॥ श्रीमते रघुनन्दनपरब्रह्मणे नमः ॥
॥ श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमते श्रीकृष्णतातयार्यमहादेशिकाय नमः ॥
॥ अस्मद्गुरुभ्यो नमः ॥
नत्वा गुरूंश्च पितरौ श्रीशं हस्तिगिरीश्वरम् ।
गुरुमुखाच्छ्रुतोऽर्थस्तु मया सङ्गृह्यतेऽधुना ॥
०१
(१) प्रथमा कोटिः॥
प्रकृतानुमितिप्रतिबन्धकतावच्छेदिका अथ च विशिष्टपक्षग्रहत्वविशिष्ट- साध्यग्रहत्वाव्यापकपक्षे साध्यवैशिष्ट्यग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदक- विषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदिका यद्रूपावच्छिन्ननिरूपकताक- विषयिता तद्रूपावच्छिन्नत्वं सत्प्रतिपक्षत्वं भट्टाचार्याभिमतम् । अस्य लक्षणस्य “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदो वह्निमान्” इति स्थले वह्न्यभावव्याप्यव्याप्यवद्वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदे सत्प्रतिपक्षोन्नायके अतिव्याप्तिः । तथाहि - “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदो वह्निमान्” इत्यकारकबुद्धिं प्रति उक्तोन्नायकनिश्चयस्य “वह्न्यभाववान् वह्न्यभावव्याप्यव्याप्यवान्” इति निश्चयविशिष्ट“वह्न्यभावव्याप्यव्याप्यवांश्चतादृशह्रदः” इति निश्चयत्वेन प्रतिबन्धकत्वात्
[[122]]
सत्यन्तदलाक्रान्तत्वम् । तादृशह्रदः वह्न्यभावव्याप्यवान् इत्याकारकसत्प्रतिपक्षज्ञानस्य प्रकृतानुमितिप्रतिबन्धकत्वात् तज्जनकत्वात् चोक्तोन्नायकस्य इति विशेष्यदलाक्रान्तत्वम् । अयमेव अस्य ग्रन्थस्य प्रधानपूर्वपक्षः । अस्य समाधानम् (९०) कोटौ भविष्यति ।
मध्ये एतदतिव्याप्तिवारणप्रयासः बहुभिः प्रकारैः क्रियते तन्निराकरणञ्च भविष्यति ।
- i) सत्यन्तदलघटकप्रतिबन्धकतायां प्रतिहेतुव्यापकत्वप्रकारतानिरूपितसाध्याभावनिष्ठ- विशेष्यत्वानिरूपकज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशकल्पः -
०२
द्वितीयकोटिः॥
पूर्वोक्तातिव्याप्तिवारणाय सत्यन्तदलघटकप्रतिबन्धकतायां प्रतिहेतुव्यापकत्वप्रकारता- निरूपितसाध्याभावनिष्ठविशेष्यत्वानिरूपकज्ञानवैशिष्ट्यानवच्छिन्नत्वं इति विशेषणं दीयते । एवञ्च पूर्वोक्तोन्नायके नातिव्याप्तिः । तत्र वह्न्यभाववान् वह्न्यभावव्याप्यव्याप्यवान् इति निश्चयविशिष्ट “वह्न्यभावव्याप्यव्याप्यवांश्च तादृशह्रदः” इति निश्चयीयप्रतिबन्धकतामादायैव सत्यन्तं उपपादितम् । इदानीं तत्र प्रथमनिश्चये प्रतिहेतुव्यापकत्वप्रकारतानिरूपितसाध्याभाव- निष्ठविशेष्यत्वानिरूपकत्वस्यैव सत्वात्, प्रतिबन्धकतायां तादृशज्ञानवैशिष्ट्यावच्छिन्नत्वमेव अस्ति, न तु अनवच्छिन्नत्वं इति नातिव्याप्तिः । तत्र प्रथमनिश्चये कुतः तादृशविशेष्यतानिरूपकत्वं नास्ति इति चेत् - उच्यते । “घटाभावव्याप्यव्याप्यवान् वह्न्यभाववान् घटाभावव्याप्यव्याप्यवांश्च तादृशह्रदः”, “वह्न्यभावव्याप्यव्याप्यवान् वह्न्यभाववान् वह्न्यभावव्याप्यव्याप्यवांश्च तादृशह्रदः” इत्यादिसकलनिश्चयानां पृथक्प्रतिबन्धकत्वकल्पनापेक्षया तेषां एकरूपेणैव प्रतिबन्धकत्वं कल्पनीयम् लाघवात् । तच्च रूपं - ज्ञानविशिष्टज्ञानत्वं ज्ञानवैशिष्ट्यञ्च - स्ववृत्तिधर्मविशिष्टत्व, सामानाधिकरण्य, कालिकविशेषणत्व एतत्त्रितयसंबन्धेन । वृत्तिश्च- स्वावच्छिन्नप्रतियोगिता- काभावव्याप्यव्याप्यव्यापकत्वविशिष्टस्वरूपसंबन्धावच्छिन्नवह्न्यभावत्वावच्छिन्नप्रकारता-
[[112]]
[[123]]
निरूपकत्वसंबन्धेन । धर्मवैशिष्ट्यं च - स्वावच्छिन्नप्रतियोगिताकाभावव्याप्यव्याप्यत्वावच्छिन्न- प्रकारतानिरूपिततादृशह्रदत्वावच्छिन्नविशेष्यतानिरूपकत्वसंबन्धेन । अत्र प्रथमज्ञानपदेन “वह्न्यभावव्याप्यव्याप्यवान् वह्न्यभाववान्” इत्याकारकज्ञानं गृह्यते । तद्वैशिष्ट्यं द्वितीयज्ञाने “वह्न्यभावव्याप्यव्याप्यवान् तादृशह्रदः” इत्याकारके वक्तव्यम् । वैशिष्ट्यं च स्ववृत्तिधर्मविशिष्टत्व, सामानाधिकरण्य, कालिकविशेषणत्व एतत्त्रितयसंबन्धेन वक्तव्यम्। तत्र द्वितीयतृतीयसंबन्धौ स्पष्टौ । प्रथमसंबन्धेनापि वैशिष्ट्यं संभवति । तथाहि - तत्र स्ववृत्तित्वं धर्मे स्वावच्छिन्नप्रतियोगिताकाभावव्याप्यव्याप्यव्यापकत्वविशिष्टस्वरूपसंबन्धावच्छिन्नवह्न्य- भावत्वावच्छिन्नप्रकारतानिरूपकत्वसंबन्धेन । अत्र स्वपदेन घटत्व, वह्नित्वादिधर्माः ग्राह्याः । तदवच्छिन्नप्रतियोगिताकाभावव्याप्यव्याप्यव्यापकत्वविशिष्टस्वरूपसंबन्धावच्छिन्नवह्न्यभाव- त्वावच्छिन्नप्रकारतानिरूपकत्वसंबन्धेन वह्नित्वादिधर्मविशिष्टं भवति “वह्न्यभावव्याप्यव्याप्यवान् वह्न्यभाववान्” इत्याकारकं ज्ञानम् । तदेव प्रथमवैशिष्ट्यघटकस्वपदग्राह्यम् । उद्देश्यविधेय- भावस्थले उद्देश्यतावच्छेदकव्यापकत्वं विधेये संसर्गतया अथवा संसर्गतावच्छेदकतया भासते इति नियमेन प्रकृते वह्न्यभावस्य विधेयत्वात् तत्र उद्देश्यतावच्छेदकीभूतवह्न्यभावव्याप्यव्याप्यं व्यापकत्वविशिष्टस्वरूपसंबन्धेन भाति । अत्र व्यापकत्वं संसर्गतावच्छेदकतया भाति । धर्मवैशिष्ट्यं च स्पष्टम् । एवं च प्रतिहेतुव्यापकत्वप्रकारतानिरूपितसाध्याभावनिष्ठविशेष्यत्वानिरूपकं ज्ञानं भवति “वह्न्यभावव्याप्यव्याप्यवान् वह्न्यभाववान्” इति ज्ञानं तद्वैशिष्ट्यावच्छिन्नत्वमेव प्रतिबन्धकतायां अस्ति इति नातिव्याप्तिः । अत्र ज्ञाने प्रतिहेतुव्यापकत्वप्रकारतानिरूपितसाध्याभावनिष्ठविशेष्यत्वानिरूपकत्वं न
[[113]]
[[124]]
निवेश्यते चेत् व्यापकताघटितसत्प्रतिपक्षे अव्याप्तिः स्यात् । ह्रदो वह्निमान् धूमात् इत्यत्र जलस्य प्रतिहेतुत्वे “जलव्यापकवह्न्यभावसमानाधिकरणजलवद्ध्रदः” सत्प्रतिपक्षः । तज्ज्ञानस्य “जलव्यापको वह्न्यभावः इति निश्चयविशिष्टजलवान् ह्रदः” इति निश्चयत्वेनैव प्रतिबन्धकत्वम् । अतः अव्याप्तिः प्रसज्यते तद्वारणाय तादृशानिरूपकत्वं विशेषणम् । तथा सति “जलव्यापको वह्न्यभावः” इति ज्ञाने तादृशविशेष्यतानिरूपकत्वस्यैव सत्वात् तदनिरूपकज्ञानवैशिष्ट्यानवच्छिन्नत्वस्य सत्प्रतिपक्षनिश्चयीय प्रतिबन्धकतायां सत्वात् नाव्याप्तिः। अवान्तरशंका - पुनः पूर्वोक्तोन्नायके अतिव्याप्तिः तदवस्था । तत्र वह्न्यभावव्याप्यव्याप्येत्यत्र वह्न्यभावव्याप्यत्वं निविष्टम् । तच्च प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुमत्पक्षरूपम्। तथा च सति “वह्न्यभावव्याप्यव्याप्यवान् वह्न्यभाववान्” इति ज्ञानेऽपि प्रतिहेतुव्यापकत्व- प्रकारतानिरूपितसाध्याभावनिष्ठविशेष्यतायाः सत्वात् तन्निरूपकमेव इदं ज्ञानं परम्परया भवति। न तदनिरूपकं इति अतिव्याप्तिः तदवस्थैव ।
- ii) ज्ञाननिष्ठावच्छेदकतायां धर्मविशिष्टान्यत्वनिवेशकल्पः - तत् समाधानम् - तद्वारणाय ज्ञाननिष्ठावच्छेदकतायां धर्मविशिष्टान्यत्वं विशेषणं देयम् । एवं च धर्मविशिष्टान्या या ज्ञाननिष्ठावच्छेदकता तदनिरूपकत्वं प्रतिबन्धकताविशेषणं फलति । निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकतास्थले द्वितीयनिश्चयः प्रतिबन्धकः , प्रथमनिश्चयः अवच्छेदकः भवति । एवं सत्प्रतिपक्षे समन्वयः इत्थं- तत्र ज्ञाननिष्ठा प्रतिबन्धकतावच्छेदकता धर्मविशिष्टैव न विशिष्टान्या । तथाहि- धर्मवैशिष्ट्यं स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वसंबन्धेन। स्वनिष्ठावच्छेदकता-स्वावच्छिन्ननिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभाव-
[[114]]
[[125]]
त्वावच्छिन्नविशेष्यतावृत्तिभेदप्रतियोगितावच्छेदकत्वसंबन्धेन । भेदप्रतियोगितावच्छेदकता- अवच्छेदकतासंबन्धेन इति । अत्र स्वपदेन प्रतिहेतुतावच्छेदकधर्मः ग्राह्यः । प्रकृते जलत्वं गृह्यते । तदवच्छिन्ननिरूपितव्यापकत्वप्रकारतानिरूपितवह्न्यभावत्वावच्छिन्नविशेष्यतायां “जलव्यापको वह्न्यभावः” इति ज्ञानीय प्रतिबन्धकतावच्छेदकता अवच्छेदकतासंबन्धेन अस्ति। अतः तादृशविशेष्यतावृत्तिभेदः न “जलव्यापको वह्न्यभावः” इति ज्ञानीयप्रतिबन्धकता- वच्छेदकतावद्भेदः । किन्तु उदासीनज्ञानीयप्रतिबन्धकतावच्छेदकतावद्भेदः। तत्प्रतियोगिता- वच्छेदकत्वं तदीयप्रतिबन्धकतावच्छेदकतायाम् । तादृशप्रतियोगितावच्छेदकत्वसंबन्धेन स्ववद्भेदः तु “जलव्यापको वह्न्यभावः” इति ज्ञानीय प्रतिबन्धकतावच्छेदकतायां अस्ति इति कृत्वा धर्मविशिष्टैव सा अवच्छेदकता । अतः धर्मविशिष्टान्यावच्छेदकत्वानिरूपकत्वं सत्प्रतिपक्षनिश्चयीयप्रतिबन्धकतायां अस्ति इति समन्वयः। एवं पूर्वोक्तस्थलेऽपि नातिव्याप्तिः । तत्र प्रतिहेतुतावच्छेदकधर्मपदेन (स्वपदेन) जलत्वस्य ग्रहणे तदवच्छिन्ननिरूपितव्यापकत्वप्रकारतानिरूपितवह्न्यभावत्वावच्छिन्नविशेष्यतायां “जलव्यापकोवह्न्यभावः” इत्यादि ज्ञानीयायां “जलव्यापकवह्न्यभावसमानाधिकरणजल- व्याप्यवान् वह्न्यभाववान्” इत्याकारकज्ञाननिष्ठप्रतिबन्धकतावच्छेदकतावच्छेदकत्वं नास्ति। यतोहि “जलव्यापक(वह्न्यभावव्याप्य)वह्न्यभावसमानाधिकरणजलव्याप्यवान् वह्न्यभाववान्” इति ज्ञानस्य प्रतिबन्धकतावच्छेदकत्वं वह्न्यभावव्याप्यव्याप्यव्यापकत्वविशिष्टस्वरूपसंबन्धाव- च्छिन्नवह्न्यभावत्वावच्छिन्नप्रकारतानिरूपकत्वेनैव । अतः उक्तज्ञाने व्यापकत्वशरीरे प्रविष्टानां सर्वेषां अपि प्रतिबन्धकतावच्छेदकत्वं संसर्गतावच्छेदककोटिप्रविष्टत्वादेव । परन्तु जलव्यापकत्वप्रकारतानिरूपितसाध्याभावनिष्ठविशेष्यतायां प्रकृतनिश्चयीयप्रतिबन्धकता-
[[115]]
[[126]]
वच्छेदकतावच्छेदकत्वं नास्ति । अतः जलव्यापकत्वप्रकारत्वनिरूपितवह्न्यभावविशेष्यतायां न प्रतिबन्धकतावच्छेदकतावच्छेदकघटकत्वं इति तादृशविशेष्यतावृत्तिभेदः उक्तप्रतिबन्धकतावच्छेदकतावद्भेदः तत्प्रतियोगितावच्छेदकत्वमेव उक्तप्रतिबन्धकतावच्छेदकत्वे इति तेन संबन्धेन स्ववद्भेदः “वह्न्यभावव्याप्यव्याप्यवान् वह्न्यभाववान्” इति ज्ञानीय अवच्छेदकतायां नास्ति इति धर्मविशिष्टान्या एव सा अवच्छेदकता । अतः एतादृशावच्छेदकतानिरूपकत्वस्यैव प्रतिबन्धकतायां सत्वात् । अनिरूपकत्वस्य विरहात् नातिव्याप्तिः ।
०३
तृतीयकोटिः॥
एवंरीत्या समाधाने दत्तेऽपि यत्र व्यापकत्वस्य प्रकारतया भानं तत्स्थलीयोन्नायके अतिव्याप्तिः । तथाहि - “वह्न्यभावव्याप्यव्याप्यव्यापकवह्न्यभावकालीनह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । तत्र “वह्न्यभावव्याप्यव्याप्यव्यापकः वह्न्यभावः वह्न्यभावव्याप्यव्याप्यवांश्च तादृशह्रदः, घटाभावव्याप्यव्याप्यव्यापकः वह्न्यभावः घटाभावव्याप्यव्याप्यवांश्च तादृशह्रदः” इत्यादिनिश्चयानां लाघवात् एकरूपेणैव प्रतिबन्धकत्वं वक्तव्यम् । तच्च रूपं ज्ञानविशिष्टज्ञानत्वम् । वैशिष्ट्यं च प्रागुक्तत्रितयसंबन्धेनैव । परन्तु प्रथमसंबन्धे वृत्तिश्च - स्वावच्छिन्नप्रतियोगिताकाभावव्याप्यव्याप्यव्यापकत्वप्रकारतानिरूपित- वह्न्यभावत्वावच्छिन्नविशेष्यतानिरूपकत्वसंबन्धेन । धर्मवैशिष्ट्यं च - स्वावच्छिन्नप्रति- योगिताकाभावव्याप्यव्याप्यत्वावच्छिन्नप्रकारतानिरूपिततादृशह्रदत्वावच्छिन्नविशेष्यता- निरूपकत्वेन । एवं च उक्तस्थले वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदरूपोन्नायके अतिव्याप्तिः भवति। तत्र “वह्न्यभावव्याप्यव्याप्यव्यापकः वह्न्यभावः” इति ज्ञाननिष्ठा या प्रतिबन्धकतावच्छेदकता
[[116]]
[[127]]
सा धर्मविशिष्टैव भवति न तदन्या । तथाहि धर्मपदेन जलत्वस्य ग्रहणे जलत्वावच्छिन्नप्रकारता- निरूपितव्यापकत्वप्रकारतानिरूपितवह्न्यभावनिष्ठविशेष्यतायां उक्तज्ञानीयप्रतिबन्धकता- वच्छेदकतावच्छेदकघटकत्वमेव अस्ति । उक्तज्ञाने व्यापकत्वस्य प्रकारतया भानात् । तज्ज्ञानस्य च व्यापकत्वप्रकारतानिरूपितसाध्याभावनिष्ठविशेष्यतानिरूपकत्वेनैव अवच्छेदकत्वं इति कृत्वा तत्कोटिप्रविष्टस्य वह्न्यभावव्याप्तिघटकजलव्यापकत्वस्यापि प्रकारतावच्छेदकता- वच्छेदकघटकत्वस्यैव सत्वात् तादृशप्रकारतानिरूपितविशेष्यतानिरूपकत्वं प्रथमज्ञाने सत्वात् तत्र च व्यापकत्वप्रकारतानिरूपितसाध्याभावनिष्ठविशेष्यतायाः सत्वात् । विशेष्यतावृत्तिभेदः न तज्ज्ञानीयप्रतिबन्धकतावच्छेदकतावद्भेदः तत्र तस्य सत्वात् । किन्तु उदासीनप्रतिबन्धकता- वच्छेदकतावद्भेदः तत्प्रतियोगितावच्छेदकत्वं उदासीनप्रतिबन्धकतावच्छेदकतायाम्। तेन संबन्धेन स्ववद्भेदः प्रकृतप्रथमज्ञानीयप्रतिबन्धकतावच्छेदकतायां इति कृत्वा धर्मविशिष्टत्वं आगतम् । अतः तदन्यावच्छेदकत्वानिरूपकत्वस्य प्रतिबन्धकतायां अक्षतत्वात् अतिव्याप्तिः।
- iii) यद्रूपावच्छिन्नविषयकनिश्चये उभयाभावनिवेशकल्पः
०४
चतुर्थकोटिः॥
पूर्वोक्तातिव्याप्तिं प्रथमकोट्युक्तातिव्याप्तिं च एकेनैव परिष्कारेण वारयति । तथाहि यद्रूपावच्छिन्ननिरूपकताकविषयिता ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्व, प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयताविशिष्टान्यत्वोभयाभाववती तद्रूपावच्छिन्नत्वं सत्यन्तार्थः इति । विषयतावैशिष्ट्यं निरूपितत्व, तादात्म्य एतदन्यतरसंबन्धेन। एवं च अतिव्याप्तिवारणं इत्थम्। यद्रूपावच्छिन्ननिरूपकताकविषयितापदेन वह्न्यभावव्याप्य- व्याप्यवत्तादृशह्रदविषयितायाः ग्रहणे जलस्य प्रतिहेतुत्वात् तस्यां विषयितायां ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्व, जलव्यापकवह्न्यभावसमानाधिकरण-
[[117]]
[[128]]
जलविषयताविशिष्टत्वस्य निरूपितत्व, तादात्म्य एतदयतरसंबन्धेन विरहात् तादृशविषयिता- विशिष्टान्यत्वोभयस्यैव सत्वात् उभयाभावविरहात् नातिव्याप्तिः । अत्र विषयतावैशिष्ट्यशरीरे तादात्म्यस्य निवेशः विपरीतसत्प्रतिपक्षसंग्रहाय भवति ।
०५
पञ्चमकोटिः॥
एवमपि पूर्वपक्षव्याप्तिघटितसत्प्रतिपक्षे अव्याप्तिः । तथाहि- “ह्रदो वह्निमान्” इत्यत्र वह्न्यभावाभाववदवृत्तिमद्ध्रदः सत्प्रतिपक्षः तद्विषयकज्ञानेन सह यदा “अभावव्यापकः वह्न्यभावः” इति ज्ञानस्य समावेशः तदा सत्प्रतिपक्षनिश्चयस्य ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्ध- कतावच्छेदकत्वमक्षतम् । अभावव्यापकः वह्न्यभावः इति निश्चयविशिष्ट “अभाववान् ह्रदः” इति निश्चयत्वेन प्रतिबन्धकत्वस्य संभवात् । तथा च वह्न्यभावाभाववदवृत्तिमद्ध्रदविषयितायां उक्तोभयस्यैव सत्वात् उभयाभावविरहात् अव्याप्तिः । अत्र उभयाभावप्रतियोगियदवच्छेदकत्वं तत् स्वरूपसंबन्धरूपं इति भाति ।
०६
षष्ठकोटिः॥
पूर्वोक्ताव्याप्तिभिया पूर्वकल्पं परित्यज्य प्रथमकोट्युक्तातिव्याप्तिं प्रकारान्तरेण वारयति इदानीम् । तथाहि- यद्रूपावच्छिन्ननिरूपकताकविषयितायां सत्यन्तदलघटकप्रतिबन्धकत्वाभावः निवेश्यते । प्रतियोगितावच्छेदकसंबन्धस्तु प्रतिहेतुव्यापकसाध्याभावसमानाधिकरण- प्रतिहेतुविषयिताविशिष्टान्यविषयितानिष्ठज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकतासंबन्धः। एवं च “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्य- व्याप्यवत्तादृशह्रदे अतिव्याप्तिः नास्ति । तत्र प्रतिहेतुभूतजलव्यापकवह्न्यभावसमानाधिकरण- जलविषयिताविशिष्टान्या विषयिता इत्युक्ते वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदविषयिता तस्यां
[[118]]
[[129]]
च ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्वं अस्ति । तथा च तादृशह्रदविषयितानिष्ठप्रति- बन्धकतावच्छेदकत्वसम्बन्धेन सत्यन्तदलघटकप्रतिबन्धकता एव यद्रूपपदग्राह्य वह्न्यभावव्याप्यव्याप्यवद्ध्रदत्वावच्छिन्ननिरूपकताकविषयितायां वर्त्तते न तु तेन सम्बन्धेन प्रतिबन्धकत्वाभावः इति नातिव्याप्तिः । एवं पूर्वपक्षव्याप्तिघटितसत्प्रतिपक्षेऽपि नाव्याप्तिः । तत्र सत्यन्तदलघटकप्रतिबन्धकता ज्ञानवैशिष्ट्यानवच्छिन्नैव । तत्र वह्न्यभावाभाववदवृत्तिमद्ध्रदविषयितायां सत्यन्तदलघटक- प्रतिबन्धकत्वाभावः अक्षतः एव । उक्तसम्बन्धे ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्वस्य घटकत्वात् तेन संबन्धेन ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतायाः कुत्राप्यसत्वात् स च संबन्धः सत्यन्तदलघटकप्रतिबन्धकतायाः व्यधिकरणत्वात् । तत्संबन्धावच्छिन्नप्रतियोगिताकप्रतिबन्धक- त्वाभावस्य केवलान्वयित्वात् यद्रूपावच्छिन्ननिरूपकताकविषयितायां अपि सत्वात् समन्वयः। अनुगमे वृत्तिघटकद्वितीयसंबन्धः प्रकृतपरिष्कारसूचकः ।
