०१

प्रतिज्ञापत्रम्‌

तिरुपतिस्थराष्ट्रियसंस्कृतविश्वविद्यालयस्य दर्शनसङ्कायान्तर्गतन्यायविभागाचार्याणां श्रीमतां प्रो. ओ.एस्‌.रामलालशर्ममहोदयानां मार्गदर्शने विद्यावारिधिः (Ph. D.) इत्युपाध्यर्थं “महामहोपाध्यायकाञ्चीश्रीकृष्णताताचार्यकृतवावदूककुतूहलग्रन्थस्य सत्प्रतिपक्षक्रोडपत्रस्य विमर्शात्मकं सम्पादनम्‌” इति शीर्षिकाङ्कितोऽयं शोधप्रबन्धः विश्वविद्यालयानुदानायोगस्य (U.G.C.) 2016 संवत्सरस्याधिनियमानुसारं मया प्रस्तूयते। शोधप्रबन्धस्यास्य निर्माणे शोधप्रविध्यनुसारमपेक्षिता सर्वा अपि सामग्री मयैव संगृहीता इत्यहं प्रतिजाने । इतः प्राक्‌ अयं शोधप्रबन्धः क्वापि कस्मैचिदपि उपाधये न समर्पित इति च प्रमाणयामि ।

इत्थम्‌
स्थलम्‌ - तिरुपतिः
ति.क.नरसिंहन्‌
अनुसन्धाता

[[iii]]

कृतज्ञतानिवेदनम्‌

जनित्वाऽहं वंशे महति जगति ख्यातयशसां
शुचीनां युक्तानां गुण-पुरुष-तत्त्व-स्थिति-विदाम्‌ ।
निसर्गाद् एव त्वच्-चरण-कमलैकान्त-मनसां
अधोऽधः पापात्मा शरणद निमज्जामि तमसि ॥

इति यामुनमुन्युक्तरीत्या भूमण्डलेऽस्मिन्‌ विख्याते सकलब्रह्मविद्याधिष्ठानभूते अनेकमहामहिम- शालिपण्डितानाम्‌ आधारभूते ब्रह्मविद्याऽभावविशिष्टपुरुषरहिते भगवतः श्रीदेवाधिराजस्य एवं आचार्यश्रेष्ठाणां सर्वेश्वरसदृशानां कवितार्किकसिंहसर्वतन्त्रस्वतन्त्रोभयवेदान्ताचार्याणां श्रीमद्वेदान्तदेशिकानां कैंकर्यमेव मुख्यं फलम्‌ इति मन्यमाने श्रीशैलवंशे पापिष्ठस्य अस्य जीवस्य एतद्वंशे जनिं दत्तवतोः मातापित्रोः चरणकमलेषु मदीयाः साष्टाङ्गप्रणतिततीः समर्पयामि। एवं वेदाध्यापनेन मयि भगवत्कैंकर्ययोग्यताधातृणां श्रीमतां उ.वे. उदयम्पाक्‌कं सम्पत्कुमाराचार्याणाम्‌ एवं उ.वे. कीळ्‌नीर्‌कुण्ड्रम्‌ पार्थसारथ्याचार्याणाम्‌ भूयो भूयः प्रणामान्‌ समर्पयामि । एवं मन्दबुद्धेरपि अस्य दासजनस्य परमया कृपया असह्यापचारान्‌ सर्वान्‌ सोढ्‌वा इमं जनं न्यायवेदान्तशास्त्रे बोधितवतां सर्वशास्त्रनिष्णातानां वेदविदाम्‌ अस्मन्मातुलानां श्रीमतां उ.वे. काणियम्पाक्‌कम्‌ इळयविल्ली मधुसूदनाचार्याणां चरणकमलेषु “भूयो भूयः पुनरपि च भूयः पुनरपि” इतिरीत्या पुनः पुनः प्रणामान्‌ समर्पयामि ।

[[iv]]

अयं च निर्गलितार्थः - दासजनविशिष्टत्वमिति । वैशिष्ट्यं च स्वविशिष्टप्रीत्याश्रयत्व, स्वविशिष्टविशेष्यताश्रयत्वोभयसंबन्धेन । स्ववैशिष्ट्यं प्रीतौ - आधेयत्व, स्वनिरूपितमातुलत्व- स्वनिष्ठशिष्यत्वोभयप्रयुक्तत्वसंबन्धेन । आधेयता च स्वविशिष्टबोधविशेष्यत्वसंबन्धावच्छिन्ना। स्ववैशिष्ट्यं बोधे स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वसंबन्धेन । स्वनिष्ठावच्छेदकता च स्वजन्योत्कर्षप्रकारकज्ञानाभावासमानाधिकरणत्वसंबन्धावच्छिन्ना । द्वितीयसंबन्धघटक- स्ववैशिष्ट्यं विशेष्यतायां स्वीयप्रह्वीभावादिव्यापारजन्योत्कर्षप्रकारकज्ञाननिरूपितत्वसंबन्धेन। अस्य अयं सारार्थः । शिष्यः अहं आचार्याणां मातुलत्व एवं मदीयशिष्यत्वप्रयुक्तप्रीति- वशात्‌ स्वविशेष्यकोत्कर्षबुद्धिं त्यक्त्वा तन्निरूपितापकर्षबुद्धिं प्राप्तवान्‌ । अत्र अनुगमे नञ्‌द्वयं निवेशितम्‌ । किमर्थं इति चेत्‌ मदीया या अपकर्षप्रकारकबुद्धिः सा सर्वदा उत्कर्षप्रकारकबुद्धिसमानाधिकरणा न भवति इति द्दोतनाय । एवं मदीयनमस्कारादिव्यापारेण तेषां उत्कर्षः अपि ज्ञापितः इति । एवं शास्त्रारम्भकालात्‌ इदानीं पर्यन्तं ममाध्ययने अत्यन्तश्रद्धावतां एवं मम प्रामाण्यवादादिग्रन्थाध्यापकानां सकलशास्त्रपारङ्गतानां मातुलानां उ.वे.का.ई.देवनाथाचार्याणां चरणनलिनेषु भूयशः नमोवाकं समर्पयामि । एवम्‌ अस्मिन्‌ प्रसङ्गे विशेषतः मां शास्त्राध्ययने प्रेरितवत्यै मात्रे पुनः पुनः सानन्दं प्रणामान्‌ समर्पयामि। एवं शास्त्राध्ययनाय झटिति प्रोत्साहनेन प्रेषितवतः पितुः चरणकमलयोः भूयो भूयः प्रणामान्‌ समर्पयामि।

