०१ ग्रन्थप्रकाराः

न्यायशास्त्रीयग्रन्थानां विभागः चतुर्धा क्रियते । यथा -

  • i) प्रकरणग्रन्थः
  • ii) वादग्रन्थः
  • iii) उद्‌ग्रन्थः
  • iv) क्रोडपत्रं चेति

प्रकरणग्रन्थः

अयं च ग्रन्थः न्यायशास्त्रीयतत्त्वप्रतिपादनपरः । द्रव्यादिसप्तपदार्थानां स्वरूपं, लक्षणं तद्विभागः, एवं पृथिव्यादिद्रव्याणां प्रत्येकं लक्षणं तेषां नित्यानित्यत्वविचारः, गुणानां स्वरूपादिविचारः, पाकविचारः इत्यादयः अनेके सामान्यविचाराः अत्र प्रतिपाद्दन्ते । प्रकरणग्रन्थाः भवन्ति- तर्कसंग्रहः, तर्कभाषा, न्यायसिद्धान्तमुक्तावली इत्यादयः । वादग्रन्थः - अस्मिन्‌ विभागे विशिष्य प्रमाणादीनां शोधनं सम्यक्‌ क्रियते । एकैकं विषयं स्वीकृत्य तस्य लक्षणनिर्वचनं तत्प्रसक्तानुप्रसक्तदोषाणां वारणं, एवं पूर्वपक्षरूपेण बहूनां लक्षणानां प्रणयनं

[[28]]

तत्खण्डनं च क्रियते । एतद्‌ग्रन्थाध्ययनेन न्यायशास्त्रीयच्छात्राणां वादविवादचातुर्यं वर्धते । वादग्रन्थाः भवन्ति - पञ्चलक्षणी, चतुर्दशलक्षणी, सिद्धान्तलक्षणम्‌ इत्यादयः ।

उद्‌ग्रन्थः

अयं च वादग्रन्थस्यैव उच्चतरभागः । सामान्यतः पण्डितलोके सामान्यनिरुक्तिमारभ्य प्रमाण्यवादान्तभागः एव उद्‌ग्रन्थत्वेन कथ्यते । अत्र प्रत्येकस्मिन्‌ विषयेऽपि कोटिक्रमः विस्तृतः भवति । उद्‌ग्रन्थाः भवन्ति- हेत्वाभाससामान्यनिरुक्तिः, सत्प्रतिपक्षः, शक्तिवादः, व्युत्पत्तिवादः इत्यादयः ।

क्रोडपत्रम्‌

अयं च विशिष्टो भागः न्यायशास्त्रस्य । यद्दपि सर्वेष्वपि शास्त्रेषु अयं विभागः अस्ति। परन्तु एवंरीत्या ग्रन्थप्रणयनं न्यायशास्त्रे एव ऐदंप्राथम्येण आरब्धम्‌ । एवं आधुनिकप्रसिद्धिरपि न्यायशास्त्रे एव वर्तते । क्रोडपत्रं नाम किं ? क्रोडपत्रशब्दार्थश्च कः ? इति अनुपदमेव विवेचयिष्यते । क्रोडपत्राणि - कालीशाङ्करी, चान्द्रनारायणीयम्‌, वादकल्पकः इत्यादयः ।

क्रोडपत्रपरिचयः

क्रोडितस्य विषयस्य पत्रे लेखनम्‌ एव क्रोडपत्रं इत्यनेन उच्यते । क्रोडं नाम किं ? इत्यत्रैव बहुधा विचारः दृश्यते । तथाहि- क्रोडं नाम त्रुटितं इति एकः अर्थः । तथा च ग्रन्थपठनकाले अथवा ग्रन्थरचनाकाले अनवधानात्‌ अथवा तदानीन्तनप्रतिभाभाववशाद्वा त्रुटितस्य भागस्य पुनर्दशनसमये प्रतिभासंपत्तिवेलायां वा अतीव रमणीयप्रश्नोत्तररूपेण पत्रे लिखितांशाः एव क्रोडशब्देन विवक्षिताः । तेषां संग्रहः पत्रे भवति चेत्‌ क्रोडपत्रं इत्युच्यते ।

[[18]]

[[29]]

