०४ उपसंहारः

[[258]]

शोधप्रबन्धेऽस्मिन्‌ वावदूककुतूहलग्रन्थस्य शुद्धाक्षरैः मुद्रणं कृतम्‌ । एवं प्रतिकोटिविवरणपुरस्सरं ग्रन्थकर्तुः तात्पर्यं सम्यक्‌ विवेचितम्‌ । इदं द्वयमेव प्रकृतशोधप्रबन्धस्य मुख्यः विषयः । तत्र मया अयं शोधप्रबन्धः अध्यायचतुष्टयेन विभक्तः । प्रथमाध्यायसारः प्रथमाध्यायस्य मुख्यः विषयः भवति ग्रन्थतत्कर्तृणां परिचयः । तत्रादौ क्रोडपत्रस्य परिचयः विस्तरेण कृतः । क्रोडशब्दार्थोऽपि प्रतिपादितः । तदनन्तरं क्रोडपत्ररचनाकालः निरूपितः । एवं प्रसिद्धक्रोडपत्रनिर्मातृणां परिचयः संक्षेपेण कृतः तत्कृतग्रन्थानां नामान्यपि उल्लिखितानि । ततः परं वावदूककुतूहलग्रन्थस्य परिचयः प्रधानपरिष्काराणां परिचयपूर्वकं कृतः । ततः परं ग्रन्थकर्तुः श्रीकृष्णताताचार्यस्य परिचयः सम्यक्‌ निरूपितः । तत्रैव तेषां जन्मवृत्तान्तः, विद्याभ्यासवृत्तान्तः, भगवत्कैकंर्यम्‌, गुरूणां नामानि, ग्रन्थनिर्माणम्‌ इत्यादयः अंशाः प्रतिपादिताः । ततः परं तैः कृतप्रबन्धानां नामानि एवं तेषां संक्षेपेण परिचयोऽपि विहितः। ततः परं तेषां विभिन्नेषु शास्त्रेषु प्रसिद्धानां शिष्याणां नामान्यपि उद्धृतानि । ततः परं श्रीमन्नारायणात्‌ प्रकृतग्रन्थकर्तृपुत्रपर्यन्तवंशवृक्षोऽपि प्रदर्शितः । एतदध्यायाध्ययनेन प्रकृतग्रन्थस्य स्वरूपं ज्ञातुं शक्नुमः एवं ग्रन्थकर्तृविषयकज्ञानमपि प्राप्तुं शक्नुमः । द्वितीयाध्यायसारः सम्पादनाख्यस्य अस्य शोधप्रबन्धस्य मुख्यः भागो भवति द्वितीयाध्यायोऽयम्‌ । अत्रैव खलु वावदूककुतूहलग्रन्थस्य शुद्धाक्षरैः पाठशोधनपुरस्सरं सुष्ठु सम्पादनं कृतम्‌ । अत्र

[[259]]

[[270]]

प्रथमकोटिमारभ्य एकोननवतिकोटिपर्यन्तभागः पूर्वपक्षभागः । अवशिष्टः भागः सिद्धान्तभागः। तत्र प्रधानपूर्वपक्षो भवति “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्‌” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे सत्प्रतिपक्षोन्नायके अतिव्याप्तिः । तद्वारणप्रयासः एव द्वितीयकोटितः एकोननवतिकोटिपर्यन्तं विहितः । ततः परं नवतिकोटौ सत्प्रतिपक्षलक्षणघटक- “यद्रूपावच्छिन्नविषयकनिश्चये साध्यवत्ताज्ञानसमानधर्मितावच्छेदककयद्धर्मावच्छिन्नप्रकारता- शालिज्ञानसामान्यं स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानसामान्यप्रतिबन्धकं तद्धर्मावच्छिन्न- विषयतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविषयतानन्तःपातिनी या तादृशधर्मावच्छिन्न- प्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशाल्यनुमितिजनकतावच्छेदिका विषयता तच्छून्यत्वस्य” निवेशं कृत्वा उक्तसत्प्रतिपक्षोन्नायके अतिव्याप्तिः वारिता । एवं च अस्मिन्नध्याये शुद्धाक्षरैः ग्रन्थसम्पादनात्‌ मुद्रणाशुद्धिविरहाच्च पठनकाले सन्देहादिकं न भवति पठनसौकर्यं च भवति । तृतीयाध्यायसारः तृतीयाध्याये सर्वेषां सुकुमारमतीनामतिगहनग्रन्थस्य तात्पर्यज्ञापनाय एवं स्वबुद्धिविशुद्धये छायानुसारिव्याख्यानमेकं कृतम्‌ । अस्मिन्नध्याये मूलोक्तपरिष्काराणां यथामति समन्वयः प्रदर्शितः। एवं यत्र यत्र अनुगमाः प्रदर्शिताः प्रायः तेषां प्रकारविधया निवेशोऽपि विहितः । कालीशांकर्यादिपरिष्काराः ये मूले उद्धृताः तेषां व्याख्यानमपि कृतं वर्तते (१८ कोटौ) । एवं ग्रन्थस्थाप्रामाण्यज्ञानानास्कन्दितत्वानाहार्यत्वाद्दनुगमानामपि समन्वयः प्रदर्शितः । ७० कोट्युक्तसधर्मितावच्छेदकककल्पापेक्षया सिद्धान्तकल्पे वैलक्षण्यं मूले उक्तप्रायमेव । तथापि तत्र समन्वयपूर्वकविचारः व्याख्याने विहितः । इयं व्याख्या न प्रतिपङ्‌क्तिसमन्वयरूपिणी

