०६ सत्यान्वेषणम्

[[1]]

“सत्यान्वेषणम् !”

[ एतद्ग्रन्थाध्ययनकुञ्चिका ]

सत्यं सत्यप्रियं सत्य-
कामादि-गुण-संयुतम् ।
सत्य-मार्ग-सहायं तं
शरणं यामि सर्वशः ॥

विद्यास्थानानि

भारतीयानाम् आर्षसंप्रदायानुमतं शिक्षणक्षेत्रं
विद्यास्थानपदेनाभिधीयत इति प्रसिद्धम् ।
तानि च

‘अङ्गानि वेदाश् चत्वारो
मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च
विद्या ह्येताश् चतुर्दश ॥'

इति व्यासमहर्षिणा परिगणितानि ।
तानीमानि न केवलं विद्यास्थानानि
अपि च धर्मस्यापि स्थानानीति

‘पुराण-तर्क-मीमांसा-
धर्मशास्त्राङ्ग-मिश्रिताः ।
वेदाः स्थानानि विद्यानां
धर्मस्य च चतुर्दश ॥’

इत्युद्घोषितं याज्ञवल्क्य-महर्षिणापि । एतद्-उपर्य् अपि

‘आयुर्वेदो धनुर्वेदो
गान्धर्वश्चेति ते त्रयः ।
अर्थशास्त्रं चतुर्थं च
विद्या ह्यष्टादश स्मृताः ॥ '

इत्यपि संवर्धितानि विद्यास्थानानि ॥

[[9]]

धर्मः

धर्मो नाम कः?
न केवलं बाह्य-क्रिया-रूपः
किन्त्व् अत्यन्तम् आन्तरः सूक्ष्मः परम-दुर्-ज्ञेयः सताम् अपीत्युच्यमानः
(रामायणे) -

‘यतोऽभ्युदय-निःश्रेयस-सिद्धिः स धर्मः’

इति लक्ष्यमाणः अत्यन्तगहनः अतिशयविशेषः ।
अभ्युदय-निःश्रेयसयोः साधनम्,
अभ्युदय-पूर्वक-निःश्रेयस-साधनं वा
धर्मः इत्य् अधिकारि-भेदेनार्थ-द्वयम् अपि विवक्षितम् ।

अयञ् च धर्मः नानाविधः
नानासोपानोऽपि

‘सर्वं कर्माखिलं पार्थ
ज्ञाने परिसमाप्यते '

इति ज्ञान-पर्यवसायीत्य् अभिहितम् ।
अत एव याज्ञवल्क्यः

‘अयं तु परमो धर्मो
यद् योगेनात्म-दर्शनम्’

इति त्रिकाल-सत्यम् आविश् चकार ।
बाह्याः क्रिया-रूपा हि धर्माः कालानुरोधेन परिवर्तन-शीला
इति सूचयति

‘सामयाचारिकान् धर्मान् व्याख्यास्यामः’

इति वदन् महर्षिवर्यः ॥

चत्वारि शास्त्राणि

एवं धर्ममार्गे निष्कण्टके विराजमानेऽपि,
बुद्धि-जीविनो मनुष्यस्य बुद्धि-वर्धन-प्रयत्नस्य सहजत्वात्
चतुर्दश-विद्यास्थानेषु व्याकरणम्, मीमांसा, न्यायविस्तर इति त्रीण्य्
अत्यादर-पात्राण्य् अभूवन् काल-क्रमेण ।
एषु मीमांसा पूर्वोत्तर-भेदेन भिन्ना ।
आहत्य न्याय-व्याकरण-मीमांसा-वेदान्त-पदैर्
अभिधीयमानान्य् एतानि ‘चतुश्-शास्त्रणि’ इति प्रथाम् आपुः ।
एतानि च क्रमात् गौतम-पाणिनि-जैमिनि-बादरायण-महर्ष्य्-उपज्ञानि ।
एषु न्याय-व्याकरण-मीमांसा-सूत्राणां भाष्याणि
वात्स्यायन-पतञ्जलि-शबरस्वामिभिर् विरचितान्य्
आर्षाण्य् अद्भुतानि सर्वविदितानि सर्वसंप्रतिपन्नानि च ।
एतादृशं संप्रतिपन्नम् आर्षं भाष्यं
बादरायणसूत्राणां कुतो नोपलभ्यत इत्य् आश्चर्यावहम् एव ॥

वेदान्त-शास्त्रम्

यद्य् अपि विंशत्य्-अध्यायात्मक-मीमांसा-शास्त्र-वृत्ति-कृता
बोधायन-महर्षिणा वेदान्त-सूत्राणाम् अपि विस्तृता वृत्तिर् विरचिता,
सा च संगृहीता उपवर्षेणेति
प्रामाणिकः प्राचीनोल्लेखो दृश्यते* ।

(*अस्य विस्तरः
श्रीमद्-अभिनव-रङ्गनाथ-ब्रह्म-तन्त्र-परकाल-यति-कृते
श्रीभाष्य-गूढार्थ-संग्रहे द्रष्टव्यः ॥ )

वृत्तिकार-मतस्योल्लेखस्तु
श्रीशङ्कर-भाष्येऽपि तत्र तत्र दृश्यते ।
पूर्वोत्तर-मीमांसा-वृत्तिकारम् उपवर्षं
श्रीशङ्कराचार्याः ‘भगवान् उपवर्षः’ इति सादरं निर्दिशन्ति ।

इदं द्वयम् अपि दौर्भाग्य-वशाद् अदर्शनं गतम् ।
एवं प्राचीन-व्याख्यानस्यानन्तरं मध्य-काले
भर्तृ-प्रपञ्च-नाम्ना विदुषा
वेदान्त-सूत्राणां स्वरूप-परिणाम-प्रतिपादकं
व्याख्यानं व्यरचि ।

फेन-बुद्बुद-तरङ्ग-रूपेण समुद्रवत्
स्वस्वरूपेणैव ब्रह्म जगद्-रूपेण परिणमते

इत्य् अयं वदति ।

एवं स्वरूप-परिणामे
ब्रह्मणो विकारित्वापत्त्या नाशप्रसङ्ग
इत्य्-आदिरीत्या बहुधा दूषितं
तदात्वे प्रबलैः बौद्धैः ।

अत एतद् अपि व्याख्यानं
कालक्रमेण गलितम् अभूत् ।
अयम् एव वेद-बाह्यानां दिङ्नागादीनां बौद्धानाम् अत्यन्तम् उन्नतः कालः ।
प्रायः एतेषां प्रभावाद् एव
एतस्मिन्न् एव काले
बोधायनोपवर्षयोर् वृत्तिर् अप्य्
अदर्शनं गतेति प्रतिभाति ।
एतेषां निरोधार्थम् एव
नैय्यायिकेन भारद्वाजोद्योतकरेण न्याय-वार्तिकम्,
महामीमांसकेन भट्ट-कुमारिलेन श्लोक-वार्तिकं च
उदयनाचार्येण कुसुमाञ्जलिः आत्म-तत्त्व-विवेकश् च व्यरचि ।
वेदान्तिना तु तत्-तादृश-प्रौढ-विदुषा केनापि
बौद्ध-दूषणानाम् उत्तर-दानाय न प्रयतितम्॥

