[[चतुर्थोऽध्यायः]]
ग्रन्थ-तत्कर्तृणां परिचयः प्रथमाध्याये निरूपितः । द्वितीयाध्याये वावदूककुतूहलस्य सम्पादनं कृतम् । तृतीयाध्याये तस्य व्याख्यानं विहितम् । अध्याये तुरीयेऽस्मिन् अस्य ग्रन्थस्य अन्यग्रन्थापेक्षया वैशिष्ट्यं प्रतिपाद्दते । तथाहि अयं ग्रन्थः सत्प्रतिपक्षलक्षणे “वह्न्यभाव- वद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे सत्प्रतिपक्षोन्नायके अतिव्याप्तिवारणायैव समागतः । अतः एतत्स्थले अन्यैः कृताः परिष्काराः ये सन्ति तेषां अपेक्षया अस्य ग्रन्थस्य किं महत्वम् अस्ति किं वैलक्षण्यम् अस्ति इति च प्रतिपाद्दते । एवं एभिरेव सत्प्रतिपक्षग्रन्थोपरि ग्रन्थत्रयं विरचितम् । तादृशग्रन्थत्रयापेक्षया अस्य ग्रन्थस्य किं वैलक्षण्यम् इति च निरूपयिष्यते । अन्यग्रन्थापेक्षया वावदूककुतूहले विशेषः - अस्मिन् ग्रन्थे “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः एव प्रधानतया अभिहिता । तत्र च अन्यग्रन्थापेक्षया बहवः विशेषाः सन्ति । तत् क्रमेण प्रतिपाद्दते ।
- i) सत्प्रतिपक्षचान्द्रनारायणीयम् - चन्द्रनारायणभट्टाचार्यविरचितपत्रे यद्रूपावच्छिन्ननिरूपकताकविषयिता प्रकृतानु- मितिप्रतिबन्धतावच्छेदिका अथ च तादृशप्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नानुमिति-
[[259]]
निष्ठजन्यतानिरूपितजनकतावच्छेदिका तद्रूपावच्छिन्नत्वं इति गदाधरभट्टाचार्योक्तलक्षणोपरि “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इति स्थले वह्न्यभावव्याप्यव्याप्य- वत्तादृशह्रदे उन्नायके अतिव्याप्तिः आशंकिता । तथा हि - उक्तोन्नायकनिश्चयस्य “वह्न्यभाववान् वह्न्यभावव्याप्यव्याप्यवान् इति निश्चयविशिष्टवह्न्यभावव्याप्यव्याप्यवान् च तादृशह्रदः” इति निश्चयत्वेन तादृशह्रदे वह्निवैशिष्ट्यावगाह्यनुमितिं प्रति प्रतिबन्धकत्वात् सत्यन्तदलाक्रान्तत्वं एवं “तादृशह्रदः वह्न्यभावव्याप्यवान्” इत्याकारकप्रकृतानुमितिप्रतिबन्धकानुमितिजनकत्वात् विशेष्यदलाक्रान्तत्वं च इति । एवं च तत्रातिव्याप्तिवारणाय सत्यन्तदलघटकप्रतिबन्धकतायां यत्किञ्चिद्धर्मावच्छिन्नव्यापकत्वप्रकारतानिरूपितसाध्याभावविषयित्वानवच्छिन्नज्ञाननिष्ठाव- च्छेदकताकान्यत्वं निवेशनीयम् । तथा सति उक्तोन्नायकनिश्चयीयप्रतिबन्धकतायां किञ्चिद्धर्मावच्छिन्नव्यापकत्वप्रकारतानिरूपितसाध्याभावविषयित्वानवच्छिन्नज्ञाननिष्ठाव- च्छेदकताकत्वमेव अस्ति न तदन्यत्वम् । तथाहि उन्नायकनिश्चये व्यापकत्वस्य संसर्गविधया भानात् व्यापकत्वप्रकारतायाः विरहात् तादृशव्यापकत्वप्रकारतानिरूपितसाध्याभाव- विषयित्वानवच्छिन्नत्वस्य “वह्न्यभाववान् वह्न्यभावव्याप्यव्याप्यवान्” इत्याकारकज्ञाननिष्ठा- वच्छेदकतायां सत्वात् तादृशावच्छेदकताकत्वमेव सत्यन्तदलघटकप्रतिबन्धकतायां अस्ति इति अतिव्याप्तिवारणम् इत्यपि उक्तम् । ततः परं तत्र दोषद्वयं प्रतिपादितम् । तथा