०७
सप्तमकोटिः॥
एवमपि ह्रदो वह्निमान् इत्यत्र वह्न्यभावनिरूपितव्यतिरेकव्याप्तिघटिते वह्न्यभावाभाव- व्यापकीभूताभावप्रतियोगिजलवद्ध्रदरूपसत्प्रतिपक्षे अव्याप्तिः । एतज्ज्ञानस्य “वह्न्यभावाभाव- व्यापकीभूताभावप्रतियोगि जलम्” इति निश्चयविशिष्ट“जलवान् ह्रदः” इति निश्चयत्वेनैव “ह्रदो वह्निमान्” इत्याकारकानुमितिप्रतिबन्धकतया तस्याः प्रतिबन्धकतायाः प्रतिहेतु- व्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयिताविशिष्टान्या या विषयिता वह्न्यभावाभाव- व्यापकीभूताभावप्रतियोगिजलवद्ध्रदविषयिता तन्निष्ठज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकता- वच्छेदकत्वमेव वह्न्यभावाभावव्यापकीभूताभावप्रतियोगिजलवद्ध्रदविषयतायां सत्वात् तदभावाभावात् अव्याप्तिः।
[[119]]
[[130]]
एवमेव ह्रदावृत्तित्वनिरूपितव्यापकसामानाधिकरण्यघटितव्याप्तिविशिष्टवद्वह्न्यात्मक- सत्प्रतिपक्षे अव्याप्तिः । तस्य वह्नित्वव्यापकं ह्रदावृत्तित्वं इति निश्चयविशिष्टवह्नित्ववान् वह्निः इति निश्चयत्वेनैव प्रतिबन्धकतया तद्विषयितायाः प्रतिहेतुभूतजलव्यापकसाध्याभावसमाना- धिकरणजलविषयिताविशिष्टान्यत्वात् तादृशविशिष्टान्यविषयितानिष्ठज्ञानवैशिष्ट्यावच्छिन्न- प्रतिबन्धकतावच्छेदकत्वमेव ह्रदावृत्तित्वव्याप्यवद्वह्निविषयितायां सत्वात् तदभावाभावात् अव्याप्तिः ।
०८
अष्टमकोटिः॥
पूर्वोक्तविषयितानां प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयिताविशिष्टत्वात् अव्याप्तिः उक्ता । सा इदानीं वार्यते । तथाहि संबन्धघटकज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकता- वच्छेदकतायां प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयिताविशिष्टान्यवह्न्य- भावाभावव्यापकीभूताभावप्रतियोगिजलवद्ध्रदविषयिता, ह्रदावृत्तित्वव्याप्यवद्वह्निविषयि- त्वादिभिन्नविषयितानिष्ठत्वं निवेशनीयम् । तेन न पूर्वोक्तदोषः ।
०९
नवमकोटिः॥
संबन्धघटकप्रतिबन्धकतावच्छेदकत्वे तत्तद्विषयिताभिन्नविषयित्वनिष्ठत्वप्रवेशेन पूर्वोक्तदोषवारणेऽपि “जलव्यापकधूमाभावसमानाधिकरणजलव्यापकवह्न्यभावव्याप्य- समानाधिकरणतादृशजलव्यापकवह्न्यभावकालीनह्रदः वह्निधूमोभयवानित्यत्र जलव्यापकधूमाभावसमानाधिकरणजलव्यापकवह्न्यभावसमानाधिकरणजलव्यापकधूमाभाव- समानाधिकरणजलवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । अत्र प्रतिहेतुः वह्न्यभावव्याप्यव्याप्यं यत् जलव्यापकधूमाभावसमानाधिकरणजलम् । एवञ्च जलव्यापकधूमाभावसमानाधिकरण-
[[120]]
[[131]]
जलव्यापकवह्न्यभावव्याप्यसमानाधिकरणजलव्यापकधूमाभावसमानाधिकरण- जलवत्तादृशह्रदविषयितायां प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयिता- विशिष्टत्वमेव अस्ति। अत्र धूमस्यापि साध्यत्वं अस्ति । अतः वह्न्यभावव्याप्यव्याप्यजल- व्यापकधूमाभावसमानाधिकरणजलवत्तादृशह्रदविषयितायां प्रतिहेतुव्यापकसाध्या- भावसमानाधिकरणप्रतिहेतुविषयिता निरूपितत्वसंबन्धेन अस्ति । न तु तादृशविषयिता- विशिष्टान्यत्वम् । अतः तादृशविषयिताविशिष्टान्यविषयितानिष्ठज्ञानवैशिष्ट्यावच्छिन्न- प्रतिबन्धकतावच्छेदकत्वाभावः जलव्यापकधूमाभावसमानाधिकरणजलव्यापकवह्न्यभाव- व्याप्यसमानाधिकरणजलव्यापकधूमाभावसमानाधिकरणजलवत्तादृशह्रदविषयितायां अक्षतत्वात् अतिव्याप्तिः । शङ्का - इयमतिव्याप्तिः न भवति । मेयत्वविशिष्टसत्प्रतिपक्षे अतिव्याप्ति-वारणाय लक्षणे विशिष्टान्तराघटितत्वं अवश्यं निवेशनीयम् । तेनैव प्रकृतेऽपि तद्वारणं संभवति। जलव्यापकधूमाभावसमानाधिकरणजलवद्ध्रदरूपविशिष्टान्तरघटितत्वात्प्रकृतमहाविशिष्टस्य इति। समाधानम् - विशिष्टान्तराघटितत्वशरीरे अवश्यं प्रतिबन्धकतायाः निवेशः कर्तव्यः । सा च प्रतिबन्धकता प्रकृते ह्रदे वह्निवैशिष्ट्यावगाहिबुद्धित्वावच्छिन्नप्रतिबन्ध्यतानिरूपिताप्रति- बन्धकता। तथा च तादृशप्रतिबन्धकतावच्छेदकविषयितानिरूपकतावच्छेदकधर्मावच्छिन्न- विशिष्टान्तराघटितत्वस्य अक्षतत्वात् अतिव्याप्तिः भवत्येव ।
- iv) यद्रूपावच्छिन्नविषयकनिश्चये उभयाभावनिवेशकल्पः -
१०
दशमकोटिः॥
पूर्वोक्तातिव्याप्तिवारणाय यद्रूपावच्छिन्ननिरूपकताकविषयिताशालिनिश्चये धर्मविशिष्टान्यत्वज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वोभयाभावः निवेश्यते । इदानीं
[[121]]
[[132]]
६कोट्युक्तपरिष्कारः नास्ति इति ध्येयम् । मूलोक्तानुगमे अव्यापकविषयिताशून्यत्वं निविष्टमिति ज्ञेयम् । एवं अनुगमे रूपवैशिष्ट्यं - स्वावच्छिन्ननिरूपकताकविषयितावत्वसंबन्धेन इत्यपि ज्ञेयम् । धर्मविशिष्टान्यत्वं इत्यत्र नञ्द्वयं निविष्टमस्ति धर्मविशिष्टत्वमेव भेदघटितम् । अर्थात् निश्चये किञ्चिद्धर्मावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावत्वावच्छिन्न- प्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपिततद्धर्मावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छे- दकावच्छिन्नविशेष्यताशालिज्ञाननिष्ठाभावप्रतियोगिविषयितानिरूपकतावच्छेदकरूपावच्छिन्न- विषयितावत्वमस्ति चेत् धर्मविशिष्टान्यत्वं आगतम् इति ज्ञेयम् । पूर्वोक्तस्थले अतिव्याप्तिः नास्ति । तत्र यद्रूपावच्छिन्ननिरूपकताकनिश्चये उक्तोभयमेव अस्ति न तु उभयाभावः । तथाहि “जलव्यापकधूमाभावसमानाधिकरणजलव्यापकवह्न्यभावव्याप्यसमानाधिकरणजलव्यापक- धूमाभावसमानाधिकरणजलव्यापकः वह्न्यभावः” इति निश्चयविशिष्ट “तादृश जलवांश्च ह्रदः” इति निश्चयत्वेनैव उक्तमहाविशिष्टस्य प्रतिबन्धकत्वात् ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वं तन्निश्चयस्य। एवं विवक्षितधर्मविशिष्टान्यत्वमपि अस्ति । तथाहि - किञ्चिद्धर्मपदेन जलत्वं गृह्यते । तथा च जलत्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितवह्न्यभाव- त्वावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितजलत्वावच्छिन्नप्रकारतानिरूपितह्रद- त्वावच्छिन्नविशेष्यताशालिभ्रमभिन्ननिश्चयः “जलव्यापकधूमाभावसमानाधिकरणजलवान् तादृशह्रदः” इत्याकारकः निश्चयः । तन्निष्ठः अभावः वह्न्यभावव्याप्यव्याप्यजलव्यापक- धूमाभावसमानाधिकरणजलवत्तादृशह्रदत्वावच्छिन्ननिरूपकताकविषयित्वावच्छिन्नप्रतियोगिता- काभावः। तत्प्रतियोगी तादृशविषयिता । तन्निरूपकतावच्छेदकं रूपं भवति वह्न्यभावव्याप्य-
[[122]]
[[133]]
व्याप्यजलव्यापकधूमाभावसमानाधिकरणजलवत्तादृशह्रदत्वम् । तदवच्छिन्ननिरूपकताक- विषयितावत्वमपि महाविशिष्टनिश्चये सत्वात् उभयाभावस्य अभावात् नातिव्याप्तिः । शङ्का - यदि एवं लक्षणं क्रियते तर्हि ह्रदनिष्ठजलव्यापकवह्न्यभावसमानाधिकरणजले, वह्न्यभावाभावव्यापकीभूताभावप्रतियोगिजलवद्ध्रदे च अव्याप्तिः भवति । तथाहि उभयत्र धर्मपदेन जलत्वस्य ग्रहणे तदवच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितवह्न्यभाव- त्वावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितजलत्वावच्छिन्नप्रकारतानिरूपितविशेष्यता “ह्रदः जलव्यापकवह्न्यभावसमानाधिकरणजलवान्” इति ज्ञाने एव अस्ति न तु “ह्रदवृत्ति जलव्यापकवह्न्यभावसमानाधिकरणजलं” इति ज्ञाने तत्र जलस्य विशेष्यत्वात् प्रकारतायाः तत्र अभावात् । एवं “वह्न्यभावाभावव्यापकीभूताभावप्रतियोगिजलवान् ह्रदः” इति ज्ञानेऽपि तादृशविशेष्यता नास्ति इति कृत्वा तादृशविशेष्यताशालिज्ञाननिष्ठाभावः नाम ह्रदवृत्ति- जलव्यापकवह्न्यभावसमानाधिकरणजलविषयिता । एवं वह्न्यभावाभावव्यापकीभूता- भावप्रतियोगिजलवद्ध्रदविषयिता च । तन्निरूपकतावच्छेदकत्वमेव उक्तसत्प्रतिपक्षताव- च्छेदकधर्मद्वये अस्ति इति कृत्वा धर्मविशिष्टान्यत्वं आगतम् । एवं ज्ञानवैशिष्ट्यावच्छिन्न- प्रतिबन्धकत्वं च अस्ति इति कृत्वा उभयस्यैव सत्वात् उभयाभावविरहात् अव्याप्तिः । समाधानम् - उक्तदोषवारणाय धर्मवैशिष्ट्यं स्वनिष्ठावच्छेदकताकप्रतियोगिताकतत्तद्भेदान्यतम- संबन्धेन निवेश्यते । तथा च एकभेदः पूर्वकोट्युक्तः । भेदान्तरेषु अपि अनुगमः समानः । व्याप्यतावच्छेदकसंबन्धः (स्वाधिकरणताघटकः संबन्धः) परं भिद्दते । तथा च द्वितीये स्वाधिकरणता-स्वविशिष्टविशेष्यतानिरूपितपक्षतावच्छेदकावच्छिन्नप्रकारतानिरूपकत्वसंबन्धेन।
[[123]]
[[134]]
विशेष्यतायां वैशिष्ट्यं प्रथमसंबन्धवदेव । एवं च पूर्वोक्त अव्याप्तिः नास्ति । प्रथमसंबन्धेन उभयवत्वेऽपि प्रकृतसत्प्रतिपक्षनिश्चयस्य द्वितीयसंबन्धेन तदभावात्। द्वितीयसंबन्धे धर्मपदेन जलत्वस्य ग्रहणे तदवच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितवह्न्यभावत्वा- वच्छिन्नप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितजलत्वावच्छिन्नविशेष्यतानिरूपितह्रदत्वा- वच्छिन्नप्रकारतानिरूपकत्वं “जलव्यापकवह्न्यभावसमानाधिकरणजलं ह्रदवृत्ति” इति ज्ञाने अस्ति तत्र च उक्तसत्प्रतिपक्षनिश्चयीयविषयितायाः सत्वेन तदभावविरहात् । तादृशाभाव- प्रतियोगिविषयिता उदासीनविषयिता तद्वत्वस्य उक्तसत्प्रतिपक्षनिश्चये अभावात् धर्मविशिष्टत्वस्यैव सत्वात् धर्मविशिष्टान्यत्वाभावप्रयुक्तोभयाभावस्य सत्वात् लक्षणसमन्वयः । एवमेव वह्न्यभावाभावव्यापकीभूताभावप्रतियोगिजलवद्ध्रदेऽपि समन्वयः ग्राह्यः । तत्र स्वाधिकरणता- साध्याभावाभावव्यापकीभूताभावप्रतियोगित्वावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदका- वच्छिन्नविशेष्यतानिरूपकत्वसंबन्धेन बोध्यम् । शङ्का - एवमपि प्रथमकोट्युक्तोन्नायकातिव्याप्तिः दुर्वारा। तत्र धर्मपदेन वह्न्यभावव्याप्यव्याप्यत्वं यदि गृह्यते तर्हि तद्विशिष्टत्वं एव पूर्वोक्तान्यतमसंबन्धेन “वह्न्यभावव्याप्यव्याप्यवान् तादृशह्रदः” इत्याकारकोन्नायकनिश्चये सत्वात् धर्मविशिष्टान्यत्वाभावप्रयुक्तोभयाभावसत्वात् अतिव्याप्तिः। धर्मवैशिष्ट्यं कथमिति चेत् इत्थं - वह्न्यभावव्याप्यव्याप्यत्वावच्छिन्नप्रकारतानिरूपितव्यापकत्व- प्रकारतानिरूपितसाध्याभावत्वावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपित- जलत्वावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशालिज्ञानं “वह्न्यभाव- व्याप्यव्याप्यव्यापकवह्न्यभावसमानाधिकरणजलवान् ह्रदः” इति ज्ञानं तन्निष्ठः अभावः
[[124]]
[[135]]
वह्न्यभावव्याप्यव्याप्यवत्प्रकृतपक्षविषयितायाः (उन्नायकविषयितायाः) अभावः । तत्प्रतियोगी उन्नायकविषयिता । तच्छालिनिश्चयः उन्नायकनिश्चयः इति धर्मविशिष्टः एव निश्चयः । न तु तदन्यः । एवं तस्य ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वसद्भावेऽपि प्रथमस्य अभावात् उभयाभावः अक्षतः इति अतिव्याप्तिः । समाधानम् - तर्हि धर्मवैशिष्ट्यं अन्येनापि संबन्धेन उच्यते । अर्थात् धर्मवैशिष्ट्यं - स्वनिष्ठावच्छेदक- ताकप्रतियोगिताकभेदवत्व, स्वविशिष्टपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपकत्व उभयसंबन्धेन वक्तव्यम् । स्ववैशिष्ट्यं च स्वविशिष्टप्रकारतानिरूपितत्वसंबन्धेन । प्रकारतायां स्ववैशिष्ट्यं पूर्ववत् । एवञ्च सति नातिव्याप्तिः । उन्नायकनिश्चये प्रथमसंबन्धेन वह्न्यभावव्याप्यव्याप्यत्वस्य सद्भावेऽपि द्वितीयसंबन्धेन नास्ति । तथाहि प्रकारतायां स्ववैशिष्ट्यं स्वावच्छिन्नत्वसंबन्धेनापि निविष्टं अस्ति । तच्च उन्नायकनिश्चयीयप्रकारतायां नास्ति तत्र जलत्वावच्छिन्नत्वस्यैव सत्वात्। न तु वह्न्यभावव्याप्यव्याप्यत्वावच्छिन्नत्वम् । अतः तेन संबन्धेन धर्मविशिष्टत्वाभावात् नातिव्याप्तिः। शङ्का - यदि धर्मवैशिष्ट्यं संबन्धद्वयेनैव इति उच्यते तर्हि पूर्वोक्तविपरीसत्प्रतिपक्षे, व्यतिरेकव्याप्तिघटितसत्प्रतिपक्षे च अव्याप्तिः तदवस्थैव । समाधानम् - एतद्वारणाय स्वविशिष्टविशेष्यतानिरूपितपक्षतावच्छेदकावच्छिन्नप्रकारतानिरूपकत्वमपि पूर्वोक्त अन्यतमसम्बन्धे निवेशनीयः तथा च न दोषः । तथा च भेदान्यतमसंबन्धत्रयं भवति ।
[[125]]
[[136]]
शङ्का - उभयान्यतमत्वं वक्तुं न शक्यते । कुतः इति चेत् ? उभयान्यतमत्वं नाम उभयभिन्नभिन्नत्वं ? उभयावृत्तिधर्मशून्यत्वं ? वा । नाद्दः उभयभिन्नभिन्नमेव अप्रसिद्धम्। उभयभिन्नत्वस्य केवलान्वयित्वात् तद्वद्भेदस्य अप्रसिद्धेः। नापि द्वितीयः । उभयावृत्तिधर्मः उभयभिन्ने वस्तुनि भवति । तच्छून्यत्वं तु प्रत्येकं उभयस्मिन् भवति इति पूर्वोक्तातिव्याप्तिः तदवस्था स्यात् । प्रथमसंबन्धेन धर्मविशिष्टत्वसंभवात् । अतः इदमपि न संभवति । समाधानम् - धर्मविशिष्टत्वं च तत्तदुभयवत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेद- कूटवत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकप्रतियोगिताकभेदवत्वसंबन्धेन । इदानीं उभयभिन्नत्वं व्यधिकरणसंबन्धः जातः तेन संबन्धेन तद्वद्भेदः प्रसिद्धः इति नातिव्याप्तिः ।
११
एकादशकोटिः॥
एवमपि “सर्वं गगनवत्” इत्यत्र जलस्य प्रतिहेतुत्वे जलव्यापकगगनाभावसमाना- धिकरणजलवद्घटे अव्याप्तिः दुर्वारा । अस्य च सत्प्रतिपक्षत्वं इष्टम् । सव्यभिचारग्रन्थे भट्टाचार्यैः “सर्वं गगनवत्” इत्यत्र गगनाभाववद्घटस्यापि बाधत्वं स्वीकृतम् । सत्प्रतिपक्षस्तु बाधव्याप्यः अतः अस्य सत्प्रतिपक्षत्वं इष्टमेव भवति । असमानधर्मितावच्छेदककज्ञानस्य प्रतिबन्धकत्वं सर्वपक्षकस्थले स्वीकृतं वर्तते । अत्र सत्प्रतिपक्षनिश्चये पूर्वोक्तधर्मविशिष्टान्यत्वं अस्त्येव । एवं ज्ञानवैशिष्ट्यावच्छिन्नत्वमपि अस्ति । अतः उभयस्यैव सत्वात् उभयाभावाभावात् अव्याप्तिः । धर्मविशिष्टान्यत्वं कथमिति चेत् इत्थं - धर्मविशिष्टत्वानुगमे स्वाधिकरणताघटक- सम्बन्धः स्वविशिष्टपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपकभ्रमभिन्नत्वरूपः । तथाच धर्मपदेन
[[126]]
[[137]]
जलत्वस्य ग्रहणे तदवच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितगगनाभावत्वावच्छिन्न- प्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितजलत्वावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदक- सर्वत्वावच्छिन्नप्रकारताशालि ज्ञानं “सर्वं जलव्यापकगगनाभावसमानाधिकरणजलवत्” इति ज्ञानं तन्निष्ठः अभावः तादृशघटविषयितायाः अभावः । तत्प्रतियोगीतादृशघटविषयिता तच्छालित्वमेव उक्तसत्प्रतिपक्षनिश्चये अस्ति इति धर्मविशिष्टान्यत्वसत्वात् उभयाभावाभावात् अव्याप्तिः। शङ्का - एतद्दोषवारणाय अनुगमे विशेष्यता पक्षतावच्छेदकावच्छिन्नत्वेन न निवेशनीया किन्तु किञ्चिद्धर्मावच्छिन्नत्वेनैव अतः किञ्चिद्धर्मपदेन घटत्वं स्वीकर्तुं शक्यते । तदवच्छिन्नविशेष्यता- शालिज्ञानं सत्प्रतिपक्षनिश्चयः एव तत्र सत्प्रतिपक्षविषयितायाः अभावः नास्ति । अतः सत्प्रतिपक्षनिश्चये अव्यापकविषयताशून्यत्वरूपधर्मविशिष्टत्वमेव अस्ति न तु तदन्यत्वं इति तदभावप्रयुक्तोभयाभावः अक्षतः । अतः नाव्याप्तिः । समाधानम् - एवमपि किञ्चिद्धर्मपदेन पटत्वमादाय तद्दोषतादवस्थ्यम् । “पटः जलव्यापक- गगनाभावसमानाधिकरणजलवान्” इत्याकारककिञ्चिद्धर्मभूतपटत्वावच्छिन्नविशेष्यताक- निश्चये तादृशघटत्वावच्छिन्नविषयितायाः अभावात् । तन्निश्चयस्य अव्यापकविषयिताशालित्वात् तच्छ्ून्यत्वाभावात् अव्याप्तिः तदवस्था एव । तथा च एतादृशपरिष्कारेण प्रथमकोट्युक्तातिव्याप्तेः वारणं कर्तुं न शक्यते । यदि एकरूपेण प्रतिबन्धकत्वं नाङ्गीक्रियते तदा “वह्न्यभाववान् वह्न्यभावव्याप्यव्याप्यवान् इति ज्ञानकालीनवह्न्यभावव्याप्यव्याप्यवान् ह्रदः” इति निश्चयेऽपि ज्ञानवैशिष्ट्यानवच्छिन्न- प्रतिबन्धकतायाः स्वीकृतत्वात् अतिव्याप्तिः तदवस्थैव ।
[[127]]
[[138]]
- v) विशिष्टान्तरविषयितायाम् अव्यापकविषयिताशून्यत्वनिवेशकल्पः -
१२
द्वादशकोटिः॥