यद्यपि मण्डन-मिश्रः किञ्चिद् इवैतद्-अर्थं प्रायततेति विज्ञायते ब्रह्म-सिद्धि-ग्रन्थतः ।
परं तु नायं ग्रन्थो वेदान्त-सूत्र-व्याख्यान-रूपः, किन्तु स्वतन्त्रः ।
किञ्चायम् अपि मिश्रः महामीमांसकः परम-वैदिकः
वैदिक-प्रक्रिययैव ध्यान-नियोग-वादं प्रत्यपादयत् ।
अत एव ब्रह्म-सिद्धि-ग्रन्थो ऽवैदिक-बौद्ध-निराकरणे न पर्याप्तो बभूव ॥

मतत्रयम्

अयम् एव समयः श्रीशङ्कराचार्याणाम् अवतारस्य ।
श्रीशङ्करावतारत्वेन परिगण्यमाना इमे
महातार्किका अप्य् आसन्न् इति
तदीय-ब्रह्म-सूत्र-भाष्यादिभिः स्पष्टं ज्ञायते ।
बौद्ध-पण्डित-दुस्-तर्क-प्रवाह-निरोधकेष्व् एते अग्रगण्या आसन् ।

(१. अन्तरङ्गे शुद्ध-वैदिकैर् अपि तैस् तत्कालानुगुणं “नाहं बौद्ध-विरोधी"त्य् अपि नटनीयम् अभूत् । )

एभिः परिणाम-विशेष-रूप-विवर्त-वादस्य प्रतिपादनेन
प्रतारिताः वेद-विरोधिनः बौद्ध-पण्डिताः पराजिताः
उत्तरदिशं पलायां बभूवुः ।
जैन-पण्डितास् तु पश्चिमदिशं पलायां बभूवुः ।

दशम-शतके उत्तर-दिश्य् अवतीर्णः महातार्किकः उदयनाचार्यः
बौद्धान् नाम-मात्रावशिष्टान् चकार ।
एकादश-शतके दक्षिण-दिश्य् अवतीर्णाः भगवद्-रामानुजाचार्याः
पश्चिमदिशि पलायितान् वेद-बाह्यान् जैनान् नाम-मात्रावशिष्टान् व्यदधुः ।

एवं वैदिक-मार्गो निष्कण्टकी-कृतः संपूर्णरूपेणैषाम् एव काल
इति एतेषां चरित्र-संशोधनया स्पष्टमव गम्यते ।
अतश् च श्रीशङ्कराचार्यैर् आरब्धं वैदिक-धर्म-संरक्षणं
भगवद्-रामानुजैः सम्यक् परिष्कृत्य परिपूरितम्॥

भगवद्-रामानुज-पराजितेषु पश्चिम-दिशं गतेषु जैन-पण्डितेषु
कतिपये पश्चिम-पर्वत-श्रेणीतो ऽधस्तात्
गहनं वेणु-वनम् (मूडुबिदरे) आश्रित्य
परशु-राम-क्षेत्रे स्व-मत-प्रचारायारेभिरे ।
तदानीम् एव तत्रावतीर्णाः श्रीमद्-आनन्द-तीर्थाः
कृष्णभक्ति-प्रचारेण तान् न्यरुन्धन् ।
अत एव जैना अन्ते गहन-वेणुवन-मात्र-सीमिता अभूवन् ।

वेदान्त-शास्त्रस्य विंशत्य्-अधिक-व्याख्यानानां दर्शनेऽपि
एभिर् एव त्रिभिर् आचार्यैः देश-कालाधिकारानुगुणं
ब्रह्म-सूत्र-भाष्य-रचनादिना
विश्वजनीनो वैदिको मार्गः यतो निष्कण्टकी-कृतः,
यतश् चैतद्-अनुयायिन एवात्य् अधिकाः,
अत एवैषाम् आचार्याणां नामानि शाश्वतानि बभूवुर् वैदिक-धर्म-चरित्रे ।
तथा एतेषां सिद्धान्ता एव ‘मतत्रय’-नाम्ना प्रसिद्धिम् आपुः ।
इतरत् सर्वं कथञ्चिद् एष्व् एवान्तर्भवतीति मन्तव्यम् ॥

मतत्रयस्वरूपम्

एवं वैदिकमार्गरक्षणमेव परमोद्देशः
एषां त्रयाणाम् अप्य् आचार्याणाम् इति हेतोः
मत-त्रयम् इति सौहार्द-दर्शनेऽपि
अद्यतन-पण्डित-बुद्ध्या इदम् अहि-नकुलायितम् एव दृश्यते
लक्ष्य-विस्मरणेन ।

[[iii]]

तथा हि-

निर्विशेषाद्वैतदर्शनं पण्डितैर् अद्य वर्ण्यमानम् -

भेदस्य लोकत एव सिद्धत्वेन -
तत्र श्रुतेर् अनुवादकत्वात् -
न स्वार्थे तात्पर्यं श्रुतेः ।
अद्वैतं तु शास्त्रेणैव प्रतिपत्तव्यम् इति,
तद् एव परमार्थः,
भेदस्तु मिथ्यैवेति ।

द्वैतिन आनन्दतीर्थीयाः तदेतत् नानुमन्यन्ते ।

लोकतः प्रतिपन्नो भेदः अज्ञान-कालिकः ।
पारमार्थिक-कालिकस् तु भेदः शास्त्रैक-समधिगम्यः ।
अतस् तत्रैव तात्पर्यं श्रुतीनाम् ।
अत एवाभेद औपचारिकः -
अभेदपदस्य समस्त-पदत्वात् ।

निर्विशेषाद्वैतिनः -

तर्हि स्पष्टम् अद्वैतं वदन्तीनां
‘ब्रह्म वेद ब्रह्मैव भवति’
‘नामरूपे विहाय’ ‘नाम-रूपाद् विमुक्तः’
‘शिवम् अद्वैतम्’ ‘अहं ब्रह्मास्मि’
इत्यादिश्रुतीनां का गतिः ?

द्वैतिनः -

+++(‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यत्र)+++
‘व वा यथा तथैवैवं साम्ये’
‘एवौपम्ये’ इत्यादि-कोशात् एव-शब्दस् साम्यार्थकः ।
’ विष्णुरेव भूत्वा’ इत्यादौ तथार्थः प्रसिद्धश् च ।

‘नामरूपे विहाय’ इत्यत्र ‘अविहाय’ इत्येव पदच्छेदः ।

‘नामरूपाद् विमुक्तः’ इत्यत्रापि,
विप्रिय इत्यादाव् इव अमुक्त इत्य् एवार्थो विमुक्तपदस्य ।
‘अद्वैतम्’ इत्यत्र द्वैतं नाम संशयः,
संशयो नास्तीत्येवार्थः ।

हं नाम हेयो दोषः । तद्रहितं ब्रह्म ।
एवं सुष्टु मितत्वात् स्मि जीवः ।
तद्-भिन्न इत्यर्थः ।
तथा च हेय-रहितं जीव-भिन्नं च ब्रह्मेत्येव ‘अहं ब्रह्मास्मि’ इत्यस्यार्थः ।
+++(भाष्यदीपिकायाम्)+++

अतश् चाभेदः श्रुत्या कुत्रापि नोच्यते,
प्रत्युत ‘परमं साम्यम् उपैति’
इत्येवोच्यते ॥

एवम् अद्वैतमतस्य साक्षात् प्रतिकोटिभूतं द्वैतमतम् एवेति कर-बदर-समानम् ।
अपि च आनन्द-तीर्थीया एव यावद्-
द्रव्य-भाविनां गुणानां, गुणिनश् च जैनवत् भेदाभेदौ अङ्गीकुर्वन्ति,
न तु रामानुजीयाः ।
एवं सत्य् अपि अन्यद् वक्तुम् अशक्ताः
रामानुज-मतम् एव ‘क्षपणक-पक्ष-निक्षिप्तम्’ इत्युक्त्वा
रामानुजमतं द्वैतमताद् अपि निकृष्टं प्रकटयन्तः
सायण-माधवाचार्याः कियन् निष्पक्षपातिनः ?
इति निर्मत्सराः पश्यन्तु !

