नृसिंह-तातार्यः - उपादानत्वविचार

TODO: Proofread

श्रीमते रामानुजाय नमः श्री. उ. वे.. यादवेदान्तविद्यानिधि ज्ञानवैराग्यानुष्ठानशेवधि श्रीदत्तचतुर्वेदशतक्रतु- नावल्याकं श्रीनृसिंहतातयार्यमहादेविकः अनुगृहीतः उपादानत्वविचारः तदातैः अनुग्रहीता आश्रयानुपपत्तिश्च 2008 श्रीः Reed from Appa (@ 2114120010 按酒 श्रीमते रामानुजाय नमः श्री. उ. वे. न्यायमीमांसावेदवेदान्तविद्यानिधि ज्ञानवैराग्यानुष्ठानशेवधि श्रीशैलचतुर्वेदशतक्रतु - नावल्पाक्कं श्रीनृसिंहतातयार्यमहादेशिकैः अनुगृहीत उपादानत्वविचारः तदातैः अनुग्रहीत आश्रयानुपपत्तिश्च 2008 பிரதிகள் கிடைக்குமிடம் K. ரகுநாதன், புதிய எண் 10, பழைய எண் 15 கேசவபெருமாள் சன்னதி தெரு மைலாப்பூர், சென்னை 600004 தொலைபேசிः 24614264 Printed at GOODPRINTERS 5, Dr. Singaravelu Street T. Nagar, Chennai - 600 017 Ph. ः 24315364 வைகாசி - ரோகிணி ஸ்வாமி தனியன் वेदान्तलक्ष्मणमुनेः प्राप्तवेदान्तसम्पदे । श्रीमते चतुराम्नायनृसिंहगुरवे नमः ।। 1 श्रीः श्रीमते श्रीनिवासपरब्रह्मणे नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमते नृसिंहतातयार्यमहादेशिकाय नमः । | प्रस्तावना ।। दक्षिणापधे देवाधिराजाधिष्ठितकाञ्चीपुर्याः दक्षिणस्यां दिशि त्रिंशत्क्रोशदूरे नावल्पाकनामा कश्चित् श्रोत्रियाग्रहारो विराजते । तत्रत्याः सर्वेऽपि द्विजाः पितापुत्रशिष्याचार्यपरं परया वेदाध्यनपराः न्यायमीमांसादिशास्त्राध्येतारश्च । तथा यज्ञादिश्रौतस्मार्तकर्मानुष्ठानपराः आचारशीलाश्च अधुनापि विलसन्तीति प्रसिद्धमेतत् । एतेषां मूलपुरुषः श्रीशैलपूर्णवंश्यः अय्याकुमारतातदेशिकापरनामा चतुर्वेदाध्येता अनुष्ठितक्रतुशतस्सार्धत्रिशतवर्षेभ्यः प्राक् तञ्जापुरनायकमहाराजवंश्यानां द्वित्राणां राजगुरुरासीत् । तेनाचार्यवर्येण राजसाहाय्येन बहुषु विष्ण्वालयेषु परिष्कारादिकं कृतम्, शतं यागाः तञ्जापुरसमीपस्थिते विण्णाङ्करैनानि अग्रहारे कावेरीनदीपरिसरे उषित्वा अनुष्टिताः । अत एव ते आचार्याः “चतुर्वेदशतक्रतु" इति बिरुदेन संमानिताः तदानींतनैः विद्वद्भिः । " चतुर्वेदः इति बिरुदं ज्ञानं सूचयति । " शतक्रतु" इति बिरुदं कर्मानुष्ठानं सूचयति । तेषामेव पुत्रपौत्रपरंपरायामुत्पन्नाः सर्वेऽपि द्विजाः वंशपरंपरया वेदाध्ययनं कर्मानुष्ठानं च यावच्छक्ति संरक्षन्तः प्रकाशन्ते । 39 तत्परंपरायां गतेश्वरनामक संवत्सरात् पूर्वपर्यायेश्वरनामकसंवत्सरे ( प्रायः 1877A.D) वैशाखमासे रोहिणीनक्षत्रे श्रीवेंकटरङ्गाचार्य स्वामिनां सुपुत्रत्वेन अवतीर्णाः श्रीनृसिंहतातयार्यमहादेशिकाः । तत् सुदिनं गोष्ठीपूर्णानां कूटस्थकुमारतातदेशिकानां चावतारदिनम् । h 2 एते च नृसिंहतातयार्यस्वामिनः उचितकाले गर्भाष्टमे वयसि उपनीताः वेदाध्ययनं परिसमाप्य ततः महीशूरं गत्वा तत्र प्रसिद्धतार्किकाणां तर्कतीर्थविरुदालंकृतां कस्तूरिरङ्गाचार्याणां सकाशे न्यायशास्त्रं समग्रमधीत्य पश्चात् तिरुविशलूर् श्रीरामसुब्बाशास्त्रिणां सकाशे मीमांसाशास्त्रमधीत्य ततः वलयपेट्टे श्रीमद्वेदान्तरामानुजसंयमिसार्वभौमानां सकाशे श्रीभाष्यादि ग्रन्थचतुष्टयकालक्षेप-मकुर्वन् । सभासु वादकौशलं प्रदर्श्य " नाविजित्य निवर्तते " इति न्यायेन सर्वैः विदद्भिः पूज्यमानाः व्यराजन्त । स्वाधीतानि शास्त्राणि बहुभ्यः शिष्येभ्यः सप्रीति उपादिशन् । आबाल्यात् विरक्ताग्रेसराः उञ्छवृत्त्या जीविकां यापयन्तः अप्रच्युतसदाचाराः संभावनादिवैदेशिकाः व्यराजन्तेति प्रख्यातमिदम्। आचार्याणां तेषां प्रयास एव मादृशानां ज्ञानलवप्राप्तेः मूलम् । एते नृसिंहतातयार्यमहादेशिकाः स्वाचार्यसकाशे श्रीभाष्या- दिग्रन्थकालक्षेप - समय एव वेदान्तविषयान् बहून् स्वाचार्यसंनिधौ चर्चापूर्वकमधिगम्य काकदपत्रेषु ग्रन्थाक्षरैर्विलिख्य स्थापितवन्तः । तानि पत्राणि तेषामाचार्याणां जामातरः कूत्तपाकं श्रीकृष्णमाचार्याः न्यायवेदान्तादिशास्त्राणि श्वशुरपादानां तेषामाचार्याणां सकाशे एवाधीतवन्तः संरक्षन्ति स्म । शतवर्षेभ्यः पूर्वं लिखितत्वात् पत्राणि तानि अतिजीर्णानि अभवन् । कथंचित् Xerox द्वारा प्रतिलिपिं सम्पाद्य तेषां पुत्रः समरक्षत् । अधुना “उपादानत्वविचारः " " आश्रयानुपपत्तिः” इति विषयद्वयं देवनागराक्षरेषु प्रतिलिपीकृत्य मुद्राप्य प्रकाश्यते । अपूर्वनानायुक्तिगर्भाः अन्येऽपि विषयाः क्रमशः प्रकाशयितुमिष्यन्ते । दिवंगतानां श्रीकृष्णमाचार्यस्वामिनां जीवतां तत्पुत्राणां च कृते अधमर्णः विद्वल्लोकः । तेषां सविधे कृतज्ञता निवेद्यते । । इति आचार्यचरणनलिनपरागपरमाणुः ना. शठकोप- रामानुजदासः 3 श्रीः श्रीनृसिंहसूरिचरित्रम् १ नृसिंहनामा गुरुरीश्वराख्ये वर्षे वृषे मासि जनोघभाग्यात् । रोहिण्यभिख्योडुयुतेऽवतारं कूटस्थजन्मर्क्षदिने चकार ।। पिता गुरुर्द्रागुपनीय हर्षादमुं स्ववेदाध्ययने प्रवृत्तम् । चक्राङ्गितञ्चापि चकार काले सत्वोत्तरो वेङ्कटरङ्गसूरिः ।। २ नृसिंहसूरिस्स तु बाल्य एव कृत्स्नस्वशाखाध्ययनं विधाय । साहित्यकौशल्यमवाप्य पश्चात्तर्कस्य पाठे त्वरते स्म नित्यम् ।।३ ततो महीसूरपुरीमवाप्य कस्तूरिरङ्गार्यगुरोस्सकाशात् । अधीत्य तर्क सकलं क्रमेण परीक्षितश्चाप मुहुः प्रसिद्धिम् । काशीनवद्वीपमुखेष्वनन्तपुर्यां च कोच्यां नवसालपुर्याम् । कॢप्तासु ४ ६ तर्कस्य कथासु सोयं जयश्रियं प्राप्य गुरू रराज ।। ५ वेदान्तरामानुजसंयमीन्द्रात् संप्राप्तवेदान्तरहस्यसारः । अनेकमीमांसकपुङ्गवेभ्यो गृहीततन्त्रश्च बभौ गुरुस्सः ।। जम्बूपुरं प्राप्य नृसिंहसूरिः श्रीतातसूरीन्द्रवराचिरेण । श्रीभाष्यसद्व्याकृतिमस्तदोषां प्रकाशिकामप्यधिगत्य रेजे ।। सोयं गुरुर्विष्णुकटाक्षभूम्ना वैराग्यकाष्ठां समवाप्य काले । सद्भिः प्रदत्तं किल तण्डुलादि पक्त्वा च भुङ्गे हरये निवेद्य ।। ८ तत्तद्गुरूणां परिगृह्य शास्तिं तर्कप्रचारं प्रथमञ्चकार । सोयं गुरुस्तन्त्रमपीह मृग्यं ह्यपाठयच्छात्रगणं विनीतम् ।। । ७ ९ 4 शिष्टाग्रगण्यस्य गुरोरमुष्य शिष्यप्रशिष्याश्च गृहीतशास्त्राः । सम्मानिता नूतनसालपुर्यामासन् महीशूरपुरे च शश्वत् ।। वेदान्तविद्यामृतपानकामैरेभिश्चिरं प्रार्थित एष सूरिः । परीक्ष्य कंचित्समयञ्च शुद्धानेनान् चकारागममौलिविज्ञान् ।। श्रीभाष्यमद्वैतिजयानुकूलं प्रकाशिकाव्याकृतिमप्यनल्पाम् । अस्मान्नृसिंहार्यगुरोर्गृहीत्वा धन्या अभूमाप्तमनोरथान्ताः । । श्रीभाष्यप्रवचनमेष सूरिवर्यः प्राचीनात्पृथुतरदुष्टभाष्यवर्गात् । १० ११ १२ प्राशस्त्यप्रकटनपूर्वकं श्रितानां गम्भीरं रचयति विस्मयावहं च ||१३ परवादिभीतिकरसूक्तिसङ्गतं नरकारिपादसरसीरुहप्रियम् । नरसिंहसूरिवरमेनमन्वहं शिरसा नमामि सरसार्थबोधकम् ।। १४ तपनोज्वलं च तपसातिधीमतां कृपयैव शास्त्रमवरस्पृहां विना । उपदिश्य भान्तमपनीतिदूरगं सुपवित्रकृत्यचतुरं गुरुं भजे ॥ मूढा वयं यस्य गुरोः प्रसादादभूम शास्त्रज्ञपदं प्रपन्नाः । नृसिंहतातार्यगुरुस्स जम्भूपुरे जयत्वब्दशतं विरक्तः । । इति श्रीमदण्णयार्यता तदेशिकनप्त्रा श्रीअपर्याप्तामृततातदेशिकेन विरचितं श्रीनृसिंहसूरिचरितं सम्पूर्णम् ।। १५ १६ ஸ்வாமி தனியன் वेदान्तलक्ष्मणमुनेः प्राप्तवेदान्तसम्पदे । श्रीमते चतुराम्नायनृसिंहगुरवे नमः ।। 5 श्रीः श्रीमते वेदान्तरामानुमहादेशिकाय नमः । श्रीमदण्णयार्यमहादेशिकाय नमः । ।। उपादानत्वविचारः ।। प्रकृत्यधिकरणादिषु ब्रह्मण उपादानत्वं समर्थितम् । तचाभि- न्नयोरेवोपादानोपादेयभावो लोकसिद्ध इति " यथा सोम्यैकेन मृत्पिण्डेन" इत्यादिश्रुत्या परिगृहीतमिति स्थूलचिदचिद्विशिष्टब्रह्म प्रति सूक्ष्मचिदचिद्विशिष्ट- ब्रह्मणः कारणत्वमिति " परिणामात्" इत्यादिसूत्रेषु बहुशोऽभ्यस्तं श्रीभाष्यादौ तथा च तादात्म्यसंबन्धावच्छिन्नकार्यतानिरूपिततादात्म्य- संबन्धावच्छिन्न- कारणत्वमुपादानत्वमित्युक्तं भवति । अनेनैव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिः । अन्यथा घटज्ञानेन पटज्ञानवत् कारणब्रह्मविज्ञानेन उपादेयभूत प्रपञ्चविज्ञानासिद्धिः । एतत् कारणत्वं " जन्माद्यस्य यतः” इति सूत्रेण ब्रह्मलक्षणतयाभिहितम् । नन्वत्र प्रपञ्चनिष्ठतादात्म्यसंबन्धावच्छिन्नकार्यतानिरूपिततादात्म्य- संबन्धावच्छिन्नकारणत्वस्य ब्रह्मलक्षणतया विवक्षितत्वे चतुर्मुखादेरपि कतिपयकार्यं प्रत्युपादानत्वसंभवादतिव्याप्तिः । न च प्रयेयत्वव्यापकतादात्म्यसंबन्धावच्छिन्नकार्यतानिरूपित तादृशसंबन्धावच्छिन्नकारणत्वमेव लक्षणम् । महदादिकृत्स्त्रप्रपञ्चं प्रति चतुर्मुखब्रह्मणः उपादनत्वायोगान्नातिव्याप्तिः ; महदादिकृतब्रह्माण्डानन्तरमेव चतुर्मुखसृष्टिश्रवणादिति वाच्यम् । गुणगुणिनोरत्यन्तभेदस्य संप्रतिपन्नतया तत्र गुणे प्रमेयत्वसत्त्वेन ब्रह्मनिरूपितादात्म्यसंबन्धावच्छिन्नोपादेयत्वस्य प्रयेयत्वव्यापकत्वासंभवे- नासंभवायत्तेः । 6 न च द्रव्यत्वव्यापकत्वस्य तादृशकार्यतायां निवेशात् गुणे द्रव्यत्वरूपध- र्माभावेन न दोष इति वाच्यम्। नित्यविभूतीनां द्रव्यत्वनित्यत्वयोरेतन्मतसिद्धत्वेन तत्र द्रव्यत्वसत्त्वेन उक्तकार्यत्वाभावादसंभवानिवारणात्। न च कार्यद्रव्यत्वव्यापकत्वस्य तादृशकार्यत्वे निवेशान्नासंभव इति वाच्यम् । घटादिकार्यद्रव्येऽपि कार्यद्रव्यत्वसत्त्वेन तत्रोक्तकार्यद्रव्यत्वाभावात्। घटादिप्रपञ्चापेक्षया ब्रह्मणः असत्यन्तभिन्नत्वात् । मैवम्। स्वभिन्नकार्यद्रव्यत्वव्यापकापृथक्सिद्धिसंबन्धावच्छिन्ना- वच्छेदकताकतादात्म्यसंबन्धावच्छिन्नकार्यतानिरूपितकारणत्वं जन्मादिसूत्रे विवक्षितं ब्रह्मलक्षणम् । गुणनित्यविभूत्योः कार्यद्रव्यत्वाभावात् तद्वचापकत्वघटितलक्षणस्य गुणे ब्रह्मादौ च नातिव्याप्तिः । अपृथक्सिद्धिसंबन्धेन स्थूलचिदचिद्विशिष्टब्रह्म प्रति तादात्म्यसंबन्धेन सूक्ष्मचिदतिद्विशिष्टब्रह्मण उपादानत्वभाषणान्नासंभवः । यद्यपि सर्वत्र भाष्यादौ स्थूलचिदछरीरकत्वस्यैव उपादेयतावच्छेदकत्वम भ्यस्तम् । तथापि अपृथक्सिद्धिसंबन्धेन घटत्वविशिष्टं पति तादृशसंबन्धेन मृत्त्वविशिष्ट स्योपादानोपादे यभावदर्शनेन समवायस्थाना- पन्नापृथक्सिद्धिरेवोपादानोपादेयतावच्छेदकतासिया तद्वदेवात्राप्युपपत्त्या गुरुतरशरीरकत्वस्य धर्मविधया संबन्धविधया वा तादृशावच्छेदकत्वस्वीकारस्य लोकन्यायविरुद्धत्वेन शरीरकत्वकथनेन अपृथक्सिद्धिलाभा तथैव युक्तम् । एतेन किंचिच्छरीरकत्वेनोपादानोपादेयभावस्य लोकानुभवविरुद्धतया पारिभाषिकमिदमुपादानत्वमिति निरस्तम् । अत्र कारणतावच्छेदकतया चिदचितोः प्रवेशात् तादृशब्रह्मरूप- कारणविज्ञानात् कृत्स्नकार्यद्रव्यप्रपञ्चविज्ञानसिद्धिः । कार्यतावच्छेदकतया तस्य निवेशात् । लोकेऽपि उपादानमृद्विज्ञानेन उपादेयघटादिविज्ञानमेव सिद्धं न तु7 तद्गतगुणादिविज्ञानमपि । तद्वत् प्रकृतेऽपि उक्तोपादानब्रह्मविज्ञानेन गुणनित्यवि- भूतिविज्ञानाभावेऽपि न क्षतिः । ननु " सर्वं खल्विदं ब्रह्म तज्जलान्" इत्यादिश्रुतौ सर्वपदासंकोचाय गुणं प्रपञ्चं च प्रति ब्रह्मणः साक्षादुपादानत्वं