प्रथमकोट्युक्तातिव्याप्तिं वारयितुं पूर्वोक्तान् परिष्कारान् त्यक्त्वा नूतनपरिष्कारः अत्र क्रियते । मूलोक्तसत्प्रतिपक्षलक्षणे मेयत्वविशिष्टसत्प्रतिपक्षे अतिव्याप्तिवारणाय विशिष्टान्त- राघटितत्वं निवेशनीयम् । तच्च विशिष्टान्तरविषयित्वाव्यापकत्वपर्यवसितम् । स्वावच्छिन्ना- निरूपितविशिष्टविषयित्वाव्यापकप्रतिबन्धकतावच्छेदकस्वावच्छिन्ननिरूपितविषयिताकत्वं इति निष्कृष्टम् । मेयत्वविशिष्टसत्प्रतिपक्षत्वस्य स्वपदेन ग्रहणे तदवच्छिन्नानिरूपितसत्प्रतिपक्ष- विषयिताव्यापकत्वस्यैव प्रतिबन्धकतायां सत्वात् नातिव्याप्तिः। एवं च सति पूर्वोक्तातिव्याप्तिरपि न भवति । तथाहि “वह्न्यभावव्याप्यव्याप्यवान् वह्न्यभाववान्, इन्धनाभावव्याप्यव्याप्यवांश्च तादृशह्रदः इत्यादिनिश्चयानां लाघवात् एकरूपेणैव प्रतिबन्धकत्वात् । वह्न्यभाववदिन्धनाभावव्याप्यव्याप्यवत्कालीनेन्धनाभावव्याप्यव्याप्य- वत्तादृशह्रदविषयितायाः विशिष्टान्तरविषयितापदेन स्वीकर्तुं शक्यत्वात् तद्व्यापकत्वस्य वह्न्यभावव्याप्यव्याप्यवान् वह्न्यभाववान् इति निश्चयविशिष्टवह्न्यभावव्याप्यव्याप्यवांश्च तादृशह्रदः इति निश्चयीयप्रतिबन्धकतायां सत्वात् । अव्यापकत्वाभावात् तादृशप्रतिबन्धकता- मादाय नातिव्याप्तिः । शङ्का - (इतः आरभ्य बहुदूरं महान् पूर्वपक्षः प्रधानं समाधानं तु अग्रे तथापीत्यादिना भवति । एवमपि व्यापकताघटितसत्प्रतिपक्षाव्याप्तिः दुर्वारा । तत्र विशिष्टान्तरविषयितापदेन जलव्यापकवह्न्यभावकालीनजलवद्ध्रदविषयितायाः ग्रहणं सम्भवति । तद्व्यापकत्वमेव सत्प्रतिपक्षनिश्चयीयप्रतिबन्धकतायां सत्वात् अव्यापकत्वाभावात् अव्याप्तिः।
[[128]]
[[139]]
समाधानम् - तद्वारणाय विशिष्टान्तरविषयितायां प्रतिहेतुव्यापकसाध्याभावसमानाधिकरण- प्रतिहेतुविषयताविशिष्टान्यत्व, ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्वोभयाभावः निवेश्यते। कालीनत्वघटितविशिष्टविषयिता तु न तादृशोभयाभाववती तत्र उभयस्यैव सत्वात्। तथाहि कालीनत्वघटितविशिष्टविषयकनिश्चयस्य ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वात् तदवच्छेदकत्वस्य तादृशविशिष्टविषयितायां सत्वात् एकः प्रतियोगी अस्ति । एवं प्रथमप्रतियोगी अपि अस्ति तत्र प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयिताविशिष्टत्वं तादात्म्यनिरूपितत्व अन्यतरसंबन्धेन नास्ति । अतः तादृशविशिष्टान्यत्वस्यापि सत्वात् उभयाभावविरहात् विशिष्टान्तरविषयिता कालीनघटितविशिष्टविषयिता न भवति । अतः तदादाय नाव्याप्तिः । शङ्का - एवं च सति व्यतिरेकव्याप्तिघटितसत्प्रतिपक्षे मेयत्वविशिष्टे अतिव्याप्तिः । तत्र विशिष्टान्तरविषयिता केवलसत्प्रतिपक्षविषयिता ग्राह्य । परन्तु सा गृहीतुं न शक्यते । तत्र उक्तोभयाभावस्य अभावात् । प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयिता- विशिष्टान्यत्वात् ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्वस्य सत्वाच्च । विशिष्टान्तर- विषयितापदेन अन्यां विषयितामादाय तदव्यापकत्वस्य मेयत्वविशिष्टव्यतिरेकव्याप्तिघटित- सत्प्रतिपक्षनिश्चये सत्वात् अतिव्याप्तिः । समाधानम् - तद्वारणाय विशिष्टान्तरविषयितायां स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयत्वं
[[129]]
[[140]]
विशेषणं देयम् । न तु तादृशोभयाभावः । तथा च कालीनत्वघटितविशिष्टविषयितामादाय सत्प्रतिपक्षाव्याप्तिः न भवति । तत्र कालीनत्वघटितविशिष्टविषयिता विशिष्टान्तरविषयितापदेन स्वीकर्तुं न शक्यते । तस्याः सत्प्रतिपक्षविषयकत्वाव्यापकभूतकालीनत्वविषयिता- शालिज्ञानीयत्वात् । न तु तत्र तच्छून्यज्ञानीयत्वं इति नाव्याप्तिः । परन्तु “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे प्रथमकोट्युक्तातिव्याप्तिः दुर्वारा । तत्र वह्न्यभाववदिन्धना- भावव्याप्यव्याप्यवत्कालीनेन्धनाभावव्याप्यव्याप्यवत्तादृशह्रदविषयितायाः विशिष्टान्तरविषयिता- पदेन इदानीं स्वीकर्तुं न शक्यते । तस्यां विषयितायां स्वावच्छिन्नविषयकत्वाव्यापकविषयिताशून्य- ज्ञानीयत्वविरहात् । तथाहि - स्वं - वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदत्वं तदवच्छिन्नविषयक- त्वाव्यापकविषयिता नाम इन्धनाभावव्याप्यव्याप्यत्वावच्छिन्ना विषयिता तच्छालिज्ञानीयत्वमेव तत्र अस्ति इति सा विशिष्टान्तरविषयिता न भवति । किन्तु अन्या विषयिता तादृशी तदव्यापकत्वस्य वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदविषयकनिश्चये सत्वात् अतिव्याप्तिः तदवस्थैव भवति । शङ्का - उक्तातिव्याप्तिवारणाय धर्मविशिष्टान्यत्वमेव विशिष्टान्तरविषयितायां निवेश्यते । न तु स्वावच्छिन्नविषयकत्वाव्यापकविषयिताशून्यज्ञानीयत्वमपि । धर्मवैशिष्ट्यं च स्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावत्वच्छिन्नविशेष्यता- निरूपकत्वावच्छिन्नज्ञाननिष्ठावच्छेदकताकप्रतिबन्धकतावच्छेदकत्व, स्वनिष्ठावच्छेदक- ताकप्रतियोगिताकभेदवत्वोभयसंबन्धेन । स्वनिष्ठावच्छेदकता - स्वविशिष्टविषयिताविशिष्टत्व- संबन्धेन । स्ववैशिष्ट्यं - स्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभाव-
[[130]]
[[141]]
त्वावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितत्व, स्वावच्छिन्नत्वोभयसंबन्धेन। विषयितावैशिष्ट्यं - निरूपितत्व, तादात्म्यान्यतरसंबन्धेन । अत्र धर्मवैशिष्ट्यघटकद्वितीय- संबन्धस्य निर्गलितार्थस्तु प्रथमसंबन्धे स्वपदेन यः धर्मः स्वीक्रियते तद्धर्मावच्छिन्नप्रकारता- निरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावत्वावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्य- प्रकारतानिरूपिततद्धर्मावच्छिन्नविषयितायाः तादात्म्यनिरूपितत्वसंबन्धेन यदधिकरणत्वं तदन्यत्वम् इति । एवं च पूर्वोक्तातिव्याप्तिः नास्ति । तत्र वह्न्यभाववदिन्धनाभावव्याप्यव्याप्यवत्कालीनेन्ध- नाभावव्याप्यव्याप्यवत्तादृशह्रदविषयितायाः विशिष्टान्तरविषयितापदेन ग्रहणं संभवति । तत्र उक्तोभयसंबन्धेन धर्मविशिष्टत्वस्य अभावात् धर्मविशिष्टान्यत्वसत्वात् । तथाहि तत्र धर्मपदेन इन्धनाभावव्याप्यव्याप्यत्वस्य ग्रहणे तदवच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपित- वह्न्यभावत्वावच्छिन्नविशेष्यतानिरूपकम् “इन्धनाभावव्याप्यव्याप्यवान् वह्न्यभाववान्” इति ज्ञानम् । तस्मिन् ज्ञाने वह्न्यभावत्वावच्छिन्नविशेष्यतानिरूपकत्वविरहात् । अत्र व्यापकत्वं संसर्गतया भाति न तु प्रकारतया । अतः व्यापकत्वप्रकारतायाः अभावात् प्रथमसंबन्धः न भवति । अतः धर्मविशिष्टान्यत्वं विशिष्टान्तरविषयितायाम् अक्षतमिति नातिव्याप्तिः । सत्प्रतिपक्षे तावत् धर्मपदेन जलत्वस्य ग्रहणे तदवच्छिन्नप्रकारतानिरूपितव्यापकत्व- प्रकारतानिरूपितवह्न्यभावत्वावच्छिन्नविशेष्यतानिरूपक “जलव्यापको वह्न्यभावः” इति ज्ञानीय अवच्छेदकतानिरूपकप्रतिबन्धकतावच्छेदकत्वस्यैव कालीनत्वघटितविषयितायां सत्वात् धर्मविशिष्टान्यत्वाभावात् सा विशिष्टान्तरविषयितापदेन स्वीकर्तुं न शक्यते । अन्यां विषयितामादाय समन्वयः भवति ।
[[131]]
[[142]]
एवमेव वह्न्यभावाभावव्यापकीभूताभावप्रतियोगिजलवद्ध्रदे मेयत्वविशिष्टेऽपि नातिव्याप्तिः। तुल्ययुक्त्या सत्प्रतिपक्षविषयितायाः तथात्वसम्भवात् । समाधानम् - तदापि मेयत्वविशिष्टजलव्यापकवह्न्यभावसमानाधिकरणजलवद्ध्रदे अतिव्याप्तिः । तत्र “जलव्यापकः वह्न्यभावः जलवांश्च ह्रदः” “शैवालव्यापकः वह्न्यभावः शैवालवांश्च ह्रदः” इत्यादिनिश्चयानाम् एकरूपेणैव प्रतिबन्धकत्वं लाघवात् स्वीक्रियते । एवञ्च केवलसत्प्रतिपक्षविषयिता विशिष्टान्तरविषयितापदेन स्वीकर्तुं न शक्या तत्र धर्मविशिष्टत्वस्यैव सत्वात् । तथाहि- धर्मपदेन शैवालत्वस्य ग्रहणे तद्विशिष्टत्वस्यैव सत्प्रतिपक्षविषयितायाम् सत्वात्। शैवालत्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितवह्न्यभावत्वावच्छिन्नविशेष्यतानिरूपक “शैवालव्यापकः वह्न्यभावः” इति ज्ञानीयावच्छेदकताकप्रतिबन्धकतावच्छेदकत्वस्य एवं द्वितीयसंबन्धस्य च सत्वात् धर्मविशिष्टत्वमेव अस्ति न तु तदन्यत्वम् इति विशिष्टान्तरविषयिता इयं न भवति इति अतिव्याप्तिः दुर्वारा । शङ्का - पूर्वोक्तातिव्याप्तिवारणाय ज्ञानत्वविशिष्टत्वमेव विशिष्टान्तरविषयितायां निवेश्यते । वैशिष्ट्यं च मूलोक्तम् । तस्य अयमर्थः - ज्ञानत्वाश्रयनिष्ठा या किञ्चिद्धर्मावच्छिन्नप्रकारता- निरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावनिष्ठविशेष्यतानिरूपकत्वावच्छिन्नावच्छेदकता तन्निरूपकप्रतिबन्धकतावच्छेदकत्व, ज्ञानत्वाश्रययत्किञ्चिद्धर्मावच्छिन्नप्रकारतानिरूपित- व्यापकत्वप्रकारतानिरूपितसाध्याभावप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपित- तद्धर्मावच्छिन्नविषयतानिरूपितत्वतादात्म्यान्यतरवदन्यत्वोभयाभावः विशिष्टान्तरविषयितायां निवेश्यते ।
[[132]]
[[143]]
इत्थं च जलव्यापकवह्न्यभावसमानाधिकरणजलवद्ध्रदविषयिता एव तादृशी । तत्र उभयाभावप्रतियोगिनः प्रथमस्य संभवेऽपि द्वितीयं तु नास्ति । पूर्वसमाधाने एव प्रथमप्रतियोगिसत्वं निरूपितम् । तथाहि- ज्ञानत्वाश्रयविषयजलत्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारता- निरूपितवह्न्यभावत्वावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितजलत्वा- वच्छिन्नविषयतानिरूपितत्वं सत्प्रतिपक्षविषयितायाम् अस्ति इति कृत्वा तादृशनिरूपितत्व- वदन्यत्वस्य तत्र अभावात् तत्प्रयुक्तोभयाभावः अक्षतः इति सा विशिष्टान्तरविषयिता भवति । तद्व्यापकत्वमेव मेयत्वविशिष्टसत्प्रतिपक्षविषयकनिश्चये अस्ति इति कृत्वा नातिव्याप्तिः । समाधानम् - एवमपि पक्षव्याप्यवत्साध्याभावे, पक्षावृत्तित्वव्याप्यवत्साध्ये च व्यापकसामानाधि- करण्यघटिते अव्याप्तिः तदवस्थैव । तत्र विशिष्टान्तरविषयितायाः उक्तोभयाभाववत्वात् तद्व्यापकत्वस्यैव एतज्ज्ञानीयप्रतिबन्धकतायां सत्वात् अव्यापकत्वाभावात् अव्याप्तिः । यदि तद्वारणाय पूर्वोक्तानुगमे एव पूर्वोक्तसंबन्धसमशीलसंबन्धान्तरावच्छिन्न स्वनिष्ठावच्छेदकताक- प्रतियोगिताकभेदकूटवत्वसंबन्धेन ज्ञानत्ववैशिष्ट्यं निवेशनीयम् इत्युच्यते तदा दोषः नास्ति खलु इति चेत् । एवमपि जलव्यापकवह्न्यभावसमानाधिकरणजलवद्ध्रदे सत्प्रतिपक्षे शैवालव्यापकवह्न्यभावसमानाधिकरणशैवालवद्ध्रदविषयितामादाय अव्याप्तिः दुर्वारा । “जलव्यापको वह्न्यभावः” इत्याकारकज्ञाननिष्ठावच्छेदकताकप्रतिबन्धकतावच्छेदकत्वं तस्यां विषयितायां अस्ति चेदपि द्वितीयं नास्ति । ज्ञानत्वाश्रयविषयजलत्वावच्छिन्नप्रकारतेत्यादि- निरूपितवह्न्यभावप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितजलत्वावच्छिन्नप्रकारता-
[[133]]
[[144]]
निरूपितत्वस्य तत्र अभावात् उभयाभावः अक्षतः। अतः तादृश उभयाभाववद्विशिष्टान्तर- विषयिताव्यापकत्वस्यैव व्यापकताघटितसत्प्रतिपक्षविषयकनिश्चये सत्वात् अव्याप्तिः दुर्वारा। अतः तद्वारणाय विशिष्टान्तरविषयितायां पूर्वकल्पान् सर्वान् परित्यज्य स्वावच्छिन्न- विषयकत्वाव्यापकविषयताशून्यज्ञानीयत्वमेव निवेशनीयम् । एवं पूर्वोक्ताव्याप्तिः नास्ति । शैवालविषयितायाः सत्प्रतिपक्षविषयित्वाव्यापकत्वेन शैवालव्यापकवह्न्यभावसमानाधि- करणशैवालवद्ध्रदविषयितायाः अव्यापकतादृशविषयिताशालिज्ञानीयत्वात् तच्छून्यज्ञानीयत्वा- भावात् नाव्याप्तिः । इति यद्दपि इत्यारभ्य उक्तः पूर्वपक्षः सम्पन्नः । इदानीं “तथापि” इत्यादिना तस्य समाधानम् उच्यते । अयमाशयः - विशिष्टान्तरविषयितायां स्वावच्छिन्नविषयकत्वाव्यापकविषयिताशून्यज्ञानीयत्वं न निवेश्यते । किन्तु तादृशविषयितावत्वसंबन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभाववज्ज्ञानीय- त्वमेव निवेश्यते । अस्मिन् कल्पे अव्यापकविषयितायाः अभावप्रतियोगित्वं नास्ति किन्तु प्रतियोगितावच्छेदकसंबन्धत्वम् इति ज्ञेयम् । एवं स्वावच्छिन्ननिरूपकताकविषयितायां धर्मवैशिष्ट्यं देयम् । वैशिष्ट्यं मूलोक्तम् एव । तथा च स्वावच्छिन्ननिरूपकताका या किञ्चिद्धर्मा- वच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावप्रकारतानिरूपित-सामानाधि- करण्यप्रकारतानिरूपिततद्धर्मावच्छिन्नप्रकारतानिरूपितत्वतादात्म्य अन्यतरत्ववद्विषयता (विशेष्यता) निरूपितत्वं स्वावच्छिन्ननिरूपकताकविषयितायां निवेश्यते इति सारम् ।
[[134]]
[[145]]
एवञ्च पूर्वोक्ताव्याप्त्यतिव्याप्तीनां वारणं सम्भवति । वह्न्यभावव्याप्यव्याप्यवत्तादृश- ह्रदत्वावच्छिन्ननिरूपकताकविषयितायां वह्न्यभावव्याप्यव्याप्यत्वरूपकिञ्चिद्धर्मावच्छिन्नप्रकारता- निरूपितव्यापकत्वप्रकारतानिरूपितवह्न्यभावत्वावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्यप्रकारता- निरूपिततद्धर्मावच्छिन्नप्रकारतानरिूपितह्रदत्वावच्छिन्नविषयतानिरूपितत्वविरहात् तत्र तद्धर्म- वैशिष्ट्यं नास्ति । अतः विशिष्टान्तरविषयितापदेन वह्न्यभाववदिन्धनाभावव्याप्यव्याप्य- वत्कालीनेन्धनाभावव्याप्यव्याप्यवत्तादृशविषयिता धर्तुं शक्यते । तद्व्यापकत्वस्य प्रतिबन्धकतायां सत्वात् नातिव्याप्तिः । एवं सत्प्रतिपक्षे अव्याप्तिरपि नास्ति । जलव्यापकवह्न्यभावसमानाधिकरणजलवद्ध्रद- त्वावच्छिन्ननिरूपकताकविषयितायां धर्मवैशिष्ट्यम् अस्ति । धर्मः - जलत्वं, तदवच्छिन्न- प्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितवह्न्यभावप्रकारतानिरूपितसामानाधिकरण्य- प्रकारतानिरूपितजलत्वावच्छिन्नप्रकारतानिरूपितह्रदविशेष्यतानिरूपितत्वात् । अतः तादृशह्रदविषयित्वाव्यापकविषयिताशून्यं ज्ञानं “जलवान् ह्रदः” इति ज्ञानं तदीया या जलवद्ध्रदविषयिता सा विशिष्टान्तरविषयितापदेन स्वीकर्तुं शक्यते तदव्यापकत्वस्य सत्प्रतिपक्षनिश्चयीयप्रतिबन्धकतायां सत्वान्नाव्याप्तिः । शङ्का - एवमपि ह्रदो वह्निमान् इत्यत्र व्यतिरेकव्याप्तिघटितसत्प्रतिपक्षे अव्याप्तिः दुर्वारा । तत्र वह्न्यभावाभावव्यापकीभूताभावप्रतियोगिजलवद्ध्रदत्वावच्छिन्ननिरूपकताकविषयितायां धर्मविशिष्टत्वं न प्रसिध्यति । अतः अप्रसिध्या तत्र अव्याप्तिः। तद्वारणाय धर्मवैशिष्ट्यम् अन्यतरसंबन्धेनैव वक्तव्यम् । तथा च पूर्वोक्तसंबन्ध, साध्याभावाभावव्यापकीभूताभावप्रति- योगित्वावच्छिन्नस्वावच्छिन्नविषयितानिरूपितत्व, तादात्म्य अन्यतरत्ववद्विषयतानिरूपित-
[[135]]
[[146]]
त्वान्यतरसंबन्धेन इति पर्यवस्यति । तथा च पूर्वोक्ताव्याप्तिः नास्ति । तत्र वह्न्यभावाभावव्यापकी- भूताभावप्रतियोगिजलवद्ध्रदविषयिता धर्मविशिष्टा भवति अन्यतरघटकद्वितीयसंबन्धेन जलत्वरूपतादृशधर्मस्य तत्र सत्वात् । अतः तादृशविषयित्वाव्यापकविषयिताशून्यज्ञानं “जलवान् ह्रदः” इति ज्ञानम्, तदीयजलवद्ध्रदविषयिता विशिष्टान्तरविषयिता भवति । तदव्यापकत्वस्य सत्प्रतिपक्षविषयकनिश्चयनिष्ठप्रतिबन्धकतायां सत्वात् लक्षणसमन्वयः नाव्याप्तिः । परन्तु अष्टमकोट्युक्तवह्निधूमोभयसाध्यकस्थलीयमहाविशिष्टे अतिव्याप्तिः तदस्वथैव भवति । तथाहि- जलव्यापकधूमाभावसमानाधिकरणजलव्यापकवह्न्यभावव्याप्य- समानाधिकरणजलव्यापकधूमाभावसमानाधिकरणजलवत्तादृशह्रदत्वावच्छिन्ननिरूपकताक- विषयितायां धर्मवैशिष्ट्यम् अस्ति । धर्मः - जलत्वं तदवच्छिन्नप्रकारतानिरूपितव्यापकत्व- प्रकारतानिरूपितसाध्याभावरूपधूमाभावत्वावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्य- प्रकारतानिरूपितजलत्वावच्छिन्नप्रकारतानिरूपितत्ववद्विषयतानिरूपितत्वात् । अतः तादृशविशिष्टविषयित्वाव्यापकविषयिताशून्यं ज्ञानं “जलवान् ह्रदः” इति ज्ञानं तज्ज्ञानीय जलवद्ध्रदविषयित्वाव्यापकत्वस्य महाविशिष्टविषयकनिश्चयीयप्रतिबन्धकतायां सत्वात् अतिव्याप्तिः । अवान्तरशङ्का - एतदतिव्याप्तिवारणाय स्वावच्छिन्ननिरूपकताकविषयितायां प्रागुक्तस्वनिष्ठावच्छेद- कताकप्रतियोगिताकभेदवत्व, स्वविशिष्टपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपकत्वोभया- द्दन्यतमसंबन्धेन धर्मविशिष्टज्ञानीयत्वं निवेश्यते । अत्र १०कोटिवत् संबन्धद्वयघटितसंबन्ध- चतुष्टयान्यतमसंबन्धेन वैशिष्ट्यं वक्तव्यम् अन्यथा तत्कोट्युक्तव्यतिरेकव्याप्तिघटित-