सविशेषा(विशिष्टा)द्वैतिनस्तु -
एवं व्याख्यान-भेदस्यावकाशे सति,
व्याख्यानोपव्याख्यानैर् विवादो न शमयितुं शक्यः,
किन्त्व् अध्यात्म-विज्ञानेनैव शमयितव्य
इति मन्वाना भगवद्-रामानुजाचार्याः
अध्यात्मविज्ञानगर्भं सविशेषाद्वैतवादम् आतस्थिरे ।
अनेन हि बौद्धादिवादास् सर्वेऽपि सूत्तराः ।

वेदो हि न केवलं शब्दरूपः ।
सृष्टिसंबन्धि-ज्ञान-विज्ञानमयः किल सर्वोऽपि वेदः ।
स च जगद्-ब्रह्मणोः
उपादानोपादेयभावं शरीर-शरीरिभावं च
बहुधा प्रदर्शयति ।
अध्यात्मविज्ञान-रहस्यम् अत्रैवान्तर् निहितम् ।
एतत्-प्रतिपादक-श्रुतय एव
समन्वय-गर्भत्वात् ‘घटकश्रुतयः’ इत्युच्यन्ते ।
एतत्-सूचितं तत्त्वम् एव सविशेषाद्वैतम् इत्य् उच्यते ।
एतद्-विज्ञानस्य परिचये
व्याख्यानभेदस्य न स्यादवकाशः ।
शब्दः किलार्थानुगः ।
अर्थस्वरूपे निर्णीते कथं व्याख्यान-भेदः स्यात् ? ॥

‘क्रिया हि विकल्प्येत,
न तु वस्तु’
इति प्रसिद्धो न्यायः
सापवाद एवेति कति वा जानीयुः !
अयं हि न्यायः उपादानोपादेय-भाव-रहित-सिद्ध-वस्तु-स्वरूप-मात्रान्वयी,
नोपादानोपादेय-भाव-स्थलीय-साध्यावस्थ-वस्तु-स्वरूपान्वयी ।
एकेन हि मृत्पिण्डेन किं घटो भवेत् ? उत शरावः ? उत मणिकः ? उत देवताप्रतिमा? इति प्रश्ने,
समीचीनमुत्तरं किं भवेत् ?
परस्परविरुद्धम् अपीदं सर्वम् अपि भवितुम् अस्त्य् अवकाशः कर्तुर् इच्छानुगुणम् इत्य् एव ह्य् उत्तरं समीचीनं भवेत् ।
अत उपादानोपादेय-भाव-स्थले नोक्तो न्यायोऽन्वेति ।

[[iv]]

जगद्-ब्रह्मणोस् त्व् अस्त्य् उपादानोपादेयभावः वेद-विज्ञान-सिद्धः ।
अतिस्थूले मृद्-घटादौ परिणामस्य स्पष्टं दर्शनेऽपि
विवदमानानाम् अत्यन्त-सूक्ष्मे ब्रह्मणि विवादस् सहज एव ।
परं तु विज्ञानान्वेषणेन समाधानं सुलभमेव ॥

एवम् एव शरीर-वाचिनश् शब्दाः
‘अयं मनुष्यः’ ‘अयं पशुः’ इत्यादयः
शरीरिणम् एवाभिदधतीति भेदे सत्य् अप्य्
अभेदानुभवाभेद-व्यपदेशौ दृश्येते ।
परन्तु शरीर-शरीरिणोर् अत्यन्तं भेदे सति
स व्यपदेशः औपचारिक एव स्याद् इति
शब्द-मात्र-परायणाः पण्डिता मन्येरन् ।
किन्तु शरीर-शरीरि-भावस् त्व् अत्यन्तं गहनः ।
‘यथा वृक्षो वनस्पतिस् तथैव पुरुषो ऽमृषा’ (बृ.5-9-28) इत्यादिश्रुतीनां तात्पर्यं
गाढं चिन्तनीयं - शब्दं विस्मृत्य ।
तदानीम् एव शरीर-शरीरि-भाव-विज्ञान-रहस्यम् अपि
सम्यग् अवगन्तुं शक्यम् ।
तदैव च ‘शरीर-शरीरि-भाव-समर्थनेनाभेद-वाक्यानि समर्थितानि’ इत्यनुक्त्वा
‘अभेदस् समर्थितः’ इति भगवद्-रामानुजैः कथम् उक्तम्
इत्य्-अस्यापि तत्त्वं ज्ञायेत ॥

अत एव शास्त्र-योनित्व-सूत्रस्याद्य प्रसिद्धं
{ब्रह्मणो वेदाख्य-शास्त्रैक-गम्यत्व}-व्याख्यानं
श्रद्धालूनां कृत एव ।
वस्तुतस् तु प्राचीनं
शास्त्रस्य योनिः = शास्त्रयोनिः इत्य्-आदि-व्याख्यानम् एव सूत्रकार-संमतम्
इत्यादिकं विस्तरेण प्रदर्शितम् अस्मिन् ग्रन्थे (पु. 412-414 ) ।

शास्त्रं नाम सृष्टि-विज्ञानम् ।+++(4)+++
तद् एव ब्रह्म-सद्-भावे प्रमाणम् इति प्राचीन-व्याख्यैवाद्यतन-परिस्थितौ साधीयसी ।

‘विज्ञानेनात्मानं वेदयते’
‘वेदान्त-विज्ञान-सुनिश्चितार्थाः’

इत्य्-आदि-श्रुतिर् अप्य् एतद्-अर्थ-परैव ।
परं त्वन्ततो ऽध्यात्म-विज्ञानस्यात्म-मात्र-साक्षिकत्वात्
परेभ्यस् तत्-प्रदर्शयितुं न शंक्यत इति दृष्ट्या
तत्-सूत्रस्य द्वितीयं व्याख्यानम् आरचितम् ॥

श्रीमद्-आनन्दतीर्थास् तु -

एतादृश-विवर्त-परिणाम-वादक्लेशः किम्-अर्थः ?
इतोऽपि गहनः शरीर-शरीरिभावो वा
सामान्य-जनैः ज्ञातुम् अशक्य एव,
यत्र पण्डिता अपि मुह्यन्ति ।
तार्किकवत् ब्रह्मणः निमित्त-कारणत्वाङ्गीकार-मात्रेणैव
भक्ति-भाव-पोषणं सुकरम् ।
भक्त्या तु वृद्धिं भजन्त्या
सर्वं ज्ञातुं शक्येत एव स्वयम् ।
सामान्य-जनानाम् एतावद् एव पर्याप्तम् इत्य् अमन्यन्त ॥