अन्यः प्रकारः तावत्‌ ग्रन्थाध्यापनवेलायां अध्यापकैः अथवा छात्रैः तत्तत्समयोदित- प्रतिभावशात्‌ गृहीतविद्दैः ग्रन्थोपरि स्वीयप्रश्नकरणादिपूर्वं यत्‌ समाधानादिप्रणयनं तदपि क्रोडशब्देन उच्यते । तत्पत्रं क्रोडपत्रं इत्युच्यते । वस्तुतस्तु ग्रन्थकर्तृृणां तत्तत्समये स्फुरितानां प्रश्नानां समाधानं स्वप्रतिभावशात्‌ यत्र क्रियते तत्पत्रं क्रोडपत्रं इत्युच्यते । मूलग्रन्थेषु यत्र वक्तव्यांशन्यूनता दृश्यते तत्रैव अस्य ग्रन्थस्य प्रारम्भः भवति । क्रोडपत्रविषये न्यायकोशे एवं निरूपितम्‌- (क) “त्रुटितग्रन्थस्य परिपूर्णाय ग्रन्थस्थ- पत्रयोः मध्ये चिह्नविशेषेण लिखित्वा स्थापितं पत्रम्‌ । (ख) न्यायशास्त्रग्रन्थस्य लक्षणादिपरिष्काराणां ऊहापोहाभ्यां शङ्कोत्तररूपेण खण्डनमण्डनव्यवस्थापनपत्रम्‌ । यथा न्यायशास्त्रे चान्द्रनारायणी, दुलाली, कालीशाङ्करीपत्राणि क्रोडपत्राणि सन्ति ।” एवं चौखम्बाप्रकाशनद्वारा प्रकाशितक्रोडपत्रसंग्रहनामकपुस्तकभूमिकायां विन्ध्येश्वरशास्त्रिवर्यैः एवं प्रपञ्चितं क्रोडपत्रविषये - “क्रोडपत्रशब्दार्थस्तु- क्रोडे उपचारान्मध्ये स्थितं पत्रम्‌ । ग्रन्थलेखने भ्रमात्‌ त्रुटितस्य ग्रन्थस्य परिपूर्णाय वा व्याख्यानादिना न्यूनतावारणाय ग्रन्थस्थपत्रयोः मध्ये चिह्नविशेषेण लिखित्वा स्थापितं पत्रम्‌” इति।

क्रोडपत्रस्य प्रयोजनम्‌ -

सत्सु बहुषु ग्रन्थेषु क्रोडपत्रस्य किं प्रयोजनमिति अस्ति महान्‌ प्रश्नः सर्वेषाम्‌ । तस्य उत्तरम्‌ एवं भवति । मूलग्रन्थे विद्दमानायाः वक्तव्यांशाकथनरूपन्यूनतायाः परिमार्जनमेव तत्प्रयोजनम्‌ ।

[[19]]

[[30]]

यदि ते अंशाः न परिमार्ज्यन्ते तर्हि ग्रन्थस्थसारभूतांशस्य ज्ञानं नैव लभ्येत । एवं पुनः पुनः संशयादिकं भवत्येव । अतः ग्रन्थपठनवेलायाम्‌ उत्पन्नसंशयानां परिमार्जनाय क्रोडपत्रात्मकग्रन्थस्य प्रणयनं आवश्यकमेव । अत्र उदाहरणार्थं स्थलद्वयं प्रदर्श्यते -