हि- प्रथमं दूषणं तावत् उक्तपरिष्कृतलक्षणस्य पक्षवृत्तिसाध्यव्यापकीभूताभावप्रतियोगित्वरूपसाध्याभावव्यतिरेकव्याप्तिघटितसत्प्रतिपक्षे अव्याप्तिः । तन्निश्चयस्यापि ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वात् तत्र ज्ञाननिष्ठावच्छेदकतायां व्यापकत्वप्रकारतानिरूपितसाध्याभावनिष्ठविषयित्वानवच्छिन्नत्वमेव अस्ति । उक्तनिश्चये साध्याभावस्यैव अभानात् साध्याभावविषयिता एव नास्ति । तथा च तादृशज्ञाननिष्ठावच्छेद- कताकान्यत्वविरहात् भवति अव्याप्तिः ।
[[249]]
[[260]]
द्वितीयं दूषणं तावत् “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । यतो हि उक्तोन्नायकनिश्चयस्य ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकत्वात् । तदवच्छिन्नप्रतिबन्धकत्वं पुनः नैव कल्प्यते । तथाहि- उक्तनिश्चये वह्न्यभावव्याप्यव्याप्यांशे वह्न्यभावावच्छेदकत्वं भासते । तच्च अवच्छेदकत्वं व्याप्यत्वरूपं (अनतिरिक्तवृत्तित्वरूपं) । एवं तदेव वह्न्यभावव्याप्यव्याप्यं तादृशह्रदे भासते इति कृत्वा अयं निश्चयः साध्याभावव्याप्यवत्तानिश्चयरूपः सञ्जातः । तथा च ज्ञानवैशिष्ट्यान- वच्छिन्नप्रतिबन्धकत्वस्यैव सत्वात् प्रतिबन्धकतायां ज्ञाननिष्ठावच्छेदकताकान्यत्वं सुलभमिति भवति अतिव्याप्तिः । एवं एतादृशातिव्याप्तिवारणाय उन्नेयविषयितायां प्रकृतानुमितिप्रतिबन्धकताव- च्छेदकत्वमिव प्रकृतानुमितिप्रतिबध्यतावच्छेदकत्वमपि निवेशनीयम् इति समाधानं अभिहितम्। तथा सति पूर्वोक्तस्थले नातिव्याप्तिः उन्नेयविषयिता इत्यनेन वह्न्यभावव्याप्यवत्तादृशह्रदविषयिता ग्राह्या । तस्यां प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वसत्वेऽपि प्रकृतानुमितिप्रतिबन्ध्यता- वच्छेदकत्वं नास्ति । “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इत्याकारकप्रकृतानुमितेः “तादृशह्रदः वह्न्यभावव्याप्यवान्” इत्याकारकविरोध्यनुमिति- प्रतिबन्धकत्वविरहात् । तथा च नातिव्याप्तिः इति । चान्द्रनारायणीयापेक्षया विशेषः अस्मिन्नपि ग्रन्थे उक्तोन्नायकातिव्याप्तिवारणाय उन्नेयविषयितायां प्रकृतानुमितिप्रति- बध्यतावच्छेदकत्वमेव निवेशनीयम् इत्युक्तम् । अतः कालीशांकरीयपक्षे यः दोषः उक्तः स दोषः अत्रापि लगति ।
[[250]]
[[261]]
एवं वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदविषयकोन्नायकनिश्चयस्य कालीशंकर- भट्टाचार्यवत् एभिरपि ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वमेव अङ्गीकृतं न तु तद्वैशिष्ट्यानवच्छिन्न- प्रतिबन्धकत्वं इति द्वितीयो विशेषः । कालीशांकरी - कालीशंकरभट्टाचार्यविरचितपत्रे एवं अभिहितम् । गदाधरभट्टाचार्योक्तसत्प्रतिपक्षलक्षणे सत्यन्तं अनिवेश्य तत्स्थाने प्रकृतानुमित्यवृत्तित्वमेव निवेशनीयम् । तेनैव “ह्रदो वह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवद्ध्रदे सत्प्रतिपक्षोन्नायके