श्रवणमनने

एवं शब्दजाले संवर्धमाने जिज्ञासु-लोकः किं कुर्यात् ?
एतद्-अर्थम् एवावतीर्णा महाविभूति-पुरुषाः सकल-दर्शन-पारावार-पारीणाः महा-तपस्विनः
सदा संकेत-दूराः गुणैक-पक्षपातिनः
श्रीमद्-अभिनव-रङ्ग-नाथ-ब्रह्म-तन्त्र-परकाल-महादेशिकाः
तदा तदा सत्यम् एवं प्राकटयन् बहुजन-मध्य एव, न रहसि -

‘भगवद्-रामानुज एवावतारपुरुषः,
नेतर इति नाहम् अङ्गी करोमि ।
व्याख्यातॄणां यथा-तथात्वेऽपि
मूलपुरुषास् सर्वेऽपि महात्मान एव ।
परं तु व्यवहारस्य पुरोवर्ति-चेतनोद्देश्यकत्वात्
काल-देश-पुरुषानुगुणं भिद्येरन्न् एव शब्दाः ।
एतावद् विन्यास-विशेषम् अजानद्भिः शब्द-मात्र-परायणैः
पूर्व-ग्रह-ग्राहाद् आत्मानं रक्षितुम् अशक्तैः
मोचितुम् तत्-तद्-व्याख्याकारैर् एव सर्वं पूर्व-पश्चिमी-कृतम् ।
सारतस् तु श्रीशङ्कराचार्यैर् उपक्रान्तम्, भगवद्-रामानुजैः पूरितम् । तावद् एव '

इति ॥

एवं श्रुतस्यार्थस्य दृढी-करणाय संकेतादिकं दूरतस् संत्यज्य
बहुधा यत्ने अन्तर्-आत्म-साक्षिकं क्रियमाणे सति,
अव्याज-करुणा-सिन्धोः ज्ञान-विज्ञान-संपन्-निधेः सहज-सर्वज्ञस्य भगवतः श्रीश्रीरङ्ग-विष्णोः
निरवग्रहो ऽनुग्रहः पङ्गोर् उपरि गङ्गेव यदा प्रावहत,
तदा सूर्यातपे नीहारा इवाच्छिद्यन्त सर्व-संशयाः स्वयम् एव क्रमेण ।
समय-विशेषे च स भगवान् स्पष्टम् एवान्वग्रहीत्

‘श्रीशङ्कराचार्याणां काले
श्रीरामानुजाचार्या यद्य् अवतीर्णाः स्युः,
तदैतेऽपि श्रीशङ्कराचार्य-क्रमम् एव नूनम् अनुसरेयुः ।
तथैव श्रीशङ्कराचार्या यदि श्रीरामानुजाचार्याणां कालेऽवतीर्णाः स्युः,
तदा तेऽपि श्रीमद्-रामानुजाचार्य-मार्गम् एव नूनम् अनुसरेयुः,
न संशयः ।
उभयोर् हृदयम् एकम् एव।
शब्द-विन्यासस् तु तत्-तत्-कालानुगुणो ऽनिवार्यः’

इति ॥

किम् अधिकोक्त्या !
श्रुतीनाम् अतिगहनत्वाद्+धि
तद्-अर्थ-निर्णयोपयोगि-न्याय-प्रदर्शनाय
ब्रह्म-सूत्र-रचनम् इति सर्व-संमतम् ।
भगवद्-रमानुज-मत एव ब्रह्म-सूत्राणाम् अत्यन्तानुकूल्यम् इति सर्वेऽपि जानन्ति ।
अथाप्य् अत्यन्त-प्रतीप-मार्ग-गमने
“हैतुकानां विश्वासो न स्याद्” इति
श्रुति-सूत्रयोर् विरोधम् अङ्गीकृत्यैव
श्री-शङ्कराचार्याणां व्याख्यान-रचनादिकं
तत्-काले हैतुकानां बौद्ध-पण्डितानाम् उपच्छन्दनार्थम् एव ।
अध्यास-भाष्ये एकस्या अपि श्रुतेर् अनुदाहरणेनेदं स्पष्टम् ।
एवं हैतुकान् वैदिकान् कर्तुम् एव प्रायतन्त चेत् श्रीशङ्कराचार्याः,
तद्-अनुयायिनस् तु वेदान्त-शास्त्रं तर्कमयं कृत्वा
वैदिकान् पुनर् अपि हैतुकान् कर्तुं प्रायतन्तेति हन्त ! मायाया महिमा ।
आचार्याणां +++(तत्र तत्र)+++ ब्रह्म-सूत्र-विरोध-वादो बौद्ध-पण्डितानां सान्त्वनायैव -
यतस् +++(वेदान्ते)+++ तर्कस्यावधिर् ब्रह्मसूत्राण्य् एव ।
एतद्-अवध्य्-उल्लङ्घने ऽनिवार्यश् शून्य-वादः ।
अतो बौद्ध-वैदिक-संस्कृत्योर् अयम् एव सीमा ।

सर्वज्ञाः समर्था अपि गुरवः
तत्-तत्-कालानुगुणम् एव
पुरोऽवस्थितान् प्रति तत्-तत्-कक्ष्यानुगुणं यत्-किञ्चिद् ब्रूयुः ।
‘न बुद्धिभेदं जनयेत्’ इति खलु न्यायः ।
इदं रहस्यं मर्मज्ञा एव जानीयुः ।
यथा - श्रीमद्रामानुजैर् अपि जगतः सत्यत्वं नास्तीति
कण्ठत एवाभिहितम् इति कति वा श्रीरामानुजीया अपि जानन्ति ?
+++(अयं विषयः सत्यासिद्धौ?? द्रष्टव्या।)+++
एवम् एव अद्वैत-पण्डिता यथाद्य जानन्ति,
न तथा जगतो मिथ्यात्वं श्रीशङ्कराचार्यैर् अप्य् उक्तम् इति कति वा जानन्ति ?
सत्यत्वं हि तर-तम-भावापन्नम् इति
‘सत्यस्य सत्यम्’
‘सत्यञ् चानृतं च सत्यम् अभवत्’
इत्य्-आदि-श्रुति-सिद्धम् ।
अतस् सम्यग् उक्तं
‘गुरोश् शापस्तु शिष्यस् स्यात्’ इति ।
इदं सर्वकालेऽपि सर्वेषाम् अप्याचार्याणां समानम् ॥

सत्यसिद्धौ (द्रष्टुं नोद्यम्)

we need permission from his family to publish this. this is not complete. Alwar may work on editing and updating this work. Without permission, as is , the family is opposed to share this.