[[260]]

उपसंहारः

[[271]]

किन्तु छायानुसारिणी एव । यतोहि प्रतिपङ्‌क्तिसमन्वयपूर्वकव्याख्यानकरणे ग्रन्थबाहुल्यभयात्‌ ईदृशं व्याख्यानं विरचितम्‌ । अनेन व्याख्यानेन मूलतात्पर्यं तु सम्यक्‌ बुद्‌ध्यते । चतुर्थाध्यायसारः एतस्मिन्‌ अध्याये ग्रन्थस्य वैशिष्ट्यं प्रतिपादितम्‌ । आदौ वह्न्यभावव्याप्यव्याप्य- वत्तादृशह्रदे सत्प्रतिपक्षोन्नायके अतिव्याप्तिवारणाय चन्द्रनारायणप्रभृतिभिः ये परिष्काराः विहिताः तेषामपेक्षया अस्य ग्रन्थस्य वैलक्षण्यं प्रदर्शितम्‌ । एवं “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्य- वत्कालीनह्रदः वह्निमान्‌” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिवारणाय तैः प्रदर्शितानां परिष्काराणां गूढाशयं व्याख्याय लक्षणसमन्वयं कृत्वा ततः परं तदपेक्षया प्रकृतग्रन्थस्य विशेषः प्रतिपादितः । क्वचित्‌ कालीशंकर्यपेक्षया चान्द्रनारायणीयस्य एवं अवच्छेदकतामालापत्रस्य च वैलक्षण्यं प्रदर्शितम्‌ । ततः परं ग्रन्थकर्तृप्रणीतान्यसत्प्रतिपक्ष- क्रोडपत्रापेक्षया प्रकृतग्रन्थस्य विशेषः प्रतिपादितः । तेन अयं ग्रन्थः व्यर्थः इति प्रश्नः दूरोत्सारितः। एतादृशमहत्त्वपूर्णः ग्रन्थः क्रोडपत्ररसिकानाम्‌ अत्यन्तम्‌ उपकाराय कल्पते इति न संशयलेशोऽपि। अतः अस्य ग्रन्थस्य प्रकाशनमावश्यकमिति कृत्वा मया शोधप्रबन्धरूपेण अयं ग्रन्थः स्वीकृतः। एवम्‌ अस्य ग्रन्थस्य तात्पर्यावगमनार्थं व्याख्यानमपि एकम्‌ अपेक्षितमिति कृत्वा गुरुवर्याणां वचस्स्वीकृत्य तदुक्तक्रममादृत्य एकं व्याख्यानमपि कृतम्‌ । एवं प्रथमाध्याये ग्रन्थकर्तुः परिचयः एतावता ईदृशविस्तृतरूपेण कुत्रापि नोपलब्धः इदानीं सम्यक्‌ रूपेण

[[261]]

उपसंहारः

[[272]]

निरूपितः। एवं च गुरोरनुग्रहबलाच्च कृतोऽयं ग्रन्थः सर्वेषां नैयायिकानां वादकुतूहलिनां च हृदयङ्गमो भवति इति निश्चप्रचम्‌ । एवं च अध्यायचतुष्टयगर्भितः अयं शोधप्रबन्धः वावदूकानां अत्यन्तं मोदायैव कल्पते इत्यत्र सन्देहलेशोऽपि नास्ति । अतः वावदूककुतूहलम्‌ इति अन्वर्थनामा अयं ग्रन्थः न्यायशास्त्रीयक्रोडपत्रेषु चूडामणिस्थानीयो भवति इति गुरून्‌ अभिवन्द्द इमं शोधप्रबन्धं भगवति श्रीहस्तिशैलशिखरोज्वलपारिजाते श्रीपेरुन्देवीनायिकावल्लभे वरदराजे समर्पयामि ।


[[262]]