अतिव्याप्तिवारणात् । तथाहि- प्रकृतानुमितिः नाम “ह्रदो वह्निमान्” इत्याकारिका अनुमितिः । तत्र वह्न्यभावव्याप्यव्याप्य- वद्ध्रदत्वावच्छिन्ननिरूपकताकविषयितायाः सत्वं सम्भवितुमर्हति, विरोधाभावात् । तथा च यद्रूपावच्छिन्ननिरूपकताकविषयितायाः प्रकृतानुमितिवृत्तित्वात् अवृत्तित्वाभावादेव सत्प्रतिपक्षोन्नायके अतिव्याप्तिवारणसंभवेन सत्यन्तं व्यर्थं इति आशंकां कृत्वा “वह्न्यभाव- वद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः दर्शिता । तथाहि- तत्र प्रकृतानुमितौ वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदत्वावच्छिन्न- विषयितायाः सत्वे तज्ज्ञानस्य आहार्यत्वमेव स्यात् वह्निमत्ताबुद्धिं प्रति ज्ञानविशिष्टज्ञानत्वेन उक्तोन्नायकनिश्चयस्य प्रतिबन्धकत्वात् । एकत्र प्रतिबध्यप्रतिबन्धकांशावगाहने ज्ञानस्य आहार्यत्वनियमात् अनुमितित्वं न स्यात् । परोक्षाहार्यानङ्गीकारात् सिद्धान्ते। अतः वह्न्यभाव- व्याप्यव्याप्यवत्तादृशह्रदविषयितायाः प्रकृतानुमित्यवृत्तित्वमेव वक्तव्यम् । तथा च भवति अतिव्याप्तिः । अतः सत्यन्तस्थाने प्रकृतानुमित्यवृत्तित्वं निवेशयितुं न शक्यते । यदि उन्नेयविषयितायां तन्निवेश्यते तदा वह्न्यभावव्याप्यव्याप्यवद्वह्न्यभावव्याप्यवत्कालीनह्रदः
[[251]]
[[262]]
वह्न्यभावव्याप्याभाववान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे बाधे अतिव्याप्तिः दुर्वारा। अतः प्रकृतानुमित्यवृत्तित्वं कुत्रापि निवेशयितुं न शक्यते इत्युक्तम् । ततः परं पूर्वपक्षिणा शंका कृता एवमपि “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्य- वत्कालीनह्रदः वह्निमान् इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा” इति। उक्तोन्नायकनिश्चयस्य पूर्ववत् निश्चयविशिष्टनिश्चयत्वेन प्रकृतानुमितिप्रतिबन्धकत्वात् सत्यन्तस्य, एवं “तादृशह्रदः वह्न्यभावव्याप्यवान्” इत्याकारकज्ञानजनकत्वेन विशेष्यदलस्य च सत्वात् अतिव्याप्तिः । तद्वारणाय चन्द्रनारायणभट्टाचार्याऽश्रितरीतिरेव एभिरपि अनुसृता । तथा हि उन्नेयविषयितायां प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वमिव प्रकृतानुमितिप्रतिबध्यता- वच्छेदकत्वमपि निवेशनीयं तेन नोक्तदोषः इति । परन्तु चान्द्रनारायणीयापेक्षया अत्र कश्चन विशेषः अस्ति । यतो हि - तैस्तावत् “वह्न्यभावव्याप्यव्याप्यवान् तादृशह्रदः” इत्याकारकनिश्चयस्य ज्ञानवैशिष्ट्यानवच्छिन्नप्रति- बन्धकत्वं अङ्गीकृतम् । परन्तु अस्मिन् पत्रे तन्नाङ्गीक्रियते । यतो हि - उक्तज्ञानस्य ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वमेव क्लृप्तम् । तत्त्यक्त्वा तदवच्छिन्नप्रतिबन्धकत्वकल्पनं गुरुभूतम् । एवं साध्याभावव्याप्यत्वं यस्मिन् वह्न्यभावव्याप्यव्याप्ये भासते तदेव वह्न्यभावव्याप्यव्याप्यं ह्रदे न भासते । अतः तदभावव्याप्यवत्तामुद्रया प्रतिबन्धकत्वकल्पनं तयोः ऐक्यं सम्पाद्दैव वक्तव्यम् तर्हि क्लिष्टकल्पना । तदपेक्षया लाघवात् ज्ञानवैशिष्ट्यावच्छिन्न- प्रतिबन्धकत्वस्वीकार एव उचितः इति ।