इति काश्यप-कृष्णः।

आचार्याणां हृदयम्

आदौ किल बौद्धाः न वेद-विरोधिन आसन् ।
क्रमश एवैते तर्क-शरणाः हैतुका भूत्वा वेद-दूराः, वेद-विरोधिनश् चाभूवन् ।
एतेषाम् अग्रगण्यो दिङ्-नागः ।
धर्म-कीर्त्य्-आदय एतद्-अनुसारिणो ऽत्यन्त-प्रौढ-तार्किका आसन् ।
एषां प्रभावात् क्रैस्त-द्वित्र-शतकात् सप्ताष्टम-शतक-पर्यन्ते हि काले
बौद्ध-जैन-धर्मः सुप्रतिष्ठित आसीत् भारते ।
भर्तृ-प्रपञ्चादिभिः +++(शाङ्कर-पूर्विकैः)+++ एतन्-निरोधाय प्रयतने ऽपि
न पूर्ण-फले-ग्रहिर्+++(5)+++ अभूद् एषां प्रयत्नः ॥

अस्मिन्न् एव समये वेद-संरक्षण-धुरन्-धरेण भगवता
‘आल्वार्’ इति प्रसिद्धानां वैष्णव-सूरीणाम्,
‘नायन्मार्’ इति प्रसिद्धानां शिव-भक्तानाञ् चावतारणेन
साधारण-जनेषु भगवद्-भक्तिः बहुधा प्ररूढिता व्यधायि ।
दिव्यानि क्षेत्राणि शतशः प्रादुर् अभूवन् ।
बौद्धैः जैनैश् च देश-भाषयैव स्व-धर्म-प्रचार-करणात्,
एभिर् अपि देश-भाषयैव भक्ति-गाथा गीताः,
अथवा भगवता गापिताः ।
अथापि बौद्ध-जैन-पण्डितास् तु अत्यन्त-प्रबला एवासन् ।
प्रबल-बौद्ध-जैन-पण्डितानां ग्राह-ग्रहात्
देशो (राजा) न संपूर्णतया मुक्तो बभूव ।
एतादृश-परिस्थितौ श्रीशङ्कराचार्यैः वैदिक-महा-तार्किकैः
परिणाम-पद-स्थाने विवर्त-पदं प्रयुज्य
ब्रह्मवादस्य [[vi]] प्रतिपादनेन
प्रतारिता बौद्ध-पण्डिता दिग्-भ्रान्ता बभूवुः ।
भगवद्-रामानुजस्य श्री-भाष्ये समन्वयाधिकरणे
प्रतिपादितानां निष्प्रपञ्ची-करण-नियोग-वाद–ध्यान-नियोग-वाद– वाक्यार्थ-ज्ञान-वादानां
सूक्ष्म-परिशीलने ऽयम् अंशः सुज्ञेयः सूक्ष्म-मतीनाम् ।
अतः परिणाम-वाद एव
‘न विलक्षणत्वाधिकरण’ न्यायेन
विवर्तवादः आचार्य-संमतः ।
ब्रह्म-सूत्रेषु ‘आत्म-कृतेः’ ‘परिणामात्’ इत्य्-आदिभिः
श्रौतः परिणाम-वाद एव बादरायण-संमत इत्य्-अवश्यम् अभ्युपगन्तव्यम् ।
परिणाम-विवर्त-वाद-तत्त्वं च ग्रन्थेऽस्मिन् (पु. 458-464) विस्तरेण प्रत्यपादि ।
सारतः कथने तु –
ज्ञानिनां दृष्ट्या परिणामः,
अज्ञानिनां दृष्ट्या तु विवर्त
इत्य् एव परमं तत्त्वम् ।
यथा तथा वा श्रौत-ब्रह्मोपादान-वाद एव श्रीशङ्कर-रामानुजयोस् संमतः ॥

[[1]]

एवं श्रीशङ्कराचार्यैः बौद्ध-पण्डित-तर्क-मर्दनेन, सरलाद्भुत-नाना-विध-स्तोत्र-वाङ्मयेन च
वैदिको भक्ति-मार्गः पर्यपोषि ।
एवं बौद्ध-पण्डितानां दमनेऽपि,
वैदिकपण्डितानां मनसि पूर्व-वासनावशात् पाण्डित्याभिमानाच् च
‘भक्तिमार्गः पामराणां कृते, न पण्डितानां कृते’
इति गर्व आसीत् ।
किं बहुना ! अद्यापि केचन पञ्चायतन-पूजादि-निरता अप्य् आत्मनो ज्ञान-मार्गिणो मन्यन्त एवेति न तिरो-हितम् !
भक्ति-मार्गो ऽवैदिक एवेति च तेषु तर्क-शरणा बहवो मन्यन्ते ॥

एवं श्रीशङ्कराचार्यैः महता परिश्रमेण बौद्ध-पण्डित-मुख-पिधानेऽपि
विवर्त-पद-तत्त्वम् अजानन्तस् समनन्तर-कालिकास् तद्-अनुयायिनः
दुर्-अतिक्रमायाः पूर्व-वासना-मायायाः प्रभावात्
वैदिक-मार्गाघातायैवेव, केवलं बौद्ध-मार्गम् एव रूपान्तरेणs प्रोज्जीवयितुं प्रायतन्त ।
एतेषां प्रयत्नेन श्री-शङ्कराचार्याणां प्रयत्नो
विफल इव बभूव ।
श्री-शङ्कराचार्य-समनन्तर-कालिकेन भास्कराचार्येण विरचितस्य ब्रह्म-सूत्र-भाष्यस्याध्ययनेन
यादव-प्रकाश-मत-परिशीलनेन चायम् अंशः स्पष्टो भवेत् ॥

एतादृश एव काले ऽवतीर्णैः भगवद्-रामानुजाचार्यैः
पर्याय-बौद्ध-मार्गं निरुध्य
पुनः वैदिक-सनातन भक्तिमार्गः प्रतिष्ठापितो बभूव,
यो हि ‘न ऋते श्रान्तस्य सख्याय देवाः’
इति ऋक्-संहितायाम् उद्घोषितः ।+++(5)+++
(अनन्य-गतेर्) अयम् एव मार्गः
संप्रति भारते आसेतुहिमाचलं
पण्डितानां पामराणां च सर्वेषां तत्-तत्-कक्ष्यानुगुणं
हृदये रूढः आचरणे च विलसतीति
न तिरोहितं चक्षुष्मतां स-हृदय-सरल-प्रामाणिक-जनानाम् (आचार्यवाक्यानाञ्च)॥

श्रीमान् वेङ्कटनाथार्यः

एवं वैदिकमार्गे निष्कण्टकी-कृतेऽपि
भगवद्-रामानुज-समनन्तरम् एवागतेन बौद्ध-तन्त्र-चिन्ता-मणि-मन्त्र-सिद्धेन श्रीहर्षेण
पूर्व-वासना-वासितान्तःकरणेन
‘मम वा माध्यमिकस्य वा वादेषु विजयः, नान्यस्य’ इत्य् उद्घोषयता,
वेदानां बौद्धागमानां च साम्यं मन्वानेन
वैतण्डिकाग्रे-सरेण
पुनर् अपि नानाप्रकारेण वैदिक-मार्गः खण्डितः कु-तर्क-शत-सहस्रैः ।
एतन्-निरसनार्थम् एवावतीर्णैः श्रीमद्-वेङ्कटनाथार्यैः
वेद-मूर्तिना श्री-हय-ग्रीव-देवेन स्वयं-वृतैः
कर्कश-तर्कमय-शतदूषण्या शतशश् शातितो ऽयं खण्डन-कारः
निरस्तश् च शून्य-वादापर-पर्यायो ब्रह्म-सर्व-स्वापहारको निर्विशेषवादः ।
परिपोषितश् च सर्वार्थ-गर्भाभ्यां तत्त्व-मुक्ता-कलाप–सर्वार्थ-सिद्धिभ्यां वैदिकस् सविशेषवादः ।
अत एवैनं खण्डनकारं
वेद-भाष्य-कर्तारः श्री-सायण-माधवाचार्या अपि
श्रीशङ्कराचार्य-पराजितम् एव वर्णयाम् आसुः ॥