वक्तव्यम् । सर्वपदेन जडाजडप्रपञ्चस्यापि असंकोचेन बोधनात् । न च प्रपञ्चब्रह्मणोस्तादात्म्यमभिमतं येन तादात्म्यसंबन्धमात्रस्य ब्रह्मोपादेयतावच्छेदकत्वमुपपद्यते । अतो भिन्नयोरपि प्रपञ्चह्मणोरुपादानोपादेय- भावः स्वीकर्तव्यः । तथा च तादात्म्यापृथक्सिद्धिसंबन्धावच्छिन्न. कार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नकारणत्वमेव ब्रह्मण उपादानत्वरूपं वक्तव्यम् । अपृथक्सिद्धिसंबन्धेन प्रपञ्चं प्रति ब्रह्मणः कारणत्वं नविलक्षणत्वाधिकरणसिद्धं च । अन्यथा “दृश्यते तु” इति तदधिकरणसूत्रेण विलक्षणयोरुपादानोपादेयभावस्य गोमयमक्षिकादिदृष्टान्तेन ब्रह्मणि समर्थनस्य विरोधापत्तिः । एवं विशेषणयोरपि स्थूलसूक्ष्मप्रपञ्चयोः साक्षात् उपादनोपादेयभावः स्वीकर्तव्यः । अत एव " चमसवदविशेषात्" इत्यधिकरणं संगच्छते तत्र हि “विकारजननीमज्ञां” इत्यादिश्रुत्यवलम्बनेन विशेषणयोरुपादानत्वं हि समर्थितम् । अजाशब्दस्य तत्र श्रुतौ विशेषणमात्रपरत्वभाषाणात् । प्रयञ्चितश्चायमर्थः कैश्चित् वावदूकैरिति । मैवम् । श्रीभाष्यादी बद्दधिकरणेषु अभिन्नयोरेव उपादानोपादेयभावः सूत्रन्यायेन समर्थितः अनूदितश्च । अपृथक्सिद्धिसंबन्धेन प्रपञ्चं प्रति ब्रह्मण उपादानत्वस्य प्रामाणिकत्वे भाष्ये श्रुतप्रकाशिकादौ वा क्वापि कोणे दृश्येत । न च दृश्यते । न च भित्रयोः प्रपञ्चब्रह्मणोः उपादानोपादेयभावाभावे “सर्वं खल्विदं 8 ब्रह्म" इत्यत्र सर्वपदसंकोचापत्तिरिति वाच्यम् । असंकोचाय सर्वपदेन प्रमाणोपस्थापितस्य कृत्स्नस्य ग्राह्यत्वे नित्यविभूतेरपि ग्राह्यतया तां प्रत्यपि केनापि प्रकारेण ब्रह्मण उपादानतापत्तिः । तत्र भवदनभिमत्या इष्टापत्त्ययोगात् । न च नित्यस्य कार्यत्वायोगात तत्संकोचः कार्य इति वाच्यम् । लोके अभिन्नयोरेवोपादानोपादेयभावदर्शनेन तादात्म्यसंबन्धस्यैवोपादेयतावच्छेदकतावश्यकतया विशिष्टरूपेणैव उक्तरीत्या उपादानत्वस्य ब्रह्मणि वक्तव्यतया अमृतक्सिद्धिसंबन्धेन प्रपञ्चं प्रति ब्रह्मण उपादानत्वे प्रमाणलेशाभावात् । तदनुरोधेन “सर्वं खल्विदं ब्रह्म” इत्यत्र सर्वशब्दस्य प्रपञ्चविशिष्टब्रह्मपरत्वसिद्ध्या प्रपञ्चस्य प्रधानतया अनुपस्थापनेन तत्संकोचस्थाप्रसक्तेः 1 न च " सर्वं खल्विदं ब्रह्म" इत्यत्र इदंशब्देन अप्रत्यक्षब्रह्मण उपस्थापनं न संभवति । प्रत्यक्षसंनिकृष्टार्थवाचित्वादिदंशब्दस्येति युक्तम् । तर्हि अप्रत्यक्षमहदादिग्रहणासंभवात् प्रत्यक्षसिद्धघटादिकतिपयमात्रकारणत्वसिद्ध्यापत्तेः । न चेदंपदं प्रकृते प्रमाणसंनिकृष्टार्थवाचि । प्रमाणसंनिकृष्टं च महदादिकमपि, वेदेन तदुपस्थितेः । तथा च असंकोचेन महदादिकृत्स्नप्रपञ्चकारणत्वं सिध्यतीति वाच्यम् । " तदात्मानं स्वयमकुरुत" " ब्रह्म वनं ब्रह्म स वृक्ष आसीत् ” इत्यादिश्रुतिभिः इदंपदेन ब्रह्मणोऽप्युपस्थित्या अभेदसंबन्धेनैवोपादानोपादे- यभावसिद्धेः । न चेदं पदेन श्रुतिप्रमाणोयस्थापितब्रह्मण उपस्थितिसंभवेऽपि तस्यानेकत्वघटितसर्वत्वायोग इति वाच्यम् । सर्वं गगनं शब्दवत् इत्यादिप्रयोगवारणाय सर्वशब्दस्य अनेकत्वे सति उद्देश्यतावच्छेदकव्यापक- विधेयव्याप्यसमुदायत्वावच्छिन्ने शक्तिस्वीकारेऽपि प्रकृते अनेकत्वत्यागेन अशेषत्वमात्रार्थस्वीकारे बाधकाभावात् । तत्पदस्यानेकत्वाशेषत्वयोः पृथक्शक्तिस्वीकारेण समभिव्याहारविशेषस्य कारणत्वेनैवातिप्रसङ्गपरिहारात् । स्थूलचिदचिद्विशिष्टब्रह्मरूपकार्यस्यैव बुद्धिविशेषविषयतावच्छेद- कत्वोपलक्षितधर्मावच्छिन्नत्वेन इदंपदेन शक्तिवृत्त्या उपस्थित्या विशेषणभूतयोः 9 स्थूलचिदचितोः अनेकत्वेन विशेषणबहुत्वेन ब्रह्मणो विशेष्यस्यापि अपेक्षाबुद्धिविशेषविषयत्वरूपबहुत्वस्यापि संभवेन सर्वपदेनासंकोचेन ब्रह्मबोधोपपत्तेश्च । " आत्मनि खल्वरे दृष्टे श्रुते विज्ञाते इदं सर्वं विज्ञातं भवति" इत्यत्र एकविज्ञानेन सर्वविज्ञाननिर्वाहाय इदंपदस्य ब्रह्मपर्यन्तार्थत्वस्य आवश्यकतया तदन्वयिसर्व- शब्दस्य उक्तरीत्यैवार्थस्य वर्णनीयत्वात् । " बहु स्यां प्रजायेय" इत्यत्रोक्तगतेरेवाश्रयणीयत्वात् । ब्रह्मणः स्वरूपेण बहुत्वायोगात् । एवं “सदेव सोम्येदमग्र आसीत्” इत्यादिकारणवाक्यस्थसच्छब्देदंश- ब्दयोः सामानाधिकरण्यस्य उत्तरत्र सृष्ट्युक्त्या उपादानोपादेयभावनिबन्धनत्वेन इदंशब्देन उपादेयोपस्थापनावश्यंभावेन वक्ष्यमाणन्यायेन स्थूलचिदचिद्विशि- ष्टब्रह्मत्वरूपोपादेयतावच्छेदकावच्छिन्नस्य शक्त्यैवोपस्थितिः । एतेन इदंपदस्य लक्षणया, शरीरवाचिनः शब्दस्य शरीरिपर्यन्तत्वन्यायेन वा ब्रह्मपरत्वाश्रयणक्लेशोऽपि नादर्तव्यः । क्वचिदाप्तग्रन्धे मृदुहृदयबुद्धयारोहाय तथा कथनमित्यविरोधात् । एतेन “सदेव सोम्येदमग्र आसीत्” इत्यत्र इदं रजतमित्यत्रेव अध्याससामानाधिकरण्यमित्यादिकमपि अपास्तम् । अध्यस्ताधिष्ठानयोर्भिन्नत्वेन ऐक्यायोगेन इदंपदस्य तदधिष्ठानलक्षणाया आवश्यकत्वात् । न च सामानाधिकरण्यं चतुर्धा अध्यासबाधविशेषणविशेष्य- भावैक्यरूपोपाधिभेदात् । आद्यम् इदं रजतमिति लोके, “सर्वं खल्विदं ब्रह्म" इत्यादौ च वेदे । द्वितीयं शुक्ती रजतं इदं सर्वं यदयमात्मेति लोकवेदयोः । तृतीयं त्रिभुवनतिलको भूपतिः, मनोमयः प्राणशरीर इत्यादिलोकवेदयोः । चतुर्थं नीलो घटः तत्त्वमसीति लोकवेदयोः । तत्राद्येऽपि सामानाधिकरण्यं मुख्यम् । स्वरूपसंबन्धात्मकतादात्म्यसंबन्धेन परस्परान्वयबोधस्यापि तत्र स्वीकारादिति वाच्यम् । 10 सदिदमर्थयोः अभिन्नत्वरूपमुख्यतादात्म्यस्य बाधितत्वेन समानाधिकरणस्थले तेन संबन्धेन बोधस्याप्रामाणिकत्वात् । समानाधिकरणस्थले अभेदसंबन्धव्यतिरिक्ततादात्म्यनामकपारिभाषिकसंबन्धेनापि परस्परान्वयबोधे व्युत्पत्त्यन्तर कल्पनापत्तेः । समानाधिकरणस्थले सर्वत्र प्रमाणे ऐक्यबोधातिरेकेण भवदुक्ततादात्म्यादिबोधस्याप्रामाणिकत्वेन सामनाधिकरण्यचातुर्विध्यस्याप्रामाणिकत्वात् । लौकिकप्रयोगस्य गौणत्वात् । यदि च सामानाधिकरण्यस्थले ऐक्यव्यतिरेकेण तादात्म्यादिरूपं पारिभाषिकं किंचिद्वक्तव्यमित्याग्रहः तदा सामानाधिकरण्यसामान्यस्य अभेदापृथकिसिद्धिसंबन्धान्यतरसंबन्धेन इतरान्वितस्वार्थबोधकत्वं स्वीक्रियताम् । अये गौः नीलो घटः इत्यादौ गवादिशब्दानां जात्यादिवाचित्वप- क्षानुसारेणापृथक्सिद्धिसंबन्धेन सामानाधिकरण्यं मुख्यं शक्तिलाघवं च । वेदे च " तत्त्वमसि ” इत्यादी अपृथक्सिद्धिसंबन्धेन जीवपरयोः परस्परन्वयाबाधः । दण्डी पुरुषः, सत्यं ज्ञानमित्यादौ अभेदसंबन्धेन बोधः । तथा च प्रपञ्चमिथ्यात्वमन्तरेण जीवब्रह्मैक्यमन्तरेण च अबाधेन सर्ववेदान्तार्थसमन्वयसंभवात् प्रपञ्चमिथ्यात्वाद्याश्रयणं केषांचिद्विफलमेव । एतेन विवर्ताधिष्ठानत्वं परिणाम्युपादानत्वमित्युपादानत्वं द्विविधमिति कल्पनमप्यपास्तम् । विवर्ताधिष्ठानत्वरूपोपादानत्वस्य भवद्गन्थव्यतिरेकेण लोके वेदे वा क्वचिदप्यदर्शनात् । यथेच्छं परिभाषाकल्पने माध्यमिकमतोत्थानावारणात् । ले कसिद्धपरिणाम्युपादानत्वस्यैवास्माभिः ब्रह्मण्यप्युपपादनेनास्मन्मतेऽधिककल्पना- भावात् इत्यादिकमाकरे व्यक्तं, आस्तामिदम् । न च न विलक्षणत्वाधिकरणे सांख्योक्तस्य सलक्षणयोरेवोपादानोपादेय- भावस्य खण्डनाय " दृश्यते तु" इति सूत्रभाष्यादिषु विलक्षणयोरुपादानोपादेय- भावस्थापनात् तद्विरोध इति वाच्यम् । 11 यत् यदुपादेयं तत् तत्सलक्षणमिति सांख्योक्तव्याप्तेः व्यभिचारमात्रं दृष्टान्तेन " दृश्यते तु" इति प्रदर्शितं, न तु भिन्नयोरुपादानोपादेयभावोऽपि साधितः । तथा च श्रुतप्रकाशिका - “साक्षात् परिहार उपरितनाधिकरणेषु वक्ष्यते, कारणं येनाकारेण वस्त्वन्तरात् व्यावर्तते तेनाकारेण कार्यस्य सालक्षण्यं चेत् तस्य व्यभिचारोऽस्मिन् सूत्रे विवक्षित” इत्यादिका । न च यदुक्तं जगतो ब्रह्मविलक्षणत्वेन ब्रह्मोपादानत्वं न संभवतीति तदयुक्तं, विलक्षणयोरपि कार्यकारणभावदर्शनात् । दृश्यते हि माक्षिकादेर्विलक्षणस्य क्रिम्यादेः तस्मादुत्पत्तिरिति भाष्येण विलक्षणयोरित्यनेन भिन्नयोः उपादानोपादेय- भावप्रतीत्या तद्विरोध इति वाच्यम् । अत्र विलक्षणयोरित्यस्य भिन्नयोरिति नार्थः । पूर्वपक्ष्युक्तसाल- क्षण्यरहितयोरित्येवार्थः । उक्तश्रुतप्रकाशिकावाक्येनापि तथैव लाभात्। “असदिति चेत्र प्रतिषेधमात्रत्वात्” इति सूत्रभाष्यश्रुतप्रकाशिकयोरुक्तार्थस्पाष्ट्यात् । भिन्नयोः उपादानोपादेयभावस्य पूर्वसूत्राभिप्रेतत्वे “असदिति चेत्र प्रतिषेधमात्रत्वात्” इति सूत्रारम्भस्यैवाप्रसक्तेः । " सति च वैलक्षण्ये कुण्डलहिरण्ययोरिव द्रव्यैक्यमरुत्येवे” ति असदिति सूत्रे स्पष्टं भाषणाच्च । न च विशेषणविशेष्ययोः प्रपञ्चब्रह्मणोः उक्तरीत्या उपादानोपादेय- भावानभ्युपगमे " यतो वा इमानि भूतानि जायन्ते” इत्यादिश्रुतिविरोधः । विशिष्टं प्रत्येव विशिष्टस्य उपादनत्वपक्षे इदंशब्देन स्थूलचिदचित्प्रपञ्चावच्छिन्न- ब्रह्मण उपस्थापनीयतया तत्र " इमानि " इति बहुत्ववाधात् अनया श्रुत्या विशेषणविशेष्ययोरपि उक्तसंबन्धाभ्यामुपादानत्वमुच्यते इति वाच्यम् । “यतो वा इमानि भूतानि” इति श्रुतौ यत इति पञ्चम्या निमित्तत्वमात्रबोधनेऽपि उक्तार्थनिर्वाहात् भवदभिमतोपादानत्वस्य तत्पदेनासिद्धेः । न च यत इति पञ्चम्याः श्रुतप्रकाशिकादौ पुरोवादभूतया “सदेव सोम्येदमग्र आसीत्” इत्यादिश्रुत्या उपादानत्वार्थकत्वकथनं विरुध्यत इति वाच्यम् । तर्हि सदेव सोम्येति पुरोवादवाक्ये भवद्भिरेवाभिन्नयोरुपादानोपादेयभावस्य 12 साधिततया तद्विरुद्वतया तच्छ्रुत्यनुवादे यतो वेति श्रुतौ भिन्नयोरुपादानोपादेय- भावसमर्थनस्य असंगतत्वात् । भूतशब्देन ब्रह्मोपस्थापनेऽपि उपादेयतावच्छेदकचेतनाचेतनबाहुल्येन साक्षाद्वा परंपरया वा ब्रह्मणि बहुत्वान्वयोपपत्तेश्च । अपि च विशेषणप्रपञ्चं प्रति विशेष्यब्रह्मणः साक्षादुपादानत्वस्य प्रामाणिकत्वे " आत्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भयः पृथिवी” इति श्रुती आकाशादिपदानां आकाशाद्यवच्छिन्नब्रह्मपरत्ववर्णनं ग्रन्थकृतां भवतां च विरुध्यते । आत्मन आकाश इति प्रथमवाक्ये विशेष्यस्यात्मनः विशेषणभूताकाशं प्रति भवदुक्तगमनिकया साक्षादेव उपादानत्वसंभवात् । अनन्तरवाक्येषु च विशेषणयोरपि स्थूलसूक्ष्मप्रपञ्चयोः भवदुक्तरीत्या उपादानोपादेयभावस्य चमसाधिकरणारूढत्वेन विशेषणभूताकाशादेव विशेषण- भूतवायूत्पत्तिसंभवात् “आकाशाद्वायुः” इत्यादी आकाशादिपदानामा- काशाद्यवच्छिन्नब्रह्मपरतावर्णनवैयर्थ्यात् । “अद्भ्यः पृथिवी" इत्यादौ पृथिव्यादिपदानां भवद्भिः निष्कर्षकशब्दत्वाङ्गीकाराच । अपि चोक्तकार्यकारणभावद्वयस्य न्याय्यत्वे " तदभिध्यानादेव तु तल्लिङ्गात् " इत्यधिकरणस्यैव अनुत्थितिः । आकाशाद्वायुः, वायोरग्निः इत्यादौ विशेषणयोः प्रपञ्चयोः उपादानोपादेयभावप्रतिपादनसंभवेन विशिष्टब्रह्मणः उपादानोपादेय- भावसमर्थनप्रयासवैयर्थ्यात् । अपि च आरम्भणाधिकरणस्य उपादानोपादेययोः ऐक्यसाधनाय प्रवृत्तत्वेन तद्विरोधश्च । भवदुक्तोपादानोपादेयभावेन सकलश्रुतिसमन्वय संभवात् उपादानोपादेययोः ऐक्यसाधनवैयर्थ्यात् ।