[[एवं शास्त्राध्ययनार्थं अङ्गीकृतिं प्रदत्तवतां ज्येष्ठपितृपादानां चरणकमलयोः मदीयान्‌]]

साष्टाङ्गप्रणामान्‌ समर्पयामि । बुहुषु कार्येषु सत्सु तेनालीपरीक्षार्थं सामान्यनिरुक्तिविवेचनीग्रन्थं परमया कृपया अतिरमणीयरीत्या मां उद्बोधितवतां एवं अस्य शोधप्रबन्धस्य मार्गदर्शकत्वेनापि इमं जनं उद्बोधितवतां न्यायादिशास्त्रनदीष्णानां विशिष्य क्रोडपत्रेषु कृतभूरिपरिश्रमाणां क्रोडपत्ररसिकानां सहृदयानां “यथा देवे तथा गुरौ” इति वाक्यस्य उदाहरणत्वेन परिगण्यमानानां श्रीमद्दुलपल्लि- माणिक्यशास्त्रिवर्यान्तेवासिनां ब्रह्मश्री रामलालशर्ममहोदयानां चरणयोः मदीयान्‌ प्रणामान्‌ समर्पयामि । एवं अस्मिन्नवसरे राष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलाधिपतिभ्यः डा. एन्‌.गोपालस्वामिमहोदयेभ्यः, कुलपतिभ्यः आचार्य वि.मुरलीधरशर्ममहोदयेभ्यः, कुलसचिवेभ्यः कमाण्डर्‌ चल्ला वेंकटेश्वरमहोदयेभ्यः, संकायप्रमुखेभ्यः प्रो. राणीसदाशिवमूर्तिमहोदयेभ्यः, दर्शनसंकायप्रमुखेभ्यः प्रो. नरसिंहाचार्यपुरोहित- महोदयेभ्यः, एवं अस्माकं विभागाध्यक्षेभ्यः प्रो. पि.टि.जि. संपत्कुमाराचार्येभ्यः, परीक्षानियन्त्रकेभ्यः प्रो. साम्बशिवमूर्तिवर्येभ्यः एवम्‌ अन्येभ्यः अधिकारिभ्यः कृतज्ञताम्‌ अर्पयामि ।

इत्थं सुधीविधेयः
ति.क.नरसिंहन्‌

[[v]]

विषयसूची

विषयः पृष्टसंख्या

  • प्रमाणपत्रम्‌ I
  • प्रतिज्ञापत्रम्‌ II
  • कृतज्ञतानिवेदनम्‌ III
  • उपोद्‌घातः 1-15
  • १) प्रथमोऽध्यायः 16-60
    • i) प्रकरणग्रन्थः 17
    • ii) वादग्रन्थः 17
    • iii) उद्‌ग्रन्थः 18
    • iv) क्रोडपत्रम्‌ 18
      • a) क्रोडपत्रपरिचयः 18
      • b) क्रोडपत्रस्य प्रयोजनम्‌ 19
      • c) क्रोडपत्ररचनाकालः 21
    • v) प्रसिद्धक्रोडपत्रनिर्मातारः तद्विरचितानां पत्राणां नामानि 21
      • a) दाक्षिणात्यक्रोडपत्रनिर्मातारः 22
    • vi) प्रकृतग्रन्थपरिचयः 26
    • vii) प्रकृतग्रन्थकर्तुः परिचयः 29
      • a) जन्मवृत्तान्तः 29
      • b) विद्याभ्यासवृत्तान्तः 30
      • c) भगवत्कैकंर्यम्‌ 31
    • viii) श्रीकृष्णाताताचार्याणां ग्रन्थाः, शिष्याः, वंशवृक्षश्च 32
  • २) द्वितीयोऽध्यायः 61-109
    • i) प्रधानपूर्वपक्षः 62
    • ii) ग्रन्थस्य सिद्धान्तपक्षः 105
  • ३) तृतीयोऽध्यायः 110-246
    • i) सत्यन्तदलघटकप्रतिबन्धकतायां प्रतिहेतुव्यापकत्व- प्रकारतानिरूपितसाध्याभावनिष्ठविशेष्यत्वानिरूपक– ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशकल्पः । 112
    • ii) ज्ञाननिष्ठावच्छेदकतायां धर्मविशिष्टान्यत्वनिवेशकल्पः 114
    • iii) यद्रूपावच्छिन्ननिरूपकताकविषयितायां उभयाभावनिवेशकल्पः 117
    • iv) यद्रूपावच्छिन्नविषयकनिश्चये उभयाभावनिवेशकल्पः 121
    • v) विशिष्टान्तरविषयितायां अव्यापकविषयिताशून्यत्वनिवेशकल्पः 128
    • vi) उन्नेयविषयितायां प्रकृतानुमितिप्रतिबध्यतावच्छेदकत्वनिवेशकल्पः 148
    • vii) उन्नेयविषयितायां ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकताव्याप्य- जनकतानिरूपितजन्यतावच्छेदकत्वनिवेशकल्पः 159
    • viii) प्रतिबन्धकतायां स्वरूपस्वविशिष्टजनकत्वोभयसंबन्धेन यद्रूपावच्छिन्नविषयकत्वव्यापकत्वनिवेशकल्पः 164
    • ix) विरोध्यनुमितौ विशिष्टद्वयाघटितत्वनिवेशकल्पः 196
    • x) सधर्मितावच्छेदकककल्पः 216
    • xi) सधर्मितावच्छेदकककल्पः (सिद्धान्तकल्पः) 235
  • ४) चतुर्थोऽध्यायः 247-257
    • i) अन्यग्रन्थापेक्षया वावदूककुतूहले विशेषः 248
      • a) सत्प्रतिपक्षचान्द्रनारायणीयम्‌ - तदपेक्षया विशेषः 248
      • b) कालीशांकरी - तदपेक्षया विशेषः 251
      • c) अवच्छेदकतामालापत्रम्‌ - तदपेक्षया विशेषः 254
      • d) शंकरभट्टी एवं भिक्षुशास्त्रिपत्रम्‌ - तदपेक्षया विशेषः 255
    • ii) ग्रन्थकारीयान्यसत्प्रतिपक्षक्रोडपत्रापेक्षया विशेषः 257
  • ५) उपसंहारः 258-262
  • ६) उपयुक्तग्रन्थसूची 263