[[vii]]

एवं श्रीमद्-वेङ्कट-नाथार्यैः निष्कण्टकीकृतेऽपि वैदिकमार्गे,
खण्डन-कारं श्री-शङ्कराचार्य-पराजितं वर्णयद्भिर् अपि
वेदोद्धारायैवागतं-मन्यमानैः सायण-माधवाचार्यैः
न शुद्ध-वैदिकमार्गः प्रदर्शितो लोकस्य ।
प्रत्युत, भगवद्-रामानुजाशय-रहस्यम् अजानन्त एव,
श्रीरामानुजमतम् आस्तिक-दर्शनेषु निकृष्ट-तमम् इति प्रकटनायैव
सर्व-दर्शन-संग्रह-नामक-ग्रन्थं विरचय्य,
‘रामानुज-मतं क्षपणक-पक्ष-निक्षिप्तम्’ इति कथन-मात्रेण तृप्तिं प्रकटयन्तस्
ते स्मारयन्ति
‘स्व-रस-वाही विदुषोऽपि तथाऽऽरूढोऽभिनिवेशः’ इति योग-सूत्रम्,
‘अभिनिवेश-वशीकृत-चेतसां बहुविदाम् अपि संभवति भ्रमः’ इति भगवद्-यामुनाचार्य-वचनं चेत्य् अहो मायाया महिमा !
यतो विषय-दृष्ट्या नास्त्य् अन्तरङ्गाशय-भेदो भगवद्-रामानुज-शङ्कराचार्ययोः ।
स्थूल-दृष्ट्या प्रतीयमानो भेदः
कालानुगुण-शब्द-विन्यास-भेद-मात्र-कृत इत्य् एव परमं सत्यम् ॥

एवं श्रीमत्-परकाल-यति-वर-मुखाच् छ्रुतस्यार्थस्य
भगवता श्री श्रीरङ्ग-विष्णुनापि पोषणेन
विषये हृदये निरूढेऽपि
केवल-हैतुक-पण्डित-जन-प्रश्नोपप्रश्नानाम् उत्तर-दानाय
मत-त्रय-रहस्यं सर्वं कूलङ्कषम् अधीतं बहु-वत्सरान् ।
अस्यैव फल-भूतोऽयं प्रकृतो व्याख्यान-ग्रन्थः ॥

समस्याः

एवं विवादानां कारणस्य गाढान्वेषण-रूप-तपश्-चरण-प्रवृत्तस्य
प्रथमम् इदं भगवद्-वचनं स्मृति-पथमारूढम्,

‘मनुष्याणां सहस्रेषु
कश्चिद् यतति सिद्धये ।
यततामपि सिद्धानां
कश्चिन्मां वेत्ति तत्त्वतः ॥ '

इति । इदं च वाक्य-द्वयात्मकम् इतराभ्यां व्याख्यातम् ।
भगवद्-रामानुजैस् तु

‘मनुष्याणां सहस्रेषु कश्चिदेव यतते ।
यततामपि केचन सामान्यतस् सिद्धा भवन्ति ।
तेष्वपि यः कश्चिदेव तत्त्वतः पूर्ण-सिद्धो भूत्वा सर्वं वेत्ति’

इति वाक्य-त्रयात्मकं व्याख्यातम् ।
ज्ञानिनोऽपि बहुविधा एवेत्यर्थः ।
यतो हि अध्यात्म-क्षेत्रम् अति गहनम्,
बहुसोपान-क्रमवच् च,
अत एव ज्ञानिनां वचनान्य् अपि बहुविधानि भवितुम् अस्त्य् अवकाशः ।
अतश् चाचार्याः किं परस्पर-घर्षणार्थम् एवावतीर्णाः ?
इत्यपि संशयो भवेद् एव ।
इयं प्रथमा समस्या जिज्ञासूनाम् ॥

एतदनन्तरं भगवद्-रामानुजस्य वेदार्थ-संग्रह-वचनम्

‘एवं सत्य् अ-भेदो वा, भेदो वा, द्व्य्-आत्मकता वा,
वेदान्त-वेद्यः को ऽयम् अर्थस् समर्थितो भवति ?
सर्वस्यापि वेद-वेद्यत्वात् सर्वं समर्थितम्’

इत्यादि विलक्षणं वचनम् । न तावन्-मात्रम् ।

“सर्व-शरीरतया सर्व-प्रकारं ब्रह्मैवावस्थितम्”
इत्य् अभेदः समर्थितः’

इत्यप्य् अनन्तर-वाक्यम् ।

अत्रोभयत्रापि ‘अर्थ’-पदम् एव वर्तते, न तु ‘वाक्य’ पदम् इति गाढम् अवधेयम् ।
अतः शरीर-शरीरि-भावे कीदृशं महद्-रहस्यम् अस्तीति द्वितीया समस्या ॥

तृतीया च समस्या - श्रीमद्भागवते

‘इति नाना-प्रसंख्यानं
तत्त्वानाम् ऋषिभिः कृतम् ।
सर्वं न्याय्यं युक्तिमत्त्वात्
विदुषां किम् अशोभनम् ॥’

इति सूचिता सर्वशास्त्रणां मर्यादा कीदृशी? या च

‘विद्यास्थानं तु सर्वं प्रतिनियत-निजोपक्रियांशे प्रमाणम्’

इत्य् आचार्यैर् अपि दृढी-कृता ॥

परिहारः

आदाव् इदम् अत्रावधेयम् ।

‘यस्यामतं तस्य मतं
मतं यस्य न वेद सः ।
अविज्ञातं विजानतां
विज्ञातम् अविजानताम् ॥’

इति वर्ण्यमानम् अत्यन्त-गहनम् आत्म-तत्त्वं हि
सर्व-विध-वादानाम् अप्य् अवकाशं ददाति ।
अत एव जगद्-ब्रह्मणोर् विषये भेद-अभेद-भेदाभेद-वादानां प्रवृत्तिः ।
एवम् उपादानत्वेन साकं शरीर-शरीरि-भावस्यापि [[viii]]
अभेदो वा, भेदाभेदौ वा - सत्त्वात् वादा वर्धेरन्न् एव बहुधा ।
अत एव च भगवद्-रामानुजैः

‘भेदो वा, को ऽयम् अर्थस् समर्थितः?’

इति स्वयं प्रश्नम् उपक्षिप्यापि,
विषयस्य गहनत्वात् निर्दिष्टम् उत्तरं नोक्तम् ॥

आहत्य पूर्णाध्यात्म-विज्ञानेनैवासां समस्यानां परिहारस् साध्यः ।
एवं वस्तु-तत्त्वं वदत्य् एवम्
अयि शब्द-मात्र-पराणाम्, अत एवार्थाद् बहु-दूराणां कलह-प्रियाणां केषाञ्चित् पण्डितानां

’ तर्हि कोऽपि निर्णयो नास्त्येव वा?”