[[252]]
[[263]]
कालीशांकर्यपेक्षया विशेषः - श्रीकृष्णताताचार्याः सर्वदा कालीशांकरीं अनुसृत्यैव परिष्कारं कृत्वा तदुपरि स्वीयपक्षं समर्थयन्ति । परन्तु अस्मिन् ग्रन्थे आदौ कालीशांकरी रीतिः न अनुसृता। परन्तु कालीशांकरीपक्षः १८ कोटौ एव उद्धृतः । एवं तत्पक्षे दोषोपि अभिहितः । तथा हि - उन्नेयविषयितायां प्रकृतानुमिति- प्रतिबन्धकतावच्छेदकत्व, प्रतिबध्यतावच्छेदकत्वोभयनिवेशपक्षे सत्यन्तं व्यर्थम्। यदि तद्वारणाय कश्चन प्रयासः क्रियते तदा “वह्निव्याप्याभाववद्वह्न्यभाववत्कालीनवह्निव्याप्याभाव- वद्वह्न्यभावव्याप्यवत्कालीनह्रदः वह्निव्याप्यवान्” इत्यत्र वह्न्यभावव्याप्यवत्तादृशह्रदे अतिव्याप्तिः भवति । अतः एतत्पक्षः अयुक्तः इति निरूपितः । तत्रातिव्याप्तिनिरूपणं तृतीयाध्याये १९ कोटिविवरणे सम्यक् निरूपितम् । तथाहि - एवमपि “वह्निव्याप्याभाववद्वह्न्यभाववत्कालीन, वह्निव्याप्याभाववद्वह्न्य- भावव्याप्यवत्कालीनह्रदः वह्निव्याप्यवानि”त्यत्र वह्न्यभावव्याप्यवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । तत्र उन्नेयविषयिता वह्न्यभाववत्तादृशह्रदविषयिता । तस्यां प्रकृतानुमितिप्रतिबध्यता- वच्छेदकत्वप्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वोभयसत्वात् । तथाहि- “वह्न्यभाववान् वह्निव्याप्याभाववान्” इति निश्चयविशिष्ट “वह्न्यभाववांश्च तादृशह्रदः” इति निश्चयत्वेन प्रतिबन्धकत्वं उन्नेयविषयकज्ञानस्य । एवं तस्य वह्न्यभाववत्तादृशह्रदविषयकत्वेन “वह्निव्याप्यवान् तादृशह्रदः” इत्याकारकतदभावव्याप्यवत्तानिश्चयप्रतिबध्यत्वाच्च । एवं सत्यन्तदलाक्रान्तत्वमपि अस्ति । तथाहि “वह्निव्याप्याभाववद्वह्न्यभाववत्कालीन, वह्निव्याप्या- भाववद्वह्न्यभावव्याप्यवत्कालीनह्रदः वह्निव्याप्यवान्” इत्याकारकानुमितिं प्रति “वह्निव्याप्याभाववान् वह्न्यभावव्याप्यवान्” इति निश्चयविशिष्टवह्न्यभावव्याप्यवान् तादृशह्रदः” इत्याकारकनिश्चयत्वेन “वह्न्यभावव्याप्यवान् तादृशह्रदः” इत्याकारकनिश्चयस्य प्रतिबन्धकत्वात्। अतः दलद्वयविशिष्टत्वात् अतिव्याप्तिः ।
[[253]]
[[264]]
एवं वह्न्यभाववद्वह्न्यभावाभाववदवृत्तिव्याप्यवत्कालीनवह्न्यभावाभाववदवृत्यभाव- वद्वह्निमत्कालीनह्रदः वह्निमानित्यत्र वह्न्यभावाभाववदवृत्तिव्याप्यवत्तादृशह्रदे पूर्वकोट्युक्ते अतिव्याप्तिः तदवस्था भवति । विशेष्यदलाक्रान्तत्वं पूर्वकोटिवद्ग्राह्यम् । सत्यन्तदलाक्रान्तत्वं च इत्थं “वह्न्यभावाभाववदवृत्तिव्याप्यवान् वह्न्यभाववान्” इति निश्चयविशिष्टवह्न्यभावा- भाववदवृत्तिव्याप्यवान् तादृशह्रदः” इति निश्चयत्वेन प्रकृतमहाविशिष्टविषयकनिश्चयस्य प्रतिबन्धकत्वात् अतिव्याप्तिः । अवच्छेदकतामालापत्रम् - शतकोटिरामशास्त्रिविरचितेऽस्मिन् ग्रन्थे ८२ कोटौ “अत्रोच्यते” इत्यादिना “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इति स्थले वह्न्यभावव्याप्यव्याप्य- वत्तादृशह्रदे अतिव्याप्तिः प्रदर्शिता। तथाहि- ८१ कोटौ यत्प्रतिबध्यता विशेष्यदलार्थः तदाश्रयानुमित्यवृत्तित्वं प्रतिबन्धकतायां निवेशनीयम् इत्युक्तं तथा सति “वह्न्यभाव- वद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः भवति । विशेष्यदलघटकप्रतिबध्यताश्रयानुमितौ “वह्न्यभाववद्वह्न्यभावव्याप्य- व्याप्यवत्कालीनह्रदः वह्निमान्” इत्याकारिकायां वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदविषयिता नास्ति । यदि अस्ति तर्हि तस्य ज्ञानस्य आहार्यत्वापत्या अनुमितित्वं न स्यात् । अतः सा विषयिता तादृशानुमित्यवृत्तिः एव इति कृत्वा अतिव्याप्तिः। परन्तु अत्र उक्तातिव्याप्ति- वारणप्रयासः सत्यन्तदलसत्वपक्षे नैव प्रदर्शितः । सामान्यतः तत्तद्भिन्नत्वं प्रतिबन्धकतायां निवेशनीयम् इत्येव तत्र उक्तत्वात् ।
[[254]]
[[265]]
अवच्छेदकतामालापत्रापेक्षया विशेषः - अस्मिन् ग्रन्थे तत्र अतिव्याप्तिवारणप्रयासः न स्पष्टः । यदि प्रतिबन्धकतायां तत्तद्भिन्नत्वमेव निवेश्यते तदा एतादृशबहुतरव्यक्तीनां भेदः निवेशनीयः स्यात् तेन महद्गौरवं भवति । अतः अयमपि पक्षः न समीचीनः । सत्प्रतिपक्षशंकरभट्टी - शंकरभट्टविरचितेऽस्मिन् ग्रन्थेऽपि सत्यन्तस्थाने प्रकृतानुमित्यवृत्तित्वमेव निवेश्यतां इत्यांशका एव कृता । परन्तु अतिव्याप्तिः तावत् वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे नोक्ता किन्तु वह्न्यभावव्याप्यव्याप्यवद्ध्रदे एव उक्ता । “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्य- वत्कालीनह्रदः वह्निमान्” इत्याकारकानुमितौ वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवद्ध्रद- त्वावच्छिन्नविषयितापि न भवति । तस्याः तत्र भानेऽपि अनुमितेः आहार्यत्वापत्या अनुमितित्वं न स्यात् । अतः तत्र अतिव्याप्तिः । तद्वारणाय सत्यन्तदलं आवश्यकम् । तद्दाने सति तत्र प्रतिबन्धकतानतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्यैव निवेशितत्वात् “वह्न्यभाववान् वह्न्यभाव- व्याप्यव्याप्यवान्” इति निश्चयासमानकालीन “वह्न्यभावव्याप्यव्याप्यवान् ह्रदः” इति निश्चयस्य प्रतिबन्धकत्वविरहात् वह्न्यभावव्याप्यव्याप्यवद्ध्रदत्वावच्छिन्ननिरूपकताकविषयितायां प्रतिबन्धकतानतिरिक्तवृत्तित्वविरहात् नातिव्याप्तिः । भिक्षुशास्त्रिपत्रम् - भिक्षुशास्त्रिनामकविदुषा कृते पत्रे अस्मिन् शंकरभट्टीये यादृशरीतिः अनुसृता पूर्वपक्षसमाधानयोः सैव रीतिः अत्रापि अनुसृता इति न कश्चिद्विशेषः ।
[[255]]
[[266]]