न चैकविज्ञानेन सर्वविज्ञाननिर्वाहार्थं विशिष्टं प्रति विशिष्टस्योपादानत्वं वक्तव्यम् । उपादानोपादेययोर्भेदे घटज्ञानेन पटज्ञानवत् उपादानविज्ञानेन उपादेयविज्ञानासंभवात् तदर्थमारम्भणाधिकरणं सार्थकमिति वाच्यम् । 13 स्थूलचेतनाचेतने प्रति सूक्ष्मचिदचिद्विशिष्टब्रह्मणः उपादानत्वाङ्गीकारेण कारणतावच्छेदककोटौ सूक्ष्मचिदचितोः प्रवेशात् तादृशविशिष्टोपादानज्ञानेन स्थूलप्रपञ्चः कृत्स्नोऽपि ज्ञातो भवतीति उपादेयतावच्छेदककोटावपि ब्रह्मत्वप्रवेशवैयर्थ्यात् । एतदुपादानोपादेयभावाभिप्रायेण प्रकृत्यधिकर- णविषयवाक्यानां कथंचिन्नयनसंभवात् आरम्भणाधिकरणानुत्थितिः दुरद्वरा । अपि च विशेषणं प्रति विशेष्यस्य उपादानत्वकल्पनस्य प्रयोजना- भावात् लोकेऽदर्शनाञ्च वैयर्थ्यम् । न चोत्पत्तिः आद्यक्षणसंयोग एव । कालस्य द्रव्यत्वात् तत्संयोगः द्रव्य एव। अवस्थायाः गुणभूतत्वात् तत्र तादृशोत्पत्तिर्दुर्वचेति युक्तम् । तर्हि सांख्यवत् द्रव्यस्य नित्यत्वाभ्युपगमात् अवस्थाया अप्युत्पत्त्यनङ्गीकारे नित्यतापत्त्या कारकव्यापारवैयर्थ्यस्य दुरुद्धरत्वात् । एवं लोके रूपादिकं प्रति घटादेः उपादानकारणत्वदर्शनेन तद्रीत्या प्रपञ्चं प्रति ब्रह्मण उपादानत्वं वक्तव्यम् । तथा च तादात्म्यापृथक्सिद्ध्यन्यतरसंबन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसं बन्धावच्छिन्नकारणत्वमेव उपादानत्वं वक्तव्यं इति वाच्यम् । अत्र घटादे रूपाद्युपादानत्वोपपत्तये अपृथक्सिद्धिसंबन्धावच्छिन्नत्वं कार्यतायां निवेशितम् । तादात्म्यसंबन्धेन घटादिकं प्रति अपृथक्सिद्धिसंबन्धेन पिण्डादिसंबद्धतया हेतुभूतदण्डसंयोगादेः वारणाय अपृथक्सिद्धिसंबन्धेन पाकजरूपादिकं प्रति तेनैव संबन्धेन हेतोरग्निसंयोगस्य वारणाय च कारणतायां तादात्म्यसंबन्धावच्छिन्नत्वनिवेशः । विषयतासंबन्धेन प्रत्यक्षं प्रति तादात्म्येन कारणस्य विषयस्य वारणाय च कार्यतायां तादात्म्यसंबन्धावच्छिन्नत्वनिवेशः । तथा च तादात्म्येन घटादिकं प्रति तादात्म्येन पिण्डादेरिव तादृशप्रत्यासत्त्यैव स्थूलचिदचिद्विशिष्ट सूक्ष्मचिद चिद्विशिष्टयोरेकः उपादानोपादेयभावः । अपृथक्सिद्धिसंबन्धेन रूपादिकं प्रति तादात्म्येन घटादेरिव ताभ्यां संबन्धाभ्यां प्रपञ्चबह्मणोरपर उपादानोपादेयभाव इति वेदान्तिमते उपादान- ताद्वैविध्यमावश्यकमिति । 14 अत्राचार्याः । पिण्डेन घटोत्पत्तिदशायां पिण्डत्वादिधर्मनाशेऽपि पिण्डत्वकालीनरूपादेः पिण्डवत् घटत्वकालेऽपि स्थित्या अवयव्यन- भ्युपगन्तृवेदान्तिमते रूपादिकं प्रति घटादेः पृथक् कारणताया एवासिद्धेः । न च घटोत्पत्त्यनन्तरं तत्र वायुसंयोगोत्पत्त्या तादृशवायुसंयोगं प्रति घटस्योपादानत्वोपपत्तये उक्तकार्यकारणभाव आवश्यक इति वाच्यम् । तथापि तयोरुपादानोपादेयभावातिरिक्तकार्यकारणभावमात्राङ्गीकारेणोपपत्त्या ताभ्यां संबन्धाभ्यां तयोः उपादानोपादेयभावे प्रयोजनविरहात् । न च कार्यसामान्यस्य निमित्तोपादानतदतिरिक्तकारणत्रितयजन्यत्वनियमात् वायुसंयोगं प्रति घटादेरुपादानत्वमावस्यकमिति वाच्यम् । ध्वंसस्योपादानकारणानभ्युपगमेन तदन्तर्भावेनोक्तनियमव्यभिचारात् । भावत्वाश्रयणेऽपि महदादिस्थूलप्रपञ्चावच्छिन्नब्रह्म प्रति सूक्ष्मप्रकृतिकालाद्यव- च्छिन्ब्रह्मण एव एकस्य " साक्षान्चोभयाम्नानात्” इति सूत्रभाष्याद्यनुसारेण कारणत्वेन तादृशनियमासिद्धेः । कार्यद्रव्यं प्रति कारणत्रितयजन्यत्वमिति नियमाङ्गीकारे व्यभिचाराभावात् । तथा च भिन्नयोरुपादानोपादेयभावस्य लोकेऽप्यसिद्धया तन्त्र्यायेन भित्रयोः प्रपञ्चब्रह्मणोः उपादानोपादेयभावासिद्ध्या उपादानताद्वैविध्यं निर्मूलम् । पुष्पैः मालात्वाद्यवच्छिन्नोत्यत्ताविव घटत्वादिभाव्यवस्थावच्छिन्नस्य पिण्डत्वाद्यवच्छिन्नेनोत्यत्तौ कारकव्यापारसार्थक्यमिति आरम्भणाधिकरणे बहुशोव्यस्थापितत्वात् । घटो जायत इतिवत् घटत्वं जायत इति व्यवहाराभावेन अवस्थापृथक्कारणतायाः तन्नित्यतायाश्च तत्रैव निराकरणाच न कारकव्यापारार्थवत्त्वाय अवस्थां प्रति पृथक्कारणत्वं प्रामाणिकमिति विमृशन्तु । यदपि विशेषणभूतयोः स्थूलसूक्ष्मप्रपञ्चयोरपि साक्षादुपादानोपादेय- भावः चमसाधिकरणसिद्धः । तत्र “विकारजननीमज्ञामष्टरूपामजां धुवाम्” 15 इत्यादिश्रुत्यनुसारेण ब्रह्मशरीरभूताया एवाजायाः तादात्म्येन प्रपञ्चं प्रति हेतुत्वव्यवस्थापनादिति । तदत्यन्तसाहसम्। प्रथमाध्यायस्य कृत्स्नस्य ब्रह्मणि समन्वयाय प्रवृत्तत्वेन तत्र प्रकृत्युपादानत्वसमर्थनस्याध्यायसंगत्यभावात् । “जन्माद्यस्य यतः” इत्युक्तस्य ब्रह्मलक्षणस्य जगदुपादानत्वस्यासंभवपरिहाराय प्रथमपादः प्रवृत्तः । अतिव्याप्तिपरिहाराय पादत्रयं प्रवृत्तम्। तथा च श्रुतप्रकाशिका - “असंभवपरिहाररूपायोगव्यवच्छेदः प्रथमपादे उक्तः । अतिव्याप्तिपरिहाररूपान्ययोगव्यवच्छेदः त्रिपाद्या क्रियते । । " इति । आचार्यग्रन्थेऽयमर्थः सुप्रसिद्धः । तथा च सांख्याद्युक्तप्रधाने उक्तजगदुपादानत्वस्यातिव्याप्ति - वारणाय चतुर्थपादप्रवृत्त्या तत्र क्वापि कोणे विशेषणभूतप्रधानस्य विशेषणभूतप्रपञ्चं प्रति उपादानत्वसमर्थने कारणत्वलक्षणस्य अतिव्याप्तिस्थापनप्रसङ्गात् इति यत्किंचित् । " अजामेकाम्” इत्यादिश्रुतावपि “तद्धेदं तर्हि अव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत” इत्यत्रेव अजावच्छिन्नब्रह्मण एव कार्यप्रपञ्चावच्छिन्न- ब्रह्म प्रति कारणत्वस्य विवक्षितत्वेनानुपपत्त्यभावात् । यदपि लिङ्गदर्शनं विशेषणं प्रति विशेष्यस्य उपादानत्वे श्रुतप्रकाशिकादिकं तत्रापि उक्तकार्यकारणभावाप्रतीतेः । तथाहि " तत् कृत्स्त्रस्य जगतः ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात् तत्प्रत्यनीकनानात्वं प्रतिषिध्यते, न पुनः " बहु स्यां प्रजायेय” इति बहुभवननसंकल्पपूर्वकं ब्रह्मणो नानात्वं श्रुतिसिद्धं प्रतिषिध्यत इति परिहृतम्” इति श्रीभाष्यम् । तत्र श्रुतप्रकाशिका - " जगत इति पदं ब्रह्मपर्यन्तम् । तस्य ब्रह्मकार्यतयेति पदेन ऐक्यादिति पदेन चान्वयः । तदत्तर्यामिकतयेत्यत्र 16 सामर्थ्यात् जगत इति पदाध्याहारः । तेन सकृत् प्रयुक्तस्य जगच्छब्दस्य निष्कर्षकत्वानिष्कर्षकत्वविरोधपरिहारः ।” “सर्वं खल्विदं ब्रह्म तज्जलान्” इत्युक्तं जगतस्तज्जत्वं तल्लत्वं चोपजीव्याह

ब्रह्मकार्यतयेति । ब्रह्मशब्दः कारणावस्थचिदचिद्विशिष्टपरः । तदनत्वमुपजीव्याह तदन्तर्यामिकतयेति । तच्छब्दो विशेष्यपरामर्शी । चिदचिद्विशिष्टे प्रकृते विशोष्यांशस्यापि प्रकृतत्वात् । चशब्दस्योत्तरत्रात्वयः । तदन्तर्यामिकतया तदात्मकत्वेन चैक्यात् इति । एवमुभयविधैक्यस्य विहितत्वादित्यर्थः । यद्वा कृत्स्नस्य जगत इति निष्कर्षकः शब्दः । ब्रह्मशब्दोऽपि विशेष्यमात्रपरः । कार्यावस्थां प्रत्याधारत्वात् । आधारत्वं च साक्षाद्वा परंपरया वा मुख्यमेव । अतो ब्रह्मकार्यं जगत् । एवं ब्रह्मकार्यतया तदन्तर्यामिकतया च जगत् तदात्मकम् । तदात्मकत्वं नाम जगतस्तत्प्रकारतैकस्वभावतया पृथगवस्थानाभावात् तदन्तर्गतत्वम् । तेन प्रकारेणैक्यं, न तु स्वरूपैक्यम् । विशिष्टान्तर्भाव ऐक्यमित्यर्थः” इति । परव्यामोहशमनाय विशदीक्रियते । अत्र प्रथमव्याख्याने जगच्छब्दस्य ब्रह्मपर्यन्तत्वम् । कार्यतयेत्यनन्तरं निष्कर्षकजगच्छब्दाध्याहार इत्यादिक्केशमभिप्रेत्याह यद्वेति । w ननु सूक्ष्मचिदचिद्विशिष्टब्रह्मणः स्थूलचिदचिद्विशिष्टब्रह्म प्रत्येवोपादानतया17 तदुपादेयत्वं विशिष्टस्यैव, न तु विशेषणस्य स्थूलजगत इत्यत्राह - कार्यावस्थामिति । तदुपादेयत्वं हि तज्जन्यावस्थाश्रयत्वम्, यथा मृत्पिण्डोपादेयत्वं घटस्य मृत्पिण्डजन्यावस्थाश्रयत्वम्, एवं ब्रह्मोपादेयत्वं ब्रह्मजन्यावस्थाविशेषाश्रयत्वम् । तश्च विशिष्यब्रह्मणीव विशेषणे स्थूलजगत्यप्यस्ति । तस्मात् ब्रह्मजन्यावस्थाश्रयत्वरूप ब्रह्मोपादेयत्वस्य केवले जगत्यपि सत्त्वात् जगच्छब्दस्य निष्कर्षकत्वेऽपि न क्षतिः । ननु भाव्यवस्थावत्त्वमुपादेयत्वम् । तच प्रकृते स्थूलत्वादिरूपम् । ब्रह्मणि नास्तीति कथं विशिष्टब्रह्मण उपादेयत्वमित्यत्राह - आधारत्वं च साक्षात् परंपरया वा मुख्यमेवेति । विशिष्टब्रह्मरूपोपादानजन्यावस्थायाः स्वाश्रयापृ- थक्सिद्धत्वरूपपरंपरासंबन्धेन ब्रह्मणि उपादेये सत्त्वान्नास्योपादेयत्वानुपपत्तिः । साक्षात्संबन्धोपादानाद्विशेषणप्रपञ्चस्य तज्जन्य-भाव्यवस्थारूपतदुपादेयत्वोपपत्तिः । उपसंहरति - अत इति । अतः साक्षाद्वा परंपरया वा अवस्थाश्रयत्वस्य मुख्यत्वात् ब्रह्मकार्यं जगत्- विशेषणप्रपञ्च इत्यर्थः । अस्मिन् व्याख्याने ब्रह्मकार्यतयेति पदं ब्रह्मप्रयोज्यावस्थावत्त्वे लाक्षणिकम् । सा च जगच्छब्दस्य ब्रह्मपर्य तत्वाध्याहा- रादिक्लेशभिया आश्रिता । विशिष्टब्रह्म प्रति विशिष्टब्रह्मण एवोपादेयत्वं पूर्वकल्पवत् अत्राभिप्रेतम् । न तु विशेष्यं प्रति विशेषणप्रपञ्चस्य । तथा सति " आधारत्वं च साक्षाद्वा परंपरया वा मुख्यमेव” इति श्रुतप्रकाशिकावाक्ये परंपरयेति पदवैयर्थ्यापत्तेः । अपृथक्सिद्धिसंबन्धेन प्रपञ्चस्यैव साक्षात् ब्रह्मोपादेयत्वस्याभिप्रेतत्वे साक्षात्संबन्धेनैव ब्रह्मरूपोपादानजन्यावस्थाश्रयत्वस्य प्रपञ्चे सत्त्वात् ब्रह्मोपादेयतयेति निर्देशस्य व्याहतत्वात् । एतद्भाष्यं विशदीक्रियते