इत्यादयः तुमुलाश् शब्दा नाना-विधाः कर्णयोः पतन्ति नाना-दिग्भ्यः ।
एतेषां सर्वेषाम् अपि ‘शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् संकरः’ इति पातञ्जल-सूत्रम् एवोत्तरत्वेनोपायनीक्रियते ।
अथ वा

‘शाब्दस्य हि ब्रह्मण एष पन्था
यन् नामभिर् ध्यायति धीर् अपार्थैः ।
परिभ्रमंस् तत्र न विन्दतेऽर्थान्
मायामये वासनया शयानः ॥’

इति श्रीशुक-वचनम् एवोपायनार्हम् एषाम्,
यतः शब्द-मात्र-परायणानाम् अर्थ-प्रत्यय-विषये दृष्टिर् एव माययाऽपहृता भवति ।
अथवा ‘गुरोश् शापस्तु शिष्यः स्यात्’ इति न्याय एवोपदेष्टव्य एतादृशेभ्यः ।
तिष्ठन्तु ते तथैव कलह-प्रियाः !
आत्महितेच्छून् आर्यान् सादरम् आह्वयामः
पूर्ववासनादिकं दूरतस् संत्यज्यास्य ग्रन्थस्य सावधानाध्ययनाय सर्व-साक्षि-साक्षिणं साक्षी-कृत्य ॥

एवम् अतिगहन-विचारेषु सत्यान्वेषणे प्रवृत्तस्य
वेदान्त-शास्त्र-पद-वाच्य-ब्रह्म-सूत्राणाम् एवोपरि किल
लेखनी व्यापारयितव्येति प्रश्नः स्यात् ।
परन्तु ब्रह्म-सूत्रेषु अभिप्राय-भेदस्य कारण-भूतो भागः वस्तुतः अल्प एव -
शब्द-मात्र-परायणा यद्य् अपि सर्वत्र विचारं वर्धयेरन् ।
परन्तु मूलतः जीवः, जगत्, ब्रह्म इत्येतत् तत्त्व-त्रय-स्वरूपे,
एषां परस्परं संबन्धे चात्यन्ताभिप्राय-भेदास् सहजा एव ।
तादृशो भागो ऽल्प एव ।

‘भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् ’
( श्वे. 1 12 )

इति तत्त्वत्रयं विविच्य प्रदर्शयति श्रुतिः ।
प्रामाणिक-विज्ञानान्वेषणेनैषां स्वरूपे निश्चिते सति
विवादाः स्वयं विलीयेरन् ॥

सुसूक्ष्मम् आलोडने श्वेताश्वतरोपनिषत्
बहूनां समस्यानां परिहाराय समर्थेति ज्ञातुं शक्यते ।
प्रसिद्धासु दशोपनिषत्सु असमाहितानां प्रश्नानाम्
अत्रोत्तरं लभ्यत इति
सावधान-तद्-अध्ययनेन ज्ञातुं शक्यते ।
अत एव एतत् सिद्धान्ते तद्-उक्त-क्रमेण
तत्त्व-त्रय-ज्ञानम् एव मुक्ति-हेतुर् इति

‘शिष्टा जीवेश-तत्त्व-प्रमिति-युत-परोपासना मुक्ति-हेतुः’
( जड. 4)

इत्य् आचार्यैर् उक्तम् ।
अत एवायं तत्त्व-मुक्ता-कलापः
एतद्-अर्थम् एवाचार्यैर् व्यरचीत्य् अतः
एतद्-ग्रन्थ-व्याख्यान-व्याजेन तेषां कूलंकषो विचारः
अत्र कर्तुं शक्यो विस्तरेणेति मत्त्वा
ऽत्रैव महान् परिश्रमो ऽकारि सुविस्तरम् ।

एतद्-उपर्य् अपि यद्य् आवश्यकता स्यात्,
इतोऽपि विस्तरेणायं तत्त्व-त्रय-वादो विचारम् अर्हत्य् एव ।
सर्वत्रापि दैवम् एव प्रमाणम् अन्ततः ॥

निगमनम्

अद्यत्वे विशिष्टाद्वैतमतम् इति यत् पण्डिताः प्रायो जानन्ति,
पुनः पुनः कतिपय-शब्द-मात्रम् आवर्तयन्ति च,
न तन्-मतीयो ऽयं ग्रन्थः ।+++(5)+++
किन्तु भगवद्-रामानुजस्यावतारो यद्-अर्थम् अभूत्,
तेषां मनसि निहितः सर्व-लोक-हितावहो यस् सर्व-श्रुति-समन्वयः,
श्रीमत्-पर-काल-यति-वरैः, भगवता श्रीश्रीरङ्ग-विष्णुना
चोपदिष्टश् च यः,
तस्यास्य वैदिक-ज्ञान-विज्ञान-मूलकस्य सविशेषाद्वैत-तत्त्वस्य
प्रकाशनार्थम् एवागतोऽयं ग्रन्थः ।

‘द्वैतं सम्यक् ज्ञातुं प्रभवामः,
अद्वैतमपि कथञ्चिद्ज्ञातुं प्रभवामः ।
विशिष्टा(सविशेषा)द्वैतं नाम किम्?
ते किं वदन्ति? [[ix]]
किमर्थं तथा एते क्लिश्यन्ति ?
इति तु सम्यङ् न ज्ञातुं प्रभवामः’

इति बहूनां मुखात् बहुधा श्रुतम् ।
एतद्-उत्तर-दान-रूपोऽयं ग्रन्थः ।
अतस् सावधानैर् इदम् अध्येयम् इति प्रार्थयामः ॥

यद्य् अपि निर्विशेष-वादिनो वदन्ति

‘स्वसिद्धान्त-व्यवस्थासु
द्वैतिनो दृढनिश्चयाः ।
परस्परं विरुद्ध्यन्ते,
तेनायं न विरुद्ध्यते ॥’ (मां. का. 3-17)

इति,
( अद्वैतस्य द्वैत-निषेध-रूपत्वेनाद्वैतान्तर्गतत्वाद् द्वैतस्य ‘तेनायं न विरुद्ध्यते’ इत्य् अस्याभिप्रायः ।)
परं तु,

‘भावाभावौ निषेद्धुं तद्-उभय-विधिवद् व्याहतत्वाद् अशक्यम्’

इति न्यायेन
भेदाभेदयोः परस्पराभाव-रूपत्वेन
+अन्यतरेणान्यतरानिषेधासंभवात् +++(नैवम्)+++ ।
अतश् चैतेऽपि हि द्वैत-मिथ्यात्व-रूपे स्वपक्षे दृढ-निश्चया एव ।
‘इन्द्रो मायाभिः पुरु-रूप ईयते’ (बृ. 4-5-19) इत्यत्रत्यं मायापदं हि ते मिथ्यार्थकं मन्यन्ते ।
एवं सति ‘तस्योपनिषत् सत्यस्य सत्यम्’ इत्यस्य,
छान्दोग्ये ( 8-3-5) बृहदारण्यके च(4-3-1) प्रदर्शित-सत्य-पदनिर्वचनस्य च का गतिः ?
अतः सर्व-श्रुति-समन्वयस् सर्वथा न भवत्य् एव निर्विशेष-वादे ।
प्रत्युत सर्व-श्रुति-समन्वयः सर्व-श्रुति-निरसन-रूप एव स्यात् तन्-मते ।+++(5)+++
सविशेषवाद एव सर्व-श्रुति-समन्वयाद् एव

एवं सत्य-भेदो वा भेदो वा द्व्यात्मकता वा को ऽयम् अर्थस् समर्थितः ?