शंकरभट्टीभिक्षुशास्त्रिपत्रापेक्षया विशेषः - पत्रद्वयेऽपि समाना रीतिरेव दृश्यते इति कृत्वा युगपन्निरूप्यते । अत्र वह्न्यभावव्याप्य- व्याप्यवत्तादृशह्रदे अतिव्याप्तिः नोक्ता किन्तु केवलवह्न्यभावव्याप्यव्याप्यवद्ध्रदे। एवं सत्यन्तनिवेशे केवलवह्न्यभावव्याप्यव्याप्यवद्ध्रदे अतिव्याप्तिवारणसम्भवेऽपि वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः तदवस्थैव भवति । तद्वारणप्रयासः तत्र नास्ति इति ज्ञेयः । परन्तु वावदूककुतूहले तद्वारणं कृतं इति विशेषः । एतावता अन्यग्रन्थापेक्षया अस्य ग्रन्थस्य वैशिष्ट्यं प्रतिपादितम् । इदानीं श्रीकृष्णताताचार्यविरचितेषु सत्प्रतिपक्षलक्षणविचारग्रन्थेषु अस्य ग्रन्थस्य को विशेषः इति प्रतिपाद्दते । यैः कृताः प्रकृतग्रन्थभिन्नसत्प्रतिपक्षग्रन्थाः -
-
i) सत्प्रतिपक्षपत्रम्
-
ii) शतकोटिखण्डनम्
-
iii) शतकोटिमण्डनमुण्डनम्
-
i) सत्प्रतिपक्षपत्रम् गदाधरभट्टाचार्यपरिष्कृतसत्प्रतिपक्षलक्षणस्य दलप्रयोजनकथनपूर्वं लक्षणपरिष्करणमेव अस्य ग्रन्थस्य तात्पर्यम्। आदौ सत्यन्तदलमात्रे प्रकृतपक्षतावच्छेदकावच्छिन्नपक्षकत्वस्थाने यत्किञ्चिद्धर्मावच्छिन्नपक्षकत्वं निवेश्यतां इति आक्षेपं कृत्वा तत्र दोषमभिधाय पक्षतावच्छेदकावच्छिन्नपक्षकत्वं समर्थितम् । एवं अवच्छेदकत्वं स्वरूपसंबन्धरूपमेव भवतु इति आक्षेपं कृत्वा अनतिरिक्तवृत्तित्वरूपं तत् इति च समर्थितम् । एवं प्रतिबध्यतावच्छेदकत्वं स्वरूपसंबन्धरूपमेव इति समर्थितम् । एवं सत्यन्तस्थाने प्रकृतानुमित्यवृत्तित्वमेव निवेश्यतां
[[256]]
[[267]]
इत्याक्षिप्य सत्यन्तं समर्थितम् । तथा च कालीशांकरीरीत्यैव सत्प्रतिपक्षग्रन्थस्य व्याख्यानरूपं परिष्करणं अत्र कृतमिति विभावनीयम् ।
-
ii) शतकोटिखण्डनम् “ह्रदो वह्निमान्” इत्यत्र वह्न्यभाववह्न्यभावव्याप्यव्याप्योभयवद्ध्रदे अतिव्याप्तिवारणाय प्रतिबन्धकतायां विशिष्टान्तराघटितत्वं निवेशनीयमिति यत् रामशास्त्रिभिरुक्तं तत् असमीचीनं इति मत्वा तद्दोषवारणाय जनकतायामेव विशिष्टान्तराघटितत्वं निवेशनीयमिति प्रतिपादनपरः ग्रन्थः ।
-
iii) शतकोटिमण्डनमुण्डनम् शतकोटिखण्डनग्रन्थः कुरुच्चि रङ्गाचार्येण, शोहत्तूर्. विजयराघवाचार्येण च खण्डिते सति तत्समर्थनाय अयं ग्रन्थः रचितः । उक्तग्रन्थत्रयापेक्षया वावदूककुतूहले विशेषः - सत्प्रतिपक्षपत्राख्यग्रन्थः सत्प्रतिपक्षग्रन्थस्य व्याख्यानरूपः ग्रन्थः । तत्र दलप्रयोजना- दिकमेव प्रधानतया विवेचितम् । शतकोटिखण्डनशतकोटिमण्डनमुण्डनग्रन्थयोः तावत् विशिष्टान्तराघटितत्वं कुत्र निवेशनीयमित्यत्रैव तात्पर्यम् । शतकोटिमण्डनग्रन्थेषु ये प्रश्नाः आगताः तेषां समाधानमेव तत्र कृतम् । परन्तु वावदूककुतूहलग्रन्थे विशिष्य एकं लक्ष्यं “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्य- वत्तादृशह्रदे अतिव्याप्तिरूपं स्वीकृत्य तत्समाधानव्याजेन सत्प्रतिपक्षलक्षणस्य निष्कर्षः कृतः। एतादृशनिष्कर्षः अन्यग्रन्थेषु नोपलभ्यते इति कारणात् इदम् उत्कृष्टं ग्रन्थरत्नम् इति विभावनीयम् इति शम् ।
[[257]]