तत् = पूर्वपक्ष्युक्तं कृत्स्नस्य जगतः कृत्स्नजगच्छरीरिणो ब्रह्मणः, ब्रह्मकार्यतया = ब्रह्मोपादेयतया, जगत इत्यस्य उपादेयतयेत्यनेनान्वयः ऐक्यादित्यनेन च। तदन्तर्यामिकतया च तच्छरीरतया । तस्याभेदेन तदात्मकत्वेऽन्वयः । तदन्तर्यामिकत्वरूपतदात्मकत्वेन चेत्यर्थः । 18 अत्रानुषक्तस्य जगत इत्यस्य जगन्मात्रपरत्वं, न ब्रह्मपरत्वम् । “स्याचैकस्य ब्रह्मशब्दवत् ” (ब्र.सू.) इति सूत्रोक्तन्यायेन एकस्य जगच्छब्दस्य प्रदेशभेदेन अर्थान्तरपरत्वे दोषाभावात् । अनुषक्तजगच्छब्दस्य तदात्मकत्वेऽन्वयः । तेनेत्यध्याहारः । तेन ब्रह्मणा । तृतीयार्थः प्रतियोगित्वं ऐक्ये ऽन्वेति । ब्रह्मप्रतियोगिकेक्यादित्यर्थः । कार्यतया तदात्मकत्वेन चेति तृतीयाद्वयस्य प्रयोज्यत्वमर्थः । तस्य ऐक्येऽन्वयः । तथा च कृत्स्नजगद वच्छिन्नब्रह्मनिष्ठ कार्य तात यो ज्ये क्यात् । जगन्निष्ठब्रह्मशरीरत्वरूपब्रह्मात्मकत्वप्रयोज्यैक्याचेत्यर्थः । अयमर्थः - " सदेव सोम्येदमग्र आसीत्” “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत " इत्यादिकारणवाक्ये सदिदंपदयोः ब्रह्मेदंपदयोश्च सामानाधिकरण्यं अध्यासोपाधिकम् । " इदे सर्वं यदयमात्मा” “तदनुप्रविश्य, सञ्च त्यचाभवत्” इत्यादौ विरुद्धवदव- भासमानं सामानाधिकरण्यं बाधोपाधिकम्, न तु “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यत्रेव ऐक्योपाधिकम् । तत्र प्रथमसामानाधिकरण्यात् इदं रजतमित्यत्र रजतस्येव प्रपञ्चस्याध्यस्तत्वेन मिथ्यात्वसिद्धिः । उत्तरत्र चोरः स्थाणुः इत्यत्र चोरत्वस्येव आत्मनि सर्वबाधसिद्धिः इति केचित् । तदेतत् सर्वत्र सामानाधिकरण्यस्थले समानविभक्तिकत्वरूपाकाङ्क्षायाः wwwww पदद्वयप्रतिपन्नयोः साक्षात् ऐक्यगमकत्वमेवेति दूषयति कृत्स्नस्य जगतो ब्रह्मकार्यतया तेनैक्यादित्येकं वाक्यम् । कृत्स्नस्य जगतो ब्रह्मान्तर्यामिकतया तदात्मकत्वेन च तेन ऐक्यादित्यपरं वाक्यम् । उक्तस्थले सदिदम्पदयोः ब्रह्मेदंपदयोश्च समानविभक्तिकत्वरूपाकाङ्क्षया ऐक्यं बोध्यते । ननु इदं पदार्थाचेतनादिप्रपञ्चेन ब्रह्मणः कथमैक्यमत्र बोधयितुं शक्यते गौरश्व इत्यत्रेवेत्यत्राह ब्रह्मकार्यतयेति । उक्तसामानाधिकरण्यघटकेदंपदेन ब्रह्मोपादेयमेव बोध्यते न त्वचेतनादिकं प्राधान्येन । सूक्ष्मचिदचिद्विशिष्ट- ब्रह्मरूपोपादानं प्रति स्तूलचिददिद्विशिष्टब्रह्मण एव उपादेयत्वस्य 19 आरम्भणाद्यधिकरणसिद्धत्वेन प्रकृते इदम्पदेनापि स्थूलप्रपञ्चावच्छिन्नब्रह्मण उपस्थापितत्वेन तयोरैक्यात् सामानाधिकरण्येन ऐक्यबोधनमुपपन्नम् । न च सदेव सोम्येदं इत्यादाविदंपदेन प्रत्यक्षसिद्धप्रपञ्चवाचिना अप्रत्यक्षब्रह्मबोधनं लाक्षणिकमिति वाच्यम् । तथा सति तादृशेदं पदेन अप्रत्यक्षप्रपञ्चाग्रहणेन तस्याध्यस्तत्वाद्यसिद्धेः । यदि प्रमाणप्रतिपन्नकृत्स्नार्थ- बोधकत्वं इदंपदस्य युक्तमिति कृत्स्नाध्यस्तत्वसिद्धिरित्युच्यते तदा इदमः प्रत्यक्षवाचिनः परोक्षबोधनं भवतोऽपि लाक्षणिकमेवेति प्रत्यक्षादिप्रमाणा- बाधायाध्यस्तत्वपरिकल्पनमन्तरैव तज्जलानिति श्रुतिरूपतात्पर्यलिङ्गेन इदम्पदस्य प्रपञ्चावच्छिन्नपरत्वं लाक्षणिकमप्याश्रयितुं युक्तम् । वस्तुतः सर्वनाम्नः इदमोऽपि बुद्धिविशेषविषयतावच्छेदक- त्वोपलक्षितधर्मावच्छिन्ने शक्तेः न्यायसिद्धत्वेन प्रकृते तज्जलानिति श्रुतिरूपतात्प- र्यलिङ्गबलेन प्रकृतेदंपदेन स्थूलप्रपञ्चावच्छिन्नब्रह्मत्वरूपधर्मावच्छिन्नस्य उक्तशक्तया लाभेन न लक्षणागन्धोऽपि । अत एव शरीरवाचिनां शरीरिपर्यन्तत्वन्यायेन इदंपदस्य स्थूलचेतनाचेत- नब्रह्मपर्यन्तत्वक्लेशोऽपि नादरणीयः । तथा च " सदेव सोम्येदमग्र आसीत् " " सर्वं खल्विदं ब्रह्म तज्जलान् " इत्यत्रेदम्पदबोध्येन स्थूलप्रपञ्चावच्छिन्नब्रह्मरूपकार्यब्रह्मणा सह्मपदोपात्तकार- णब्रह्मण ऐक्यं बोधितमिति सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्रेव सामानाधिकरण्यस्य ऐक्यपरत्वसंभवान्नाध्यासोपाधिनिबन्धनत्वमित्यभिप्रेत्य ब्रह्मकार्यतयेति भाषितम् । एवं " तत् सृष्ट्वा । तदेवानुप्राविशत् । तदनु प्रविश्य । सच त्यचाभवत्” इत्यत्र " इदं सर्वं यदयमात्मा" इत्यत्र च साक्षात् सत्त्यद्भावस्य जडाज्ञत्वरूपस्य ब्रह्मणि असंभवात् तत्रानुप्रवेशस्य हेतुत्वकथनाच्च सत्त्यत्पदेनापि ब्रह्मैव तदवच्छिन्नं विवक्षितम् । 20 पामरप्रयोगे शरीरपरतया प्रयुक्तस्यापि देवनुष्यादिशब्दस्य देवो जानाति मनुष्यो जानाति इति तान्त्रिकप्रयोगे मुख्ययैव वृत्त्या देवादिशब्दानां ज्ञानाद्यन्वया- बाधाय तत्तद्देवादिशरीरावच्छिन्नात्मपरत्ववत् यस्याव्यक्तं शरीरं यस्यात्मा शरीरं इत्यादिश्रुत्या चेतनाचेतनाद्योः भगवच्छरीरत्वकथनेन तदभिधायिनां सत्त्यदादिश- ब्दानां तत्तदवच्छिन्नभगवत्परत्वस्य मुख्ययैव वृत्त्या सिद्ध्या ब्रह्मणा सह सत्त्यदादिश- ब्दबोध्यस्य ब्रह्मणः ऐक्यमबाधितमिति नात्र बाधार्थत्वावकाशः । अपि च " तदनुप्रविश्य । सच त्यचाभवत्" इत्यत्र सत्त्यद्भावोपायः “ पीत्वा तृष्णां शमयति" इत्यत्र “भूतं भव्यायालम्” इति न्यायेन पाथः- पानतृष्णाशमनयोः हेतुहेतुमद्भावप्रतीतिवत् अनुप्रवेशसदादिभावयोः हेतुहेतुमद्भावः प्रतीयते । सृज्यपदार्थे संयोगविशेषरूपस्य संकल्पविशेषरूपस्य वा ब्रह्मानुप्रवेशस्य सदादिभावं प्रति हेतुत्वं वक्तव्यम् । सदादिभावस्य जडत्वादिरूपत्वे तस्य घटत्वादिवत् पदार्थे स्वतः सिद्धत्वेन ब्रह्मानुप्रवेशप्रयोज्यत्वं न संभवति । किं त्वेवं वक्तव्यम् । तथा हि " सोऽकामयत" इत्यत्र श्रुततच्छब्दस्य सच त्यचाभवत् इत्यादावनुषङ्गः । सः तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच त्यचाभवत् इति वाक्यं पर्यवसन्नम् । तत्र तच्छब्दार्थे स्त्रष्टृब्रह्मणि सत्पदार्थस्य त्यत्पदार्थस्य चाभेदेनान्वयः । अथवा नीलो घटो भवतीत्यत्र नीलपदार्थस्याधेयतासंबन्धेन भूधात्वर्थासाधारणधर्मेऽन्वये तदन्विताख्यातार्थस्य घट इव सदाद्यन्वित- भूधात्वर्थान्विताख्यार्थस्य तच्छब्दार्थे ब्रह्मण्यन्वये प्रकारान्तरेण वान्वये ब्रह्मणि सदाद्यभेदो लभ्यते । सदादिशब्दस्य सच्छरीरकार्थत्वे सच्छरीरकाभेदः सच्छरीरकत्वमेव भवति । यथा गवाभेदः गोत्वम् । सच्छरीरकत्वस्य सति अनुप्रवेशपूर्वकनियन्तृत्वरूपत्वात् विशिष्टसत्तां प्रति विशेषणसत्तायाः प्रयोजकत्वात् अनुप्रवेशपूर्वकनियन्तृत्वरूपशरीरित्वरूपे विशिष्टे अनुप्रवेशस्य प्रयोजकत्वा- बाधेनास्मत्पक्ष एव हेतुकथनमुपपद्यते । सदादिपदानां शरीरिणि लक्षणाभ्युपगमेऽपि न क्षतिः । हेतुहेतुमद्भावसंर- 21 क्षणस्य प्रकारान्तरेण असंभवात् । तदिदमभिप्रेत्य तदन्तर्यामिकतया तदात्मकत्वेन च तेनैक्यादिति द्वितीयं भाष्यं प्रवृत्तम् । अत्र कृत्स्नप्रयोज्यनैक्यं ब्रह्मानुयोगिकं कृत्स्त्रजगत्प्रतियोगिकमुक्तरीत्या जगच्छरीरकत्वमेव । अत्र परमतं चिन्त्यते । • " सदेव सोम्येदं सर्वं खल्विदं ब्रह्म तज्जलान्" इत्यादौ ब्रह्मशब्दार्थे तादात्म्यापरनामधेयस्वरूपसंबन्धेन ब्रह्मणि इदम्पदार्थस्यान्वय उक्तः । तत्र स्वरूपसं- बन्धस्याबाधितत्वे सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्र सत्यब्रह्मणोरिव सामानाधिकरण्यस्या बाधितत्वेन प्रपञ्चस्याध्यस्तत्वासिद्धिः । प्रत्युत सत्यत्वस्येव ब्रह्मणि जडाजडरूपत्वस्याबाधात्तवानिष्टम्। तादृशस्वरूपसंबन्धस्य बाधितत्वे शुक्ताविदं रजतमिति वाक्यवत् सदेव सोम्येदं सर्वं खल्विदं ब्रह्म इत्यादिश्रुति वाक्यानामप्रामाण्यम्। सामानाधिकरण्यस्याध्यासनिबन्धनत्वे तज्जलानिति हेतुकथनं निरर्थकम्। न हि शुक्तिरजततादात्म्यमुपादेयोपादेयभावनिबन्धनम् । एवं इदं यदयमात्मा इत्यादौ सामानाधिकरण्यस्य बाधार्थत्वे चोरः स्थाणुरित्यत्र चोरपदस्य चोरत्वेन प्रतिपन्नोऽर्थः । स्थाणुपदस्य चोरत्वाभाववति लक्षणा । तथा च चोरत्वेन प्रतिपन्नः चोरत्वाभाववान् इत्यर्थवर्णनवत् इदं सर्वं यदयमात्मा इत्यत्र इदंपदस्य इदंत्वेन प्रतिपन्ने आत्मपदस्य इदंत्वाभाववति लक्षणा स्वीकर्तव्या । सा चात्यन्तजघन्या । विरुद्धसामानाधिकरण्यस्थले एकपदलक्षणयैवोपपत्तेः । तथा चेदंपदस्य इदमवच्छिन्नब्रह्मलक्षणया पदद्वयप्रतिपन्नयोरैक्याबाधे बाधात्वकल्पनं निरर्थकम्। शरीरवाचिनां शरीरिपर्यन्तत्वनयेनात्र लक्षणापि नास्ति इत्यादयो दोषा आकार एव द्रष्टव्याः । विरुद्धवदवभासमानसामानाधिकरण्यस्य अबाधितार्थत्वमुक्त्वा तत्प्रत्यनीकनानात्वं प्रतिषिध्यत इति । " नेह नानास्ति किंचन, मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" “यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्” इत्यादिश्रुतिषु इत्यध्याहारः । तयोः पूर्वोक्तैकत्वयोः प्रत्यनीकं विरुद्धं यन्नानात्वं भेदः उक्तासु श्रुतिषु प्रतिषिध्यत भेदनिषेधश्रुतीनां प्रपञ्चाबाधेन निर्वाहमाह 22 इत्यन्वयार्थः । अनेनोपादानोपादेयभेदः कुतर्कसिद्धः नियन्तृभेदश्च निषेध्य इत्युक्तं भवति । किमर्थं संकोच इत्यत्राह " न पुनः बहु स्यां प्रजायेयेति बहुभवन संकल्पपूर्वकं ब्रह्मणो नानात्वं श्रुतिसिद्धं प्रतिषिध्यत इति” अत्र बहु स्यां प्रजायेयेति बहुत्वमनुसंहितम्। बहुत्वं च एकत्वातिरिक्तसंख्यारूपम् । तच भेदव्याप्यमिति ब्रह्मण्यपि महदादिकार्यरूपेण बहुत्वस्य भेदस्य च प्रमाणान्तराप्रतिपन्नस्य तात्पर्यविषयत्वेन बाधायोगात् । “न हिंस्यात् सर्वा भूतानि” इति सामान्यनिषेधस्य " अग्नीषोमीयं पशुमाल- भेत” इति विहितहिंसाव्यतिरिक्तविषयत्ववत् मृदारब्धघटशरावादिषु कार्येषु भेदवत् स्थूलचिदचिद्विशिष्टब्रह्मरूपोपादेयेषु घटत्वशरावत्वादिना घटशरावादीनां परस्परं भेदवत् स्थूलचिदचिद्रूपविशेषणभेदेन भेदस्य ब्रह्मण्यपि " सर्वं खल्विदं ब्रह्म” “सदेव सोम्येदम्" इत्यादिश्रुतिप्रतिपन्नत्वेन बाधायोगात् । उपादानोपादेयैक्य विरुद्धकुतर्क सिद्ध उपादानोपादेयभेद एव निषेधविषय इत्यर्थः । अत्र बहु भवनसंकल्पपूर्वकत्वस्य बहुत्वे कथनेन ब्रह्मणः सर्वज्ञत्वसिद्ध्या भ्रान्त्ययोगेन अद्वैतिभिः प्रपञ्चस्य मित्यात्वकल्पनेन विरोधपरिहारकथनं निरस्तम् । ननु " नेह नानास्ति किंचन" इत्यादिश्रुतिषु उपादानोपादेयभेदनिषेधः क्रियत इति उक्तभाष्यात् अवगम्यते । तन्न संभवति । भेदवाचकनानापदसत्त्वेऽपि तत्प्रतियोग्यनुयोगिउपादानोपादेयवाचकपदाभावात् । न च " न हिंस्यात् सर्वा भूतानि” इत्यत्रोत्सर्गापवान्यायेन " अग्रीषोमीयं पशुमालभेत" इति विहितहिंसाव्यतिरिक्तहिंसाया लक्षणादिना हिसिधातुना बोधनवत् " नेह नानास्ती" त्यत्र नानापदेन ब्रह्मरूपौपादापादेयप्रतियोग्यनुयोगिक भेदोऽर्थः लक्षणीयः । नञा तन्निषेधबोधने उक्तार्थलाभ इति वाच्यम् । ब्रह्मरूपोपादानोपादेयप्रतियोगिकभेदरूपार्थस्य प्रसिद्धत्वे तन्निषेधायोगात् । अप्रसिद्धत्वे तस्य नानापदलक्ष्यत्वायोगात् । मैवम् । 23 मनसैवानुद्रष्टव्यं, नेह नानास्ति किंचन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।। इति श्लोकः बृहदारण्यकषष्ठचतुर्थे श्रूयते । ब्रह्मपुराणांमध्ये इति पूर्वमन्त्रस्थब्रह्मपदमनुवर्तते । मनसा विशुद्धेन मनसा अनुद्रष्टव्यं ब्रह्म । अनेन ब्रह्मसाक्षात्कारे विशुद्धमनसः करणत्वं विहितम् । एवकारेण मनोव्यतिरिक्तस्य तत्र कारणत्वव्यवच्छेदः । तेन शाब्दब्रह्मापरोक्ष्यवादः निरस्तः । एतत्प्रपञ्चः शतदूषण्यां स्पष्टः ।