==00==

[[viii]]

उपोद्‌घातः

अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इत्यादिश्रुतिस्मृतिप्रसिद्धा विद्या भवति इयं न्यायविद्या । इमां विद्यां ये अधीयते ते नैयायिकाः । तेषां यौगाः इति नामापि दृश्यते, यथा स्याद्वादमञ्जर्यां - “वैशेषिकनैयायिकयोः प्रायः समानतन्त्रत्वात्‌ औलूक्यमते क्षिप्ते यौगमतमपि क्षिप्तमवसेयमि”ति । अस्याः विद्यायाः अपरन्नामास्ति आन्वीक्षिकी इति। अन्वीक्षा नाम अनुमानम्‌। उक्तं च न्यायमञ्जर्यां जयन्तभट्टैः “प्रत्यक्षागमाभ्यामीक्षितस्य अन्वीक्षणम्‌ अन्वीक्षा- अनुमानम्‌ इत्यर्थः, तद्‌व्युत्पादकं शास्त्रं आन्वीक्षिकी” इति। एवं वात्स्यायनन्यायभाष्येऽपि प्रथमसूत्र- व्याख्याने एव इदं नाम दृश्यते “इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोप- दिश्यन्ते। यासां चतुर्थीयमान्वीक्षिकी न्यायविद्या । तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः। तेषां पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात्‌” इति । एवं कौटिल्यीयार्थशास्त्रेऽपि “धर्माधर्मौ त्रय्याम्‌, अर्थानर्थौ वार्तायां नयानयौ दण्डनीत्याम्‌ । बलाबले च एतासां हेतुभिः अन्वीक्षमाणालोकस्योपकरोति, व्यसनेऽभ्युदये च बुद्धिमवस्थापयति, प्रज्ञावाक्यक्रियावैशारद्दं च करोति। प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्‌ । आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता ॥ इति उक्तम्‌ ।

[[12]]

एवं न्यायभाष्ये एव “प्रमाणैरर्थपरीक्षणं न्यायः। प्रत्यक्षागमाश्रितमनुमानम्‌। सा अन्वीक्षा। प्रत्यक्षागमाभ्यामीक्षितस्य अन्वीक्षणमन्वीक्षा। तया प्रवर्तते इति आन्वीक्षिकी - न्यायविद्या न्यायशास्त्रम्‌” इति न्यायपदव्याख्यानावसरे अन्वीक्षाशब्दस्य अनुमानपरत्वं प्रदर्शितम्‌। न्यायशब्दार्थः - न्यायशब्देन परार्थानुमानम्‌ उच्यते । नीयते विवक्षितार्थसिद्धिरनेनेति व्युत्पत्तेः । न्यायः नाम पञ्चावयवसमुदायः । तत्रैव सर्वेषां प्रमाणानां संबन्धोऽपि अस्ति । प्रतिज्ञा - आगमः (शब्दः) हेतुः - अनुमानम्‌ उदाहरणम्‌ - प्रत्यक्षम्‌ उपनयः - उपमानम्‌ निगमनम्‌ - सर्वेषां एकार्थसमवाये सामर्थ्यप्रदर्शनम्‌ न्यायविद्या एव प्रमाणविद्या - सर्वोपजीव्यं इदं न्यायशास्त्रं विद्यास्थानेषु प्रथमं स्थानं आरोहति । सर्वोपजीव्यत्वं च मनुनैव स्पष्टतः उक्तम्‌ - प्रदीपः सर्वविद्यानां उपायः सर्वकर्मणाम्‌ । आश्रयः सर्वधर्माणां विद्दोद्देशे प्रकीर्तिता ॥ इति । सर्वापि विद्या न्यायविद्याप्रतिपाद्दं प्रमाणाद्दुपजीव्य स्वे स्वे व्युत्पाद्दे अर्थतत्वे प्रवर्तते न तु प्रमाणाद्दपि व्युत्पादयति । न्यायविद्या तु प्रमाणादिकं व्युत्पादयतीति प्रमाणविद्देति गीयते। अपि च प्रमाणमीश्वरं व्युत्पादयति न्यायविद्या । अतोऽपि तस्याः प्रमाणविद्देति नामलाभः ।

[[2]]

[[13]]

ईश्वरस्य प्रमाणत्वं कुत्रोक्तम्‌ इति चेत्‌ । उक्तं हि तार्किकरक्षायां “प्रतितन्त्रः यथा न्याये सर्वज्ञस्य प्रमाणता” इति । सर्वज्ञस्य - ईश्वरस्य । साधनाश्रयोः अन्यतरत्वे सति प्रमाव्याप्तं प्रमाणम्‌ । प्रमाश्रयस्यापि जीवस्य प्रमासंबन्ध- नियमाभावात्‌ न प्रमाणता । इन्द्रियस्य तु साधनतया प्रमाणता । ईश्वरस्तु प्रत्यक्षप्रमाणेऽन्तर्भवति। उक्तं हि - न्यायसूत्रे एव “तन्मे प्रमाणं शिवः”, “मन्त्रायुर्वेदप्रामाण्याच्च तत्प्रामाण्यम्‌ आप्त- प्रामाण्यात्‌” इति । वेदस्य प्रामाण्यं ईश्वरप्रामाण्यात्‌ इति तस्यार्थः । तदर्थमेव शब्दस्यानित्यत्वमपि स्वीकुर्वन्ति। सकलविद्दोपकारकत्वं न्यायविद्यायाः - सर्वापि इतरविद्या स्वप्रतिपाद्दविषये न्यायविद्यामपेक्षते । “आदित्यो यूपः” इति श्रुतिः आदित्याभेदं यूपे न बोधयति । किन्तु लक्षणया आदित्यसदृशत्वमेव यूपे बोधयति । तच्च बोधनं न्यायशास्त्रायत्तप्रमाणादिना प्रकाशितम्‌ । अस्याः सर्वोपकारकत्वं बहुत्र प्रतिपादितं यथा - न्यायवार्तिके - “सर्वासां विद्याना- मुपकरोति इयम्‌ । अकारित्वादाश्रयः राजभृत्यवत्‌” इति । मनुस्मृतौ - आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते सधर्मं वेद नेतरः ॥ इत्युक्तम्‌ । अत्र विशेषः अस्ति यत्‌ वेदस्यापि धर्मबोधे जननीये न्यायशास्त्रापेक्षा अस्ति इति।