  • i) सत्प्रतिपक्षग्रन्थे गादाधर्यां लक्षणदलप्रयोजननिरूपणावसरे मेयत्वविशिष्टसत्प्रतिपक्षे लक्षणवारणप्रकारः न प्रपञ्चितः । यद्दपि तद्वारकविशिष्टान्तराघटितत्वविशेषणं हेत्वाभास- सामान्यलक्षणे निवेशनीयम्‌ इति दीधितिकारैः प्रपञ्चितमेव तथापि विशिष्यसत्प्रतिपक्षलक्षणे तन्निवेशनीयं वा इति शङ्का अवश्यं समेषां पण्डितानां उदेति । एवं “ह्रदो वह्निमान्‌” इत्यत्र वह्न्यभाववह्न्यभावव्याप्यव्याप्योभयवद्‌ध्रदे अतिव्याप्तिः प्रसज्यते । उक्तविशिष्टविषयक- निश्चयस्य ह्रदे वह्न्यभावावगाहित्वेन प्रकृतानुमितिप्रतिबन्धकत्वात्‌ ह्रदे वह्न्यभावव्याप्य- व्याप्यावगाहित्वेन “ह्रदो वह्न्यभावव्याप्यवान्‌” इत्याकारकविरोध्यनुमितिजनकत्वाच्च । अतः तद्वारणप्रयासः मूले न कृतः इति न्यूनतावारणाय शतकोटिनामकक्रोडपत्रस्य प्रादुर्भावः आपतितः । तस्मिन्‌ उक्तदोषद्वयवारणाय प्रतिबन्धकतायां विशिष्टान्तराघटितत्वं निवेशनीयम्‌ इति उक्तम्‌ । अतः तादृशशतकोटिग्रन्थाध्ययनेन मूलग्रन्थस्य न्यूनता अपैति इति निश्चप्रचम्‌ ।
  • ii) हेत्वाभासलक्षणे अवच्छेदकत्वम्‌ अनतिरिक्तवृत्तित्वमेव निवेशनीयम्‌ इत्युक्त्वा विशिष्टद्वयाघटितत्वं च लक्षणे निवेशनीयम्‌ इति उक्तम्‌ । परन्तु विशिष्टद्वयाघटितत्वशरीरे सत्प्रतिपक्षघटकदलद्वयविषयित्वशून्यत्वं, एवं विशिष्टद्वयविषयितायां अव्यापकविषयिताशून्यत्वं

[[20]]

[[31]]

च निवेशनीयम्‌ इति महद्गौरवं भवति । तदपेक्षया लघुभूतविशेषणं प्रतिबन्धकताविशिष्टान्यत्वरूपं लक्षणे निवेश्यते चेत्‌, उक्तदोषाणां वारणसंभवात्‌ विशिष्टद्वयाघटितत्वं व्यर्थं इति शङ्कां अपह्नोतुं प्रकृतवावदूककुतूहलग्रन्थनिर्मातारः श्रीकृष्णताताचार्याः “वादकल्पकः” इति नाम्ना एकं ग्रन्थं क्रोडपत्रात्मकं रचयामासुः तत्र च विशिष्टद्वयाघटितत्वस्य साथर्क्यं निरूपितं वर्तते इति विद्वज्जनप्रसिद्धिः । तथा च मूलग्रन्थकर्तृणाम्‌ अनुद्भूतम्‌ आशयं प्रकटीकर्तुं एतादृशक्रोडपत्राणां प्रणयनम्‌ अत्यन्तम्‌ आवश्यकम्‌ ।

क्रोडपत्ररचनाकालः

एतादृशक्रोडपत्राणां रचनाकालः तावत्‌ गदाधरभट्टाचार्याणां अनन्तरकालः एवेति निश्चयेन वक्तुं शक्यते । यतो हि तद्‌ग्रन्थोपरि किल प्रायः सर्वाणि क्रोडपत्राणि सन्ति । अतः क्रोडपत्ररूपग्रन्थानां प्रादुर्भावकालः सप्तदशशताब्द्दाम्‌ अन्ते इति प्रायेण सर्वे विद्वांसः अङ्गीकुर्वन्ति।

प्रसिद्धक्रोडपत्रनिर्मातारः तद्विरचितानां पत्राणां नामानि

एतादृशक्रोडपत्रस्य प्रणयने आरम्भकाले कुतूहलिनः आसन्‌ औत्तराहाः एव । उत्तरभारते एव एतादृशग्रन्थस्य प्रादुर्भावः सञ्जातः । तत्रापि विशिष्य वाराणस्यां बहवः पण्डिताः एतादृशपत्राणां उद्भवं अन्वगृह्‌णन्‌ । ते यथा -

i) चान्द्रनारायणभट्टाचार्याः

एते सप्तदशशतके वाराणसीस्थराजकीयसंस्कृतविश्वविद्यामन्दिरे प्रथमन्यायाध्यापकाः आसन्‌ इति ऐतिहासिकानां मतिः । एते च अनुमितिसङ्गतिग्रन्थमारभ्य प्रामाण्यवादमुक्तिवादपर्यन्तं

[[21]]