[[136]]
[[147]]
सत्प्रतिपक्षाव्याप्तिविपरीतसत्प्रतिपक्षाव्याप्ति, वह्न्यभावव्याप्यव्याप्यवत्ततादृशह्रदातिव्याप्तीनां वारणं अशक्यं स्यात् । एवञ्च पूर्वोक्तातिव्याप्तिः नास्ति तत्र जलप्रकारतानिरूपितेत्यादि परम्परया निरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशलिनिश्चयत्वाव्यापकीभूतवह्न्यभावव्याप्यव्याप्य जलव्यापकवह्न्यभावसमानाधिकरणजलवत्तादृशह्रदत्वावच्छिन्नविषयिताशालित्वात् विशिष्टान्तरविषयितायाः तच्छून्यत्वाभावात् स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वसम्बन्धेन जलत्वविशिष्टः न सः निश्चयः । अतः स्वावच्छिन्ननिरूपकताकविषयितायां धर्मविशिष्टज्ञानीय- त्वाप्रसिध्या नातिव्याप्तिः । तत्समाधानम् - एवमपि सर्वं गगनवत् इत्यत्र जलस्य प्रतिहेतुत्वे जलव्यापकगगनाभावसमानाधि- करणजलवद्ध्रदे सत्प्रतिपक्षे अव्याप्तिः तदवस्था । अत्र स्वावच्छिन्ननिरूपकताकविषयिता इत्यनेन जलव्यापकगगनाभावसमानाधिकरणजलवद्ध्रदविषयिता स्वीकर्तुं न शक्यते । तत्र जलत्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितगगनाभावप्रकारतानिरूपित- सामानाधिकरण्यप्रकारतानिरूपितजलप्रकारतानिरूपितसर्वत्वावच्छिन्नविशेष्यताशालिनिश्चय- त्वाव्यापकघटविषयिताशालिज्ञानीयत्वमेव अस्ति । न तु तादृशाव्यापकविषयताशून्यज्ञानीयत्वम् इति स्वावच्छिन्ननिरूपकताकविषयितायाः अप्रसिध्या अव्याप्तिः । समाधानम् - विशिष्टान्तरविषयितायां स्वावच्छिन्ननिरूपकताकविषयकत्वाव्यापकविषयिता- शून्यज्ञानीयत्वं निवेशितम् । तत्र स्वावच्छिन्ननिरूपकताकविषयितायां प्रकारताविशिष्ट- ज्ञानीयत्वमेव निवेश्यते । वैशिष्ट्यं मूलोक्तम् । तथा च किञ्चित्प्रकारतावच्छेदकावच्छिन्नप्रकारता-
[[137]]
[[148]]
निरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपित- तत्प्रकारतावच्छेदकावच्छिन्नप्रकारतानिरूपिता या तादृशप्रकारतानिरूपितविशेष्यता- वच्छेदकावच्छिन्नविशेष्यता तन्निरूपितविषयिताशालिनिश्चयत्वाव्यापकीभूतविषयिताशून्यत्वे सति तत्प्रकारतावच्छेदकावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभाव- प्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपिततत्प्रकारतावच्छेदकावच्छिन्ना या तत्प्रकारतानिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यता तन्निरूपितविषयिताशालित्वं विशिष्टान्तरविषयिताघटकप्रकारताविशिष्टज्ञानविशेषणम् । एवं च “सर्वं गगनवत्” इत्यत्र न जलव्यापकगगनाभावसमानाधिकरणजलवद्ध्रदे सत्प्रतिपक्षे अव्याप्तिः । तत्र प्रकारतापदेन “जलवान् घटः” इति ज्ञानीयजलत्वावच्छिन्नप्रकारता गृह्यते । तदवच्छेदकावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितगगनाभाव- प्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपिततत्प्रकारतावच्छेदकजलत्वावच्छिन्न- प्रकारतानिरूपिता या तादृशजलप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यता तन्निरूपितविषयिताशालिनिश्चयत्वाव्यापकविषयिताशून्यत्वस्य एवं तादृशविशेष्यता- निरूपकत्वस्य च “जलव्यापकगगनाभावसमानाधिकरणजलवान् घटः” इति ज्ञाने सत्वात् तादृशप्रकारताविशिष्टं ज्ञानं इदं भवति । अतः एतज्ज्ञानीयत्वस्य स्वावच्छिन्ननिरूपकताक- विषयितायां सत्वात् तदव्यापकविषयितावत्वसंबन्धेन स्वनिष्ठप्रतियोगिताकाभाववज्ज्ञानीयत्वस्य विशिष्टान्तरविषयितायां “जलवान् घटः” इत्याकारकज्ञानीयायां जलवद्घटविषयितायां सत्वात् तदव्यापकत्वस्य सत्प्रतिपक्षविषयकनिश्चयनिष्ठप्रतिबन्धकतायां अक्षतत्वात् लक्षणसमन्वयः नाव्याप्तिः च ।
[[138]]
[[149]]
अस्मिन् परिष्कारेऽपि विपरीतसत्प्रतिपक्षादौ अव्याप्तिवारणाय तत्तदुभयचतुष्टयान्यतम- संबन्धेनैव प्रकारताविशिष्टत्वं वक्तव्यम् । अतः एतादृशपरिष्कारेणैव प्रथमकोट्युक्तातिव्याप्तेरपि वारणं कर्तुं शक्यते ।
१३
त्रयोदशकोटिः॥
एवमपि सर्वं गगनवत् इत्यत्रैव घटव्याप्यवद्गगनाभावे अव्याप्तिः । अयं च सत्प्रतिपक्षः व्यापकसामानाधिकरण्यघटितः ग्राह्यः । अत्र गगनप्रतियोगिकत्वं प्रतिहेतुः । “सर्वं गगनवत्” इत्याकारकबुद्धिं प्रति “गगनाभाववान् घटः” इति बुद्धिवत् आधेयतासंबन्धेन “घटवान् गगनाभावः” इति निश्चयस्यापि प्रतिबन्धकत्वं इष्टं अतः सोऽपि बाधः भवति । अतः तद्व्याप्यस्य गगनप्रतियोगिकत्वव्यापकघटसमानाधिकरणगगनप्रतियोगिकत्ववद्गगनाभावस्य सत्प्रतिपक्षत्वं इष्टम् । पूर्वोक्तरीत्या परिष्कारे तत्र अव्याप्तिः भवति । तथाहि “गगनप्रतियोगिकत्वव्यापक- घटसमानाधिकरणगगनप्रतियोगिकत्ववान् गगनाभावः” इत्यत्र प्रतिहेतुव्यापकत्वं साध्याभावे नावगाह्यते । प्रतिहेतुव्यापकत्वप्रकारतानिरूपितसाध्याभावनिरूपितेत्यादिसंबन्ध- घटितसंबन्धचतुष्टयमपि अत्र न भवति इति कृत्वा स्वावच्छिन्ननिरूपकताकप्रकारता- विशिष्टज्ञानीयविषयिता एव अप्रसिद्धा । अतः अव्याप्तिः । शङ्का - पूर्वं प्रकारताविशिष्टज्ञानीयत्वम् इत्यत्र वैशिष्ट्यं संबन्धचतुष्टयान्यतमसंबन्धेन इत्युक्तम्। इदानीं तत्र अन्यतमसंबन्धघटकतया स्वविशिष्टसाध्याभावत्वावच्छिन्नविशेष्यतानिरूपकत्व, स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वोभयसंबन्धोऽपि निवेश्यते । अनुगमप्रकारः मूले ग्राह्यः।
[[139]]
[[150]]
तथा च किञ्चित्प्रकारतावच्छेदकावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपिता या तत्प्रकारतानिरूपितविशेष्यतावच्छेदकावच्छिन्नप्रकारता, तन्निरूपितसामानाधिकरण्यप्रकारता- निरूपिता या तत्प्रकारतावच्छेदकावच्छिन्नप्रकारता तन्निरूपितसाध्याभावत्वावच्छिन्न- विशेष्यतानिरूपकनिश्चयत्वाव्यापकीभूतविषयिताशून्यत्वं प्रकारताविशिष्टज्ञानं इत्यत्र ज्ञाने विशेषणम् प्रकारतावैशिष्ट्यस्यैव अयं अर्थः । एवं च नाव्याप्तिः । किञ्चित्प्रकारतापदेन “घटः गगनप्रतियोगिकत्वान्” (अत्र घटे गगनप्रतियोगिकत्वं व्यापकतासंबन्धेन अस्ति यत्र यत्र गगनप्रतियोगिकत्वं गगनाभावे तत्र आधेयतासंबन्धेन घटस्य सत्वात् गगनप्रतियोगिकत्व- व्यापकत्वं घटे) इति ज्ञानीय गगनप्रतियोगिकत्वनिष्ठप्रकारता गृह्यते तन्निरूपितव्यापकत्व- प्रकारतानिरूपिता या तत्प्रकारतानिरूपितघटत्वावच्छिन्नप्रकारता तन्निरूपितसामानाधिकरण्य- प्रकारतानिरूपिता या तत्प्रकारतावच्छेदकगगनप्रतियोगिकत्वत्वावच्छिन्नप्रकारता तन्निरूपितगगनाभावत्वावच्छिन्नविशेष्यताकनिश्चयत्वाव्यापकविषयिताशून्यत्वस्य, एवं तादृशविशेष्यतानिरूपकत्वस्य च गगनप्रतियोगिकत्वव्यापकघटसमानाधिकरण- गगनप्रतियोगिकत्ववान् गगनाभावः इति निश्चये सत्वात् तदीयविषयिता स्वावच्छिन्ननिरूपक- ताकविषयितापदेन स्वीकर्तुं शक्यते । तदव्यापकविषयितावत्वसंबन्धेन स्वनिष्ठाभाववज्ज्ञानं च एकदेशविषयकज्ञानं तन्निरूपितत्वं एकदेशविषयितायां तदव्यापकत्वं सत्प्रतिपक्षनिश्चयनिष्ठ- प्रतिबन्धकतायां अक्षतमिति नाव्याप्तिः। समाधानम् - तथापि “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनवह्न्यभावः तादृशवह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशवह्न्यभावे अतिव्याप्तिः दुर्वारा । तत्रापि किञ्चित्
[[140]]
[[151]]
प्रकारतापदेन “ह्रदादिवृत्तित्ववत् वह्न्यभावव्याप्यं” इत्याकारकज्ञानीयह्रदवृत्तित्वप्रकारता गृह्यते। ह्रदवृत्तित्वमेव प्रकृते प्रतिहेतुः । तथा च तत्प्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितवह्न्य- भावव्याप्यत्वावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितह्रदवृत्तित्वप्रकारता- निरूपिततादृशवह्न्यभावत्वावच्छिन्नविशेष्यतानिरूपकनिश्चयत्वाव्यापकविषयिताशून्यत्व, तादृशविशेष्यतानिरूपकत्वयोः “ह्रदवृत्तित्वव्यापकवह्न्यभावव्याप्यसमानाधिकरणह्रदवृत्तित्ववान् तादृशवह्न्यभावः” इत्याकारकज्ञाने सत्वात् । स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्व, स्वविशिष्टसाध्याभावविशेष्यतानिरूपकत्वोभयसंबन्धेन प्रकारताविशिष्टज्ञानीयविषयितापदेन तादृशवह्न्यभावविषयिता गृहीतुं शक्यते तदव्यापकविषयिताशून्यज्ञानीयविषयिता (विशिष्टान्तरविषयिता) एकदेशविषयिता तदव्यापकत्वस्य प्रतिबन्धकतायां सत्वात् अतिव्याप्तिः।
१४
चतुर्दशकोटिः॥
एतद्दोषवारणाय पक्षतावच्छेदकावच्छिन्नविषयकनिश्चयत्वाव्यापकत्वं सत्यन्तदल- घटकप्रतिबन्धकतायां निवेश्यते । तथा च पक्षतावच्छेदकावच्छिन्नविषयकनिश्चयनिष्ठभेदप्रति- योगितावच्छेदकत्वं प्रतिबन्धकताविशेषणम् । भेदप्रतियोगितावच्छेदकता - स्वविशिष्ट- विषयितासंबन्धेन । वैशिष्ट्यं मूलोक्तम् । अस्यार्थस्तु प्रतिबन्धकतानवच्छेदकत्व, प्रतिबन्धकता- वच्छेदकतानवच्छेदकत्वोभयवद्भिन्ना भवति सा विषयिता इति । ह्रदः वह्निमान् इत्यत्र समन्वयः भवति व्यापकताघटितसत्प्रतिपक्षे । तत्र पक्षतावच्छेदकं ह्रदत्वं, तदवच्छिन्नविषयकनिश्चयः “ह्रदः” इत्याकारकनिश्चयः तत्र स्वविशिष्टविषयिता नास्ति । तथाहि स्वपदेन “जलव्यापकः वह्न्यभावः” इति निश्चयविशिष्टजलवांश्च ह्रदः इति निश्चयीयप्रतिबन्धकता गृह्यते तदवच्छेदकत्व,
[[141]]
[[152]]
तदवच्छेदकतावच्छेदकत्वस्यैव जलव्यापकवह्न्यभावसमानाधिकरणजलवद्ध्रदविषयितायां सत्वात् प्रतिबन्धकतानवच्छेदकत्व, प्रतिबन्धकतावच्छेदकतानवच्छेदकत्वोभयवद्भिन्नैव सा। अतः स्वविशिष्टविषयितापदेन सा स्वीकर्तुं शक्यते । अस्यां विषयितायां जलव्यापक- वह्न्यभावस्य प्रविष्टत्वात् प्रतिबन्धकतावच्छेदकतावच्छेदकत्वं ज्ञेयम् । एवं च एषा विषयिता “ह्रदः” इति निश्चये नास्ति इति कृत्वा तादृशप्रतिबन्धकताविशिष्टविषयितावत्वसंबन्धेन प्रतिबन्धकता तस्मिन् निश्चये नास्ति किन्तु प्रतिबन्धकतावद्भेदः एव अस्ति । अतः तादृशभेद- प्रतियोगितावच्छेदकत्वरूपपक्षतावच्छेदकवैशिष्ट्यस्य प्रतिबन्धकतायां सत्वात् समन्वयः । एवं पूर्वोक्तमहाविशिष्टेऽपि नातिव्याप्तिः । तत्र पक्षतावच्छेदकवह्न्यभाववद्- वह्न्यभावव्याप्यव्याप्यवत्कालीनवह्न्यभावत्वम् । तद्वैशिष्ट्यं सत्यन्तदलघटकप्रतिबन्धकतायां नास्ति । तत्र सत्यन्तदले “वह्न्यभाववान् वह्न्यभावव्याप्यव्याप्यवान् इति निश्चयविशिष्टवह्न्य- भावव्याप्यव्याप्यवांश्च तादृशवह्न्यभावः इति निश्चयीयप्रतिबन्धकताप्रविष्टा तदवच्छेदकत्वं वह्न्यभावव्याप्यव्याप्यवत्तादृशवह्न्यभावविषयितायाम् अस्ति । तदवच्छेदकतावच्छेदकत्वं वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवद्विषयितायां अस्ति । एवं च वह्न्यभाववद्वह्न्यभावव्याप्य- व्याप्यवत्कालीनवह्न्यभावविषयितायां प्रतिबन्धतावच्छेदकतावच्छेदकत्वसत्वात् तदनवच्छेदकत्वाभावात् इयं विषयिता तादृशोभयवद्भिन्ना भवति । तच्छालित्वस्यैव पक्षनिश्चये सत्वात् प्रतिबन्धकतायां पक्षनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वविरहात् नातिव्याप्तिः ।
१५
पञ्चदशकोटिः॥
एवमपि जलव्यापकवह्न्यभावकालीनह्रदः वह्निमान् इत्यत्र जलव्यापकवह्न्यभाव- समानाधिकरणजलवत्तादृशह्रदे अव्याप्तिः । तत्र सत्यन्तदले जलव्यापकः वह्न्यभावः इति
[[142]]
[[153]]
निश्चयविशिष्टजलवान् तादृशह्रदः इति निश्चयीयप्रतिबन्धकता प्रविष्टा । लक्षणे प्रतिबन्धकता- विशिष्टविषयितापदेन जलव्यापकवह्न्यभावकालीनह्रदविषयिता गृह्यते । इयं विषयिताप्रतिबन्धकताविशिष्टा । कथम् इति चेत् अत्र जलव्यापकवह्न्यभावस्य घटकत्वात् प्रतिबन्धकतावच्छेदकतावच्छेदकत्वं अस्याः सम्भवति । अतः तदनवच्छेदकत्वाभावात् उभयवद्भिन्नत्वं अस्यां अस्ति । इयं च विषयिता पक्षविषयकनिश्चयेऽपि अस्ति । अतः पक्षविषयकनिश्चयनिष्ठभेदः नाम उक्तसंबन्धेन प्रतिबन्धकतावद्भेदः न भवति । अतः भेदप्रति- योगितावच्छेदकत्वरूप अव्यापकत्वस्य प्रतिबन्धकतायां विरहात् अव्याप्तिः ।
१६
षोडशकोटिः॥
पूर्वविशेषणं परित्यज्यप्रतिबन्धकतायां साध्यतावच्छेदकवैशिष्ट्यं निवेश्यते । वैशिष्ट्यं मूलोक्तम् । अर्थात् साध्यतावच्छेदकविशिष्टरूपवैशिष्ट्यं प्रतिबन्धकतायां निवेश्यते । साध्यतावच्छेदकवैशिष्ट्यं व्यापकत्वरूपं रूपे । अर्थात् साध्यतावच्छेदकावच्छिन्नप्रकारता- निरूपितकिञ्चिद्धर्मावच्छिन्नविशेष्यताशाल्यनुमितौ यद्धर्मव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यत्वं तद्धर्मावच्छिन्नप्रकारताव्यापकत्वं प्रतिबन्धकतायां निवेश्यते इति सारम् । धर्मव्यापकत्व- प्रकारत्वव्यापकत्वयोः रूपं अनुगमोक्तम् । तथा च न पूर्वोक्ताव्याप्तिः । तत्र साध्यं - वह्निः, साध्यतावच्छेदकं वह्नित्वम् । तदवच्छिन्नप्रकारतानिरूपित- किञ्चिद्धर्मपदग्राह्यजलव्यापकवह्न्यभावकालीनह्रदत्वावच्छिन्नविषयताशाल्यनुमितिः “तादृशह्रदः वह्निमान्” इत्याकारकानुमितिः । तत्र रूपपदग्राह्यजलव्यापकवह्न्यभावसमानाधिकरणजलत्व- व्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यता अस्ति । तथाहि तादृशजलत्वावच्छिन्नप्रकारता- निरूपितविशेष्यतानिरूपकनिश्चये वह्न्यनुमितिप्रतिबन्धकत्वस्य सत्वात् । प्रतिबन्धकतायाः
[[143]]
[[154]]
धर्मव्यापकत्वं अक्षतम् । एवं तादृशप्रतिबन्धकतानिरूपितप्रतिबध्यतायाः साध्यतावच्छेदक- विशिष्टानुमितौ सत्वात् साध्यतावच्छेदकव्यापकं भवति तद्रूपं तदवच्छिन्नप्रकारताव्यापकत्वस्य सत्यन्तदलघटकप्रतिबन्धकतायां पूर्वोक्तरीत्या सत्वात् लक्षणसमन्वयः । अत्र विशेष्यतायां पक्षतावच्छेदकावच्छिन्नत्वं अनिवेश्य किञ्चिद्धर्मावच्छिन्नत्वनिवेशस्य तात्पर्यं तु अनुमितिसामान्ये स्वसमानधर्मितावच्छेदककनिश्चयप्रतिबध्यत्वसम्पादनाय । तथा च “वह्निमान्, ह्रदः” “वह्निमान् जलव्यापकवह्न्यभावकालीनह्रदः” इत्यादि अनुमिति- सामान्यस्यैव धर्मपदग्राह्यजलव्यापकवह्न्यभावसमानाधिकरणजलत्वावच्छिन्नप्रकारताशालि- स्वसमानधर्मितावच्छेदककनिश्चयप्रतिबध्यत्वात् लक्षणसमन्वयः नोक्तदोषः च। शङ्का - अस्मिन् कल्पे वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान् इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे महाविशिष्टे अतिव्याप्तिः । तत्र सत्यन्तदलघटक- प्रतिबन्धकतायां साध्यतावच्छेदकविशिष्टरूपवैशिष्ट्यं सम्भवति । तथाहि अत्र रूपपदेन वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवद्वृत्तिवह्न्यभावव्याप्यव्याप्यत्वं गृह्यते तदवच्छिन्नप्रकारता- शालिनिश्चयसामान्यस्य वह्नित्वावच्छिन्नप्रकारताशाल्यनुमितिप्रतिबन्धकत्वं अस्त्येव । तत्र “वह्निमान् ह्रदः” इत्यादिवह्निप्रकारकानुमितिं प्रति “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवद्वृत्ति- वह्न्यभावव्याप्यव्याप्यवान् ह्रदः” इत्यादि निश्चयस्य वह्न्यभाववान् वह्न्यभावव्याप्यव्याप्यवान् इति निश्चयविशिष्टवह्न्यभावव्याप्यव्याव्यवांश्च ह्रदः” इति निश्चयत्वेन प्रतिबन्धकत्वात् । एवं च सत्यन्तदलघटकप्रतिबन्धकता ईदृशनिश्चयविशिष्टनिश्चयत्वावच्छिन्नैव । तत्र वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवद्वृत्तिवह्न्यभावव्याप्यव्याप्यत्वरूपधर्मावच्छिन्नप्रकारता- व्यापकत्वस्य सत्वात् अतिव्याप्तिः ।
[[144]]
[[155]]