[[3]]

[[14]]

सर्वेषां अपि विद्यास्थानानां मूलस्तम्भभूतं इदं न्यायशास्त्रम्‌ । उक्तं हि न्यायमञ्जर्यां - “न्यायविस्तरस्तु मूलस्तम्भभूतः सर्वविद्यानां वेदप्रामाण्यहेतुत्वात्‌ । वेदेषु हि कुतार्किकरचित- कुतर्कविप्लावितप्रामाण्येषु शिथिलितास्थाः कथमिव बहुवित्तव्ययायाससाध्यं वेदार्थानुष्ठान- माद्रियेरन्‌ साधवः । किं वा तदानीं स्वामिनि परिम्लाने तदनुयायिनां मीमांसादिविद्यास्थानपरिजनेन कृत्यमिति । तस्मादशेषदुष्टतार्किकोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेशक्षममिदं अक्षपादोपदिष्टं न्यायविस्तराख्यं शास्त्रं प्रतिष्ठाननिबन्धनमिति परं विद्यास्थानम्‌ ।” एवं तत्रैव “ननु वेदप्रामाण्यनिर्णयप्रयोजनश्चेत्‌ न्यायविस्तरः कृतमनेन, मीमांसातः एव तत्सिद्धेः । तत्र हि अर्थविचारवत्‌ प्रामाण्यविचारोऽपि कृतः एव । सत्यम्‌, स तु आनुषङ्गिकः, तत्र मुख्यस्तु अर्थविचार एव । पृथक्‌प्रस्थानाः हि इमाः विद्याः । सा च वाक्यार्थविद्या न प्रमाणविद्या इति । न च मीमांसकाः सम्यक्‌ वेदप्रामाण्यरक्षणक्षमां सरणिं अवलोकयितुं कुशलाः” इति च । तस्मात्‌ आत्मादेः प्रमेयस्य ज्ञानं तत्वज्ञानम्‌ । निरतिशयपुरुषार्थस्य अपवर्गस्य प्राप्तिः फलम्‌ । आमुष्मिकफलयोगिनी त्रयी आन्वीक्षिकी च । तयोरपि परमपुरुषार्थापवर्गफलिका आन्वीक्षिकी सर्वतो ज्यायसी इति सिद्धम्‌ । न्यायशास्त्रस्य निन्द्दत्वशङ्का तत्परिहारश्च - क्वचिच्च पुराणेषु इतिहासेषु च न्यायशास्त्रस्य निन्दा दृश्यते । यथा सनत्सुजातसंहितायां यः पुरुषः केवलं न्यायशास्त्रं पठित्वा तृप्तः सः ब्राह्मणगर्दभः इति निन्दा दृश्यते । एवं रामायणेऽपि भगवतः श्रीरामस्यैव वचनं श्रूयते - धर्मशास्त्रेषु मुख्येषु विद्दमानेषु दुर्बुधाः । बुद्धिम्‌ आन्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥

[[4]]

[[15]]

इति न्यायशास्त्रसमासादितज्ञानवतां पुरुषानां निन्दा स्पष्टतः उक्ता । अतः शिष्टैः अपरिग्राह्या न्यायविद्या इति । एवं ब्रह्मसूत्रेऽपि न्यायमतस्य निरासः महद्दीर्घाधिकरणे स्पष्टं निरूपितं वर्तते। तस्मात्‌ न्यायशास्त्रस्य अप्रमाणत्वात्‌ इदम्‌ अयुक्तं खलु इति प्रश्ने, उत्तरं उच्यते - सनत्सुजातीयसंहितायां तर्कशास्त्रस्य निन्दा वेदान्तशास्त्रस्य प्राबल्यद्दोतनाय एव । “न हि निन्दा” न्यायः अत्र वेदितव्यः । रामायणे च सन्दर्भः आदौ ज्ञेयः । यतो हि तत्र वेदविरोधिनास्तिकवादानुरोधिहेतुवादा- भिनिवेशिनामेव निन्दा श्रूयते । तथाहि एतन्निन्दाश्लोकस्य प्राक्‌ - कच्चिन्न लोकायतिकान्‌ ब्राह्मणान्‌ तात सेवसे । अनर्थकुशलाः ह्येते बालाः पण्डितमानिनः ॥ इति श्लोकः श्रूयते । अस्मिन्‌ श्लोके चार्वाकमतावलम्बिनः ब्राह्मणान्‌ राज्ञा अनुपसेव्यान्‌ ब्रवीति । ते एव ब्राह्मणाः अस्मिन्‌ श्लोके “निरर्थं प्रवदन्ति ते” इत्यत्र तच्छब्देन परामृश्यन्ते । तस्मात्‌ पूर्वोत्तरग्रन्थपरामर्शेन इदं ज्ञायते यत्‌ अत्र रामायणे न्यायशास्त्रं न निन्दितमिति । प्रत्युत इदं न्यायशास्त्रं राज्ञापि अभ्यसनीयमिति मनुस्मृतौ दृश्यते - त्रैविद्देभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम्‌ । आन्वीक्षिकीञ्चात्मविद्यां वार्तारम्भांश्च लोकतः ॥ एवं न्यायमञ्जर्यां अस्य शास्त्रस्य भगवदभिमतत्वमपि ज्ञापितम्‌ - जयन्ति पुरुजिद्दत्तसाधुवादपवित्रिताः । निदानं न्यायरत्नानामक्षपादमुनेः गिरः ॥ न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितः

[[5]]

[[16]]

