्य-सिद्धिर् इत्य् एवोत्तरं दातुं शक्यते ।
… पूर्वोक्त-रीत्या आत्म-तत्त्व-ज्ञानेन
आत्म–स्व-रूपावाप्त्य्-अर्थम् एव
मनुष्येण प्रयासः कर्तव्यः,
न तु +आधिभौतिकाधिदैविक-वस्तु-मात्रेण सन्तुष्टिः कर्तव्येति
“मर्त्येनामृतम् ईक्षते” इति श्रुत्य्-अर्थस्य स्पष्ट-रूपेण प्रदर्शनम् अपि
अस्याः सत्यसिद्धेर् उद्देशः ।
दुःस्थितिः
… कलि-काल-वशाद् अद्य तादृशाध्यात्म-ज्ञानिनां दौर्लभ्याद्
अध्यात्म-शास्त्राणाम् उद्देश्यम् एव न ज्ञायते जनैः ।
अङ्गि-वेदापेक्षया तद्-अङ्ग-भूतं शास्त्रम् एव प्रबलं भवद् अस्ति
उत्तरोत्तरं तस्यैव प्राधान्यं क्रियमाणं च वर्तते ।
शास्त्रस्य उद्देश्य-दृष्ट्या
न कोऽप्य् अधीते शास्त्रम् ।
स्वात्मा कः?
मम जन्मनो लक्ष्यं किम्?
इति न कोऽपि जिज्ञासते ।
सन्दर्भ-वशात् सर्व-कार–सम्पत्तिर् यत्र लभ्यते तदेव शास्त्रं पठ्यते ।
स्वपठिते शास्त्रे ऽभिमानं कृत्वा
इतरशास्त्राणां वैयर्थ्यं मन्यन्ते ।
एतादृशी अतीव-शोचनीया स्थितिर् वर्तते ।
गीतायाम् “अध्यात्मविद्या विद्यानाम्”
इत्य् अध्यात्म-विद्यैव जनानाम् उत्तारिका
इति सत्य् अपि
तद् रहस्यम् अपि बहवो न जानन्ति ।
‘आत्मविद्या च देवि, त्वम्” इत्य् अध्यात्म-विद्याम् ऋषयः प्रशंसन्ति ।
एवम् अध्यात्म-विद्यायां विशाल-भावनाम् अकृत्वा
तत्रापि +अभिमानम् एव वर्धयित्वा
सत्य-निर्णयम् अकुर्वन्तः +जनाः
तत्रापि कलहम् एव वर्धयन्ते,
कीदृशं दौर्भाग्यं मानवानाम्
इति दृष्ट्यैव सत्यान्वेषणं कृतम्।
उपसंहारः
… एवं सर्वत्रापि
तत्र तत्र यः सत्यांश उपलब्धः
स एवाधुना सत्य-सिद्ध्याख्य-ग्रन्थरूपेण
सर्वेषां हस्ते वर्तते ।
इयं सत्यसिद्धिः जिज्ञासूनां विदुषां नेत्रम् उन्मीलयेद्
इति सद्-भावनयैव लिखिता ।
अतः सर्वेऽपि जिज्ञासवः
एतद्-भावनयैव पठन्तु ।
परमात्मा ऽपि तद्-अनुगुण-विवेकं च प्रददातु
इति तं परमात्मानं जगदीश्वरं सत्यस्वरूपं सर्वान्तर्यामिणं प्रार्थयामः ।
इति शम् ।