समाधानम् - एत्तद्दोषवारणाय साध्यतावच्छेदकविशिष्टरूपे लक्ष्यतावच्छेदकविशिष्टत्वं निवेशनीयम्। अर्थात् लक्ष्यतावच्छेदकावच्छिन्नविषयकत्वाव्यापकविषयिताशून्यज्ञानविषयतावच्छेदकत्वं रूपे विशेषणं देयम् । मूलोक्तानुगमे स्वविशिष्टसाध्यतावच्छेदकविशिष्टेत्यत्र स्ववैशिष्ट्यं साध्यतावच्छेदकविशिष्टरूपे न तु साध्यतावच्छेदके इति ज्ञेयम् । एवं च नोक्तमहाविशिष्टे- ऽतिव्याप्तिः। तत्र रूपपदेन वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवद्वृत्तिवह्न्यभावव्याप्यव्याप्यत्वं गृहीतम्। तदवच्छिन्नप्रकारताशालिज्ञानं “तादृशवह्न्यभावव्याप्यव्याप्यवान् ह्रदः” इति ज्ञानम्। तस्य च लक्ष्यतावच्छेदकावच्छिन्नविषयकत्वाव्यापकविषयिताशून्यत्वं नास्ति । लक्ष्यता- वच्छेदकीभूतवह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदत्वावच्छिन्नविषयकत्वाव्यापकवृत्तित्वविषयिता- शालित्वात् तस्य । अतः नोक्तातिव्याप्तिः । अत्र यः अनुगमः उक्तः तत्र प्रथमसंबन्धेन यथाश्रुतमूललक्षणस्य लाभः । द्वितीयसंबन्धेन प्रकृतपरिष्कारसहित १६कोटिपरिष्कारस्य लाभः । शङ्का - एवमपि व्यापकताघटितसत्प्रतिपक्षाव्याप्तिः दुर्वारा । तत्र साध्यतावच्छेदकावच्छिन्न- प्रकारताशाल्यनुमितिसामान्ये “वह्निमान् जलव्यापकवह्न्यभावसमानाधिकरणजलाभाववान्” इत्याकारकतादृशजलाभाववत्पक्षकानुमितिरपि अन्तर्गता । तत्र रूपपदग्राह्यजलव्यापकवह्न्य- भावसमानाधिकरणजलत्वावच्छिन्नप्रकारतानिरूपितजलव्यापकवह्न्यभावसमानाधिकरण- जलभाववत्वावच्छिन्नविशेष्यताशालिनिश्चयप्रतिबध्यत्वविरहात् । “जलव्यापकवह्न्यभाव- समानाधिकरणजलवान्, जलव्यापकवह्न्यभावसमानाधिकरणजलाभाववान्” इत्याकारक-
[[145]]
[[156]]
निश्चयस्य आहार्यत्वेन अप्रतिबन्धकत्वात् । तस्मात् साध्यतावच्छेदकवैशिष्ट्यं रूपे नास्ति इति अव्याप्तिः । समाधानम् - अत्र अनुमितिः साध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितनिरवच्छिन्नावच्छेदकताक- विशेष्यतानिरूपिका ग्राह्या । अर्थात् विशेष्यतावच्छेदकता निरवच्छिन्ना भवेत् । एवं च नाव्याप्तिः। “जलव्यापकवह्न्यभावसमानाधिकरणजलभाववान्, वह्निमान्” इत्यनुमितिनिरूपिततादृश- जलाभाववन्निष्ठविशेष्यतानिरूपितजलाभावनिष्ठविशेष्यतावच्छेदकता तादृशजलाभाव- त्वावच्छिन्ना । न तु निरवच्छिन्ना । अतः तादृशनिरवच्छिन्नावच्छेदकताकविशेष्यता- निरूपकानुमितिः अन्या एव । तत्र जलव्यापकवह्न्यभावसमानाधिकरणजलत्वावच्छिन्न- प्रकारताशालिनिश्चयप्रतिबध्यत्वसत्वात् समन्वयः नाव्याप्तिः ।
१७
सप्तदशकोटिः॥
एवमपि पक्षनिष्ठसाध्याभावव्याप्ये विपरीतसत्प्रतिपक्षे एवं आधेयतासंबन्धेन पक्षव्याप्यवत्साध्याभावे च अव्याप्तिः दुर्वारा । “पक्षः साध्यवान्” इत्याकारकानुमितिं प्रति आध्येतासंबन्धेन पक्षवान् साध्याभावः इति निश्चयस्य प्रतिबन्धकत्वं अनुभवबलात् अङ्गीक्रियते। एवं आधेयतासंबन्धेन पक्षव्याप्यवान् साध्याभावः इति निश्चयस्यापि प्रतिबन्धकत्वं स्वीकर्तव्यम्। एवञ्च पक्षव्याप्यवत्साध्याभावस्य सत्प्रतिपक्षत्वम् इष्टम् । एवं विपरीतसत्प्रतिपक्षेऽपि अव्याप्तिः। तथाहि वह्निप्रकारकानुमितिसामान्ये “जलं वह्निमत्” इत्याकारकानुमिरिति अन्तर्गता तत्र रूपपदग्राह्यह्रदवृत्तित्वप्रकारक “ह्रदवृत्तिजलं” इत्याकारकनिश्चयप्रतिबध्यत्वविरहात् साध्यतावच्छेदकवैशिष्ट्यं रूपे नास्ति इति अव्याप्तिः । एवं वह्निसाध्यकानुमितिसामान्यान्तर्गत
[[146]]
[[157]]
“जलव्याप्यवान् वह्न्यभावः” इत्याकारकानुमितौ रूपपदग्राह्यजलव्याप्यत्वावच्छिन्न- प्रकारतानिरूपितजलविशेष्यताकानुमितिप्रतिबध्यत्वाभावात् साध्यतावच्छेदकविशिष्टत्वस्य रूपे अभावात् अव्याप्तिः । शङ्का - एतद्दोषवारणाय साध्यतावच्छेदकरूपविशिष्टत्वं इत्यत्र वैशिष्ट्यं - स्वावच्छिन्नप्रकारता- विशिष्टत्वस्वावच्छिन्नविशेष्यताविशिष्टत्वान्यतरसंबन्धेन । प्रथमसंबन्धः पूर्वकोट्युक्त एव । द्वितीयस्तु नूतनः । अनुगमस्तु मूलोक्त, द्रष्टव्यः । अस्य परिष्कारस्य सारस्तु पूर्वं प्रतिबन्धकतायां रूपावच्छिन्नप्रकारताव्यापकत्वमेव निवेशितम् । इदानीं पूर्वोक्ताव्याप्तिवारणाय रूपावच्छिन्न- प्रकारताव्यापकत्वरूपावच्छिन्नविशेष्यताव्यापकत्व एतदन्यतरत्वं प्रतिबन्धकतायां निवेश्यते। एवं साध्याभावप्रकारकनिश्चयीयप्रतिबन्धकतासङ्ग्रहाय प्रथमसंबन्धः । साध्याभावतद्व्याप्य- विशेष्यकनिश्चयीयप्रतिबन्धकतासङ्ग्रहाय द्वितीयसंबन्धः इति ज्ञेयम् । एवं च नाव्याप्तिः उभयत्र । तथाहि विपरीतसत्प्रतिपक्षे समन्वयवेलायां रूपपदेन वह्न्यभावव्याप्यत्वं गृह्यते । एवं जलं वह्निमत् इत्याकारकानुमितिं प्रति वह्न्यभावव्याप्यत्वा- वच्छिन्नविशेष्यताशालिनिश्चयस्य जलप्रकारकस्य प्रतिबन्धकत्वात् साध्यतावच्छेदकविशिष्टं रूपं भवति वह्न्यभावव्याप्यत्वं तदादाय तत्र समन्वयः भवति । एवं वह्न्यभावत्वमादाय “वह्न्यभावः आधेयतासंबन्धेन जलव्याप्यवान्” इत्याकारक- निश्चये वह्निसाध्यकानुमितिप्रतिबन्धकत्वसत्वात् समन्वयः नोक्तदोषावसरः । समाधानम् - एवमपि ह्रदो वह्निमानित्यत्र ह्रदावृत्तित्वव्याप्यवद्वह्नौ अव्याप्तिः दुर्वारा । तथाहि-
[[147]]
[[158]]
तत्र रूपपदेन वह्नित्वमपि गृहीतुं न शक्यते । एवं ह्रदावृत्तित्वव्याप्यत्वमपि गृहीतं न शक्यते। यदि वह्नित्वं गृह्यते तदा तदवच्छिन्नप्रकारताशालिनिश्चयस्य कस्यापि प्रकृतानुमितिप्रतिबन्ध- कत्वाभावात् प्रथमसंबन्धः न भवति । अतः वह्नित्वावच्छिन्नविशेष्यताशालिनिश्चयमादायैव वक्तव्यम् । तथा सति “पर्वतवृत्तिः वह्निः” इत्याकारकनिश्चयस्य प्रकृतानुमितिप्रतिबन्धकत्व- विरहात् वह्नित्वे साध्यतावच्छेदकव्यापकत्वं दुर्घटम् । यदि रूपपदेन ह्रदावृत्तित्वव्याप्यत्वं गृह्यते तदापि वारणं अशक्यमेव । तदवच्छिन्न- प्रकारतानिरूपितधूमत्वावच्छिन्नविशेष्यताशालि “ह्रदावृत्तित्वव्याप्यो धूमः” इत्याकारकनिश्चये “वह्निमान् धूमः” इत्याकारकानुमितिप्रतिबन्धकत्वविरहात् तस्मिन्नपि रूपे साध्यतावच्छेदक- विशिष्टत्वस्य अभावात् अव्याप्तिः । एवं १३ कोट्युक्त “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनवह्न्यभावः तादृशवह्निमान्” इति स्थलीयवह्न्यभावव्याप्यव्याप्यवत्तादृशवह्न्यभावे अतिव्याप्तिः अपि दुर्वारा। तत्र रूपपदेन वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनवह्न्यभावत्वं गृह्यते । तदवच्छिन्नप्रकारताशालिनिश्चयसामान्यस्य तादृशवह्न्यनुमितिसामान्यप्रतिबन्धकत्वात् साध्यतावच्छेदकतादृशवह्नित्वव्यापकत्वस्य उक्तरूपे सत्वात् तद्विशिष्टत्वस्य च सत्यन्तदलघटकप्रतिबन्धकतायां सत्वात् अतिव्याप्तिः ।
- vi) उन्नेयविषयितायां प्रकृतानुमितिप्रतिबध्यतावच्छेदकत्वनिवेशकल्पः
१८
अष्टादशकोटिः॥
पूर्वोक्तदोषवारणाय पूर्वकल्पं परित्यज्य विशेष्यदलघटकोन्नेयविषयितायां प्रतिबध्यतावच्छेदकत्व, प्रतिबन्धकतावच्छेदकत्वोभयं निवेश्यते । तथा च विशिष्टपक्षसाध्य- ग्रहत्वाव्यापकपक्षसाध्यवैशिष्ट्यग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदिका अथ
[[148]]
[[159]]
च पक्षसाध्यवैशिष्ट्यग्रहत्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदिका या विषयिता तदवच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदकत्वं यद्रूपावच्छिन्ननिरूपकताक- विषयितायां निवेश्यते । तथा च नोक्तदोषाः । ह्रदवृत्तिवह्न्यभावविषयितायां प्रकृतानुमिति- प्रतिबन्धकत्वप्रतिबध्यतावच्छेदकत्वोभयसत्वात् समन्वयः । एवमेव आधेयतासंबन्धेन ह्रदविशिष्टवह्न्यभावविषयितायामपि तादृशोभयं अस्ति । शङ्का - एवं निवेशे कृते सत्यन्तदलं व्यर्थम् । तद्धि उन्नायके अतिव्याप्तिवारणाय दत्तम् । इदानीं तत्रातिव्याप्तिप्रसक्तिरेव नास्ति । तथाहि- “ह्रदो वह्निमान्” इत्यादौ उन्नेयविषयिता- वह्न्यभावव्याप्यवद्ध्रदविषयिता न भवति । तत्र प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वेऽपि प्रकृतानुमितिप्रतिबध्यतावच्छेदकत्वाभावात् । एवं च सत्प्रतिपक्षोन्नायके अतिव्याप्तिरेव नास्ति इति सत्यन्तदलं व्यर्थम् इति । समाधानम् - तत्र तद्वारणरूपप्रयोजनाभावेऽपि “वह्निव्याप्याभाववद्वह्न्यभाववत्कालीनह्रदः वह्निव्याप्यवान्” इत्यत्र वह्न्यभावव्याप्यवत्तादृशह्रदे अतिव्याप्तिवारकतया तत्सार्थकं भवति। तथाहि “तादृशह्रदः वह्निव्याप्यवान्” इत्याकारकनिश्चयस्य “तादृशह्रदः वह्न्यभाववान्” इत्याकारकबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयविधया प्रतिबन्धकत्वात् । एवं “वह्निभाववान् वह्निव्याप्याभाववान्” इति निश्चयविशिष्ट “वह्न्यभाववांश्च तादृशह्रदः” इति निश्चयत्वेन “वह्न्यभाववान्, वह्निव्याप्याभाववद्वह्न्यभाववत्कालीनह्रदः” इत्याकारकोन्नेयनिश्चयस्य “तादृशह्रदः वह्निव्याप्यवान्” इत्याकारकानुमितिं प्रति प्रतिबन्धकत्वाच्च । प्रकृतानुमिति-
[[149]]
[[160]]
प्रतिबन्धकतावच्छेदकप्रतिबध्यतावच्छेदविषयिता भवति वह्न्यभाववद्वह्निव्याप्याभाव- वद्वह्न्यभाववत्कालीनह्रदविषयिता तदवच्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्वस्य वह्न्यभावव्याप्यवत्तादृशह्रदविषयितायां सत्वात् अतिव्याप्तिः भवति । तद्वारणाय सत्यन्तदलं आवश्यकं तथासति “तादृशह्रदः वह्न्यभावव्याप्यवान्” इत्याकारकोन्नायकनिश्चयस्य प्रकृतानुमितिप्रतिबन्धकत्वविरहात् नातिव्याप्तिः । शंका - एवमपि सत्यन्तदलं व्यर्थमेव । पूर्वोक्तदोषवारणाय विशेष्यदलघटकप्रतिबन्धकत्वं ज्ञानवैशिष्ट्यानवच्छिन्नं ग्राह्यम् । एवं च “वह्न्यभाववान् तादृशह्रदः” इत्याकारकनिश्चयस्य ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वात् तदनवच्छिन्नप्रतिबन्धकत्वाभावात् उन्नेयविषयितापदेन वह्न्यभाववत्तादृशह्रदविषयितायाः स्वीकर्तुं अशक्यत्वात् नातिव्याप्तिः । एवं च सत्यन्तदलं विनापि एतद्वारणस्य कृतत्वात् तद्व्यर्थमेव । समाधानम् - एवमपि “घटः गगनाभाववदभाववत्कालीनगगनवान्” इत्यत्र तादृशगगनाभावव्याप्य- वद्घटे सत्प्रतिपक्षे अव्याप्तिः । तत्र घटः “गगनाभाववदभाववत्कालीनगगनाभाववान्” इत्याकारकबाधनिश्चयस्य “अभाववान् गगनाभाववान्” इति निश्चयविशिष्ट “अभाववांश्च तादृशघटः” इति निश्चयत्वेनैव प्रतिबन्धकत्वात्। तस्य च ज्ञानवैशिष्ट्यावच्छिन्नत्वात् अनवच्छिन्नत्वाभावात् उन्नेयविषयितापदेन बाधविषयितायाः स्वीकर्तुं अशक्यत्वात् अव्याप्तिः। उक्तस्थले ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकता एव अप्रसिद्धा।
[[150]]
[[161]]
एवं वह्न्यभावाभाववदवृत्यभाववद्वह्निमत्कालीनह्रदः वह्न्यभावाभाववदवृत्तिव्याप्यव- त्तादृशह्रदे अतिव्याप्तिः अपि दुर्वारा । अत्र बाधनिश्चयः भवति “वह्न्यभावाभाववदवृत्तिमान् तादृशह्रदः” इत्याकारकनिश्चयः । तस्य च ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वस्यैव सत्वात् तदनवच्छिन्नप्रतिबन्धकत्वाभावात् । “वह्न्यभावाभाववदवृत्त्यभाववान् वह्निमान्” इति निश्चयविशिष्ट “वह्निमान् तादृशह्रदः” इति निश्चयत्वेन प्रकृतानुमितिप्रतिबन्धकत्वं स्वीकर्त्तव्यम्। अतः एतद्दोषद्वयवारणाय सत्यन्तदलं आवश्यकं गगनाभाववदभाववत्कालीन- गगनसाध्यकस्थले तादृशगगनाभावव्याप्यवद्घटः सत्प्रतिपक्षः । तद्विषयकनिश्चयस्य प्रकृतानुमितिप्रतिबन्धकत्वात् सत्यन्तदलसत्त्वम् । विशेष्यदले इदानीं ज्ञानवैशिष्ट्यानवच्छिन्नत्वं न देयम् । एवं विशिष्टह्रदपक्षकवह्निसाध्यकस्थलेऽपि नातिव्याप्तिः । “साध्याभाववदवृत्तिव्याप्यवान् तादृशह्रदः” इत्याकारकनिश्चयस्य प्रकृतानुमितिप्रतिबन्धकत्वाभावात् । अतः सत्यन्तदलविरहात् नातिव्याप्तिः ।
१९
ऊनविंशतिकोटिः॥
एवमपि “वह्निव्याप्याभाववद्वह्न्यभाववत्कालीन, वह्निव्याप्याभाववद्वह्न्यभावव्याप्य- वत्कालीनह्रदः वह्निव्याप्यवानि”त्यत्र वह्न्यभावव्याप्यवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । तत्र उन्नेयविषयिता वह्न्यभाववत्तादृशह्रदविषयिता । तस्यां प्रकृतानुमितिप्रतिबध्यतावच्छेदकत्व- प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वोभयसत्वात् । तथाहि- “वह्न्यभाववान् वह्निव्याप्या- भाववान्” इति निश्चयविशिष्ट “वह्न्यभाववांश्च तादृशह्रदः” इति निश्चयत्वेन प्रतिबन्धकत्वं उन्नेयविषयकज्ञानस्य । एवं तस्य वह्न्यभाववत्तादृशह्रदविषयकत्वेन “वह्निव्याप्यवान्
[[151]]
[[162]]
तादृशह्रदः” इत्याकारकतदभावव्याप्यवत्तानिश्चयप्रतिबध्यत्वाच्च । एवं सत्यन्तदलाक्रान्तत्वमपि अस्ति । तथाहि “वह्निव्याप्याभाववद्वह्न्यभाववत्कालीन, वह्निव्याप्याभाववद्वह्न्यभाव- व्याप्यवत्कालीनह्रदः वह्निव्याप्यवान्” इत्याकारकानुमितिं प्रति “वह्निव्याप्याभाववान् वह्न्यभाव- व्याप्यवान्” इति निश्चयविशिष्टवह्न्यभावव्याप्यवान् तादृशह्रदः” इत्याकारकनिश्चयत्वेन “वह्न्यभावव्याप्यवान् तादृशह्रदः” इत्याकारकनिश्चयस्य प्रतिबन्धकत्वात् । अतः दलद्वयविशिष्टत्वात् अतिव्याप्तिः । एवं वह्न्यभाववद्वह्न्यभावाभाववदवृत्तिव्याप्यवत्कालीनवह्न्यभावाभाववदवृत्यभाव- वद्वह्निमत्कालीनह्रदः वह्निमानित्यत्र वह्न्यभावाभाववदवृत्तिव्याप्यवत्तादृशह्रदे पूर्वकोट्युक्ते अतिव्याप्तिः तदवस्था भवति । विशेष्यदलाक्रान्तत्वं पूर्वकोटिवद्ग्राह्यम् । सत्यन्तदलाक्रान्तत्वं च इत्थं “वह्न्यभावाभाववदवृत्तिव्याप्यवान् वह्न्यभाववान्” इति निश्चयविशिष्टवह्न्यभावा- भाववदवृत्तिव्याप्यवान् तादृशह्रदः” इति निश्चयत्वेन प्रकृतमहाविशिष्टविषयकनिश्चयस्य प्रतिबन्धकत्वात् अतिव्याप्तिः ।
२०
विंशतिकोटिः॥
एतादृशदोषाणां वारणाय प्रकृतानुमितिप्रतिबध्यतावच्छेदकत्वं अनिवेश्य विरोध्यनुमितिजनकतानवच्छेदकत्वमेव उन्नेयविषयितायां निवेश्यते । तथा च नोक्तदोषाः तथाहि- १७कोट्युक्त “ह्रदो वह्निमान्” इति स्थलीयह्रदावृत्तित्वव्याप्यवद्वह्नौ अव्याप्तिः नास्ति इदानीम्। तत्र उन्नेयविषयिता भवति ह्रदावृत्तिवह्निविषयिता तस्यां विरोध्यनुमितिजनकतानवच्छेदकत्वं अस्ति । विरोध्यनुमितिपदेन “ह्रदो वह्न्यभाववान्, ह्रदावृत्तिः वह्निः” इत्याद्दनुमितीनां ग्रहणं तज्जनकतावच्छेदकत्वस्य ह्रदावृत्तिवह्निविषयितायां विरहात् लक्षणसमन्वयः भवति ।
[[152]]
[[163]]
एवं पूर्वकोट्युक्तातिव्याप्तिद्वयमपि नास्ति । तत्र प्रथमे वह्निव्याप्याभाववद्- वह्न्यभाववत्कालीन, वह्निव्याप्याभाववद्वह्न्यभावव्याप्यवत्कालीनह्रदः वह्निव्याप्यवान् इत्यत्र वह्न्यभाववत्तादृशह्रदविषयिता उन्नेयविषयितापदेन ग्राह्या । परन्तु सा ग्रहीतुं न शक्यते । तत्र विरोध्यनुमितिजनकतानवच्छेदकत्वस्य विरहात् । तथाहि- विरोध्यनुमितिपदेन वह्न्यभाववत्तादृश- ह्रदविषयकानुमितिरपि स्वीकर्तुं शक्यते । तज्जनकतावच्छेदकत्वस्यैव उक्तविषयितायां सत्वात् तदनवच्छेदकत्वाभावात् नातिव्याप्तिः । एवं वह्न्यभाववद्वह्न्यभावाभाववदवृत्तिव्याप्यवत्कालीन, वह्न्यभावाभाववद- वृत्यभाववद्वह्निमत्कालीनह्रदः वह्निमान् इत्यत्र उन्नेयविषयितापदेन वह्न्यभावाभाववदवृत्ति- मत्तादृशह्रदविषयिता स्वीकर्तुं न शक्यते । तत्र तादृशह्रदः वह्न्यभाववान् इत्याकारकविरोध्य- नुमितिजनकतावच्छेदकत्वस्यैव सत्वात् । अनवच्छेदकत्वाभावात् नातिव्याप्तिः। शङ्का - एवं सति सत्यन्तदलं व्यर्थं भवति । उन्नायकातिव्याप्तिवारणं प्रकृतविशेषणेनापि भवति। वह्न्यभावव्याप्यवद्ध्रदविषयिता तावत् “ह्रदो वह्न्यभाववान्” इत्याकारकविरोध्यनुमिति- जनकतावच्छेदिकैव न तु अनवच्छेदिका । अतः उन्नेयविषयितापदेन सा स्वीकर्तुं न शक्यते। अतः उन्नायके नातिव्याप्तिः । एवं च तद्वारकसत्यन्तं व्यर्थम् । समाधानम् - ह्रदो वह्निमान् इत्यत्र वह्न्यसमानाधिकरणव्याप्यवद्ध्रदे अतिव्याप्तिवारणाय तत्सार्थकं भवति । तथाहि- तत्र उन्नेयविषयिता भवति वह्न्यसमानाधिकरणवद्ध्रदविषयिता सा विरोध्यनुमितिजनकतानवच्छेदिका भवति एवं सैव विषयिता ह्रदो वह्निमान् इत्याकारक-
[[153]]
[[164]]
प्रकृतानुमितिप्रतिबन्धकतावच्छिकापि भवति । वह्न्यसमानाधिकरणवद्ध्रदस्य बाधत्वं स्वीकृतं दीधिति कृता । एवं च तादृशोन्नेयविषयित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्वस्य वह्न्यसमानाधिकरणव्याप्यवद्ध्रदविषयितायां सत्वात् अतिव्याप्तिः भवति । तद्वारणाय सत्यन्तं आवश्यकम् । तन्निवेशे सति नातिव्याप्तिः । तन्निश्चयस्य प्रकृतानुमित्यप्रतिबन्धकत्वात् ।
२१
एकविंशतिकोटिः॥