वादे येन किरीटिनेव समरे देवः किराताकृतिः । प्राप्तोदारवस्ततः स जयति ज्ञानामृतप्रार्थना नाम्नानेकमहर्षिमस्तकबलत्पादोऽक्षपादो मुनिः ॥ इत्यादिना । एवं “महद्दीर्घाधिकरणे”, “एतेन शिष्टापरिग्रहा अपि व्याख्याताः” इति सूत्रेण च न्यायशास्त्रनिषेधः श्रूयते इत्यपि समीचीनं नास्ति । तत्र निन्दा न श्रूयते प्रत्युत ” क्‌वचिदंशाः निरसनीयाः इत्येव प्रतिपादितत्वात्‌ । अत एव कवितार्किकसिंहसर्वतन्त्रस्वतन्त्रश्रीमद्वेदान्त- देशिकैरपि न्यायशास्त्रस्य परिग्राह्यताज्ञापनाय “न्यायपरिशुद्धि”नामकग्रन्थः लिखितः । तस्मात्‌ इदं न्यायशास्त्रं सर्वैरपि ग्राह्यम्‌ इति सिद्धम्‌ । न्यायशास्त्रस्य प्रवर्तकाः - आदौ न्यायशास्त्रस्य सूत्रात्मकं ग्रन्थं रचयामास गौतमो महर्षिः । अयं च ग्रन्थः न्यायसूत्रनाम्ना व्यपदिश्यते । अत्र च पञ्चाध्यायाः सन्ति । प्रत्येकं अध्यायेषु आह्निकद्वयम्‌ इति विभागः भवति । बहुभिः प्रकरणैः गर्भितं आह्निकम्‌ । अनेकसूत्रात्मकं प्रकरणम्‌ । तत्र प्रथमाह्निके सप्तप्रकरणानि । द्वितीयाह्निके चत्वारि । द्वितीयाध्याये प्रथमाह्निके नवप्रकरणानि । द्वितीये चत्वारि । तृतीयाध्याये प्रथमाह्निके नव, द्वितीये सप्त । चतुर्थाध्याये प्रथमाह्निके चतुर्दश, द्वितीये षट्‌ । पञ्चमाध्याये प्रथमे सप्तदश, द्वितीये सप्त । अत्र यद्दपि यदि गौतमः एव न्यायशास्त्रस्य प्रवर्तकः स्यात्‌ तर्हि ततः प्राक्‌ न्यायशास्त्रमेव नासीत्‌ वा ? यदि नासीत्‌ तर्हि तस्य कथं विद्यास्थानत्वम्‌ इत्यादयः प्रश्नाः भवितुमर्हन्ति ।

[[6]]

[[17]]

तथापि तत्र समाधानं स्पष्टम्‌ अभिहितं श्रीमद्भिः जयन्तभट्टैः “आदिसर्गात्प्रभृति वेदवत्‌ इमाः विद्याः प्रवृत्ताः । संक्षेपविस्तरविवक्षया तु तांस्तान्‌ तत्र तत्र कर्तृृनाचक्षते” इति । अस्यार्थः तावत्‌ - इमाः विद्याः वेदवत्‌ सार्वकालीनाः एव भवन्ति । तथापि जनानां बुद्धिमान्द्दादिदोषात्‌ संक्षेपविस्तरादीनां अपेक्षा आपतिता । तदर्थं ग्रन्थरूपेण ऐदंप्राथम्येन सूत्रं रचयामास गौतमो मुनिः । अयं च गौतमो ऋषिः अक्षपादनाम्नापि व्यपदिश्यते । एवं तस्य मुनित्वमपि प्रतिपदितं वार्तिके- “यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद” इति । एवं उदयनाचार्यैरपि न्यायनिबन्धे अनुगृहीतं - “तत्र भगवतः अक्षपादस्य मुनिषु मध्ये प्रवरत्वं श्रुत्यादिभ्यः एव प्रसिद्धमि”ति । तदनन्तरं न्यायशास्त्रस्य प्रवर्तकः आसीत्‌ वात्स्यायनो महर्षिः । तस्य पक्षिलस्वामी इत्यपरं नाम । तेन गौतमसूत्रस्य भाष्यं रचितम्‌ । योऽक्षपादमृषिं न्यायः प्रत्यभाद्वदतां वरम्‌ । तस्य वात्स्यायनः इदं भाष्यजातमवर्तयत्‌ ॥ यथा गौतमः मिथिलादेशीयः तथा अयमपि । लघुभिः गभीरैश्च वाक्यैः संदृब्धं भाष्यं ग्रहणक- वाक्यविवरणेन “स्वपदानि च वर्ण्यन्ते” इति भाष्यलक्षणलक्षितं वर्तते । अत्र भाष्ये विशिष्य हेत्वाभासानां उदाहरणानि सूत्रोक्तानि सिद्धान्तानुबन्धीनि च प्रदर्श्यन्ते, एवं शब्दानित्यत्वप्रकरणे शब्दः नित्यः अस्पर्शत्वात्‌ इत्यस्य सव्यभिचारोदाहरणत्वं दर्शितं भाष्ये, सूत्रे तु तत्खण्डितम्‌ इति एवं रीत्या बहवः विशेषाः सन्ति भाष्ये । तदनन्तरं न्यायभाष्ये दिङ्‌नागादिभिः दूषिते सति तद्ररक्षणाय न्यायवार्तिकं इति ग्रनथस्य उद्भवः जातः । अयं च वृत्तान्तः तत्रैव मङ्गलश्लोके दर्शितः।

[[7]]

[[18]]

यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद । कुतार्किकज्ञाननिवृत्तिहेतुः करिष्यते तस्य मया निबन्धः ॥ इति । एवं बौद्धैः खिलीकृते न्यायदर्शने सति तस्य स्थितिं चकार अयं वार्तिककारः । अस्य वार्तिककारस्य नाम आसीत्‌ भारद्वाजः इति । तदुक्तं स्वयमेव वार्तिकान्ते - यदक्षपादप्रतिमो भाष्यं वात्स्यायनो जगौ । अकारि महतस्तस्य भारद्वाजेन वार्तिकम्‌ ॥ इति । न्यायभाष्यस्य छायाव्याख्यानमेव वार्तिकमिति विशेषः । तदनन्तरं अस्य वार्तिकस्य टीकां रचयामास वाचस्पतिमिश्रः । अयं च सुप्रसिद्धः विद्वान्‌ आसीत्‌ । अनेन षड्‌दर्शनेषु अपि ग्रन्थः रचितः इति प्रसिद्धमेव लोके । अस्य ग्रन्थस्य अर्धभागः प्रथमाध्यायप्रतिपादनपरः अन्यः अवशिष्टप्रतिपादनपरः । तदनन्तरं “आचार्यः” इति प्रख्यातः उदयनाचार्यः न्यायशास्त्रस्य प्रवर्तकः आसीत्‌। अनेन कुसुमाञ्जलिः, न्यायवार्तिकतात्पर्यटीकापरिशुद्धिः, किरणावली इत्याद्दनेकग्रन्थरत्नानि रचितानि । ततःपरम्‌, भासर्वज्ञः न्यायसाराख्यग्रन्थस्य कर्ता, जयन्तभट्टः न्यायमञ्जर्याः कर्ता, गङ्गेशोपाध्यायः तत्त्वचिन्तामणेः कर्ता, पक्षधरमिश्रः तत्त्वचिन्तामण्यालोकस्य कर्ता, रघुनाथशिरोमणिः प्रसिद्धदीधित्याख्यटीकायाः कर्ता, श्रीमद्गदाधरभट्टाचार्यः दीधितप्रकाशाद्द- नेकग्रन्थानां कर्ता, कालीशङ्करभट्टाचार्यः, चन्द्रनारायणभट्टाचार्यः, काञ्चीश्रीकृष्णताताचार्यः, श्रीगोपालताताचार्यः इत्यादयः बहवः महान्तः तत्तत्काले न्यायशास्त्रस्य प्रवर्तकाः आसन्‌ ।