[[32]]

गादाधरीग्रन्थोपरि क्रोडपत्राणि अलिखन्‌ । ते च ग्रन्थाः “चान्द्रनारायणीयम्‌” इति नाम्ना एव व्यपदिश्यन्ते । एतेषां शिष्याः एव कालीशङ्करसिद्धान्तवागीशाः इति ज्ञातव्यम्‌ ।

ii) कालीशङ्करसिद्धान्तवागीशः

एतेऽपि वाराणसीवास्तव्या एव आसन्‌ । चन्द्रनारायणभट्टाचार्याणां गृहे पाककार्ये नियुक्ताः इमे आचार्याः पाकं कुर्वन्त एव अध्ययनं विनैव गुरोरध्यापनं श्रृण्वन्तः कतिपयैः वर्षैः अनेकान्‌ न्यायग्रन्थान्‌ समभ्यस्तवन्तः इति अस्ति वैशिष्ट्यं एतेषाम्‌ । एतैः कृताः प्रबन्धाः “कालीशांकरी” इति नाम्ना व्यपदिश्यन्ते । एतैरपि समग्रजागदीश्याः एवं गादाधर्याश्चोपरि क्रोडपत्रं रचितं प्रसिद्धं च वर्तते । सत्स्वपि बहुषु क्रोडपत्रेषु शङ्करतर्कवागीशः, हरनारायणः, चान्द्रनारायणः, दुलाल इत्यादिप्रसिद्धपण्डितरचितेषु कालीशङ्करकृतानि एव क्रोडपत्राणि सर्वोत्तमानि अनतिविस्तीर्णानि विद्वद्भिश्च प्रामाणिकत्वेन अवधार्य पठनपाठनयोः प्रयुज्यमानानीति अस्ति महद्वैशिष्ट्यं अस्य क्रोडपत्रस्य ।

गोलोकनाथभट्टाचार्यः

एते १८ शतके वङ्गदेशे कृतजन्मानः तत्रैव न्यायशास्त्रप्रर्वतकाः आसन्‌ । एते कृताः

प्रबन्धाः - i) सामान्यनिरुक्तिविवेचनी

  • ii) पञ्चलक्षणीविवेचनी - इत्यादयः ग्रन्थाः ।

दाक्षिणात्यक्रोडपत्रग्रन्थनिर्मातारः

दक्षिणप्रदेशात्‌ काशीं गत्वा तस्मात्‌ क्रोडपत्रसरणिं ज्ञात्वा दाक्षिणात्यपण्डिताः अपि बहून्‌ क्रोडपत्रान्‌ रचयामासुः । तत्र प्रसिद्धाः भवन्ति -

[[22]]

[[33]]

  • i) काञ्ची श्रीकृष्णताताचार्याः
  • ii) कुणिगल्‌ रामशास्त्रिणः
  • iii) कस्तूरिरङ्गाचार्याः
  • iv) शोहत्तूर्‌ विजयराघवाचार्याः
  • v) काञ्ची श्रीगोपालताताचार्याः इत्यादयः । काञ्ची श्रीकृष्णताताचार्याः - एतेषां परिचयः अधस्तात्‌ विस्तरेण निरूपयिष्यते । कुणिगल्‌ रामशास्त्रिणः - एते १९ शतके मैसूर्‌ नगरवास्तव्याः आसन्‌ । एतैः कृतः एव शतकोटिग्रन्थः इदानीं जगति अत्यन्तप्रसिद्धः क्रोडपत्रग्रन्थः । एतैः कृताः प्रबन्धाः -
  • i) शतकोटिः
  • ii) अवच्छेदकतामालापत्रम्‌
  • iii) नवकोटिः कस्तूरिरङ्गाचार्याः - एतेऽपि १९शतके मैसूर्‌वास्तव्याः आसन्‌ । एतैः कृताः प्रबन्धाः -
  • i) सत्प्रतिपक्षपत्रम्‌
  • ii) वचस्सुधातत्वम्‌ इत्यादयः ग्रन्थाः शोहत्तूर्‌ विजयराघवाचार्याः - एते शोहत्तूर्‌ग्रामवास्तव्याः आसन्‌ । अनन्तरं मैसूर्‌नगरं गत्वा रामशास्त्रिणः सविधे