एवमपि “वह्न्यभाववद्वह्न्यसमानाधिकरणव्याप्यवत्कालीनह्रदः, वह्निमान्” इत्यत्र वह्न्यसमानाधिकरणव्याप्यवत्तादृशह्रदे अतिव्याप्तिः । तत्र वह्न्यभाववान् वह्न्यसमाना- धिकरणव्याप्यवान्” इति निश्चयविशिष्ट “वह्न्यसमानाधिकरणव्याप्यवान् तादृशह्रदः” इति निश्चयत्वेन उक्तविशिष्टविषयकनिश्चयस्य प्रकृतानुमितिप्रतिबन्धकत्वात् सत्यन्तदलाक्रान्तत्वम्। एवं तत्र उन्नेयविषयिता भवति वह्न्यसमानाधिकरणवत्तादृशह्रदविषयिता । तस्यां च पूर्वकोट्युक्तयुक्त्या प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्व, विरोध्यनुमितिजनकतावच्छेदक- त्वोभयसत्वात् । तदवच्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्वस्य वह्न्यसमानाधिकरण- व्याप्यवत्तादृशह्रदविषयितायां सत्वात् अतिव्याप्तिः ।
२२
द्वाविंशतिकोटिः॥
अस्यां कोटौ प्रतिबध्यतैक्यं स्वीक्रियते। एवं तद्व्यापकत्वं यद्रूपे निवेशनीयम् । तथा च लक्ष्यतावच्छेदकरूपवैशिष्ट्यं प्रतिबध्यतायां निवेशनीयम्। वैशिष्ट्यं च स्वावच्छिन्नविषयिता- शालिनिश्चयत्वसंबन्धावच्छिन्नस्वनिष्ठाधेयतानिरूपिताधिकरणतावन्निष्ठभेदप्रतियोगिता- नवच्छेदकत्वसंबन्धेन । अवच्छेदकता च - स्वनिरूपितज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकता- विशिष्टत्व, स्वावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्ना-
[[154]]
[[165]]
नुमितिनिष्ठजन्यतानिरूपितजनकत्वोभयसंबन्धेन । प्रतिबन्धकताविशिष्टत्वं च स्वव्याप्यजनकता- निरूपितजन्यतावच्छेदकावच्छिन्नजन्यतानिरूपितजनकत्वसंबन्धेन । अस्य परिष्कारस्य सारस्तु इत्थं यद्रूपावच्छिन्ननिरूपकताकविषयिताशालिनिश्चये सत्यन्ते या प्रतिबध्यता प्रविष्टा तन्निरूपितज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकताव्याप्यजनकतानिरूपितजन्यतावच्छेदकावच्छिन्न- जन्यतानिरूपितजनकत्व, तन्निरूपितप्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नजन्यता- निरूपितजनकत्वोभयं वर्तते इति । इदानीं पूर्वोक्तपरिष्काराः न सन्ति । अतः तद्बललभ्यदोषाः अपि न । एवं च वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान् इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे प्रथमकोट्युक्ते नातिव्याप्तिः । वह्न्यभावव्याप्यव्याप्य- वत्तादृशह्रदत्वावच्छिन्नविषयिताशालिनिश्चये प्रकृतानुमितिप्रतिबध्यतानिरूपितज्ञानवैशिष्ट्यानव- च्छिन्नप्रतिबन्धकताव्याप्यजनकतानिरूपितजन्यतानिरूपितजनकत्वं नास्ति । तथाहि- “तादृशह्रदः वह्निमान्” इति अनुमितिं प्रति उक्तनिश्चयस्य ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धक- त्वाभावात् । तादृशप्रतिबन्धकता “वह्न्यभावाभाववदवृत्तिमान् तादृशह्रदः” इति निश्चयीया एव ग्राह्या तद्व्याप्यजनकता च तादृशह्रदे वह्न्यभावावगाहिबुद्धित्वावच्छिन्नजन्यता- निरूपितजनकता । वह्न्यभाववत्तादृशह्रदत्वावच्छिन्नजन्यतानिरूपितजनकत्वस्य विशिष्टविषयकतादृशनिश्चये असत्वात् नातिव्याप्तिः । एवं सत्प्रतिपक्षादावपि समन्वयः भवति । तत्र व्यापकाघटितसत्प्रतिपक्ष, पूर्वपक्ष- व्याप्तिघटितसत्प्रतिपक्षविषयकनिश्चययोः उक्तसंबन्धद्वयेन प्रकृतानुमितिप्रतिबध्यत्ववत्वात् । तथाहि- उभयत्रापि प्रतिबध्यतानिरूपितज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबधकतापदेन वह्न्यभावाभाव-
[[155]]
[[166]]
वदवृत्तिमान् ह्रदः” इत्याकारकनिश्चयीयप्रतिबन्धकता एव गृह्यते । तद्व्याप्या या ह्रदे वह्न्यभावावगाहि-बुद्धित्वावच्छिन्नजन्यतानिरूपितजनकता तन्निरूपिततादृशजन्यतानिरूपित- जनकत्वस्य उभयोः सत्प्रतिपक्षविषयकनिश्चययोः सत्वात् प्रथमसंबन्धसत्वम् । द्वितीयसंबन्धः तु मूलोक्तलक्षणस्य विशेष्यदलस्थानीयम् । अतः तदपि भवति तत्र । अतः लक्षणसमन्वयः। शङ्का - उक्तानुगमे प्रथमसंबन्धेनैव अलम् । किमर्थं विशेष्यदलस्थानीयः द्वितीयसंबन्धः । तद्व्यर्थम् । तथाहि- विशेष्यदलं ह्रदो वह्निमान् इत्यादौ वह्न्यभाववद्ध्रदे बाधे अतिव्याप्तिवारणाय निवेशितम् । तदिदानीं नास्ति । बाधनिश्चये प्रकृतानुमितिनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकता- व्याप्यजनकतानिरूपितजन्यतानिरूपितजनकतायाः विरहात् । अतः अतिव्याप्तिविरहात् विशेष्यदलं व्यर्थमिति । समाधानम् - तत्र तद्वारणरूपफलाभावेऽपि “पर्वतः वह्निव्याप्याभाववान्” इत्यत्र वह्निव्याप्यवत्पर्वते बाधे अतिव्याप्तिवारणाय विशेष्यदलं सार्थकं भवति । तथाहि- पर्वते वह्निव्याप्याभाववैशिष्ट्या- वगाहिप्रकृतानुमितिनिष्ठप्रतिबध्यतानिरूपित “पर्वतः वह्निव्याप्यवान्” इति निश्चयीयज्ञान- वैशिष्ट्यानवच्छिन्नप्रतिबन्धकताव्याप्यजनकता नाम पर्वते वह्निवैशिष्ट्यावगाहिबुद्धित्वावच्छिन्न- जन्यतानिरूपितजनकता भवति तन्निरूपिततादृशजन्यतावच्छेदकतादृशबुद्धित्वावच्छिन्नजन्यता- निरूपितजनकता उक्तनिश्चये सत्वात् अतिव्याप्तिः । तद्वारणाय विशेष्यदलम् । तन्निवेशे सति नातिव्याप्तिः । तन्निश्चये तादृशप्रतिबध्यतानिरूपितवह्निव्याप्यवत्पर्वतविषयकनिश्चयत्वा- वच्छिन्नप्रतिबन्धकतावच्छेदकवह्निव्याप्यवत्पर्वतविषयिताशाल्यनुमितिनिष्ठजन्यतानिरूपित- जनकतायाः अभावात् । अतः तत् सार्थकं भवति ।
[[156]]
[[167]]
एवं “ह्रदो वह्निमान्” इत्यत्रैव वह्न्यभाववद्ध्रदे अतिव्याप्तिः भवति विशेष्यदलानुपादाने। तथाहि वह्न्यभाववान् ह्रदः इति निश्चये प्रतिबन्धकताव्याप्यजनकता अस्ति । कीदृशी सा इति चेत् “वह्न्यभाववद्ध्रदवानयं” इत्याकारकविशिष्टवैशिष्ट्यावगाहिबुद्धित्वावच्छिन्नजन्यता- निरूपितजनकता । विशिष्टवैशिष्ट्यावगाहिबुद्धौ विशेषणज्ञानस्य कारणत्वात् । अतः तद्दोषवारणाय विशेष्यदलं तन्निवेशे सति विरोध्यनुमितिजनकत्वस्य बाधनिश्चये अभावात् नातिव्याप्तिः । शङ्का - ह्रदो वह्निमान् इत्यत्र वह्न्यभावव्याप्यव्याप्यवह्न्यभाववद्ध्रदे अतिव्याप्तिः दुर्वारा । तथाहि “ह्रदो वह्निमान्” इत्याकारकप्रकृतानुमितिं प्रति “वह्न्यभावव्याप्यव्याप्यवह्न्यभाववान् ह्रदः” इत्याकारकनिश्चयस्य ह्रदे वह्न्यभावावगाहित्वात् प्रतिबन्धकत्वं अस्ति । तादृशप्रतिबन्धकताव्याप्यजनकता इत्युक्ते “वह्न्यभावव्याप्यव्याप्यवह्न्यभाववद्ध्रदवानयं” इत्याकारकविशिष्टवैशिष्ट्यावगाहिज्ञानीयजन्यतानिरूपितजनकता । अतः सत्यन्तदलं अस्ति। एवं विशेष्यदलमपि अस्ति । तथाहि- प्रकृतानुमितिप्रतिबन्धकतावच्छेदकविषयिता भवति वह्न्यभावव्याप्यवद्ध्रदविषयिता तदवच्छिन्नजन्यतानिरूपितजनकत्वस्यापि सत्वात् । तत्र अतिव्याप्तिः । अत्र वह्न्यभावव्याप्यव्याप्यत्वेन वह्न्यभावः गृह्यते । यदि एतद्दोषवारणाय सत्यन्तदलघटकप्रतिबन्धकतायां विशिष्टान्तरविषयित्वाव्यापकत्वं निवेश्यते चेत् दोषः न भवति । तथाहि- प्रकृते विशिष्टान्तरविषयिता भवति वह्न्यभाववद्ध्रदविषयिता तद्व्यापकत्वस्यैव प्रतिबन्धकतायां सत्वात् अव्यापकत्वाभावात् नातिव्याप्तिः इत्युच्यते,
[[157]]
[[168]]
तदा व्यापकताघटितसत्प्रतिपक्षे अव्याप्तिः । तथाहि सत्यन्तदले प्रतिबन्धकता ज्ञान- वैशिष्ट्यानवच्छिन्ना एव ग्राह्या इत्युक्तम् । एवं सति सा प्रतिबन्धकता पूर्वपक्षव्याप्तिघटित- सत्प्रतिपक्षनिश्चयीया एव । एवं विशिष्टान्तरविषयितापि प्रकृतस्थले पूर्वपक्षव्याप्तिघटित- सत्प्रतिपक्षविषयिता एव । तद्व्यापकत्वस्यैव प्रतिबन्धकतायां सत्वात् अव्यापकत्वाभावात् अव्याप्तिः । तत्र विशिष्टान्तरविषयित्वाव्यापकप्रतिबन्धकता एव अप्रसिद्धा । समाधानम् - एतद्दोषवारणाय विशिष्टान्तरविषयितायां स्वावच्छिन्नविषयकत्वाव्यापकविषयिता- शून्यज्ञानीयत्वं निवेशनीयम् । तथा सति नोक्ताव्याप्तिः । अत्र स्वपदेन जलव्यापकवह्न्यभाव- समानाधिकरणजलवद्ध्रदत्वं गृह्यते तदवच्छिन्नविषयकत्वाव्यापकविषयिता भवति वह्न्यभावाभाववदवृत्तिजलवद्ध्रदविषयिता तच्छून्यत्वं “वह्न्यभावाभाववदवृत्तिजलवान् ह्रदः” इति ज्ञाने नास्ति किन्तु “जलवान् ह्रदः” इति ज्ञानीया जलवद्ध्रदविषयिता एव तादृशी तदव्यापकत्वस्य ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतायां सत्वात् नाव्याप्तिः ।
२३
त्रयोविंशतिकोटिः॥
एवमपि ह्रदो वह्निमान् इत्यत्र प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटिते वह्न्यभाव- व्याप्यवद्ध्रदे अतिव्याप्तिः दुर्वारा । तथाहि ह्रदो वह्निमान् इत्याकारकानुमितिं प्रति प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटित “वह्न्यभावव्याप्यवान् ह्रदः” इत्याकारकनिश्चयीय- ज्ञानवैशष्ट्यिानवच्छिन्नप्रतिबन्धकतायां विशिष्टान्तरविषयित्वाव्यापकत्वं अस्ति विशिष्टान्तरविषयिता च पूर्ववज्जलवद्ध्रदविषयिता गृहीतुं शक्या तदव्यापकत्वं प्रतिबन्धकतायां अस्ति । एवं तादृशप्रतिबन्धकताव्याप्यत्वस्य ह्रदे वह्न्यभाववैशिष्ट्यावगाहिबुद्धित्वावच्छिन्न-
[[158]]
[[169]]
जन्यतानिरूपितजनकतायां सत्वात् सत्यन्तदलाक्रान्तत्वम् । एवं विरोध्यनुमितिजनकत्वस्यापि उक्तविशिष्टविषयकनिश्चये सत्वात् अतिव्याप्तिः । यथाश्रुतलक्षणे तु नातिव्याप्तिः । यथाश्रुतलक्षणं तावत् यद्रूपावच्छिन्ननिरूपकताक- विषयिता प्रकृतानुमितत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदिका, अथ च तादृश- प्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदिका तद्रूपवत्वम् इति। अस्मिन् लक्षणे प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकता निविष्टा । सा च उक्त विशिष्टविषयकनिश्चये नास्ति । तथाहि- “वह्न्यभावः अव्याप्यवृत्तिः” इति ज्ञानकालीन “ह्रदो वह्निमान्” इत्याकारकज्ञानस्य प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटितोक्तविशिष्टविषयक- निश्चयप्रतिबध्यत्वाभावात् तादृशानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकत्वं तत्र नास्ति इति नातिव्याप्तिः ।
- vii) उन्नेयविषयितायां ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकताव्याप्य जनकतानिरूपित- जन्यतावच्छेदकत्वनिवेशकल्पः
२४
चतुर्विंशतिकोटिः॥
एतद्दोषपरिहाराय यथाश्रुतकल्पः एव आश्रीयते । प्रथमकोट्युक्तमहाविशिष्टातिव्याप्ति- वारणाय विशेष्यदलघटकोन्नेयविषयितायां ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकताव्याप्यजनकता- निरूपितजन्यतावच्छेदकत्वं निवेशनीयम्। एवं च नातिव्याप्तिः । तथाहि - उन्नेयविषयिता इत्यनेन वह्न्यभावव्याप्यवत्तादृशविषयिता स्वीकर्तव्या । परन्तु स्वीकर्तुं न शक्यते । ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकताव्याप्यजनकता इत्यनेन “तादृशह्रदः वह्न्यभावव्याप्यवान्” इत्याकारकबुद्धित्वावच्छिन्नजन्यतानिरूपितवह्न्यभावव्याप्यव्याप्य- वत्तादृशह्रदत्वावच्छिन्नविषयकत्वावच्छिन्नजनकता न भवति । अस्याः ज्ञानवैशिष्ट्यावच्छिन्न- प्रतिबन्धकताव्याप्यत्वात् । न तु तदनवच्छिन्नप्रतिबन्धकताव्याप्यत्वम् । अतः नातिव्याप्तिः । सत्यन्तदलविरहात् प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटितविशिष्टेऽपि नातिव्याप्तिः।
[[159]]
[[170]]
२५
पञ्चविंशतिकोटिः॥
एवमपि पूर्वोक्तातिव्याप्तिः तदवस्थैव । तथाहि- तत्र उन्नेयविषयिता तावत् वह्न्यभाव- व्याप्यवद्वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदविषयिता तस्यां ज्ञानवैशिष्ट्या- नवच्छिन्नप्रतिबन्धकताव्याप्यजनकतानिरूपितजन्यतावच्छेदकत्वमपि अस्ति । “तादृशह्रदः वह्निमान्” इत्याकारकप्रकृतानुमितिं प्रति वह्न्यभावव्यापकवह्न्यभावव्याप्यसमानाधिकरण- वह्न्यभाववत्तादृशह्रदविषयकनिश्चयस्य तादृशह्रदे वह्न्यभावावगाहित्वात् ज्ञानवैशिष्ट्यानवच्छिन्न- प्रतिबन्धकत्वं अस्ति । एवं तत्प्रतिबन्धकत्वव्याप्या वह्न्यभावव्यापकवह्न्यभावव्याप्य- समानाधिकरणवह्न्यभाववद्ध्रदत्वावच्छिन्नविषयिताशालिबुद्धित्वावच्छिन्नजनकता । सा च वह्न्यभावव्याप्यवत्तादृशह्रदविषयकज्ञाननिष्ठजन्यतानिरूपिता एव । तादृशजन्यताव- च्छेदकत्वस्य उन्नेयविषयितायां सत्वात् अतिव्याप्तिः । पूर्ववत् एतद्दोषवारणाय विशिष्टान्तरविषयित्वाव्यापकत्वस्य प्रतिबन्धकताविशेषणत्वे पूर्ववदेव सत्प्रतिपक्षे अव्याप्तिः दुर्वारा । विशिष्टान्तरविषयित्वाव्यापकज्ञानवैशिष्ट्या- नवच्छिन्नप्रतिबन्धकत्वाप्रसिद्धेः । यदि पूर्ववदेव विशिष्टान्तरविषयितायां स्वावच्छिन्नविषयकत्वाव्यापकत्वं निवेशनीयम्। “वह्न्यभावाभाववदवृत्तिमान् ह्रदः” इति निश्चये जलव्यापकवह्न्यभावसमानाधिकरणजल- वद्ध्रदत्वावच्छिन्नविषयित्वाव्यापकजलवद्ध्रदविषयिताशालित्वात् शून्यत्वाभावात् जलवद्ध्रदज्ञानीयजलवद्ध्रदविषयित्वाव्यापकत्वस्य “वह्न्यभावव्याप्यव्याप्यवान् तादृशह्रदः” इत्याकारकनिश्चयीयप्रतिबन्धकतायां सत्वात् लक्षणसमन्वयः इत्युच्यते । तदा वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । तत्र वह्न्यभाववत्तादृश-
[[160]]
[[171]]
ह्रदविषयिता विशिष्टान्तरविषयिता न भवति । तत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदत्वावच्छिन्न- विषयकत्वाव्यापकविषयिताशालिज्ञानीयत्वमेव अस्ति न तु तच्छून्यज्ञानीयत्वम् । अतः विशिष्टान्तरपदेन अन्यदादाय तद्विषयित्वाव्यापकत्वस्य वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रद- विषयकनिश्चयीयप्रतिबन्धकतायां सत्वात् अतिव्याप्तिः ।
२६
षड्विंशतिकोटिः॥
प्रतिबन्धकताव्याप्यजनकता इत्यत्र व्याप्यत्वं ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकता- नवच्छेदकविषयित्वानवच्छिन्नत्वरूपं गृह्यते । तेन नातिव्याप्तिः । तथाहि- वह्न्यभावव्यापक- वह्न्यभावव्याप्यसमानाधिकरणवह्न्यभाववान् तादृशह्रदः इत्याकारकनिश्चयीयज्ञानवैशिष्ट्या- नवच्छिन्नप्रतिबन्धकतानवच्छेदकवह्न्यभावव्याप्यत्वावच्छिन्नविषयित्वावच्छिन्नत्वस्यैव वह्न्यभावव्याप्यवत्तादृशह्रदविषयकानुमितिनिरूपितजनकतायां सत्वात् तदनवच्छिन्नत्वाभावात् नातिव्याप्तिः ।
२७
सप्तविंशतिकोटिः॥
एवमपि “घटः अभाववद्व्यापकगगनाभावकालीनगगनवान्” इत्यत्र तादृशगगना- भावव्याप्यवद्घटे सत्प्रतिपक्षे अव्याप्तिः । तत्र “घटः अभाववद्व्यापकगगनाभावकालीन- गगनवान्” इत्याकारकानुमितिं प्रति “अभाववद्व्यापकगगनाभावकालीनगगनाभावा- भाववदवृत्तिमान् घटः” इत्याकारकपूर्वपक्षव्याप्तिघटितसत्प्रतिपक्षविषयकनिश्चयस्य “अभाववद्व्यापकः गगनाभावः” इति निश्चयविशिष्ट “अभाववद्वान् घटः” इति निश्चयत्वेन प्रतिबन्धकत्वसंभवे ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतायां मानाभावात् लक्षणे तादृशप्रतिबन्धकतायाः एव प्रविष्टत्वात् तदप्रसिध्या अव्याप्तिः । ज्ञानवैशिष्ट्यावच्छिन्न-
[[161]]
[[172]]
प्रतिबन्धकता च अवश्यकल्पनीया । अन्यथा साध्याभावधर्मिकाव्याप्यवृत्तित्वग्रहकालीनतादृश- सत्प्रतिपक्षनिश्चयस्य प्रतिबन्धकत्वं न स्यात् ।
२८
अष्टाविंशतिकोटिः॥
पूर्वोक्तस्थले ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकत्वाभावात् अव्याप्तिः आपादिता । इदानीं तत्र तादृशप्रतिबन्धकत्वं प्रसिद्ध्यति । तथाहि- “घटः तादृशगगनवान्” इत्याकारकानुमितिं प्रति “तादृशगगनाभावाभाववदवृत्तिमान् घटः” इत्याकारकसत्प्रतिपक्षज्ञानस्य ज्ञानवैशिष्ट्या- नवच्छिन्नप्रतिबन्धकत्वान्तरम् अवश्यं कल्पनीयम् । यतो हि अस्मिन् ज्ञाने तादृशगगनाभावा- भाववन्निरूपितवृत्तित्वसामान्याभाववान् प्रकारः । तस्य स्वरूपसमवायादिसंबन्धेन पक्षे वैशिष्ट्या- वगाहिनिश्चयस्यापि “पक्षः तादृशगगनवान्” इत्याकारकानुमितिं प्रति प्रतिबन्धकत्वं अनुभवानुरोधेन वक्तव्यम् । एवं “घटः तादृशगगनाभाववान्” इत्याकारकानुमितिं प्रति “घटः स्वरूपसंबन्धेन तादृशगगनाभावाभाववदवृत्तिमान्” घटः समवायसंबन्धेन तादृशगगनाभावाभाववदवृत्तिमान्” इत्यादिविभिन्नसंसर्गकनिश्चयानां जनकत्वं वक्तव्यम् । परन्तु “अभाववद्व्यापकः गगनाभावः” इत्यत्र अभाववत्वस्य प्रतिहेतुत्वस्थानीयत्वात् तस्य व्याप्यत्वं येन संबन्धेन गृहीतं अर्थात् कालिकसंबन्धेन गृहीतं चेत् तेनैव संबन्धेन घटे अभाववत्वावगाहिनिश्चयस्य प्रतिबन्धकत्वं वक्तुं शक्यम् । न तु व्याप्यतानवच्छेदकसंबन्धेन प्रतिहेतुमत्ताज्ञानस्य प्रतिबन्धकत्वम् । न हि “संयोगसंबन्धेन जलव्यापको वह्न्यभावः इति निश्चयविशिष्टकालिकसंबन्धेन जलवान् ह्रदः” इत्याकारकनिश्चयस्य “ह्रदः वह्निमान्” इत्याकारकानुमितिप्रतिबन्धकत्वं सम्भवति । अतः विभिन्नप्रकारतावच्छेदकसंसर्गकगगनाभावाभाववदवृत्तिमान् घटः” इत्याकारकनिश्चयानां प्रतिबन्धकत्वसंपादनाय ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकत्वान्तरं स्वीकर्तव्यम् । एवं च “घटः