[[8]]

[[19]]

न्यायशास्त्रस्य प्राच्यनव्यभेदेन द्वैविध्यम्‌ - गौतमऋषिप्रभृति गङ्गेशोपाध्यायप्राक्कालिकविदुषां प्राचीननैयायिकाः इति नाम गङ्गेशोपाध्यायमारभ्य नव्यनैयायिकाः इति नाम इति लोके प्रथा अस्ति । अयं भेदः कथं आगतः इत्यत्रैव बहवो मतभेदाः सन्ति । तत्सर्वं अनुमानगादाधरीमूलपुस्तके भूमिकायां दुण्ढिराजशास्त्रिणा सम्यक्‌ प्रकाशितम्‌ । तदत्र ईषत्‌ विव्रियते । केचन वदन्ति - अवच्छेदक-अवच्छिन्नेत्यादिशब्दबाहुल्यं गङ्गेशप्रभृतिग्रन्थेष्वेव दृश्यते ततः प्राक्तनानां तु नास्ति इति एतादृशशब्दघटितत्वमेव भेदकमिति । तन्मन्दम्‌ - तथा सति पातञ्जलसूत्रे “पूर्वेषामपि गुरुः कालेन अनवच्छेदात्‌” इति उक्तम्‌ । तद्‌व्याख्यानेऽपि अवच्छेदकशब्दप्रयोगः बहुधा दृश्यते इति भवदुक्तरीत्या तस्य नव्यन्यायत्वं स्यात्‌ । एवं तैः निगमितम्‌- “वस्तुतस्तु अलौकिकनूतनप्रतिभाशालिना विद्वद्वरेण गङ्गेशोपाध्यायेन भाष्यग्रन्थं विधाय तात्पर्यटीकादिङ्‌नागादिनिबन्धप्रग्रहैः न्यायवैशेषिकसूत्राम्बुधिं मथित्वा तत्सारभूतोऽयं तत्त्वचिन्तामणिः नूतनः एव उदपादीति तत्कालमारभ्य विनिर्मितस्य न्यायशास्त्रनिकरस्य नव्यत्वव्यवहारः इति युक्तं उत्पश्यामः” इति । तस्मात्‌ प्रमेयशोधने न्यूनतासत्वेऽपि प्रमाणशोधने बाहुल्यं इति कारणात्‌ तदर्वाचीनानामपि नव्यत्वम्‌ एव ।

[[9]]

[[20]]

सत्प्रतिपक्षहेत्वाभासस्य स्वरूपम्‌ - न्यायसूत्रे प्रमाणादिषोडशपदार्थनिरूपणावसरे क्रमप्राप्तहेत्वाभासनिरूपणं अपि षड्‌भिः सूत्रैः कृतं वर्तते । ते च हेत्वाभासाः पञ्च । अनैकान्तिकः - सव्यभिचारः विरुद्धः - सिद्धान्तमभ्युपेत्य तद्विरोधी प्रकरणसमः - यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः साध्यसमः - साध्याविशिष्टः साध्यत्वात्‌ कालातीतः - कालात्ययापदिष्टः इति । अत्र क्रमे तृतीयः यः हेत्वाभासः प्रकरणसमाख्यः स एव सत्प्रतिपक्ष इति नाम्ना व्यपदिश्यते। सन्‌प्रतिपक्षः यस्य हेतोः सः सत्प्रतिपक्षः अथवा सन्‌ विरोधिपरामर्शः यस्य परामृष्यमाणस्य हेतोः असौ सत्प्रतिपक्षः इति व्युत्पत्तिद्वयं स्वीक्रियते । प्रदर्शितञ्चेदं सत्प्रतिपक्षदीधितौ- “अत एव सन्प्रतिपक्षः विरोधिव्याप्त्यादिमत्तया परामृष्यमाणः हेतुः, विरोधिपरामर्शः वा यस्य परामृष्यमाणस्य वा हेतोः असौ सत्प्रतिपक्षः इति विग्रहमपि वर्णयन्ति” इति । न्यायसूत्रे सत्प्रतिपक्षप्रतिपादकं सूत्रम्‌ एवमस्ति - “यस्मात्‌ प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः” इति । अस्यार्थस्तु - अनिर्णीतौ पक्षप्रतिपक्षौ प्रकरणम्‌ । निर्णयाय प्रयुक्तोऽपि यः हेतुः निर्णयं जनयितुं न प्रभवति, उभयपक्षसाम्यात्‌ प्रकरणम्‌ अनिवर्तमानः प्रकरणसमः इत्युच्यते । यथा “शब्दः अनित्यः, नित्यधर्मानुलब्धेः, घटवत्‌”, “शब्दः नित्यः, अनित्यधर्मानुलब्धेः, आत्मवदिति” । तुल्यबलेन प्रतिबन्धात्‌ साध्यस्य तदभावस्य वा निर्णयं जनयितुम्‌ असमर्थः प्रकरणसमः इत्यभिधीयते ।

[[10]]

[[21]]