यद्यपि ज्ञानसामान्यं प्रति मनसः करणत्वं लोकसिद्धमिति तद्विधानं व्यर्थम् । एवकारार्थपरिसंख्याविधानाङ्गीकारेण वाक्यसार्थक्यात् । तत्प्रयोजनमुक्तम् । एकधैवानुद्रष्टव्यमित्युत्तरमन्त्रे दर्शनानुबादेन एकत्वं विधित्सितम् । तद्विरुद्धनानात्वनिन्दया तत् स्तौति नेह नेत्यारभ्य पश्यतीत्यन्तेन । " स विश्वकृत् स हि सर्वस्य कर्ता" इति व्यवहितपूर्वमन्त्रे विश्वकृत् पदेन प्रस्तुतं जगदुपादानं इहेति पदेनोच्यते । इह जगदुपादाने । किंचनपदस्य सर्वनामत्वादव्ययत्वा तेनोपादेयं बोध्यते । किंचन स्थूलचिदचि- द्विशिष्टरूपमुपादेयम् । तस्य नानापदार्थे भेदे प्रतियोगितासंबन्धेनान्वयः । तस्य च नञर्थात्यन्ताभावे प्रतियोगितयान्वयः । तस्यास्तिपदार्थाधारत्वे । तत्र इहपदार्थकारणब्रह्मवृत्तित्वस्यान्वयः । तथा च स्थूलचिदचिद्विशिष्टरूपोपादे- यभेदात्यन्ताभावाधारत्वं जगदुपादाननिष्ठमिति वाक्यार्थः । अयमर्थः - कृत्स्नस्य जगतो ब्रह्मकार्यतया ऐक्यात् तत्प्रत्यनीकनानात्वं प्रतिषिध्यत इति अनेन वाक्येन भाषितः । एवं वाक्यार्थवर्णने न प्रपञ्च मिथ्यात्वावकाशः । न वा कस्यचित् पदस्य संकुचितार्थत्वं वैयर्थ्यं च । विधित्सितमेकत्वस्वरूपं निरूप्य तद्विरुद्धदर्शनं निन्दति मृत्योरिति । इह = उपादाने ब्रह्मणि । किंचनेत्यनुषङ्गः । तस्य नानापदार्थेऽन्वयः । इहपदार्थब्रह्मविशेष्यत्वस्य निरूपकतया दर्शनेऽन्वयः । नानापदार्थस्य प्रकारतानिरूपकतया तत्रान्वयः 1 ETः कु तर्क वासनावान् ब्रह्मनिष्ठविशेष्यतानिरूपकस्थूलचिदचित्प्रपञ्चावच्छिन्नरूपकार्यप्रतियोगिक- 24 भेदप्रकारकदर्शनाश्रयः, सः मृत्योः एकस्मात् संसारात् संसारान्तरं प्राप्नोतीत्यर्थः । अनया उपादानोपादे यभेददर्शननिन्दया तयोर्भेदाभावः सिध्यति । कृत्स्नोपादेयतादात्म्यसिद्ध्या स्तुतिश्च । अथवा एकधेत्यनेन नियन्त्रैक्यं विधित्सितम् । पूर्ववत् तत् स्तौति - नेहेति । इह “ ईशानं भूतभव्यस्य " इति व्यवहितमन्त्रोक्ते कृत्स्त्रप्रपञ्चनियन्तरि । नानापदेन सजातीयभेदो बोध्यते । तथा च किंचनपदेन स्वसजातीयं बोध्यते सर्वनामत्वबलेनैव । साजात्यं च कृत्स्नजगन्नियन्तृत्वेन । किंचनपदार्थस्य स्वसजातीयस्याधेयतासंबन्धेन नानापदार्थभेदेऽन्वयः । स्वसजातीयनिष्ठभेदस्य प्रतियोगिता संबन्धावच्छित्तप्रतियोगिता निरूपकत्वसंबन्धेन नञर्थेऽन्वयः । अन्यत् पूर्ववत् । तथा च स्वसजातीयनिष्ठभेदप्रतियोगित्वाभावाश्रयत्वं नियन्तृनिष्ठमिति वाक्यार्थः तदन्तर्यामिकतया तदात्मकत्वेनैक्यात् तत्प्रत्यनीकनानात्वं प्रतिषिध्यत इति द्वितीयवाक्येन दर्शितः । www

  • तत्प्रयत्नीकनानात्वदर्शनं निन्दति मृत्योरिति । यः = स्वस्वातन्त्र्यदर्शी इह = कृत्स्त्रजगन्नियन्तृ विशेष्यकस्वसजीतीयभेदप्रतियोगित्वविषयकदर्शनवान्, सः पूर्ववत् । तथा च एकधैवानुद्रष्टव्यमित्यत्र, एकधा एकत्वेन एकत्वं न संख्यारूपं, अव्यावर्तकत्वात् । स्वसजातीयद्वितीयरहितत्वं स्वसजातीयनिष्ठभेदाप्रतियोगित्वरूपं पर्यवसितम् । एतदेव पूर्वं व्यतिरेकशब्देन निरूपितं दाढर्याय । अथ वा “विनञ्भ्यां नानाजी सह” इति पाणिनिस्मृत्या असहार्थे पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययाविति तद्वृत्त्या च नानाशब्दस्य पृथग्भावार्थत्वमप्यस्ति । स्मृत्यनुग्रहादयमेवार्थः शक्यः । पृथग्भावश्च पृथक्सिद्धत्वमेन न तु भिन्नत्वम् । सूत्रस्थनसहशब्देन साहित्याभावबोधनेन मूलानुरोधेन पृथग्भावपदस्यापि साहित्याभावार्थत्वस्यावश्यकत्वात् साहित्या- भावस्य पृथक्सिद्धत्वे पर्यवसानात् । 25 अयमर्थः - नेह नानास्ति किंचन इति । किंचन यत्किंचिदपि वस्तु इह ब्रह्मणि नाना पृथक्सिद्धत्वम् । ब्रह्मणीति सप्तम्यर्थनिरूपितत्वस्य नानापदार्थेऽन्वयः । तस्य स्वरूपसंबन्धावच्छिन्नप्रतियोगिताकत्वसंबन्धेन नञर्थाभावे तस्यास्त्यर्थे आधारत्वे तस्य किंचनपदार्थे । तथा च यत्किंचिदपि वस्तु ब्रह्मनिरूपितपृथक्सिद्धत्वा- भावाश्रयत्ववदिति वाक्यार्थः । • मृत्योः स मृत्युमाप्रोति य इह नानेव पश्यतीति । किंचनेत्यनुवर्तते । यः पुरुषः किंचिदपि वस्तु ब्रह्मपृथक्सिद्धं पश्यति स मृत्योर्मृत्युमाप्नोति । तस्मात् ब्रह्म एकधा सजातीयरहितत्वेन, अनुद्रष्टव्यं साक्षात्कर्तव्यम् । अत्र साजात्यं “ यस्मिन् पञ्चजनाः आकाशश्च प्रतिष्टितः” इति पूर्वमन्त्रोक्तकृत्स्त्रप्रपञ्चाधारत्वेन । कस्यचिद्वस्तुनः पृथक्सिद्धत्वे ब्रह्मणः कृत्स्नप्रपञ्चाधारत्वं न संभवतीति तदुपपादनेन नेह नानेति मन्त्रः एकत्वविधिस्तुतिपर इति तयोरेकवाक्यत्वमुपपन्नम्। एतेन प्रपञ्चापलापस्य प्रसक्तिरेव नास्ति । न वा कस्यचित् पदस्य लक्षणा वैयर्थ्यं वा । अथ वा मनसैवानुद्रष्टव्यं नेह नानास्ति किंचन । मृत्योः स मृत्युमाप्रोति य इह नानेव पश्यति ।। =3 इति । मनसैवेत्येवकारेण भगवत्साक्षात्कारे करणान्तरव्यवच्छेदः कृतः । तत्र करणान्तरदर्शने निन्दामाह नेह नानास्ति किंचन । इह = बह्मसाक्षात्कारे, नाना = मनसो व्यतिरिक्तं, किंचन यत्किंचिदपि बाह्येन्द्रियं वा शब्दो वा नास्ति । इह = साक्षात्कारे मनोव्यतिरिक्तं किंचिदपि करणतया पश्यति यः स मृत्योर्मृत्युमानोतीत्यर्थः । एतेन घटोऽस्तीत्यादि सकलप्रत्यक्षगम्यत्वं शब्दजन्यसाक्षात्कारगम्यत्वं च वदन्तो निरस्ताः । " न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ” । इत्यादिश्रुतिविरोधात् प्रत्यक्षस्य संनिकर्षजन्यत्वनियमाचेत्यर्थः । अथवा “यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्रोति य इह नानेव पश्यति ।। 26

इति श्रुतिः कठवल्लयाम् । अयमर्थः इह = अचेतनप्रपञ्चे यदेव = यादृशमेव ब्रह्मास्ति, तत् तादृशं ब्रह्मैव, अमुत्र चेतन प्रपञ्चेऽस्ति, तदनु = तदेव तादृशं ब्रह्मैव इह अचेनप्रपञ्चेऽस्ति । इह = चेतनाचेतननिष्ठब्रह्मणि । नाना = परस्परं भेदं यः पश्यति मृत्योर्मृत्युमाप्नोतीति । अभ्यास ऐक्यदाढयर्थः ।

“य आत्मनि तिष्ठन् योऽव्यक्ते तिष्ठन्” इत्यादिश्रुत्या ब्रह्मणः सर्ववृत्तित्वावगमेन आश्रयभेदेन भेदमाशङ्कय निरस्यति - यदेवेति । तद्वत् प्रकृत बृहदारण्यकश्रुत्यर्थ वर्णनं युक्ततरम् । तथाहि पूर्वं यस्मिन् पञ्च पञ्चजना इति मन्त्रे अचित्प्रपञ्चावच्छिन्नं ब्रह्म प्रस्तुतं इहशब्देन परामृश्यते । इह = अचित्प्रपञ्चावच्छिन्नब्रह्मणि किंचन अचिदवच्छिन्नं ब्रह्म, नाना भेदः, किंचनपदार्थस्य प्रतियोगितया तत्रान्वयः । तस्य नञर्थे, तस्यास्त्यर्थे । तथा चाचित् पञ्चावच्छि शब ह्मनिरूपिताधारत्वं चित्प्रपञ्चावच्छिन- ब्रह्मप्रतियोगिक भेदाभावाश्रयमिति पर्यवसितार्थः । तादृशभेदाभावः तादृशब्रह्मनिष्ठ इति यावत् । एवं “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवा- भूत् तत् केन कं पश्येत्” इति श्रुतेरयमर्थः । हि इति लोकभ्रान्त्यनुवादः । यत्र यदा, सर्वस्येत्यध्याहारः । “अस्य गोर्द्विदीयोऽन्वेषणीयः " “यथा चोलनृपः सम्त्राद्वितीयोऽस्ति भूतले” इत्यादिप्रयोगेषु द्वितीयपदस्य सजातीय द्वितीयपरत्वदर्शनेन प्रकृतेऽपि द्वैतपदस्यात्मसजातीय द्वितीयत्वमर्थः । पूर्वत्र आत्मनः प्रकृतत्वात् ज्ञातमिति पदाध्याहारः । तथा च यदा तमोगुणोद्रेककाले सर्वस्याचेतनप्रपञ्चस्य द्वैतं स्वतन्त्रतया ज्ञातं इवशब्देन ब्रह्मव्यतिरिक्तस्वतन्त्रतायाः मिथ्यात्वं सूच्यते । भवति स्वतन्त्रात्मसाजात्यं स्वतन्त्रत्वमेव । तथा च भगवद्व्यतिरिक्ते सर्वत्र स्वतन्त्रताबुदौ । तदितरः इति । तत् = स्वतन्त्र इतरः, इतरं = स्वतन्त्रमन्यं पश्यति । निषेधार्थमेतद्वाक्यमनुवादः । सर्वत्र लोकभ्रान्तिसिद्धं स्वातन्त्र्यं निषेधति । यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत् इति । यत्र = यदा,27 सत्त्वोन्मेषकाले, अस्य = जिज्ञासोः, सर्वं = चेतनप्रपञ्चजातं, ज्ञातमित्यध्याहारः । आत्मैव जगत्कारणतया प्रोक्तः पूर्वोक्त आत्मेव सर्वं कृत्स्त्रचेतनप्रपञ्चनियन्तृ ज्ञातमभूदित्यन्वयार्थः । तथा च पूर्वोक्तात्मैव स्वतन्त्रभूतः नियन्ता नान्य इति ज्ञात इत्यर्थः । तत् तदा सत्त्वोत्मेषकाले, केन = स्वतन्त्रेण कं स्वतन्त्रं पश्येदित्यर्थः । अत्र वाक्यद्वये सर्वमतेऽपि ज्ञातमिति पदाध्याहार आवश्यकः । द्वैतस्य मिथ्यात्वेन भवतीति कालसंबन्धितया निर्देशायोगात्, यदा तदा शब्दान्वयायोगा । अयमर्थः श्रुतप्रकाशिकादिषु अन्वेषणीयः । अत्र सर्वशब्दस्य शरीरिपर्यन्तत्वन्यायेन तदन्तर्यामिपरत्वान्न लक्षणा । अनया योजनया स्वतन्त्रात्मभ्रमनिरास इति भाषितम् । A em अथवा पूर्वं “न प्रेत्य संज्ञास्ती” ति सर्वबन्धवियोगानन्तरं, संज्ञा देहात्मैक्यभ्रमो नास्तीत्युक्तम् । कुतो नास्तीत्यपेक्षायां मोक्षे भ्रमकारणविरहादिति वक्तुं तत्कारणप्रदर्शनपूर्वकं मोक्षे तदभावं वदति वाक्यद्वयेन यत्रेत्यादिना । भ्रम कारणं प्रथमतो दर्शयति यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीति । यत्र = यदा भोगकर्मपरिपाककाले । हि शब्दः शरीरादिसंबन्धय लोकप्रसिद्धत्वानुवादः । द्वैतं = भिन्नम् । कस्मादित्यपेक्षायां “यत्र त्वस्य सर्वमात्मैवाभूत्” इति निषेधवाक्ये आत्मपदश्रवणात् तदाकृष्यते, पञ्चम्यत्ततया विपरिणम्यते च आत्मनः द्वैतमिवासीदिति पर्यवसन्नम् । आत्मव्यतिरिक्तं भोग्यभोगोपकरणादिकं अस्य जीवस्य भवति । अस्येत्यपि उत्तरवाक्यादाकर्षणम् । तत् = तदा, इतरः = = तदा, इतरः = देहेद्रियादिभ्यः भोग्यभोगोपकरणादिभ्यः इतर ः जीवः । आत्मानमित्यध्यहारः । आत्मानं इतरं = स्वव्यतिरिक्तं देहेद्रियादिकं पश्यति देवोऽहं स्थूलोऽहमित्यादि भ्रान्तिमान् भवतीत्यर्थः । इयमेव भ्रान्तिः संज्ञेत्यनेनानूद्यते । समित्येकीकारे इत्यनेन देहेन्द्रियादिना एकीकृत्यज्ञानं संज्ञेति यावत् । देहेन्द्रियादिमोक्षे तादृशभ्रान्तिं निषेधति यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन के पश्येदिति । यत्र यदा सर्वकर्मवियोगकाले । प्रत्येत्युक्तसर्वशरीरवियोगकाले वा । तुशब्देन देहेन्द्रियादिसंबन्धस्यासंभावितत्वं द्योतयति । अस्य = मुमुक्षोः । 28 सर्वमात्मेवाभूदिति इदं एवकारार्थप्रधानम् । आत्मव्यतिरिक्तं किंचिदपि देहादिकमस्य नाभूदिति, नतु सर्वमात्मैवाभूदिति सर्वोद्देशेनात्मत्वविधानपरम् । इदंपदार्थजडाज- डप्रपञ्चे आत्मतादात्म्यायोगात् आत्मनि जडदेहतादात्म्यभ्रान्तेरेव संसारहेतुत्वेन तत् केन कं पश्येत् इति प्रपञ्चदर्शननिषेधायोगात् । तथा च सर्वकर्मक्षये तज्जन्यदेहेन्द्रियाभावात् तत्संपर्कप्रयुक्तसंज्ञाश- ब्दोदितदेहात्मभ्रान्तेरयोगत् तज्जन्यविशेषदर्शनादिकं नास्तीत्यर्थः । ननु " सर्वमात्मैवाभूत्” इति वाक्यं बाधार्थं, चोरः स्थाणुः इतिवत् । यथा हि चोरः स्थाणुरित्यत्र चोरपदस्य चोरत्वेन प्रतिपन्ने लक्षणा । स्थाणुपदस्य चोरत्वाभाववति लक्षणा । तथा च चोरत्वेन प्रतिपन्नः चोरत्वाभाववानिति पर्यवसन्नम् । तथा प्रकृते सर्वपदस्य सर्वत्वेन प्रतिपन्ने लक्षणा आत्मपदस्य तदभाववति लक्षणा । तथा च सर्वत्वेन प्रतिपन्नं प्रपञ्चरूपसर्वत्वाभाववत इति बोधे पुरोवर्तिनि चोरत्वबाधवत् सर्वबाधसिद्धिरिति मैवम् । बाधार्थसामानाधिकरण्यस्यैव जननी मे वन्ध्यतेतिवत् व्याहतार्थत्वात् - अप्रामाणिकत्वात् । न्यायमीमांसादौ तादृशप्रयोगस्यैवासिद्धेः । प्रपञ्चाभावस्य शशशृङ्गाभाववन्नित्यसिद्धत्वेन कालविशेषसत्ताबोधकयत्राभूदिति पदयोरनन्वयात् । एवकारवैयर्थ्यात् । ज्ञातमिति पदाध्याहारे तस्यैव दोषत्वात् । अस्येति पदविरोधात् । प्रपञ्चाभावस्यासंबन्धिकत्वेन अस्येत्यनन्वयात् । वस्तुतः “यो होता सोऽध्वर्युः” इत्यत्र अध्वर्युपदस्य अध्वर्युकार्य- करत्वलक्षणामभ्युपागम्य अध्वर्युकार्योद्देशेन होतृविधानवत् अस्यसर्वमात्मैवाभूदित्यत्र अस्य सर्वेति पदाभ्यां जीवसंबन्धिदेहादिकार्यकारी आत्मैव यदासीत् तदा केन कं पश्येदिति अन्वयार्थः । आत्मरतिः आत्मक्रीडः आत्ममिथुनः इत्यत्र आत्मा मिथुनं यस्य आत्ममिथुन इति विग्रहे आत्मपदार्थे स्त्रीपुंद्वयमिथुनतादात्म्यस्य बाधितत्वेन मिथुनपदस्य मिथुनजन्यप्रीतिजनके लक्षणामङ्गीकृत्य सर्वविधप्रीतिः आत्मनैव भवतीत्यर्थाङ्गीकारवत् 29 प्रकृतेऽपि मुक्तस्य प्राकृतभोग्यभोग्योपकरणादिजन्यप्रीतिः आत्मनैव भवतीति पर्यवसानम् । शङ्खः पाण्डरः एवेतिवत् प्रकृते प्राकृतपदार्थजन्यप्रीतिजनकप्राकृतपदार्थे आत्माभेदस्य बाधितत्वेन उद्देश्यतावच्छेदकव्यापकत्वरूपायोगव्यवच्छेदस्य एवकारेण बोधनासंभवे ऽपि प्राकृतपदार्थजन्यप्रीतिसजातीयप्रीतो आत्मजन्यत्वोपपत्त्या तावन्मात्रतात्पर्यग्राहकत्वेन तत्सार्थक्यात् । तदेवं सूत्रभाष्यादिषु उपादानतात्रैविध्यस्याप्रतीत्या तन्निरूपणं नादरणीयम् । ननु भावप्रकाशिकायां न विलक्षणत्वाधिकरणे विशेषणं प्रति- विशेष्यस्योपादानत्वं निरूपितम् । तत्कथं त्रैविध्यमुपादानत्वस्यासांप्रदायिकमिति चेत् न । नीलकण्ड भाष्यकारमतस्य न विलक्षणत्वाद्यधिकरणस्थस्य तादृशोपादानत्वस्य दृष्यत्वाय तैस्तन्मतलेखनात् । तत्रास्वारस्याभिप्रायसूचनार्थं केचित्तु इत्युक्तम् । पूर्वोक्तप्रकारेण नीलकण्डमतस्य दुष्टत्वस्पष्ट्यात् विशिष्य दूषणानुक्तिरिति दिक् । 30 श्रीः श्रीमते नृसिंहतातयार्यमहादेशिकाय नमः आश्रयानुपपत्तिः स जयति यतिराजमुनिः करुणाजलधिः क्षमापरिष्कार.. । करिशैलकृष्णमेघः काङ्गितवर्षी यदर्पितैस्तोयैः ।। केचित् ब्रह्म स्वयंप्रकाशज्ञानरूपं तद्व्यतिरिक्तं कृत्स्नं तत्र कल्पितम् । तत्राविद्यासंज्ञको दोषः हेतुः । स च भावरूप इति वदन्ति ।