[[162]]
[[173]]
अभाववद्व्यापकगगनाभावकालीनगगनवानि”त्यत्र तादृशगगनाभावव्याप्यवद्घटे सत्प्रतिपक्षे अप्रसिद्धिनिबन्धनाव्याप्तिः न भवति । एवं तादृशगगनाभावाभाववन्निरूपितसंयोग, समवायादिसंबन्धावच्छिन्नवृत्तित्वत्वाव- च्छिन्नप्रतियोगिताकाभाववत्प्रकारकसमवायसंयोगादिसंसर्गकघटादिविशेष्यकनिश्चयानां पृथक् पृथक् प्रतिबन्धकत्वकल्पनापेक्षया तेषां एकरूपेणैव प्रतिबन्धकत्वं कल्पनीयम् । एकरूपं च संबन्धविशिष्टप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताशालिनिश्चयत्वम् । वैशिष्ट्यं मूलोक्तम् । अर्थस्तु- किञ्चित्संबन्धावच्छिन्ना या स्वावच्छिन्नप्रकारतानिरूपितसाध्या- भावाभाववद्वृत्तित्वत्वावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारतानिरूपिता प्रकारता तन्निरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताशालिनिश्चयत्वेन प्रतिबन्धकत्वं तेषां विभिन्नसंसर्गकनिश्चयानाम् । एतादृशप्रतिबन्धकत्वं ज्ञानवैशिष्ट्यानवच्छिन्नमेव भवति । ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वाश्रयनिश्चयीयप्रकारतायां स्वपदग्राह्यसंबन्धावच्छिन्नत्व- विरहात् । अतः न तादृशसत्प्रतिपक्षे अव्याप्तिः ।
२९
ऊनत्रिंशत्कोटिः॥
एवमपि “अभावः प्रतियोगितासंबन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नव्याप्यतानिरूपित- व्यापकताश्रयगगनाभावकालीनगगनवान्” इत्यत्र तादृशगगनाभावव्याप्यवदभावे सत्प्रतिपक्षे अव्याप्तिः । तत्र ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतायाः अप्रसिद्धत्वात् । तथाहि- प्रतियोगिता- संबन्धेन वृत्तित्वं प्रतिहेतुः भवति । एवं प्रतियोगितासंबन्धः व्याप्यतावच्छेदकसंबन्धः । तथा च “प्रतियोगितासंबन्धेन वृत्तित्वनिष्ठव्याप्यतानिरूपितव्यापकताश्रयगगनाभावकालीनगगना- भावाभाववदवृत्तिमान् अभावः” इत्याकारकसत्प्रतिपक्षनिश्चयस्य “अभावः तादृशगगनवान्”
[[163]]
[[174]]
इत्याकारकप्रकृतानुमितिं प्रति निश्चयविशिष्टनिश्चयत्वेनैव प्रतिबन्धकत्वं वक्तव्यम् । तथाहि- “प्रतियोगितासंबन्धेन गगनाभावव्याप्यं वृत्तित्वं” इति निश्चयविशिष्ट “प्रतियोगितासंबन्धेन वृत्तित्ववान् अभावः” इति निश्चयत्वेनैव प्रतिबन्धकत्वं न तु ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्ध- कत्वमपि । तत्कल्पकबीजाभावात्। अत्र स्वरूपसमवायादिसंसर्गकतादृशगगनाभावाभाव- वदवृत्तिप्रकारकनिश्चयानामपि पूर्वोक्तज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वम् । साध्यकुक्षावेव प्रतिबन्धकताप्रयोजकव्याप्यतावच्छेदकसंबन्धस्य प्रतियोगिताख्यस्य निविष्टित्वात् । एवं च ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतायाः विरहात् अप्रसिद्धिनिबन्धनाव्याप्तिः दुर्वारा ।
- viii) प्रतिबन्धकतायां स्वरूपस्वविशिष्टजनकत्वोभयसंबन्धेन यद्रूपावच्छिन्नविषयकत्व- व्यापकत्वनिवेशकल्पः
३०
त्रिंशत्कोटिः॥
पूर्वोक्तदोषभिया तत्कल्पं परित्यज्य परिष्कारान्तरेण प्रथमकोट्युक्तातिव्याप्तिवारण- प्रयासः अस्यां कोटौ क्रियते । तथा च यद्रूपावच्छिन्नविषयकत्वव्यापकत्वं प्रतिबन्धकतायां निवेश्यते । व्यापकत्वं च स्वरूप, स्वविशिष्टजनकत्वोभयसंबन्धेन । वैशिष्ट्यं मूलोक्तम् । अस्य परिष्कारस्य अयमर्थः । उन्नेयविषयितायां प्रतिबन्धकतावच्छेदकत्वस्थाने सत्यन्तदल- घटकप्रतिबध्यतानिरूपितप्रतिबन्धकताव्याप्यकिञ्चित्प्रकारतानिरूपितत्वं निवेशनीयमिति । व्याप्यव्यापकभावश्च तादृशप्रकारतावच्छेदकावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्य- प्रकारतानिरूपिता या स्वनिरूपितव्यापकत्वप्रकारतानिरूपितत्वसंबन्धेन तादृशप्रकारतावृत्ति- प्रकारतावच्छेदकधर्मसंबन्धावच्छिन्नप्रकारता तन्निरूपिता या तादृशप्रकारतानिरूपितविशेष्यता- वच्छेदकावच्छिन्नविशेष्यता तन्निरूपकनिश्चयान्तर्भावेण अभिप्रेतः । “ह्रदो वह्निमान्” इत्यत्र किञ्चित्प्रकारता इत्यनेन “ह्रदः वह्न्यभाववान्” इत्याकारक- ज्ञानीयवह्न्यभावनिष्ठप्रकारता गृह्यते । तदवच्छेदकं च वह्न्यभावत्वम् । तदवच्छिन्न-
[[164]]
[[175]]
प्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपिता या स्वनिरूपितव्यापकत्वप्रकारता- निरूपितत्वसंबन्धेन वह्न्यभावत्वावच्छिन्नप्रकारतावृत्ति “जलवान् ह्रदः” इति ज्ञानीयजल- निष्ठप्रकारतावच्छेदकधर्मसंबन्धावच्छिन्नप्रकारता तन्निरूपिता या “ह्रदो वह्न्यभाववान्” इति ज्ञानीयप्रकारतानिरूपितविशेष्यतावच्छेदकीभूतह्रदत्वावच्छिन्नविशेष्यता तन्निरूपके “जलव्यापकवह्न्यभावसामानाधिकरणजलवान् ह्रदः” इत्याकारकनिश्चये सत्यन्तदलघटक- प्रतिबध्यतानिरूपित “जलव्यापको वह्न्यभावः” इति निश्चयवैशिष्ट्यावच्छिन्नप्रतिबन्धकतायाः नियतत्वात् । एवं तादृशप्रतिबन्ध्यताविशिष्टप्रकारतानिरूपितविषयित्वावच्छिन्नजन्यतानिरूपित- जनकत्वस्य सत्प्रतिपक्षनिश्चये अक्षतत्वात् यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकतायाः प्रतिबन्धकतायां अक्षतत्वात् समन्वयः । एवं वह्न्यभावव्याप्यव्याप्यवद्वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदे प्रथमकोट्युक्ते अतिव्याप्तिः अपि नास्ति । तत्र सत्यन्तदलघटकप्रतिबन्धकता ज्ञानवैशिष्ट्या- वच्छिन्ना एव । तादृशप्रतिबन्धकतावैशिष्ट्यं जनकतायां नास्ति । तथाहि तत्र किञ्चित्प्रकारतापदेन “तादृशह्रदः वह्न्यभावव्याप्यवान्” इत्याकारकज्ञानीयवह्न्यभावव्याप्यनिष्ठप्रकारतायाः ग्रहणे स्वविशिष्टविशेष्यतानिरूपकत्वसंबन्धेन तदधिकरणं “शैवालव्यापकवह्न्यभावव्याप्य- समानाधिकरणशैवालवान् तादृशह्रदः” इत्याकारकनिश्चयोऽपि भवति तत्र वह्न्यभाववज्जल- व्यापकवह्न्यभावव्याप्यसमानाधिकरणजलवत्कालीनह्रदः वह्निमान् इत्याकारकानुमितिप्रति- बन्धकत्वं नास्ति । अतः स्ववृत्तिभेदप्रतियोगितावच्छेदकतासंबन्धेन तादृशप्रकारतायां सत्यन्तदलघटकप्रतिबध्यतावैशिष्ट्यं नास्ति इति नातिव्याप्तिः ।
[[165]]
[[176]]
एवं सति सत्यन्तदलवैयर्थ्यशंका भवति । ह्रदो वह्निमान् इत्याकारकानुमितिं प्रति “जलव्यापकवह्न्यभावव्याप्यसमानाधिकरणजलवान् ह्रदः” इत्याकारकनिश्चयस्य प्रतिबन्ध- कत्वविरहात् ह्रदः वह्न्यभावव्याप्यवान् इति ज्ञानीयप्रकारतायाः प्रकृतानुमितित्वव्यापक- प्रतिबध्यताविशिष्टत्वविरहात् नातिव्याप्तिप्रसक्तिः उन्नायके । अतः तद्व्यर्थमिति। समाधानं तु प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटिते साध्याभावव्याप्यवत्पक्षे अतिव्याप्तिवारणाय तद्देयम् । प्रतियोगिवैयधिकरण्याविषयकह्रदो वह्न्यभाववान् इति ज्ञानीयप्रकारतायाः स्वविशिष्टविशेष्यतानिरूपकत्वसंबन्धेन “जलव्यापकवह्न्यभावसमानाधिकरणजलवान् ह्रदः” इति निश्चये सत्वात् तत्र च प्रतिबन्धकतायाः अक्षतत्वात् अतिव्याप्तिः भवति । तद्वारणाय सत्यन्तदलं आवश्यकम् । तथासति अव्याप्यवृत्तित्वग्रहकालीनतादृशविशिष्टविषयकज्ञानस्य प्रतिबन्धकत्वविरहात् यद्रूपावच्छिन्नविषयिताव्यापकत्वं प्रतिबन्धकतायां दुर्घटम् इति नातिव्याप्तिः।
३१
एकत्रिंशत्कोटिः॥
पूर्वोक्तरीत्या अतिव्याप्तिवारणेऽपि “समानाधिकरणवत्समानाधिकरणव्याप्यजलाभाव- वदवृत्तिमत्कालीनह्रदः समानाधिकरणाभाववान्” इत्यत्र समानाधिकरणाभावाभावव्याप्य- जलाभाववदवृत्तिमत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । तद्विषयकज्ञानस्य “समानाधिकरणाभावा- भावव्याप्यजलाभाववदवृत्तिमान् समानाधिकरणवान्” इति निश्चयविशिष्ट “समानाधिकरण- व्याप्यजलाभाववदवृत्तिमान् तादृशह्रदः” इति निश्चयत्वेन प्रकृतानुमितिप्रतिबन्धकत्वसत्वात् सत्यन्तदलाक्रान्तत्वम् । एवं पूर्वोक्तपरिष्कृतविशेष्यदलमपि तत्र अस्ति । तथाहि तत्र किञ्चित्प्रकारतापदेन “समानाधिकरणवत्समानाधिकरणव्याप्यजलाभाववदवृत्तिमत्कालीनह्रदः समानाधिकरणव्याप्यजलवान्” इत्याकारकज्ञानीयतादृशजलनिष्ठप्रकारता गृह्यते । तस्याः
[[166]]
[[177]]
स्वविशिष्टविशेष्यतानिरूपकत्वसंबन्धेन अधिकरणं भवति समानाधिकरणव्याप्यजलव्याप्य- शैवालवत्तादृशह्रदविषयकनिश्चयः “शैवालव्यापकसमानाधिकरणव्याप्यजलसमानाधि- करणशैवालवान्” इत्याकारकः । तादृशह्रदे समानाधिकरणशैवालस्य विषयत्वात् सत्यन्तदल- घटकप्रतिबन्धकता नियता भवति तस्य । अतः तादृशप्रकारतायां स्वसमानाधिकरणभेद- प्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नस्वनिष्ठभेदप्रतियोगितावच्छेदकत्वसंबन्धेन तादृश- प्रतिबध्यतावैशिष्ट्यस्य सत्वात् स्वनिरूपितप्रतिबन्ध्यताविशिष्टसमानाधिकरणव्याप्यजल- प्रकारतानिरूपितविषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितत्वसंबन्धेन प्रतिबन्धकता- विशिष्टजनकत्वस्य उक्तविशिष्टविषयकनिश्चये सत्वात् विशेष्यदलाक्रान्तत्वम् । अतः अतिव्याप्तिः दुर्वारा ।
३२
द्वात्रिंशत्कोटिः॥
३० कोटौ स्वाधिकरणत्वानुगमशरीरे निविष्टं यत् स्वनिरूपितसामानाधि- करण्यप्रकारतानिरूपितत्वं तत् स्वनिरूपितप्रकारतानिरूपितप्रकारतानिरूपितत्वमेव विवक्षणीयम्। एवं सति नातिव्याप्तिः । प्रकारतापदेन समानाधिकरणव्याप्यजलत्वावच्छिन्नप्रकारता गृह्यते। सा प्रकारता स्वविशिष्टविशेष्यतानिरूपकत्वसंबन्धेन शैवालव्यापकसमानाधिकरणव्याप्यजल- वज्ज्ञानविषयशैलवान् तादृशह्रदः इति ज्ञाने अस्ति । तथाहि तादृशप्रकारतानिरूपितज्ञानत्वा- वच्छिन्नप्रकारतानिरूपितविषयत्वावच्छिन्नप्रकारतानिरूपितत्वं, स्वनिरूपितव्यापकत्व- प्रकारतानिरूपितत्वोभयसंबन्धेन स्ववृत्तिः प्रकारता या तदवच्छेदकधर्मसंबन्धावच्छिन्नत्वं पूर्वोक्तनिश्चयीयशैवालप्रकारतायां अक्षतमिति तस्य च प्रतिबन्धकत्वाभावात् तादृशप्रतिबन्धकता- वैशिष्ट्यस्य जनकतायामभावात् नातिव्याप्तिः ।
[[167]]
[[178]]
शङ्का - निश्चयविशिष्टनिश्चयत्वेन यत्र प्रतिबन्धकत्वं उच्यते तत्र प्रथमनिश्चयः नियमेन व्यापकत्वावगाहि इति वक्तव्यम् । एवं स्थिते तस्मिन् व्यापकत्वशरीरे साध्यतावच्छेदकसंबन्धा- वच्छिन्नत्वं अवश्यं निवेशनीयम् । तथाहि सत्प्रतिपक्षे समन्वयवेलायां प्रथमनिश्चयः भवति “जलव्यापकः वह्न्यभावः” इत्याकारकः निश्चयः । जलव्यापकत्वं वह्न्यभावे जलाधिकरण- निष्ठाभावाप्रतियोगित्वरूपम् । तत्र अभावे जलाधिकरणनिष्ठत्वं साध्यतावच्छेदकसंबन्धेन इति वक्तव्यम् । अन्यथा कालिकसंबन्धेन वह्न्यभावाभावस्य वह्नेः जलाधिकरणे सत्वात् वह्न्यभावस्य व्यापकत्वं न स्यात् । एवं पूर्वोक्तपरिष्कारेऽपि स्ववृत्तिप्रकारताविशिष्टत्वं इत्यत्र वृत्तित्वं स्वनिरूपितसाध्यतावच्छेदकसंबन्धावच्छिन्नाभावीयवृत्तित्वघटितव्यापकत्वप्रकारतानिरूपितत्व- संबन्धेन इति वाच्यम् । एवं स्थिते ह्रदः वह्निमानित्यत्र ह्रदावृत्तित्वव्याप्यवद्वह्नौ अव्याप्तिः । “वह्नित्वव्यापक- ह्रदावृत्तित्वसमानाधिकरणवह्नित्ववान् वह्निः” इत्याकारकसत्प्रतिपक्षनिश्चयस्य वह्नित्वाधिकरणे स्वरूपसंबन्धेन ह्रदवृत्तित्वावगाहिनः एव प्रतिबन्धकतया तस्य च साध्यतावच्छेदकसंयोगसंबन्धा- वच्छिन्नत्वघटितव्यापकत्वप्रकारतानिरूपकत्वविरहात् अव्याप्तिः । समाधानम् - व्यापकताघटकाभावीयवत्तिप्रकारतायां संबन्धावच्छिन्नत्वप्रकारत्वानिरूपितत्वं निवेश्यते। तर्हि साध्यतावच्छेदकातिरिक्तसंबन्धेनाभावीयवृत्तिविषयकज्ञानस्य अप्रतिबन्धकतया कथं समन्वयः इति न प्रष्टव्यम् । यतोहि अभावीयवृत्तौ संबन्धावच्छिन्नत्वानवगाहिनोऽपि “वह्निः ह्रदवृत्तित्वसामान्याभाववान्” इत्याकारकनिश्चयस्य यथा “ह्रदो वह्निमान्” इति अनुमिति-
[[168]]
[[179]]
प्रतिबन्धकत्वं तद्वदेव “ह्रदावृत्तित्वव्याप्यवान् वह्निः” इत्याकारकज्ञानस्यापि प्रतिबन्धकत्वं स्वीक्रियते अतः न दोषः । शङ्का - अत्र केचन एवं आक्षिपन्ति । व्यापकत्वं च नियमेन किञ्चित्संबन्धावच्छिन्नाभावीय- वृत्तित्वघटितं वक्तव्यम् । अन्यथा तस्य व्यापकत्वमेव पूर्वोक्तयुक्त्या न स्यात् । एवं च संबन्धाविषयकव्यापकताज्ञानस्य प्रतिबन्धकता न भवति । अत्र यद्दपि विषयविरोधः अस्ति। अथापि प्रतिबन्धकत्वं न भवति । यथा “वह्न्यभावव्याप्यव्याप्यवान् ह्रदः” इत्याकरकज्ञानस्य प्रतिबन्धकत्वं नास्ति तथा संबन्धावच्छिन्नत्वानवगाहिव्यापकताग्रहस्यापि प्रतिबन्धकत्वं नास्ति। अतः पूर्वोक्ताव्याप्तिः तदवस्थैव इति । समाधानम् - व्यापकत्वं नियमेन संबन्धविशेषघटितमेव भवति इति यदुक्तं तन्न सङ्गच्छते यतो आत्मत्वं प्रति द्रव्यत्वं व्यापकं भवति । तत्र व्यापकताशरीरे संबन्धविशेषनिवेशे प्रयोजनं किमपि नास्ति। आत्मत्वाधिकरणे कालिकसंबन्धेनापि द्रव्यत्वाभावस्य असत्वात् । तथा च तत्र संबन्धावच्छिन्न- त्वाघटितं व्यापकत्वं सिद्धं अस्ति । तादृशमेव अत्रापि स्वीक्रियते विरोधाभावात् । अतः तस्यापि प्रतिबन्धकत्वसंभवात् नाव्याप्तिः । संबन्धविशेषानवगाहिव्यापकताज्ञानस्यापि अनुमितिजनकत्वं सिद्धान्तलक्षणे भट्टाचार्यैः अभिहितम् । एवं संबन्धविशेषानवगाहिज्ञानस्य प्रतिबन्धकत्वानुपगमे तादृशव्यापकताघटिततदभावव्याप्यवत्वज्ञानकाले संशयानुमितिप्रसङ्गात्। अतः नाव्याप्तिः ।
[[169]]
[[180]]
३३
त्रयस्त्रिंशत्कोटिः॥
एवमपि “जलवद्ध्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्यजलव्याप्यवज्जलवद्ध्रदे अतिव्याप्तिः दुर्वारा । अत्र वह्न्यभावव्याप्यत्वेन वह्न्यभावव्याप्यव्याप्यत्वेन जलं विवक्ष्यते तथा च “जलव्यापकजलव्यापकवह्न्यभावसमानाधिकरणजलसमानाधिकरणजलवान्- जलवद्ध्रदः” इत्याकारकनिश्चयः प्रकृते स्वीक्रियते । अस्य निश्चयस्य “जलव्यापकः वह्न्यभावः” इति निश्चयविशिष्टजलवान् जलवद्ध्रदः इति निश्चयत्वेन प्रतिबन्धकत्वं अस्ति इति सत्यन्तदलाक्रान्तत्वम् । एवं सत्यन्तदलघटकप्रतिबध्यताविशिष्टप्रकारतानिरूपित- विषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकत्वस्य सत्वात् विशेष्यदलाक्रान्तत्वमपि अस्ति। तादृशप्रतिबध्यतावैशिष्ट्यं हि प्रकारतायां स्वनिष्ठभेदप्रतियोगितावच्छेदकत्वद्वया- न्यतरसंबन्धेन प्रकारतानिष्ठतादृशप्रतिबध्यताव्याप्यत्वपर्यवसितेन । प्रकृते च जलव्यापक- वह्न्यभावसमानाधिकरणजलवान् जलवद्ध्रदः इति ज्ञानीयजलनिष्ठप्रकारता किञ्चित्प्रकारतापदेन गृह्यते । स्वविशिष्टविशेष्यतानिरूपकाधिकरणं नाम “जलव्यापकजलव्यापकवह्न्यभाव- समानाधिकरणजलसमानाधिकरणजलवान् जलवद्ध्रदः” इति निश्चयः भवति तत्र च प्रतिबन्धकत्वस्य सत्वात् । स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नस्वनिष्ठ- भेदप्रतियोगितावच्छेदकत्वसंबन्धेन प्रतिबध्यतावैशिष्ट्यस्य प्रकारतायां सत्वात् अतिव्याप्तिः। शङ्का - प्रथमकोट्युक्तातिव्याप्तिवारणाय केचन एवं लक्षणं परिष्कुर्वन्ति । तथाहि विरोध्यनुमितिजनकतायां सत्यन्तदलघटकप्रतिबन्धकताव्याप्यत्वं निवेशनीयम् । जनकता च एकरूपावच्छिन्ना गृह्यते । सा च जलव्यापकवह्न्यभावव्याप्यसमानाधिकरणजलवान्
[[170]]
[[181]]