तत्त्वचिन्तामणौ व्यावहारिकसत्प्रतिपक्षलक्षणानि - १४ शतके जनिं प्राप्तवतां मिथिलादेशीयानां श्रीमतां नव्यन्यायशास्त्रप्रवर्तकानां गङ्गेशोपाध्यायानां कृतिषु तत्त्वचिन्तामणिनामकग्रन्थस्य मुख्यं स्थानम्‌ अस्ति । अस्मिन्‌ ग्रन्थे खण्डचतुष्टयम्‌ अस्ति प्रत्यक्षखण्डः, अनुमानखण्डः, उपमानखण्डः, शब्दखण्डश्चेति । तत्र अनुमानखण्डे सपरिकरसद्धेतून्‌ निरूप्य असद्धेतूनां निरूपणावसरे सत्प्रतिपक्षोऽपि निरूपितः। तत्र आदौ पूर्वपक्षतया लक्षणद्वयं निरमात्‌ । (i) “समानबलबोधितसाध्यविपर्ययलिङ्गत्वं सत्प्रतिपक्षत्वम्‌” इति प्रथमं लक्षणम्‌। अस्यार्थः - प्रकृतसाध्यानुमापकबलशालित्वे सति प्रकृतसाध्याभावानुमापकबलशालि- हेत्वन्तरकत्वम्‌ इति व्याख्यातं गदाधरभट्टाचार्यैः । समन्वयस्तु - “ह्रदो वह्निमान्‌ धूमात्‌, ह्रदो वह्न्यभाववान्‌ जलात्‌” इत्याकारकानुमानद्वयकाले प्रकृतसाध्यानुमापकबलशालित्वं धूमे अस्ति एवं वह्न्यभावरूपसाध्याभावानुमापकजलरूपहेत्वन्तरकत्वमपि तत्र अस्ति इति कृत्वा समन्वयः । अस्य लक्षणस्य खण्डनमपि तत्रैव मणिग्रन्थे दृश्यते- “परस्परप्रतिबन्धेनोभयोरबोध- कत्वात्‌” इत्यादिना । परामर्शद्वयसमवधाने सति कस्यापि हेतोः स्वसाध्यानुमितिजनकत्वाभावात्‌ अनुमापकत्वं हेतौ दुर्घटमिति इदं लक्षणं अयुक्तं इत्याशयः । एवं बलपदनिर्वचनमपि कर्तुं न शक्यते इत्यपि उक्तम्‌ । (ii) “अनिर्धारितविशेषेण बोधितसाध्यविपर्ययलिङ्गत्वम्‌” इति द्वितीयं लक्षणम्‌ । अस्यार्थः तु - अनिर्धारितविशेषसाध्यविरोधिबोधकलिङ्गकत्वे सति, अनिर्धारितविशेष- प्रकृतसाध्यबोधकत्वविशिष्टलिङ्गकत्वम्‌ इति । अस्यापि खण्डनं मणौ एव वर्तते “उभयोरबोधकत्वात्‌” इत्यादिना ।

[[11]]

[[22]]

तथा च एतत्पूर्वपक्षलक्षणद्वयं खण्डयित्वा स्वाभिमतं लक्षणद्वयं निरमीयत मणिकारैः। (i) “साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्धकार्यकलिङ्गत्वमिति” प्रथमं सत्प्रतिपक्षसिद्धान्तलक्षणम्‌ । अस्यार्थः तु - साध्यवत्तानिश्चयविरोधिनी या उपस्थितिः तज्जननसमर्थसमानबलो- पस्थितिकालीनप्रतिरुद्धकार्यकपरामर्शविषयलिङ्गत्वम्‌ इति । पर्वतः वह्निमान्‌ धूमात्‌ इत्यत्र समन्वयः तु इत्थं - साध्यवत्तानिश्चयः “पर्वतः वह्निमान्‌” इत्याकारकनिश्चयः तद्विरोधिनी या उपस्थितिः नाम “पर्वतः वह्न्यभाववान्‌” इत्याकारकोपस्थितिः तज्जननसमर्थसमानबलोपस्थितिकालीनप्रतिरुद्धकार्यकपरामर्शः “वह्निव्याप्यधूमवान्‌ पर्वतः” इत्याकारकपरामर्शः तद्विषयलिङ्गत्वं धूमे अस्ति इति समन्वयः । (ii) “विरोधिबोधकान्यगमकतौपयिकरूपसम्पत्तिमत्तया ज्ञायमानेन प्रतिरुद्धकार्यक- लिङ्गत्वम्‌” इति द्वितीयं लक्षणम्‌ । समन्वयः - विरोधिबोधकान्यगमकतौपयिकं रूपं व्याप्तिपक्षधर्मतात्मकं तेन ज्ञायमानेन अर्थात्‌ व्याप्तिपक्षधर्मताज्ञानेन प्रतिरुद्धं यत्‌ कार्यं “पर्वतः वह्निमान्‌” इत्याकारकानुमितिः तादृशकार्यकत्वं धूमे अस्ति इति समन्वयः । विभाजकलक्षणम्‌ - मणिग्रन्थे यद्दपि सत्प्रतिपक्षस्य सिद्धान्तलक्षणमभिहितम्‌ , परन्तु तत्‌ द्वयमपि व्यावहारिकमेव न तु विभाजकं इति मन्यमानः दीधितिकारः स्वयं तादृशलक्षणद्वयं व्याख्याय विभाजकलक्षणं च प्रादर्शयत्‌ ।

[[12]]

[[23]]

“विभाजकं तु प्रकृतपक्षसाध्यवैशिष्ट्यग्रहविरोधित्वे सति विशिष्टपक्षसाध्यग्रहा- विरोधिप्रकृतपक्षसाध्यवैशिष्ट्यग्रहविरोधिरूपोन्नायकत्वं” इति । अस्य निष्कर्षस्तु भट्टाचार्यैः एवं वर्णितः- “प्रकृतपक्षतावच्छेदकावच्छिन्ने प्रकृतसाध्यता- वच्छेदकावच्छिन्नप्रकारताकानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदिका सति विशिष्टपक्षविशिष्टसाध्यग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतानवच्छेदकनिरुक्तपक्ष- साध्यवैशिष्ट्यग्रहप्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकता- वच्छेदिका यादृशविशिष्टनिरूपितविषयिता तादृशत्वम्‌” इति । समन्वयप्रकारस्तु - “ह्रदो वह्निमान्‌” इत्यत्र “वह्न्यभावव्याप्यवद्‌ध्रदः” सत्प्रतिपक्षः। तत्र समन्वयः इत्थं भवति प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदक- विषयिता भवति वह्न्यभावव्याप्यवद्‌ध्रदत्वावच्छिन्ननिरूपकताकविषयिता । एवं सैव विषयिता प्रकृतानुमितिप्रतिबन्धक “ह्रदो वह्न्यभाववान्‌” इत्याकारकबाधानुमितिजनकतावच्छेदिका च भवति । अतः यद्रूपपदेन वह्न्यभावव्याप्यवद्‌ध्रदत्वस्य ग्रहणे तद्रूपवत्वं वह्न्यभावव्याप्यवद्‌ध्रदे भवति इति । अस्य लक्षणस्योपरि बहवः ग्रन्थकर्तारः स्वीयप्रतिभाप्रदर्शनार्थं बहून्‌ ग्रन्थान्‌ क्रोडपत्ररूपान्‌ निर्मितवन्तः । तत्र प्रकृतवावदूककुतूहलग्रन्थकर्तारोऽपि अन्यतमाः भवन्ति । सत्स्वपि बहुषु सत्प्रतिपक्षक्रोडपत्रेषु अस्य क्रोडपत्रस्य महद्वैशिष्ट्यम्‌ अस्ति । तद्विचारः शोधप्रबन्धे अस्मिन्‌ चतुर्थाध्याये भवति ।