अत्राचार्याः स दोषः किमाश्रित्य भ्रमं जनयति । न तावज्जीवमाश्रित्य । जीवत्वावच्छिन्नस्याविद्यापरिकल्पितत्वेन अविद्योत्तर भाविनस्तस्य अविद्याश्रयत्वायोगात् । न च अविद्याजीवभावयोः स्वरूपानादित्वेन तदाधाराधेय- भावस्याप्यनादित्वेन न दोष इति वाच्यम् । अविद्यावज्जीवस्य कल्पितत्वेन स्वरूपोच्छित्त्यापत्या मोक्षाधिकारिविलोपापत्तेः । तथा चोपनिषदामप्रामाण्यम् । किं च अविद्याप्रतिबिम्बितचैतन्यस्य जीवशब्दाभिधेयतया बिम्बप्रति- बिम्बयोरैक्यस्य भवता साधितत्वेन च जीवगता अविद्याप्रयुक्ता दोषाः ब्रह्म दूषयेयुः । न चोपाधेरविद्यायाः प्रतिबिम्बपक्षपातित्वात् प्रतिबिम्बभूतजीव एव दोषाधायकत्वं न बिम्बे ब्रह्मणीति वाच्यम् । बिम्बप्रतिबिम्बयोरैक्याभ्युपगमे उक्तपरिभाषया पूर्वोक्तदोषवारणासंभवात् । तयोर्भेदे अविद्यावज्जीवस्यापि ब्रह्मव्यतिरिक्तत्वेन मिथ्यात्वात् विद्यया अविद्यावत्तस्यापि नाशावश्यम्भावात् मोक्षाधिकारिदौर्लभ्यापत्तेः । एतेनाविद्यावच्छिन्नचैतन्यं जीव इति पक्षोऽपि निरस्तः । भेदाभेदयोरुक्तदोषानिर्मोकात् । 31 किं चाविद्याप्रतिबिम्बनस्य तदवच्छेदस्य च ब्रह्मणो निरवयवत्वेन एकदेशेऽसंभवात् कार्येनैव वक्तव्यतया जीवभेदासिद्धिः, सर्वोपाधेः ब्रह्मण्यविशिष्टत्वात् । यत्तु – स्वेनैव कल्पिते देशे व्योम्नि यद्वद्वटादिकम् । तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः || इति । तदेतत् बालिशाप्यायनम् । वाय्वादिवत् सृज्यवर्गकोटिप्रविष्टत्वेन सावयवतया प्रदेशभेदकल्पनस्यैवासिद्धेः । घटसमपरिमाणदेशे गगने घटादिसंबन्धोपपत्तेः । न चाणोर्जीवस्य प्रकृतेश्च विभुना ब्रह्मणा संबन्धस्य वक्तव्यतया त्वन्मतेऽपि कृत्स्नैकदेशविकल्प इति वाच्यम्। ब्रह्मणश्चेतनाचेतनस्रष्टृत्वविभुत्वश्रुत्या “श्रुतेस्तु शब्दमूलत्वात्” (ब्र.सू. ) इति सूत्रोक्तन्यायेनानुपपत्त्यभावात् । त्वया ब्रह्मणि अविद्याप्रतिबिम्बनोपाध्यवच्छेदयोः कल्पितत्वेन माध्यमिकोक्तदोषानिस्तरात् । अपि च जीवस्यापि अविद्याकल्पितत्वमभ्युपगतम् । जीवश्चाविद्या- प्रतिफलितचैतन्यं अविद्यावच्छिन्नचैतन्यं वा । विशिष्टस्य पदार्थार्न्तरत्वानभ्युपगमात् विशेषणविशेष्यतत्संबन्धरूपत्वमिति वक्तव्यम् । तत्राविद्यारूपदोषकल्पितत्वं विशेषणस्य वा त्रयाणामपि वा । आद्ये आत्माश्रयापत्तेः अविद्यया अविद्यापरिकल्पनमिति । द्वितीये विशेष्यस्य चैतन्यस्य कल्पितत्वे ब्रह्मणः मिथ्यात्वापत्त्या माध्यमिकत्वापत्तेः । एवं पूर्वोक्तरीत्या जीवशब्दार्थविशेष्यचैतन्यस्य अविद्याश्रयत्वे ब्रह्माज्ञानवादापत्तिः । विशेषणीभूताविद्यायाः अविद्याश्रयत्वे अभ्युगमविरोधः । ज्ञानवदज्ञानस्यापि अचेतनाविद्यावृत्तित्वायोगश्च । एतेन त्रयाणामाश्रयत्वमपि निरस्तम् । एवम् " बन्धो ब्रह्मण्यशेषे प्रसजति स यदोपाधिसंयोगमात्रात् सादेश्यादुपाधौ व्यतिषजति तदा” बन्धमोक्षाव्यवस्था । अच्छे छेदनादिविहत उपधिभिर्न स्वतोंऽशस्तवास्मिन् नोपाधिर्जीवतामप्यलमनुभवितुं ब्रह्मरूपोऽप्यचित्वात् ।। 32 इति नायकसर लोकोक्तौपाधिकब्रह्मजीववादोक्ता अनुक्षणं बन्धमोक्षापत्त्यादय एतन्मतेऽपि दुर्वारा एव । अनयोर्मतयोः एतावान् विशेषः यत् भास्करादिमते उपाधेः पारमार्थ्यं, अद्वैतिमतेऽपारमार्थिकत्वमिति । न च तावता बन्धमोक्षव्यवस्था अद्वैतिमेतेऽपि सुशका । उपाधेः शशशृङ्गवदपारमार्थ्ये बन्धस्यैवाभावेन उपनिषद्वैयर्थ्यम् । मुक्तयुपायस्यानपेक्षणात् । मिथ्याभूतस्याप्युपाधेः रज्जुसर्पवत् बन्धहेतुत्वाभ्युपगमे भास्करादिमतवत् दोषानिवारणात् । न चाविद्योपहिता विद्योपलक्षिताविद्याविशिष्टेत्यादिपरिभाषामात्रेणोक्तदोषविनिर्मोकः । जीवशब्दाभिहितचैतन्यगतानां अविद्योपहितत्वाविद्यो पलक्षितत्वा- विद्याविशिष्टत्वानामुक्तरीत्या ब्रह्मवृत्तित्वावश्यंभावेन जीवगतदोषैर्ब्रह्मणो दुष्टुत्वानिवारणात्।

एवं अविद्याजीवयोरनादित्वेऽपि कल्पितत्वाङ्गीकारेण जीववदविद्याया अपि अविद्यारूपदोषमूलकत्वमङ्गीकरणीयम् । अन्यथा ब्रह्मवत् पारमार्थिकत्वापत्तेः । तथा चाविद्याया अविद्यान्तरमूलकत्वेऽनवस्था । स्वमूलकत्वे आत्माश्रयः, अविद्यया अविद्यासिद्धिरिति । एवमविद्यायाः स्वरूपानादित्वे ब्रह्मवन्नित्यत्वप्रसङ्गः । न च यदनादि तन्नित्यमिति व्याप्तिर्न भवति, प्रागभावे व्यभिचारादिति वाच्यम् । अतिरिक्तानादिप्राग- भावाभ्युपगमे तस्यैव अहमज्ञ इति प्रतीतिविषयत्वसिद्धौ अतिरिक्ताविद्याया असियापत्तेः । त्वयैव प्रागभावस्वरूपस्यैव खण्डनेन तत्र व्यभिचाराप्रसक्तेश्च । वस्तुतः तत्तद्भावैरेवाभावव्यवहृतिनियतौ अनाद्यरितिक्तप्रागभावासिद्धिरिति व्यभिचारः । एवमविद्याया अविद्यामन्तरेण भानवत् जीवस्य कल्पितस्यापि तामन्तरेण भानसंभवात् इतरभ्रान्तेश्च तदधीनत्वसंभवाच अविद्याकल्पनमेतन्मते निष्प्रयोजनम् । अविद्यामन्तरेण कथं न चाविद्यावच्छित्रचैतन्यत्वं हि जीवत्वम् । त सिध्येदिति वाच्यम् । घटत्वादिजातिवत् जीवत्वस्यापि जातित्वोपपत्ती तदर्थमविद्याद्य- भ्युपगमवैयर्थ्यात् । 33 एवं जीवेश्वरयोः जीवेश्वरकल्पितत्वे आत्माश्रयः । ईश्वरजीवकल्पितत्वे अन्योन्याश्रयः । आज्ञानाश्रयत्वाभावेन न शुद्धापि चित् कल्पिका । तथा च शुद्धचिद्वत् तयोरपि पारमार्थ्यं सिद्धम् । न च जीवाश्रिताया एवाविद्यायाः जीवेश्वरकल्पकत्वेन एतद्विकल्पान- वकाशात्रोक्तदोष इति वाच्यम । जीवसिद्धौ जीवाश्रिताविद्यासिद्धिः, तत्सिद्धौ जीवसिद्धिरित्यन्योन्याश्रयापत्तेः । तथा हि अविद्याया जीवेश्वरकल्पकत्वं- जीवेश्वरोत्पत्तिप्रयोजकत्वरूपं वा तत्कल्पनाप्रयोजकत्वं वा । तयोरनादित्वा- भ्युपगमादाद्यः पक्षो न संभवति । उत्तरत्र कल्पना भ्रान्तिरूपा प्रमारूपा वा । न द्वितीयः, प्रमाया अविद्यारूपदोषमूलत्वासंभवात् । संभवे वा भ्रमप्रमाद्वैविध्यासिद्धेः । कथंचित् द्वैविध्योपपादनेऽपि जीवकृप्तेरविद्याधीनत्वे अविद्याया जडत्वेन जीवप्रकाशाधीनत्वावश्यकतया जीवस्य स्वयंप्रकाशत्वाभ्युपगमेन विरोधात् । 35 श्रीः अविद्यायाः ब्रह्माश्रितत्वनिरासः नापि स दोषः ब्रह्मश्रित्य विश्वभ्रमं जनयति । अज्ञानाख्यदोषो हि ज्ञानबाध्योऽभिमतः । ब्रह्म च स्वयंप्रकाशात्मकज्ञानरूपम् । तथा च आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ।।