इति प्रश्नम् उपक्षिप्यापि

‘सर्वस्यापि वेद-वेद्यत्वात् सर्वं समर्थितम्’

इत्युक्तं भगवद्-रामानुजैर् इत्य् असकृद् उक्तम् ।+++(5)+++
नैतावन्-मात्रम्; तद्-उपरि, गण्डस्योपरि पिटकः+++(=pimple on boil!)+++ संवृत्त इव

“जगद्-ब्रह्मणोः शरीर-शरीरि-भावस्य प्रतिपादनाद्
अ-भेदस् समर्थितः”

इत्य् अपि दुर्जरं+++(←जॄ)+++ वचनम्।

अपि द्रष्टव्यम् -

जगद्-ब्रह्मणोश् शरीर-शरीरि-भावेन साकम्
उपादानोपादेय-भावोऽपि ह्य् उभय-संमतः ।

उक्त-वचनानां तात्पर्यम् अपि न तावत् सूहम्,
यतो श्रीविद्यारण्य-यतयो ऽप्य् एतद् अजानन्तो
रामानुज-मतं क्षपणक-पक्ष-निक्षिप्तम् अमन्यन्त ।
अत्य्-अन्त-दुरूहेषु तप एव परमम् उत्तरम् ।
अस्य विस्तरस्तु ग्रन्थे द्रष्टव्यः ।
एवञ् चैतस्मिन् सिद्धान्त एव सर्व-श्रुति-समन्वयः ॥

एतावद् एवात्रावधेयम्

सर्वं हि वस्तु स्वरूप-पररूपाभ्यां भावाभावात्मकम् ।
‘स्वरूप-पररूपाभ्यां सर्वं सद्-असद्-आत्मकम्’ (श्लो.वा.) इति हि न्यायविदः ।
अतो ब्रह्म लौकिकैर् विशेषैर् विरहितम् अपि
स्वासाधरणैर् अलौकिकैर् विशेषैर् विशिष्टम् एव ।
अन्यथा हि ब्रह्मणः शश-शृङ्गादेश् च वैलक्षण्यम् एव न स्यात् ।+++(5)+++
अत एव हि सूत्रकारोऽपि
‘सर्व-धर्मोपपत्तेश् च’
‘सर्वोपेता च तद्-दर्शनात्’ इत्याद्याह ।

अत एवाचार्याणां निर्विशेष-वादः तदानीन्तनानां प्रबलानां हैतुकानाम् उपच्छन्दनार्थम् एव ।
अत एवाध्यास-भाष्ये नैकापि श्रुतिर् उपात्ता ।
केवल-युक्त्या कञ्चनार्थं प्रसाध्य

‘यथा चायम् अर्थो वेदान्तानां,
तथा वयम् अस्यां शारीरक-मीमांसायां प्रदर्शियिष्यामः’

इत्युपसंहृतम् ।
श्रुतिस्तु

‘परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च '

इति ज्ञान-शक्त्य्-आदीनां स्वाभाविकताम् एवाह ।
अतस् सविशेषम् एव परं ब्रह्म ।
विशेषाश् च गुण-विग्रह-विभूतयः ।
एतादृश-ज्ञानम् एवोत्तारकम् इति
‘तम् एवं विद्वान् अमृतः’ इत्येवाह श्रुतिः ।

‘एतां विभूति योगञ् च
मम यो वेत्ति तत्त्वतः ।
सोऽविकम्प्येन योगेन
युज्यते नात्र संशयः ॥’

इति भगवान् अप्य् अगायत् ।
अतस् सविशेष-वाद एव निर्विशेषवाद-प्रतिकोटि-रूपः वैदिकः सर्वहितावहः ।
विशिष्ट-सविशेष-पदयोः पर्यायत्वात् ‘विशिष्टाद्वैत’-पदम् अप्य् एतद्-अर्थकम् एव ।
एवं सत्य् एव श्रुति-वचनानां सर्वेषां समन्वयः ।
एतद् एव ’ कश्चिन् मां वेत्ति तत्त्वतः’ इत्यादि वदतो भगवत आशयः ।

अत एव मत-त्रयादि-कल्पनम् अपि
एकदेश-दर्शिनां मति-भेदवतां शुष्क-पण्डितानाम् एव,
न तु पूर्ण-दर्शिनाम् ।

अथ नाम-धेयं सत्यस्य सत्यम् इति,
‘प्राणा वै सत्यं, तेषाम् एष सत्यम्’ इति हि ब्रवीति ।
तच् च ब्रह्मावसाने प्रति-षेधे समञ्जसं भवति ।
अभावावसाने तु प्रतिषेधे,
किं सत्यस्य सत्यम् इत्य् उच्येत ?
तस्माद् ब्रह्मावसानो ऽयं प्रतिषेधः, नाभावावसानः’ (शं.भा.)

इति सत्ये तारतम्यं सूचयताम् आचार्याणाम्,
सत्य-पदेन जगद्-व्यावृत्तिं वदतां श्रीभाष्काराणाम् अपीदम् एव संमतम् ।
श्रुतौ (छां. 8-3-5, बृ.7-5-1) सत्य-पद-निर्वचनम् अपीमम् एवार्थं दृढयति ।
एतद् एवाध्यात्म-विज्ञान-सिद्धं सविशेषा(विशिष्टा)द्वैत-तत्त्वम् ।
बौद्ध-वैदिक-संप्रदाय-सीमा ऽप्य् अयम् एव ॥

वस्तुतो वेदान्तशास्त्रं
यत् प्राचीनैः बादरायण-बोधायनोपवर्षादिभिः प्रत्यपादि,
तस्य निश्चित-स्वरूप-निर्णयाय महान् प्रयत्नो योऽकारि बहु-वत्सरान्,
तस्य फलम् अन्येऽपि जानन्त्व् इत्य्-अर्थम् एव कृतोऽयं परिश्रमः ।
अत एव न कस्यापि पक्षस्य खण्डनार्थम् आरचितोऽयं ग्रन्थः,
किन्तु सत्यान्वेषणार्थ-कृत-बहु-काल-प्रयत्न-फल-भूतोऽयं ग्रन्थः ।
परन्तु बहूनाम् इदं सत्यं नूनं नूतनम् एव भायाद् अपि ।
समये तत्त्वम् इदम् इतोऽपि विस्तरेण यथावत् प्रकाशयामः ।
प्रथम-प्रयत्नत्वात्, ग्रन्थ-स्यातिविस्तृतत्वाच् च
बहवो विषयाः पूर्ण-स्वरूपतः प्रदर्शयितुं
न शक्या अभूवन् ।
तत्र तत्र ग्रन्थे सूचितश् चायमंशः । अतश्च -

समये त्व् अखिलं स्पष्टं
भविष्यति यदीच्छति ।
भगवान् सर्वभूतात्मा
सर्वलोकहिते रतः ॥

नव्यमङ्गलाभिजनः वरदाचार्यः