[[13]]

[[24]]

शोधप्रबन्धस्य प्रारूपम्‌ - अस्मिन्‌ शोधप्रबन्धे अध्यायचतुष्टयं भवति । अध्यायविषयास्तु - प्रथमाध्यायः - ग्रन्थ-तत्कर्तृपरिचयः । अत्र क्रोडपत्रस्य स्वरूपं, वावदूककुतूहलग्रन्थस्य परिचयः, वावदूककुतूहलग्रन्थकर्तृः काञ्चीमहामहोपाध्यायश्रीकृष्णताताचार्याणां परिचयः च कृतं वर्तते। द्वितीयाध्यायः - वावदूककुतूहलग्रन्थः । अस्मिन्नध्याये वावदूककुतूहलग्रन्थस्य शोधनपूर्वकं प्रकाशनं क्रियते । तृतीयाध्यायः - छायानुसारीव्याख्यानम्‌ । अस्मिन्‌ क्रोडपत्रस्यास्य सङ्‌ग्रहात्मकं छायानुसारिव्याख्यानं भवति । चतुर्थाध्यायः - ग्रन्थवैशिष्ट्यम्‌ । अस्मिन्‌ अध्याये अन्यक्रोडपत्रापेक्षया अस्य क्रोडपत्रस्य वैशिष्ट्यं प्रतिपादितं भवति। एवं च चतुरध्यायी इयं शोधप्रबन्धपुष्पिका केवलं गुरोः अनुग्रहबलादेव संपन्ना इति धन्यः सञ्जातः अयं दासजनः । शोधनार्थं मया ग्रन्थस्य तालपत्रमातृका (Accno 3116) श्रीवेङ्कटेश्वर ओरियण्टल्‌ मेनुस्क्रिप्ट्‌ पुस्तकालयात्‌ (S.V.ORI) प्राप्ता । तदाधारीकृत्यैव अयं प्रबन्धः प्रकाश्यते अत्र। प्रूफ्‌शोधनार्थं तु मातृकाद्वयं (अपूर्णं) गृहस्थं स्वीकृतम्‌ । यत्र शोधनं कर्त्तव्यं तत्र a, b, c इत्यादिचिह्नेन पाठभेदानां स्फोरणं कृतम्‌ । (a) तालपत्रमातृका (b) कर्गजमातृका (1)

[[14]]

[[25]]

(c) कर्गजमातृका (2) एवं अस्य ग्रन्थस्य अस्मदाचार्यैः सर्वशास्त्रनदीष्णैः श्री उ.वे.का.ई. मधुसूदनाचार्यैः विरचितम्‌ एकं व्याख्यानं अप्रकाशितम्‌ उपलभ्यते । यद्दपि अपूर्णं तत्‌ तथापि प्रकृतशोधप्रबन्धार्थं महदुपकरोति । अत्र च विशेषगुणाः ये सन्ति तत्सर्वं तेषां चरणकमलयोः एव समर्पयामि । अत्र ये दोषाः सन्ति तत्सर्वं मच्छिरसि धृत्वा तान्‌ अपनेतुं प्रयते ।


[[15]]

[[26]]

उपयुक्तग्रन्थसूची

  • १. अर्थशास्त्रम्‌ - चौखम्बा, वाराणसी ।
  • २. अनुमानगादाधरी - चौखम्बा, वाराणसी ।
  • ३. क्रोडपत्रसंग्रहः - विन्ध्येश्वरशास्त्रिप्रसादः ।
  • ४. दाक्षिणात्यक्रोडपत्रसंग्रहः - गोडा. सुब्रह्मण्यशास्त्री ।
  • ५. देशिकप्रवणप्रभावः - अय्या. श्रीकृष्णताताचार्यः ।
  • ६. न्यायसिद्धाञ्जनम्‌ - काञ्ची. श्रीनिवासताताचार्यः ।
  • (रङ्गरामानुजव्याख्या & रत्नपेटिका सहितम्‌)
  • ७. न्यायसूत्रम्‌ (भाष्यसहितम्‌) - चौखम्बा, वाराणसी ।
  • ८. न्यायमञ्जरी - के.एस.वरदाचार्यः ।
  • ९. न्यायवार्तिकम्‌ - चौखम्बा, वाराणसी ।
  • १०. न्यायरत्नम्‌ - G.O.M.L., Madras.
  • ११. शतकोटिखण्डनम्‌ (शास्त्रमुक्तावली)- काञ्ची. अनन्ताचार्यः ।
  • १२. शतकोटिमण्डनखण्डनम्‌ - का.ई.मधुसूदनाचार्यः ।
  • १३. सत्प्रतिपक्षः (शास्त्रमुक्तावली) - काञ्ची. अनन्ताचार्यः ।
  • १४. सत्प्रतिपक्षवैभवम्‌ - गोडा. सुब्रह्मण्यशास्त्री ।
  • १५. सत्प्रतिपक्षपत्रम्‌ - का.ई.मधुसूदनाचार्यः ।
  • १६. List of Sanskrit Manuscripts in private libraries - Gustav oppert.
  • १७. Srivenkateswara Oriental Institute Journal - Vol-2 - S.V.O.R.I., Tirupati.