इति भवत्परिभाषया तादृशाज्ञानस्य ब्रह्मविषयकत्वावश्यंभावेन ब्रह्मणश्च यथावस्थितस्वरूपप्रकाशत्वेन अग्नौ तूलवत् इयं शुक्तिरिति निश्चये शुक्तित्वाज्ञानव ब्रह्मरूपप्रकाशे नित्ये ब्रह्मविषयाज्ञानस्य कदाप्यसंभवेन तन्मूलजगद्धमानुपपत्तेः । न च तद्विषयाज्ञानं प्रति तज्ञानत्वेन न विरोधिता । येन शुद्धब्रह्मणोऽपि विरोधितावच्छेदकाक्रान्तत्वेनाज्ञानस्थितिर्न स्यात् । किं तु तद्विषयकाज्ञानं प्रति प्रमाणज्ञानत्वेन । ब्रह्मस्वरूपज्ञानस्य प्रमाणज्ञानत्वा-भावान्न विरोधितेति वाच्यम् । तथा सति चाक्षुषघटादिज्ञानेन शुक्तयज्ञानस्य ब्रह्माज्ञानस्य च निवृत्त्यापत्तेः । लाघवात् तद्विषयज्ञानत्वमात्रेण प्रतिबन्धकत्वसंभवेन गौरवेणोक्तरूपेण प्रतिबन्धकत्वायोगाच्च । न च समानविषयकत्वमात्रं न प्रतिबन्धकत्वे तन्त्रम् । अभिज्ञाप्रत्य- भिज्ञयोः समानविषयकत्वेऽपि प्रत्यभिज्ञाया एव सोऽयं न वेति संशयविरोधित्वं नाभिज्ञाया इत्यमुभवविरोधापत्तेः । किं तु ज्ञानगतवैजात्यम् । तच ब्रह्मव्यावृत्तमिति नोक्तदोष इति वाच्यम् । अयमिति अभिज्ञापेक्षया सोऽयमिति प्रत्यभिज्ञायां देशान्तरादिसंबन्धस्याधिकस्य भानेन समानविषकत्वासिद्धेः । 1 यदि अभिज्ञाप्रत्यभिज्ञयोः समानविषयकत्वं तर्हि अयं न स इति भ्रान्तेः अभिज्ञयेव प्रत्यभिज्ञयापि निवृत्त्यनापत्तेः समानधर्मितावच्छेदकक- समानप्रकारकविरुद्धविषयकज्ञानयोरेव प्रतिबध्यप्रतिबन्धकभावस्य लोकसिद्धत्वेन इदन्त्वावच्छित्ते तत्त्वावच्छिन्नतादात्म्यावगाहित्वमन्तरा सोऽयमित्यभिज्ञायाः 36 प्रतिबन्धकत्वायोगात् । तथा च विषयवैलक्षण्येनैवातिप्रसङ्गवारणे प्रतिबन्धकतावच्छेदककोटौ वैजात्यनिवेशनस्य प्रयोजनाभावात् ब्रह्मणोऽप्युक्तविरोधितावच्छेदका क्रान्तत्वेन उक्तापत्तेरनिवारणात् । न्यायमते ययोः प्रतिबध्यप्रतिबन्धकभावः तत्र अज्ञाननिवृत्तिद्वारा विपरीतज्ञानस्य ग्राह्यवत्ताबुद्धिं प्रति प्रतिबन्धकत्वं त्वन्मते परिभाष्यते तावताप्युक्तबाध्यबाधकभावस्य अनतिलङ्घनीयत्वात् । 1 न च परोक्षविपरीतज्ञानसत्त्वेऽपि प्रात्यक्षिकग्राह्यवत्ताबुद्ध्युदयात् ज्ञानगतवैजात्यमपि बाध्यबाधकभावे तन्त्रम् । तच ब्रह्मात्मकज्ञानव्यावृत्तमिति वाच्यम्। प्रात्यक्षिक ग्राह्यवत्ताबुद्धिं प्रति प्रात्यक्षिक विपरीतज्ञानत्वावच्छिन्नस्य प्रतिबन्धकत्वाभ्युपगमे प्रात्यक्षिकदेहात्मभ्रमस्य ज्वालैक्यप्रत्यक्षस्य च शास्त्रानुमानाण- भ्यां बाध्यत्वकथनस्याविरोधापत्तेः । परोक्षस्थले बाध्यबाधक - भावान्तरकल्पने गौरवापत्तेः । एतेन विपरीतविषयकयज्ञानसत्त्वे यदज्ञानं विपरीतविषयकयज्ञानं च नोदेति तयोस्तद्व्यक्तित्वेन बाध्यबाधकभावः कल्प्यते । अज्ञानप्रपञ्चभ्रमानुभवात् ब्रह्मव्यक्तेर्न तद्वाधकत्वमिति निरस्तम् । तत्तद्व्यक्तित्वस्य अननुगतत्वेन उक्तबाध्यबाधकभावस्यासर्वज्ञदुर्ज्ञेयत्वात् । अतः लौकिकसंनिकर्षाजन्यदोषविशेषाजन्यानाहार्यतद्वत्ताबुद्धित्वेन साक्षात्कारित्वप्रयोजकविषयताविशेषशून्य तद्वत्ताबुद्धित्वेन वा प्रतिबध्यत्वम् । तद्विरुद्धावगाहिसमानधर्मितावच्छेदककनिश्चयत्वेन च प्रतिबन्धकत्वमिति शिरोमणिप्र- भृत्तिभिर्व्यवस्थापित एव प्रतिबध्यप्रतिबन्धक भावः स्वीकरणीयः । तस्याज्ञाननिवृत्तिद्वाराभ्युपगमेऽपि यथावस्थितविपरीतनिश्चयरूप-ब्रह्मात्मकज्ञानेन तदज्ञानस्य तद्विपरीतप्रपञ्चभ्रमस्य च निवृत्तिः दुर्निवारैव । तथा च तादृशनित्य- ब्रह्मज्ञानेन तयोर्नित्यनिवृत्त्या प्रपञ्चभ्रमदर्शनविरोधः । न च विपरीतनिश्चयत्वमात्रं न प्रतिबन्धकतावच्छेदकम्। वृत्तिरूपनिश्चयस्य 37 जडत्वेनाज्ञाननिवर्तकत्वायोगात् । ज्ञानमेव हि अज्ञाननिवर्तकम् । किं तु विपरीतवृत्तिप्रतिबिम्बितचेतन्यत्वेन तद्विषयाज्ञान- भ्रान्तिनिवर्तकत्वं वाच्यम् । अज्ञानाश्रयस्तु विशुद्धा चित् । न सा उक्तप्रति-बन्धकतावच्छेदकाक्रान्तेति विश्वभ्रमदर्शनमुपपद्यत इति वाच्यम् । अहिनकुलयोरिवान्वयव्यतिरेकाभ्यां वृत्त्यज्ञानयोरेव विरोधस्य सिद्धत्वेन प्रतिबन्धकतावच्छेदककोटी चैतन्यत्वादिप्रवेशस्य व्यर्थत्वात् । यह अज्ञानं प्रति ज्ञानस्यैव प्रतिबन्धकत्वमिति, तत्तुच्छम् । अज्ञानविरोधित्वं ज्ञानस्य तत्राशकत्वमेव त्वदभिमतम् । ब्रह्मण एव ज्ञानत्वे तस्य शुद्धत्वाकारेण न कचिदप्यज्ञानविरोधित्वमिति ज्ञानस्यैवाज्ञानविरोधित्वमिति परिभाषाया अश्रद्धेयत्वात् । शुद्धस्यैव ब्रह्मणः क्वचित् अज्ञानविरोधित्वाभ्युपगमे तन्यायेनेव वृत्त्यनवच्छिन्नस्यैव ब्रह्मणः स्वाज्ञाननाशकत्वस्य दुर्वारत्वात् । शुक्तित्वेनेदं जानामीत्यादिप्रत्यक्षेण वृत्तेरपि ज्ञानत्वसिद्धया तेन रूपेण तस्या एव प्रतिबन्धकत्वाच्च । यत्तु वृत्तिप्रतिफलितचेतन्यमेव जानात्यर्थः । तदुल्लेखिप्रत्यक्षादावपि तदेव भासत इति न वृत्तेर्ज्ञानत्वसिद्धिरिति । तदसत् । सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्रापि ज्ञाधातुनिष्पत्रज्ञानशब्देन वृत्तिफलितचैतन्यस्यैव बोध्यतया तस्य अशुद्धत्वेन तद्वाक्यस्य विशुद्धब्रह्मबोधकत्वकथनासंगतेः । तस्यैव बोधे विशुद्धब्रह्मणः ज्ञानत्वासिद्धेः । तत्र तच्छब्दस्य विशुद्धार्थत्वेऽनेकार्थत्वस्यान्याय्यत्वेन घटं जानातीत्यादिलौकिकप्रयोगेऽपि जानातिना केवलब्रह्मबोधापत्तेः । न हि केवलस्य ब्रह्मणः घटादिविषयकत्वमिष्टम् । वस्तुतः लाघवात् ज्ञानत्वमेव ज्ञाधातुशक्यतावच्छेदकम् । तच लोके वृत्तावेव प्रसिद्धमिति तेन रूपेणाज्ञानविरोधित्वस्य वृत्तावक्षततया तत्र चैतन्यप्रवेशो विफलः । ब्रह्मणः ज्ञानत्वं प्रमाणाभावाच । न च सत्यं ज्ञानमिति वाक्यं तत्र प्रमाणम् । अन्तोदात्तत्वेन ज्ञानपदस्य तत्र ज्ञानाधिकरणवाचितायाः आवश्यकत्वात् । ब्रह्मणा38 विपश्चितेति विवरणवाक्ये सर्वज्ञत्वश्रवणा तु । स्वयंज्योतिः पदादिकं अत्यन्तलाक्षणिकत्वात् ज्ञानत्वे न प्रमाणमित्यन्यत्र । केवलस्य ब्रह्मणः स्वाज्ञानाविरोधिनः ज्ञानत्वाभ्युपगमवैयर्थ्यात् । अज्ञानविरोधिन एवं लोके ज्ञानत्वदर्शनात् । अन्यथा घटादीनामपि ज्ञानत्वप्रसङ्गात् । यत्तु वृत्त्यवच्छेदेन ब्रह्मण एवाज्ञानविरोधित्वम् । स्वतस्तृणतूलादि- भासकस्य सौरालोकस्य सूर्यकान्तावच्छेदेन स्वभास्यतृणतूलादिदाहकत्ववत् स्वतोऽविद्यातत्कार्यभासकस्य चैतन्यस्य वृत्त्यवच्छेदेन तद्दाहकत्वादिति । तदप्यसत् । दृष्टान्ते दर्शनानुगुण्येन तथाभ्युपगमेऽपि दाष्टोन्तिके प्रमाणा- भावेन हह्मणो दाहकत्वायोगात् । सूर्यकान्ते सौरालोकजन्याग्रेरेव नाशकत्वेन तद्दृष्टान्तकथनस्यासंबद्धप्रलापत्वात् । स्वतोऽविद्यातत्कार्यभासकस्य चैतन्यस्येति स्वमतविरुद्धम् । अविद्यायाः वृत्तिप्रतिफलित- चैतन्यरूपसाक्षिभावस्यत्व कथनविरोधात् । प्रतीतिमात्रशरीराया अविद्यायाः शुद्धचिद्धास्यत्वे भासकस्य नित्यत्वेन सर्वदा अविद्याभानापत्त्या मोक्षोच्छेदापत्तेः । न च चरमवृत्त्या अविद्योच्छेदात् नोक्तदोष इति वाच्यम् । अविद्या- भासकस्य केवलस्य ब्रह्मणः नित्यत्वेन तदधीनजगद्भ्रमानुच्छेदात् । तथा च ब्रह्मोच्छेदेनैव अविद्योच्छेदादिकं वक्तव्यमिति जितं माध्यमिकेन । वृत्त्यवच्छेदेन ब्रह्मण इव घटदेरपि स्ववृत्त्यवच्छेदेन स्वाज्ञानविरोधित्वात् तस्यापि ज्ञानत्वापत्तेः । न हि घटज्ञानानन्तरं घटाज्ञानं तिष्ठति । अपि च स्वाप्रगजादिविशिष्टप्रत्ययस्य शुभादिप्रयोजकत्वेऽतिप्रसङ्गवारणाय स्वाप्रगजादेरपि शुभाशुभहेतुत्वमावश्यकमिति असत्यात् सत्यसिद्धिरिति वदतो वृत्तिविशिष्टचैतन्यस्याज्ञानविरोधित्वेऽतिप्रसङ्गवारणाय वृत्तेरपि विरोधित्वावश्यकतया तावन्मात्रेणातिप्रसङ्गवारणे चैतन्यस्य विशेष्यतया प्रवेशो व्यर्थः । अपि चाहमज्ञो मामन्यं च न जानामीति प्रत्यक्षस्य प्रागभावविषय-कत्वप्रस्तावे 39 न जानामीत्यनेन वृत्तिविरुद्धत्वेनाज्ञानं भासत इत्युक्तत्वेन केवलाया एव वृत्तेरज्ञाननाशकत्वं दुर्वारमिति तत्र चैतन्यप्रवेशो व्यर्थः । न चास्तां वृत्तिनाश्यत्वम् । तथाप्यज्ञानस्य स्वरूपचेतन्यनाश्यत्वा- भावात् अज्ञानसिद्धिरिति वाच्यम् । भ्रान्तित्वेन अज्ञानत्वेन च वृत्तिप्रतिबिम्बितचैतन्यत्वेन च बाध्यभाधकभावसिद्धान्तविरोधात् । ब्रह्मणः स्वयंप्रकाशत्वस्थापनवैयर्थ्यात् । अस्वयंप्रकाशत्वेऽपि मतान्तरवत् बाध्यबाधकभावोपपत्तेः । एवं च सति मुद्रादिनिवर्त्यघटादिवत् ज्ञानव्यतिरिक्तनिवर्त्याज्ञानादेः सत्यत्वापत्तिः । अपि च विशिद्धे ब्रह्मणि अविद्येत्युक्तिः वन्ध्या मे जननीतिवत् व्याहतार्था । शुद्धिर्हि दोषाभावः । अविद्या च दोषस्वरूपेति अभ्युपगता । तथा च गोत्वतदभावयोरिव कथं तयोः सामानाधिकरण्यम् । न चाविद्याया दोषत्वेऽपि मिथ्यात्वान्न विरोध इति वाच्यम् । शशशृङ्गवन्मिथ्यात्वे तस्या जगत्प्रसूतित्वकथन विरोध इति । न च शुक्तिरजत वन्मिथ्यात्वम् । शुक्तौ रजतत्वतदभावयोरिव ब्रह्मण्यविद्यातदभावयोः समावेशोपपत्तिरिति वाच्यम् । परमते भ्रान्तिस्थले धर्मिणि विषयस्यैवाभावेन उभयोः सामानाधिकरण्यकथनस्यायुक्तत्वात् । त्वन्मते तत्र प्रातीतिकोत्पत्त्या धर्मिणि तत्कालावच्छेदेन तदभावस्य बाधितत्वेन संयोगतद भावयोरिवाव्याप्यवृत्तित्वस्यैव वक्तव्यतया तत्र्यायेन शुद्धयशुद्धयोः ब्रह्मण्य- व्याप्यवृत्तित्वे नित्यमुक्तत्वश्रुतिव्याकोपात् । भ्रान्तिस्थले घटे गोत्वाभावस्येव व्याप्यवृत्तित्वे विषयाभावस्य प्रातीतिकस्य दोषघटितसामाग्रया महता प्रयासेन आद्यक्षणसंबन्धरूपोत्पत्तिसमर्थनविरोधात् । न च मिथ्यात्वं ज्ञाननिवर्त्यत्वम् । तच लब्धस्वरूपस्यापि भ्रान्तिविषयस्याभ्युपगम्यते । तदभावश्च पारमार्थिकत्वम् । तथा च पारमार्थिकाशुद्धिरहितत्वं शुद्धत्वम् । तच मिथ्याभूताविद्यारूपाशुद्धया न विरुध्यत इति वाच्यम् । चैत्रोऽशुद्धो न मैत्र इत्यादौ नञोऽन्वयितावच्छेदका- 40 वच्छिन्नाभावबोधकत्वव्युत्पत्त्या केवलाशुद्धत्वावच्छिन्नप्रतियोगिताकाभाव एव बोध्यते, न तु पारमार्थिकत्वेन । तस्य चैत्रादिसाधारण्येनाव्यावर्तकत्वात् । तथा च निरवद्य इति श्रुतौ “शुद्धे महाविभूत्याख्ये परे ब्रह्मणि” इत्यादिस्मृती च केवलावद्यत्वाशुद्धत्वावच्छिन्नप्रतियोगिताकाभावस्यैव बोधनीयतया तस्याविद्याख्याशुद्ध्या विरोधात् शुद्धे ब्रह्मणि अविद्याकथनमसंगतमेव । उक्तश्रुतिस्मृत्योः पारमार्थिकत्वेन इति पदाध्याहारे स एव दोषः । पारमार्थिकदोषादेरप्रसिद्धया तन्निषेधे अप्रसक्तप्रतिषेधापत्तेः । पारमार्थिका पारमार्थिकसाधारणेनावद्यत्वाशुद्धदिना अवद्यसामान्यनिषेधकश्रुतेः पारमार्थिकावद्यादिरूपविशेषाभावपरत्वे संकोचापत्तेश्च । न हि अघटः पट इति वाक्यस्थमघट इति पदं शुक्लघटाभावे मुख्यं भवति । तथा चोक्तश्रुतिस्मृतिभ्यां परस्य ब्रह्मणोऽविद्यादि कृत्स्नानिष्टस्य स्वरूपेणैव प्रतिषेधात् तत्राविद्याकथनमसंबद्धमेव ।

अत्र कश्चित् “निरनिष्टो” “निरवद्यः " " शोकं मोहमत्येति” “नित्यमुक्तः” इत्यादिश्रुतौ न समवायसंबन्धेन अनिष्टाद्यभाववत्त्वं बोध्यते । येन समवायादिसंबन्धावच्छिन्नाविद्याद्यधिकरणत्वेन विरोधः स्यात् । किं तु स्वजन्यरागादिमत्त्वसंबन्धेन । अविद्यायाः ब्रह्माश्रयायाः उपाधेः प्रतिबिम्बपक्षपातित्वन्यायेन जीव एव रागादिकार्यकरत्वेनोक्तसंबन्धे- नाविद्यारूपानिष्टवत्वं जीवस्यैव । तेन तदभाववत्त्वं परब्रह्मणः उपपद्यत इत्याह ।