[[23]]

[[34]]

समग्रन्यायशास्त्रं पठितवन्तः । एतैः कृताः प्रबन्धाः -

  • i) शतकोटिमण्डनम्‌
  • ii) सामान्यनिरुक्ति-असंभवपत्रम्‌
  • iii) बाधलक्षणविचारः इत्यादयः ग्रन्थाः । काञ्चीश्रीगोपालताताचार्याः - एते च प्रकृतग्रन्थकर्तृृणां श्रीकृष्णताताचार्याणां पुत्राः । तदध्यापितसमस्तशास्त्रविदः काञ्च्यां निवसन्‌ “सत्तर्कवेदान्तवागधीशमिश्रः” इति बिरुदभाजः आसन्‌ । एते तर्कसंग्रहमारभ्य- प्रामाण्यवादपर्यन्तप्रकरणग्रन्थवादग्रन्थानां टिप्पणीं कृतवन्तः । एवं शताधिकन्याय- शास्त्रीयक्रोडपत्राणि अपि अरचयन्‌ । सकलशास्त्रेषु अपि एतेषां क्रोडपत्रं वरीवर्ति । यथा - न्यायशास्त्रग्रन्थाः -
  • i) तर्कसंग्रहदीपिकाप्रकाशिकाव्याख्याप्रभृतिप्रामाण्यवादपर्यन्तव्याख्याग्रन्थाः । (तत्र “प्रसरणा” नाम्नी प्रकाशिका व्याख्या प्रकाशिता । अन्याः अप्रकाशिताः)
  • ii) शतकोटिखण्डनमण्डनम्‌ - प्रकाशितम्‌
  • iii) बङ्गालपत्रखण्डनम्‌ (गोलोकीयखण्डनम्‌) - अप्रकाशितम्‌
  • iv) विशिष्टद्वयाघटितत्वविचारः – अप्रकाशितः
  • v) विधिवादः - अप्रकाशितः
  • vi) साक्षात्कारघटितकल्पविचारः - अप्रकाशितः
  • vii) प्रथमलक्षणे षोडशदोषाः - अप्रकाशितः
  • viii) प्रथमलक्षणविचारः - अप्रकाशितः

[[24]]

[[35]]

  • ix) अन्तर्भावपदशक्तिवादः - अप्रकाशितः
  • x) सुषुप्तिवादः - अप्रकाशितः
  • xi) मात्रपदशक्तिवादः - अप्रकाशितः
  • xii) उद्देशवादः - अप्रकाशितः
  • xiii) पक्षताक्रोडपत्रम्‌ - अप्रकाशितम्‌
  • xiv) सत्प्रतिपक्षपत्रम्‌ - अप्रकाशितम्‌
  • xv) अवयवपत्रम्‌ - अप्रकाशितम्‌
  • xvi) सधर्मितावच्छेदककल्पः (सव्यभिचारः) - अप्रकाशितः
  • xvii) पततेः सकर्मकत्वम्‌ - अप्रकाशितम्‌
  • xviii) एवकारवादः - अप्रकाशितः
  • xix) विशिष्टशक्तिखण्डनम्‌ - अप्रकाशितम्‌
  • xx) तत्समर्थनम्‌ - अप्रकाशितम्‌ इत्यादयः अनेके ग्रन्थाः न्यायशास्त्रे । मीमांसाग्रन्थाः -
  • i) भाट्टदीपिकाटिप्पणी
  • ii) एकदेवताकत्वपरिष्कारः
  • iii) विधिरसायनसंग्रहः इत्यादयः अनेके ग्रन्थाः । वेदान्तग्रन्थाः
  • i) श्रीभाष्यटिप्पणी
  • ii) भेदवादः

[[25]]

[[36]]

  • iii) प्रणवदीपिका
  • iv) मुक्तिवादः
  • v) ज्ञानयाथार्थ्यवादः
  • vi) ऐक्यशास्त्र्यविचारः
  • vii) साधनचतुष्टयहेतुत्वविचारः
  • viii) उपासनाचातुर्विध्यविचारः
  • ix) जीवव्याप्तित्वभङ्गः
  • x) शाब्दापरोक्षत्वभङ्गः इत्यादयः अनेके ग्रन्थाः इति अलं विस्तरेण ।