अत्राचार्याः शुद्धस्य ब्रह्मणोऽविद्यावत्त्वे प्रामाणिके हि एतादृशपरम्परा- संबन्धाश्रयणं युज्यते । तत्रैव प्रमाणाभावात् । समवायादिसाक्षात्संबन्धेनाविद्यातद- भाववत्त्वस्य वक्तव्यतया उक्तविरोधो दुरुद्वर एव । न च “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” इति श्रुत्या ब्रह्मणो मायावत्त्वसिद्धिरिति वाच्यम् । महेश्वरशब्दितं हि महेश्वरत्वगुणविशिष्टं सगुणं ब्रह्म, न निर्विशेषं शुद्धम् । तथा च आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला” इति प्रलापायोग इति । 41 न च महेश्वरत्वोपहिततादात्म्यस्य निर्विशेषे सत्त्वात् तच्छ्रुतेस्तत्प्रमा- णत्वोपपत्तिरिति वाच्यम् । जीवत्वाद्युपहिततादात्म्यस्यापि निर्विशेषे सत्त्वात् जीवाज्ञानवादस्यैव सुवचत्वात् । न च मायया संनिरुद्धः व्यवहरन्नास्ते माययैव इत्यादिश्रुतिस्तत्र प्रमाणमिति आनन्दोक्तं युक्तम् । " अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया संनिरुद्धः " “मायां तु प्रकृतिं विद्यात्मायिनं तु महेश्वरम्” इति श्रुतौ प्रथमपादे जगत्कर्तारं सगुणं मायिनमुक्त्वा द्वितीये मायाकार्यभाजो मायिव्यतिरिक्तस्य जीवस्यैव कथनान् तदैकार्थ्यात् द्वितीयश्रुतावपि तस्यैव कथनात् तत्र निर्गुणप्रसक्त्यभावेन तच्छ्रुत्योः निर्गुणे मायावत्त्वप्रमाणत्वकथनस्यासंबद्धप्रलापत्वात् । न चेन्द्रो मायाभिः पुरुरूप ईयते इति श्रुत्या निर्गुणस्य मायावत्त्वसिद्धिरिति वाच्यम्। “इदि परमैश्वर्ये” इति धातुनिष्पन्त्रेन्द्रशब्देन उत्कृष्टैश्वर्यावच्छिन्नस्य सगुणस्यैव बोधनेन तत्रापि निर्गुणप्रसक्त्यभावात् । तथा च निरनिष्टो निरवद्य इत्यादिश्रुतिषु " प्रतियोग्यभावान्वयो तुल्ययोगक्षेमौ” इति न्यायेन " मायिनं तु महेश्वरम्” इति श्रुतौ समवायसं बन्धेनैव मायावत्त्वबोधनेन समवायसंबन्धावच्छिन्नमायावत्त्वाभाववत्त्वस्यैव बोधनीयतया विशुद्धस्य ब्रह्मणोऽविद्यावत्त्वायोगः । एतेन अनिष्टावद्यशब्दयोः अविद्याजन्यकार्याश्रये लक्षणाश्रयणमपि प्रत्युक्तम् । अविद्यावत्त्वे प्रमाणाभावात् । निरनिष्टादिपदेनैवाविद्याकार्यप्रतिषेधे " शोकं मोहमत्येति” इति पृथगविद्याकार्यप्रतिषेधपौनरुक्तयात् । लक्षणाश्रयण- स्यासंबद्धत्वाच्च । अपि चैवंरीत्या निर्गुणादिश्रुतौ गुणादिपदस्य हेयगुणपरत्वस्य " सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” इत्यादिश्रुतिषु एवकारैकपदाद्वितीयादिपदानां प्रमाणप्रतिपन्नव्यतिरिक्तनिषेधपरत्वस्य च संभवेन सजातीयविजा- तीयस्वगतधर्मप्रतिषेधपरत्वमङ्गीकृत्य निर्विशेषब्रह्म प्रतिपादन परत्वकथनमसंगम् । 42 वस्तुतः उपाध्यवच्छिन्नतदनवच्छिन्नयोः विम्बप्रतिबिम्बयोश्च ऐक्येन अविद्याकार्य- भाक्त्वस्यैव निरवयवे ब्रह्मणि सत्त्वेन केनापि रूपेण तदभावस्य वक्तुमशक्यतया " भक्षितेऽपि लशुने न शान्तो व्याधिः” इति न्यायेन हास्यत्वमेव । अपि च निर्विशेषत्वाभ्युपगमा ब्रह्मणस्तुच्छवत् नाविद्याश्रयत्वम् । अन्यथा तुच्छस्याप्यविद्याश्रयत्वादिप्रसङ्गः । न च तुच्छस्याविद्याश्रयत्वा- भावोऽसत्त्वप्रयुक्तः, न निर्विशेषत्वप्रयुक्तः । ब्रह्मणश्च सद्रूपत्वादविद्याश्रयत्वमिति वाच्यम् । निर्विशेषत्वे सद्रूपत्वविरोधात् । अन्यथा सद्रूपत्ववत् निर्गुणस्यापि गुणिरुपत्वस्य निष्प्रपञ्चस्यापि ब्रह्मणः सप्रपञ्चरूपत्वस्यापि सिद्धयापत्त्या भेदवादिमतापत्तेः । न च व्यावहारिकप्रपञ्चादिमत्त्वेन इष्टापत्तिरिति वाच्यम् । सद्रूपत्वस्यापि व्यावहारिकत्वापत्तेः । अपि च ज्ञानमात्ररूपत्वाभ्युपगमाच्च नाज्ञानाश्रयत्वम् । न हि ज्ञातृत्वरहितस्य घटादेरज्ञानाश्रयत्वं दृश्यते । न च यत् ज्ञातृत्वरहितं तत् अज्ञानानाश्रय इति व्याप्तिर्न संभवति । प्रसक्तप्रकाशत्वाभावस्योपाधित्वात् । ब्रह्मैव हि प्रसक्तप्रकाशमिति वाच्यम् । विकल्पासहत्वात् । प्रसक्तप्रकाशत्वं किं स्वयंप्रकाशत्वं, उत प्रकाशस्वरूपत्वं, अथवा ज्ञानत्वम् । नाद्यः, स्वयंप्रकाशत्वस्य अन्याधीनप्रकाशाभावरूपतया तदभावरूपप्रसक्तप्रकाशा-भावस्यान्याधीनप्रकाशात्मकतया तस्य शास्त्रैकवेद्ये ब्रह्मण्यपि सत्त्वेन ज्ञातृत्वा- भावरूपसाधनव्यापकत्वात् । अज्ञानानधिकरण- त्वरूपव्यापकवति तुच्छे अन्याधीनप्रकाशत्वरूपोपाध्यभावेन उपाधेः साध्याव्यापकत्वाच्च । साध्योपाध्योर्व्याप्तौ अनुकूलतर्काभावात् न द्वितीयतृतीयो । साध्याव्यापकत्वाच्च । अपि च प्रतियोग्यभावयोः सामानाधिकरण्यायोगात् निर्गुणे गुणसामान्या- भाववति अविद्याश्रयत्वजगत्प्रसूतित्वादिधर्माः जात्यभाववति गोत्वादिरिव कथं संबध्येरन । 43 न च संयोगतदभाववत् सामानाधिकरण्योपपत्तिः । नित्यमुक्तत्व- श्रुतिविरोधात् । नित्यमुक्तत्वं हि निरवच्छिन्नदैशिकविशेषणतासंबन्धेन अविद्याभाववत्त्वम् । अव्याप्यवृत्तित्वे कथं तत् घटेत । न च पारमार्थिकत्वेन गुणाभावो विवक्षितः । स च अपारमार्थिका - विद्याश्रयत्वेन न व्याहन्यते । व्यधिकरणधर्मावच्छिन्नाभावस्य केवलान्वयित्वादिति वाच्यम्। निर्गुणश्रुतौ प्रतियोगितावच्छेदकतयाभिमतपारमार्थिक-त्वबोधकपदाश्रवणात् । अध्याहारस्यातिप्रसञ्जकत्वात् । अप्रसक्तप्रतिषेधके निरवद्यादिपदे त्वदुक्तनीत्या गुणपदस्य गुणकार्यरागादिपरत्वेनापि विरोधपरिहारे सगुणत्वसिद्ध्यापत्तेः । इष्टापत्ती परमतापाताच्च । अपि चाज्ञानग्राहकत्वेनाभ्युपगतेन " अहमज्ञः” इत्यादिज्ञानेनाहमर्थ एवाज्ञानसिद्धया लोकोत्तीर्णचितो नाज्ञानाश्रयत्वमुचितम् । अन्यथा घटो नील इति प्रत्यक्षस्य काक एव नैल्यसाधकत्वापत्तेः । न चात्मनि स्थूलदेहतादात्म्याध्यासात् अहं स्थूल इति भ्रान्तिवत् अहंकारे अज्ञानाश्रयचिदेक्याध्यासात् काष्ठायसोरेकाग्रिसंबन्धात् अयो दहतीतिवत् अज्ञानाहंकारयोरेकचिदध्यासाद्वा अज्ञमज्ञ इति धीः भ्रान्तिरिति वाच्यम् । चितोऽज्ञानाश्रयत्वसिद्धौ अस्याः भ्रान्तित्वं तद्‌भ्रान्तित्वे तस्या अज्ञानाश्रयत्वमित्यन्योन्याश्रयात् । , न चाहंकारस्याविद्याधीनत्वेन तदनाश्रयतया चित एवाज्ञानाश्रयत्वे सिद्धे अहमज्ञ इति प्रतीतेरैक्याध्यासनिबन्धनो दोष इति वाच्यम् । अहमज्ञ इति प्रतीत्या अज्ञानस्यैवाहंकाराधीनत्वसिद्धया अहंकारस्या- ज्ञानाधीनत्वकथनस्य भ्रान्तिमूलत्वात् । अहं जानामि इच्छामि करोमि द्वेष्मि इत्यादिप्रतीतीनामपि द्वेषादीनामन्याधिकरणकत्वकल्पनया भ्रान्तित्वापत्तेः । इच्छादीनामिव ज्ञानस्यापि उक्तप्रत्यक्षेणाहंकाराधीनत्वसिद्धेश्च । अहं पचामि न पचामीति प्रतीत्योरिव अहं जानामि न जानामीति प्रतीत्योरपि समानधर्मिकत्वानु भवात् । अहं जानामीत्यत्र अहंकारवृत्तितया वृत्तिज्ञानभानायुपगमेन प्रतियोग्यभावान्वयो तुल्ययोगक्षेमो इति 44 न्यायानुगृहीतेन अहं न जानामीति वाक्येनेव तत्प्रत्यक्षेणापि वृत्तिज्ञानाभावस्यैव विषयीकरणावदयंभावेन च शुद्धचिति भावरूपाज्ञानग्राहकप्रमाणाभावान्छ । अपि च निवर्त्यनिवर्तकयोः सामानाधिकरण्यावश्यंभावेन अज्ञाननिवर्तकस्य वृत्तिज्ञानस्यान्तःकरणगतत्वेन चिगताज्ञाननिवृत्त्यनुपपत्त्या चिगतत्वानुपपत्तिरज्ञानस्य । न च विशिष्टशुद्धयोरेक्यात अन्तः करणावच्छिन्नचैतन्य रूपजीवगतवृत्तिज्ञानेन विशेष्यचेतन्यगताज्ञाननिवृत्तिर्युक्तेति वाच्यम् । उपाधेः प्रतिबिम्बपक्षपातित्वेन बिम्बे ब्रह्मणि अज्ञाननिवृत्तिरूपकार्यकरत्वायोगात् । अन्यथा विशिष्टगतरागादिदोषेण विशेष्ये ब्रह्मणि च तापत्रयापत्तेः । पुरुषबुद्धिकल्पितव्यवस्थाया अविश्वसनीयत्वादतिप्रसङ्गाच । तथा च नित्यमुक्तत्व श्रुतिविरोधः । अपि च विशुद्धस्य ब्रह्मणः सर्वज्ञत्वान्नाज्ञानाश्रयत्वसंभवः । न हि कश्चित् सर्वं जानाति न जानातीति उन्मत्तोऽपि ब्रूयात् । न च विशुद्धस्य न ज्ञानाश्रयत्वं, किं तु विशिष्टस्येति वाच्यम् । " तुरीयं सर्वदृक् सदा” इत्यनेन तुरीयसंज्ञस्य विशुद्धस्यैव ब्रह्मणः सर्वहक इति सर्वज्ञत्वोक्तेः । यत्तु सर्वदृक्पदेन सर्वेषां दृग्भूतं चैतन्यमुच्यते न तु सर्वज्ञं तुरीयम् । तस्माद्विशिष्ट एव सार्वज्ञम् । तचाविद्यां विना न संभवतीति विशुद्धस्याविद्यासिद्धिः । सर्वज्ञो हि प्रमाणतः स्वरूपज्ञप्त्या वा । तत्र प्रमाणस्य भ्रान्तेश्च अविद्यामूलत्वात् असङ्गस्वरूपज्ञप्तेश्चाविद्यां विना विषयासंगतेरिति । तन्मन्दम् । " सहस्राक्षः सहस्रपात्" इत्यादि श्रुत्यनुसारेण मुख्यार्थानेकाक्षत्वकथनसंभवेन चैतन्यपरत्वे लक्षणापत्तेः । सर्वपदवैयर्थ्यापत्तेः न च सर्वाभिन्नचैतन्यविवक्षया सार्थक्यमिति केनचित् उक्तं युक्तम् । सवान्तर्गतजडाभेदस्य त्वयाप्यनभ्युपगमात् । सर्वपदेन सर्वाधिष्ठानत्वविवक्षणे तस्यापि त्वन्मते शुद्ध असंभवात् । " यः सर्वज्ञः सर्ववित्" इति श्रुत्या तत्पदेन सर्वज्ञत्वविवक्षणस्य युक्तत्वात् । 45 यदपि विशिष्ट एव सार्वज्ञमिति । तदप्यसत् । अविद्याया इव सार्वज्ञस्यापि स्वत एव सिद्धेः । अविद्याया अविद्यान्तराधीनत्वेऽनवस्था । स्वाधीनत्वे आत्माश्रयः । अविद्याया अनादित्वान्नानुपपत्तिरिति चेत् न । सार्वज्ञस्याप्य- नादित्वेनाविद्यानधीनत्वात् । श्रूयते हि " स्वाभाविकी ज्ञानबलक्रिया च " " यः सर्वज्ञः सर्ववित्" इति सार्वज्ञस्य नित्यत्वम् । न च सार्वज्ञ्यं प्रमाणतः स्वरूपज्ञप्त्या वा वक्तव्यम् । तत्र प्रमाणस्य भ्रान्तेश्चाविद्यामूलत्वात् असङ्गस्वरूपज्ञप्तेश्च अविद्यां विना विषयासंगतेः विशिष्टस्यैव सार्वज्ञ्यमिति वाच्यम् । सार्वज्ञस्य नित्यत्वेन प्रमाणाधीनत्वाभावात् । असङ्गश्रुत्या विषयसंबन्धस्येवाविद्या संबन्धस्यापि निवारणेन शुद्धे अविद्याकथनस्यायोगात् । असङ्गश्रुतेः पारमार्थिकसङ्गाभावविषयत्वे प्रतियोग्यप्रसिद्ध्या अप्रसक्तप्रतिषेधापत्तेः । पारमार्थिकत्वरूपव्यधिकरणधर्मावच्छिन्ना- भावस्य घटादिसाधारण्येनाव्यावर्तकत्वात् । असङ्गशब्दस्य " असङ्गशस्त्रेण दृढेन छित्वा" इत्यादिषु अनेकार्थप्रयोगेण संकोचस्य तवाप्यावश्यकत्वेन च हेयसङ्गराहित्यादिपरत्वसंभवेन असङ्गश्रुत्या ज्ञप्तेर्विषयसंबन्धानिवारणात् । अपि च सार्वज्ञस्याज्ञानाधीनत्वेऽपि तादृशसार्वज्ञेन यथावस्थितज्ञा- नात्मकेनाज्ञानस्वरूपोच्छेदेन इदानीं प्रपञ्चदर्शनविरोधः । अज्ञानरूपोपादाना- भावात् । न च यस्य सार्वज्ञं तस्याज्ञानं निवृत्तमेवेति वाच्यम् । सर्वज्ञत्वेन संमतस्य कृष्णादेः अज्ञानकार्यगीतोपदेशादिविरोधात् । न हि ब्रह्मव्यतिरिक्तं कृत्स्नं मिथ्येति विजानतः अज्ञानं तदुपादानमुपदेशादिकं वा घटते । न चाज्ञानं निवृत्तमेव यावत्प्रारब्धकर्म बाधितानुवृत्तिर्भविष्यतीति वाच्यम् । एतत्परिभाषायाः स्वशिष्यान् प्रत्येव वक्तव्यत्वात् । न हि अनादिसार्वज्ञस्य कृष्णादेः एतावत्पर्यन्तं वाधितानुवृत्ति निवृत्तिर्नास्तीति कचिन्यायविदभ्युपेयात् । बाधितानुवृत्तेरन्यत्रोन्मूलनात् । प्रारब्धकर्मणोऽप्यज्ञानादिवत् मिथ्यात्वेन वृत्तिज्ञानेन तदनिवृत्तौ भोगमात्रेण निवृत्त्यङ्गीकारे च मुद्गरादिनिवर्त्यघटादिवत् ब्रह्मज्ञानानिवर्त्यप्रारब्धकर्मणः सत्यत्वापत्तेः । यन्मिथ्या तद्यथावस्थित- ज्ञाननिवर्त्यमिति व्याप्तेः प्ररब्धकर्मणि व्यभिचारापत्तेश्च । एतेन अविद्याश्रयत्वेन न सार्वज्ञस्य विरोधः, किं तु यं प्रत्यावारिका अविद्या 46 तत्र न सार्वज्ञम् । न च सा जीवान्यं प्रत्यावारिका इत्यानन्दकथि तमप्यपास्तम् । अविद्यायाः कृष्णं प्रत्यावारकत्वे अनादिसार्वज्ञविरोधात् । अनावारकत्वे उपदेशाद्यनुपपत्तेः । अयमत्र संग्रहः – ब्रह्मणः स्वप्रकाशत्वात् ज्ञातृत्वविरहात् ज्ञाननिवर्त्याज्ञानत्वात् नित्यसार्वज्ञाञ्च नाज्ञानाश्रयत्वमिति । इत्याश्रयानुपपत्तिविवरणम् । श्रीमन्निगमान्तमहादेशिकाय नमः । 47 श्रीः श्रीमदाचार्यमङ्गलमालिका नमो नमो नृसिंहार्यगुरवे दैवताय नः । नाथवंशप्रदीपाय नृसिंहाय नमो नमः ।। यदीयसेवया नूनं नन्तृणां करणत्रयम् । जन्मसाफल्यमाप्नोति तस्मै सेव्याय मङ्गलम् ।। श्रीवत्स (नडादूर्) वंशजा साध्वी लक्ष्मीर्यस्याभवत्प्रसूः । तस्मै वेङ्कटरङ्गार्यतनूजायास्तु मङ्गलम् ।। चोलसिंहपुराधीशसङ्कल्पादात्तजन्मवान् । इति जन्मरहस्यज्ञैः प्रोच्यमानाय मङ्गलम् ।। वैशाखरोहिणी ऋक्षाभ्युदयोयं विरक्तिमान् । गोष्ठीपूर्णस्यांशभूत इति तर्क्याय मङ्गलम् ।। शिष्याणां न्यायमीमांसावेदवेदान्तबोधनैः । जीवितं सफलं यस्य तस्मै प्राज्ञाय मङ्गलम् ।। वेदान्तलक्ष्णणमुनेः प्राप्तवेदान्तसम्पदे । श्रीमते चतुरानायनृसिंहार्याय मङ्गलम् ।। महीशूरादिसंस्थानभूपतीन्द्रैर्भृशं मुदा । सभायां मानितायास्तु तस्मै धीराय मङ्गलम् ।। विदुषां वादगोष्ठीषु वादवैचित्र्यदर्शनात् । वागधीशावतारोऽयं इति श्लाध्याय मङ्गलम् ।। १ २ لله ५ ६ ८ ९48 प्रख्यातिलाभपूजासु वैतृष्ण्येन निरन्तरम् । निगमान्तार्य एवायं इत्युत्प्रेक्ष्याय मङ्गलम् ।। ज्ञानानुष्ठानवैराग्यशीलादिगुणसम्पदा । पाराशर्यशुकाद्यंश इति कीर्त्याय मङ्गलम् ।। यस्य शिष्याश्चतुस्तन्त्रनिपुणाः कर्मठा अपि । राजसम्मानिताश्शान्ताः तस्मै ख्याताय मङ्गलम् ।। यत्समाराध्यतां प्राप्तुं करीशस्सात्विकीं तनुम् । गृहीत्वा तगृहार्चाभूत् तस्मै प्राप्याय मङ्गलम् ।। वाङ्मनः कायसारूप्यं कर्मानुष्ठानकौशलम् । जन्मप्रभृति यस्यासीत् तस्मै शुद्धाय मङ्गलम् ।। प्रभाते सज्जनैर्भक्त्या स्मर्तव्यो यो महान् गुरुः । तदीपा कीर्तिराचन्द्रं स्थिरं विजयतां भुवि । । क्रौधिसंवत्सरे स्वीयगुरोराविर्मबोत्सवे । जामात्रा कृष्णदासेन कृता मङ्गलमालिका । । स्वाचार्यचरणाम्भोजत्राणयुग्मस्य सन्निधौ । स्वाचार्यस्य मुखोल्लासकरणाय समर्पिता ।। १० ११ १२ १३ १४ १५

चे. ति.न. च. कू. कृष्णमाचार्यः