शैवालव्यापकवह्न्यभावव्याप्यसमानाधिकरणशैवालवान् इत्यादिसकलनिश्चयसाधारणी । एवं च वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः नास्ति। जलव्यापकवह्न्यभाव- व्याप्यव्याप्यत्वं यदि जलव्यापकवह्न्यभावव्याप्यसमानाधिकरणत्वरूपं तदा तदीय अवच्छेदकधर्मदर्शनीयप्रतिबन्धकत्वस्य “शैवालव्यापकवह्न्यभावसमानाधिकरणशैवालवान् तादृशह्रदः” इत्याकारकजनकताश्रयनिश्चये विरहात् प्रतिबन्धकताव्याप्यत्वं जनकतायां विरहात् नातिव्याप्तिः । अवान्तरशङ्का - एवमपि “वह्न्यभाववद्वह्न्यभावव्याप्याभाववदवृत्तिमत्कालीनह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्याभाववदवृत्तिमत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । अत्र “वह्न्यभावव्याप्याभाव- वदवृत्तिमान् तादृशह्रदः” इत्याकारकनिश्चयेषु सर्वेषु विरोध्यनुमितिजनकत्वस्य एवं अवच्छेदकधर्मदर्शनविधया प्रकृतानुमितिप्रतिबन्धकत्वोभयं वर्तते । एवं विरोध्यनुमितिजनकतायां प्रतिबन्धकताव्याप्यत्वसत्वात् अतिव्याप्तिः । अत्र वह्न्यभावव्याप्याभाववदवृत्तित्वेन जलस्य वा शैवालस्य वा अनिवेशात् सर्वेषां एव तादृशनिश्चयानां प्रतिबन्धकत्वं अक्षतमिति ज्ञेयम् । तत्समाधानम् - तत्रापि अतिव्याप्तिः न भवति । तथाहि- पक्षतावच्छेदकत्वेन निविष्टं यत् वह्न्यभावव्याप्याभाववदवृत्तित्वं वह्न्यभावव्याप्याभाववन्निरूपितवृत्तित्वाभावरूपम् । तत्र आधेयतायां किञ्चित्संबन्धावच्छिन्नत्वं अवश्यं निवेशनीयं अन्यथा तस्य “वह्न्यभावव्याप्यवान् ह्रदः” इत्याकारकानुमितिजनकत्वं न स्यात् । स च संबन्धः स्वरूपसंयोगादिरूपः । प्रकृते स्वरूपसंबन्धः गृह्यते । एवं वह्न्यभावावच्छेदकत्वमपि वह्न्यभावव्याप्याभाववदवृत्तेः
[[171]]
[[182]]
स्वरूपसंबन्धेनैव वक्तव्यम्। एवं स्वरूपसंयोगादिसंबन्धावच्छिन्नतादृशवृत्तित्वाभाव- प्रकारकतादृशह्रदविशेष्यकनिश्चयस्य सर्वेषां एकरूपेणैव विरोध्यनुमितिजनकत्वं वक्तव्यम् । परन्तु जनकताश्रये संयोगसंबन्धावच्छिन्नवह्न्यभावव्याप्याभाववन्निरूपिताधेयताशून्यप्रकारक- तादृशह्रदविशेष्यकनिश्चये स्वरूपसंबन्धावच्छिन्नतादृशाधेयताशून्यावगाहिज्ञानवैशिष्ट्या- वच्छिन्नप्रतिबन्धकता नास्ति । अतः नातिव्याप्तिः । पुनः शङ्का - व्याप्तिः द्विविधा प्रतियोगिवैयधिकरण्यघटिता तदघटिता चेति । परन्तु तद्विषयकज्ञानयोः प्रतियोगिवैयधिकरण्यघटितव्यभिचारज्ञानप्रतिबन्धकतावच्छेदकविषयिताशालित्वेन एकरूपेण अनुमितिजनकत्वं स्वीकृतं भट्टाचार्यैः सिद्धान्तलक्षणे, व्याप्त्यनुगमग्रन्थे च । एवं च सति सत्प्रतिपक्षाव्याप्तिः दुर्वारा । यतोहि प्रतियोगिवैयधिकरण्यघटितसाध्याभावव्याप्तिविषयक- निश्चयीयप्रतिबन्धकतायां “साध्याभावः अव्याप्यवृत्तिः” इति ज्ञानं उत्तेजकं भवति । तज्ज्ञानकाले उक्तव्याप्तिज्ञानस्य प्रतिबन्धकत्वं नास्ति । परन्तु विरोध्यनुमितिजनकत्वं तु अस्ति । अतः प्रतिबन्धकताशून्ये अव्याप्यवृत्तित्वज्ञानकालीनप्रतियोगिवैयधिकरण्यघटितव्याप्तिविषयकज्ञाने जनकतायाः सत्वात् प्रतिबन्धकताव्याप्यत्वविरहात् अव्याप्तिः । समाधानम् - इदानीं जनकतायां सत्यन्तदलघटकप्रतिबन्धकताव्याप्यत्वं निविष्टं अस्ति । तुल्यवित्तिवेद्दतया प्रतिबन्धकतायाः जनकताव्यापकत्वं लब्धम् । तच्च स्वरूप, स्वावच्छेदकी- भूताभावप्रतियोग्युपहितत्वान्यतरसंबन्धेन स्वनिरूपितप्रतबिन्धकतावच्छेदकावच्छिन्नप्रतिबध्यता- निरूपितप्रतिबन्धकताविशिष्टत्वरूपम् ।
[[172]]
[[183]]
इदानीं नाव्याप्तिः सत्यन्तदलघटकप्रतिबन्धकता स्वावच्छेदकीभूताभावप्रतियोग्युप- हितत्वसंबन्धेन अव्याप्यवृत्तित्वज्ञानकालीनप्रतियोगिवैयधिकरण्यघटितसाध्याभावव्याप्ति- विषयकनिश्चये जनकताश्रये अस्ति इति व्यापकत्वसत्वात् । पुनः शङ्का - महाविशिष्टे अतिव्याप्तिवारणं एकरूपेण जनकतास्वीकारपक्षे एव । न तु तदस्वीकारपक्षे। तत्पक्षे वह्न्यभावव्याप्यव्याप्यत्वस्य जलव्यापकवह्न्यभावव्याप्यसमानाधिकरणजलरूपत्वेन “जलव्यापकवह्न्यभावव्याप्यसमानाधिकरणजलवान् तादृशह्रदः” इत्याकारकमहाविशिष्ट- विषयकनिश्चयस्य निश्चयविशिष्टनिश्चयत्वेन “वह्न्यभाववज्जलव्यापकवह्न्यभावव्याप्य- समानाधिकरणजलवत्कालीनह्रदः वह्निमान्” इत्याकारकानुमितिप्रतिबन्धकत्वसत्वात् प्रतिबन्धकतायां स्वरूपसंबन्धेन जनकताव्यापकत्वसत्वात् अतिव्याप्तिः दुर्वारा । समाधानम् - एतद्दोषवारणाय जनकतायां प्रतिबन्धकताव्याप्यत्वं स्वनिरूपितजन्यतावच्छेदका- वच्छिन्नजन्यतानिरूपितजनकतासंबन्धेन निवेश्यते । एवं च एकरूपेण जनकत्वाभावपक्षेऽपि न दोषः । उक्तसंबन्धेन जनकता “शैवालव्यापकवह्न्यभावव्याप्यसमानाधिकरणशैवालवान् तादृशह्रदः” इति निश्चयेऽपि अस्ति । तत्र स्वावच्छेदकीभूताभावप्रतियोग्युपहितत्व, स्वरूपान्यतरसंबन्धेन प्रतिबन्धकतायाः विरहात् नातिव्याप्तिः । अतः न कोऽपि दोषः इति वदन्ति । समाधानम् - तन्मतं अयुक्तम् । एवमपि वह्न्यभावव्याप्यजलव्याप्यवज्जलवद्ध्रदे पूर्वोक्ते अतिव्याप्तिः
[[173]]
[[184]]
तदवस्था । तत्र “वह्न्यभावव्याप्यजलव्याप्यजलवान् जलवद्ध्रदः” इत्याकारक-निश्चये भवदुक्तसंबन्धेन प्रतिबन्धकत्वजनकत्वयोः सत्वात् प्रतिबन्धकताव्याप्यत्वस्य जनकतायां अक्षतत्वात् अतिव्याप्तिः । शङ्का - एतद्दोषवारणाय प्रतिबन्धकतायां विशिष्टान्तरविषयित्वाव्यापकत्वं निवेशनीयम् । वह्न्यभावव्याप्यजलव्याप्यत्वं च जलव्यापकवह्न्यभावव्याप्यजलसमानाधिकरणजलरूपं भवति। तद्विषयकनिश्चयीयप्रतिबन्धकतायां तादृशजलसमानाधिकरणवत्तादृशह्रदरूप- विशिष्टान्तरविषयित्वव्यापकत्वस्यैव सत्वात् अव्यापकत्वाभावात् नातिव्याप्तिः । एवं वह्न्यभावव्याप्यजलाभाववदवृत्तित्वमेव वह्न्यभावव्याप्यजलव्याप्यत्वं इत्युच्यते तदापि नातिव्याप्तिः तथाहि । तत्रापि अभाववद्वृत्तित्वीयवद्विशिष्टतादृशह्रदरूपविशिष्टान्तर- विषयकत्वव्यापकत्वं उक्तविशिष्टविषयकनिश्चयीयप्रतिबन्धकतायां अक्षतमिति नातिव्याप्तिः। समाधानम् - विशिष्टान्तरविषयित्वाव्यापकत्वं जनकतायामेव निवेशनीयमिति एतद्ग्रन्थकारैरेव अन्यत्र१ व्यवस्थापितत्वात् प्रतिबन्धकतायां निवेशयितुमशक्यत्वात् तद्दोषतादवस्थ्यम् । किं च प्रतिबन्धकतायां विशिष्टान्तरविषयित्वाव्यापकत्वं निवेशयितुं न शक्यते । तन्निवेशे “जलवान् ह्रदः अभाववद्व्यापकजातित्वाभावकालीनजातित्ववान्” इत्यत्र जातित्वाभावव्याप्यजलाभाववदवृत्तिमत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । तत्र प्रतिबन्धकतायां विशिष्टान्तरविषयित्वाव्यापकत्वसत्त्वात् । १. शतकोटिखण्डने
[[174]]
[[185]]
३४
चतुस्त्रिंशत्कोटिः॥
पूर्वं प्रतिबन्धकत्वजनकत्वयोः व्याप्यव्यापकभावः विवक्षितः येनोक्तदोषः आगतः । तद्वारणाय तयोः व्याप्यव्यापकभावं परित्यज्य प्रकारत्वप्रतिबध्यत्वयोः व्याप्यव्यापकभावः विवक्ष्यते । व्याप्यत्वं च प्रकारतायाः स्वविशिष्टप्रकारतात्त्वसंबन्धेन । प्रतिबध्यतायाः व्यापकत्वं स्वावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वसंबन्धेन । स्ववैशिष्ट्यादिकं मूलोक्तं ग्राह्यम् । एवं च जलवद्ध्रदः वह्निमान् इत्यत्र न वह्न्यभावव्याप्यजलव्याप्यजल- वज्जलवद्ध्रदे अतिव्याप्तिः । तत्र प्रकारतापदेन वह्न्यभावव्याप्यजलनिष्ठा शैवालव्यापकत्व- प्रकारता गृह्यते चेत् तस्यां प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वाभावात् स्वावच्छेदकावच्छिन्न- प्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकतासंबन्धेन प्रतिबध्यतायाः तादृशप्रकारताविशिष्ट- प्रकारतायां विरहात् नातिव्याप्तिः ।
३५
पञ्चत्रिंशत्कोटिः॥
एवमपि अभावः गगनवान् इत्यत्र प्रतियोगित्वव्यापकगगनाभावकालीनप्रतियोगित्व- व्याप्यवदभावे अतिव्याप्तिः दुर्वारा । तत्र प्रतियोगितासंबन्धेन प्रतियोगितायाः व्याप्यत्वावगाहिनः “प्रतियोगित्वव्यापकगगनाभावकालीनप्रतियोगित्वव्याप्यवान् अभावः” इत्याकारकनिश्चयस्य प्रतियोगित्वाभावरूपव्यापकत्वावगाहित्वात् प्रकृतानुमितिप्रतिबन्धकत्वं अस्ति इति अतिव्याप्तिः। एवं सर्वं गगनवत् इत्यत्र अभावव्यापकगगनाभावकालीनाभावव्याप्यवत्सर्वस्मिन्न- तिव्याप्तिः । अस्य निश्चयस्य अभावव्यापकगगनाभावावगाहित्वात् सधर्मितावच्छेदककाभाव- प्रकारकज्ञानस्य प्रतिबन्धकत्वस्य इष्टत्वात् अतिव्याप्तिः ।
[[175]]
[[186]]
शङ्का - पूर्वोक्तनिश्चयद्वयोः अपि व्यापकत्वावगाहिज्ञानत्वेनैव प्रतिबन्धकत्वं उक्तं न तु ज्ञानविशिष्टज्ञानत्वेन । अतः सत्यन्तदलघटकप्रतिबन्धकता ज्ञानवैशिष्ट्यावच्छिन्ना एव ग्राह्या इति पूर्वस्थलद्वयेऽपि नातिव्याप्तिः । समाधानम् - एवमपि “विषयताव्यापकः गगनाभावः” इति निश्चयविशिष्ट “विषयतावांश्चाभावः” इति निश्चयत्वेन एवं “अधिकरणताव्यापकः गगनाभावः” इति निश्चयविशिष्टा“धिकरणता- वांश्चाभावः” इति निश्चयत्वेन प्रतिबन्धकत्वस्य वक्तुं शक्यत्वेन ज्ञानवैशिष्ट्यावच्छिन्न- प्रतिबन्धकतायाः तत्र सुलभतया अतिव्याप्तिः दुर्वारा ।
३६
षड्त्रिंशत्कोटिः॥
पूर्वं स्वविशिष्टप्रकारतात्वं व्याप्यतावच्छेदकसंबन्धः इत्युक्तमासीत् येनोक्तदोषद्वयं आगतम् । अतः तत्र स्ववैशिष्ट्यघटकसंबन्धं परित्यज्य नूतनसंबन्धद्वयेन तन्निविशते । तथा च स्ववैशिष्ट्यं - स्वावच्छेदकावच्छिन्नप्रकारताविशिष्टत्व, स्वनिरूपितविशेष्यतावच्छेदकाव- च्छिन्नविशेष्यतानिरूपितत्वोभयसंबन्धेन । प्रकारतावैशिष्ट्यं मूलोक्तम् । एवं च वह्न्यभाव- व्याप्यव्याप्यत्वस्य व्यापकसामानाधिकरण्यरूपत्वे प्रकारतापदेन वह्न्यभावव्याप्यजलनिष्ठ- प्रकारतायाः ग्रहणे उक्तोभयसंबन्धेन तादृशप्रकारताविशिष्टप्रकारतात्वस्य शैवालव्यापकतादृश- जलसमानाधिकरणशैवालनिष्ठप्रकारतायां सत्वात् तत्र च स्वावच्छेदकावच्छिन्नप्रतिबध्यता- निरूपितप्रतिबन्धकतावच्छेदकत्वसंबन्धेन प्रतिबध्यतायाः विरहात् नातिव्याप्तिः महाविशिष्टे ।
[[176]]
[[187]]
शङ्का - अवच्छेदकधर्मदर्शनीयप्रतिबन्धकतावच्छेदकत्वं सर्वत्रापि सुलभम् । तथाहि एकरूपेण प्रतिबन्धकत्वपक्षे शैवालव्यापकतादृशजलसमानाधिकरणशैवालनिष्ठप्रकारतायाम् अवच्छेदकधर्मदर्शनीयप्रतिबन्धकतावच्छेदकत्वस्य सत्वात् अतिव्याप्तिः तदवस्था इति । समाधानम् - व्यापकतावच्छेदकसंबन्धघटकप्रतिबन्धकतावच्छेदकत्वस्थाने प्रतिबन्धकता- विशिष्टत्वमेव निवेश्यम् । वैशिष्ट्यं च स्वावच्छेदकत्व, स्वानतिरिक्तवृत्तित्वोभयसंबन्धेन । अनतिरिक्तवृत्तित्वं च स्ववद्भेदवद्वृत्तित्वसंबन्धेन स्ववद्भेदवत्वरूपम् । एवं च शैवालव्यापक- तादृशजलसमानाधिकरणशैवालनिष्ठप्रकारतायां प्रतिबन्धकतावच्छेदकत्वसद्भावेऽपि प्रतिबन्धकत्वानतिरिक्तवृत्तित्वं नास्ति । प्रतिबन्धकतावद्भिन्न “शैवालव्यापकतादृशजलसमाना- धिकरणशैवालवान् तादृशह्रदः” इत्याकारकनिश्चये तादृशप्रकारतायाः सत्वात् । स्ववद्भिन्नवृत्तित्वस्यैवसत्वात् तद्वद्भेदस्य विरहात् नातिव्याप्तिः इति ।
३७
सप्तत्रिंशत्कोटिः॥
एवमपि “ह्रदः वह्निमान्” इत्यत्र घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रदे अतिव्याप्तिः दुर्वारा । अत्र उदासीनस्य घटकालीनत्वस्य प्रविष्टत्वात् अस्यापि उदासीनत्वम् । तत्र प्रकारतापदेन घटकालीनवह्न्यभावत्वावच्छिन्नप्रकारता गृह्यते तद्विशिष्टप्रकारता भवति घटकालीनवह्न्य- भावप्रकारता तत्र च उक्तोभयसंबन्धेन प्रतिबन्धकतावैशिष्ट्यसम्भवात् अतिव्याप्तिः दुर्वारा ।
[[177]]
[[188]]
३८
अष्टत्रिंशत्कोटिः॥
उक्तदोषवारणाय प्रतिबध्यतावैशिष्ट्यं प्रकारतायां निवेश्यते । वैशिष्ट्यं च प्रागुक्त- स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वद्वयान्यतर, स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसंबन्धेन। अवच्छेदकत्वादिवैशिष्ट्यं मूलोक्तम् । तथा च स्वावच्छेदकतापर्याप्त्यधिकरणधर्मपर्याप्ता- वच्छेदकताकस्वावच्छेदकसंबन्धावच्छिन्नप्रकारतानिरूपिता या स्वनिरूपितविशेष्यतावच्छेदका- वच्छिन्नविशेष्यता तदनिरूपिकत्वे सति तादृशविशेष्यतानिरूपकत्वाव्यापकविषयिताशून्यः यः निश्चयः तन्निष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकानवच्छिन्नत्वं सत्यन्तदलघटक- प्रतिबध्यतायां निवेशनीयम् इति अस्य परिष्कारस्य विवक्षितार्थः । एवं च ह्रदो वह्निमान् इत्यत्र घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रदे नातिव्याप्तिः । तत्र प्रकारतायां प्रतिबध्यतावैशिष्ट्यं द्वितीयसंबन्धेन नास्ति । तथाहि- “ह्रदे वह्निवैशिष्ट्यावगाहि- बुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकताश्रयीभूतघटकालीनवह्न्यभाववान् ह्रदः” इत्याकारकज्ञानीयघटकालीनवह्न्यभावनिष्ठप्रकारता एव लक्षणघटकप्रकारतापदेन ग्राह्या । तस्यां प्रकारतायां प्रतिबध्यता नास्ति । स्वविशिष्टनिश्चयेत्यत्र “घटकालीनवह्न्यभाववान् ह्रदः” इत्याकारकनिश्चयीयतादृशवह्न्यभावनिष्ठप्रकारता स्वपदेन गृह्यते तदवच्छेदकता- पर्याप्त्यधिकरणधर्मः घटकालीनत्ववह्नित्वोभयम् । तत्पर्याप्तावच्छेदकताकप्रतियोगिताक- तादृशप्रकारतावच्छेदकसंबन्धावच्छिन्नप्रकारतानिरूपिता या तज्ज्ञानीयप्रकारतानिरूपितविशेष्य- तावच्छेदकीभूतह्रदत्वावच्छिन्नविशेष्यत्वानिरूपकः एवं तादृशविशेष्यतानिरूपकत्वाव्यापक- विषयिताशून्यः निश्चयः भवति “ह्रदः वह्न्यभाववान्” इत्याकारकनिश्चयः । तन्निष्ठा या ह्रदो वह्निमान् इत्याकारकबुद्धित्वावच्छिन्नप्रतिबन्ध्यतानिरूपितप्रतिबन्धकता तन्निरूपितप्रतिबध्यता-
[[178]]
[[189]]
वच्छेदकावच्छिन्नत्वमेव सत्यन्तदलघटकप्रतिबध्यतायां अस्ति न तु तदनवच्छिन्नत्वमिति नातिव्याप्तिः ।
३९
नवत्रिंशत्कोटिः॥
एवमपि ह्रदत्वावच्छेदेन जलवत्वघटितजलवद्ध्रदत्वसामानाधिकरण्येन वह्निसाध्यक- स्थले अर्थात् “जलवद्ध्रदः वह्निमान्” इत्यत्र तादृशह्रदत्वसामानाधिकरण्येन जलव्यापक- वह्न्यभावाभाववदवृत्तिमत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । अत्र पक्षकोटौ जलवत्वं ह्रदे ह्रदत्वावच्छेदेन विवक्षितम् । अनुमितिस्तु पक्षतावच्छेदकसामानाधिकरण्येन साध्यविषयिणी गृह्यते इति ज्ञेयम् । उक्तविशिष्टविषयकनिश्चयस्य जलव्यापकवह्न्यभावविषयकनिश्चय- विशिष्टह्रदे जलवैशिष्ट्यावगाहिनिश्चयत्वेन (पक्षकोटौ ह्रदे जलस्य विशेषणत्वात्) प्रतिबन्धकत्व- सत्वात् सत्यन्तदलाक्रान्तत्वम् अस्ति । एवं पूर्वोक्तपरिष्कृतविशेष्यदलम् अपि अस्ति । प्रकारतापदेन ह्रदत्वावच्छेदेन जलवत्वघटितजलवद्ध्रदत्वसामानाधिकरण्येन जलव्यापकवह्न्यभावनिष्ठप्रकारता गृह्यते । तस्याः स्वविशिष्टप्रकारतात्वसंबन्धेन अधिकरणं भवति “जलव्यापकवह्न्यभावसमानाधिकरण- जलवान् तादृशह्रदः” इति ज्ञानीय तादृशजलप्रकारता । तत्र च सत्यन्तदलघटकप्रतिबध्यता- निरूपितप्रतिबन्धकतावच्छेदकत्वम् अस्ति । एवं च स्वसमानाधिकरणभेदप्रतियोगिता- वच्छेदकत्वसंबन्धावच्छिन्नस्ववृत्तिभेदप्रतियोगितावच्छेदकतासंबन्धेन तादृशप्रकारतायां प्रतिबध्यतावैशिष्ट्यं अस्ति । एवं तादृशप्रकारतावच्छेदकतापर्याप्त्यधिकरणं भवति जलव्यापकत्ववह्न्यभाव- त्वोभयम्। तत्पर्याप्तावच्छेदकताकप्रकारतानिरूपिततादृशह्रदत्वावच्छिन्नविशेष्यत्वा-
[[179]]
[[190]]
निरूपकत्वे सति तादृशविशेष्यतानिरूपकत्वाव्यापकविषयिताशून्यः निश्चयः भवति “वह्न्यभाववान् तादृशह्रदः” इति निश्चयः तन्निष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यताव- च्छेदकावच्छिन्नत्वस्यैव सत्यन्तदलघटकप्रतिबध्यतायां सत्वात् पूर्वकोट्युक्तपरिष्कारस्यापि सत्वात् अतिव्याप्तिः । शङ्का - अत्र प्रकारतापदेन जलव्यापकवह्न्यभावनिष्ठप्रकारतायाः ग्रहणे तस्याः स्वविशिष्ट- प्रकारतात्वसंबन्धेन अधिकरणं भवति यथा जलव्यापकजलव्यापकवह्न्यभावसमानाधिकरण- जलवान् जलवद्ध्रदः इति ज्ञानीयतादृशजलत्वावच्छिन्नप्रकारता तथा “शैवालव्यापकजल- व्यापकवह्न्यभावसमानाधिकरणशैवालवान् जलवद्ध्रदः” इति ज्ञानीय तादृशशैवालनिष्ठ- प्रकारताऽपि तादृशी । तत्र च सत्यन्तदलघटकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेद- कत्वविरहात् नातिव्याप्तिः । प्रकारत्वप्रतिबध्यत्वयोः व्याप्यव्यापकभावस्यैव असत्वात् । अतः नातिव्याप्तिः । समाधानम् - पूर्वोक्तपरिष्कारे सत्प्रतिपक्षाव्याप्तिरपि अस्ति । तद्वारणाय कश्चन परिष्कारः कर्तव्यः। तथाहि- ह्रदत्वावच्छेदेन जलवत्वघटितजलवद्ध्रदत्वसामानाधिकरण्येन वह्निसाध्यकस्थले सत्प्रतिपक्षे अव्याप्तिः । तत्र प्रकारतापदेन तादृशह्रदत्वावच्छेदेन वह्न्यभाववत्तानिश्चयीय- तादृशवह्न्यभावप्रकारता गृह्यते । तस्याः स्वावच्छेदकावच्छिन्नप्रकारताविशिष्टत्व- स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसंबन्धेन स्वविशिष्टप्रकारता भवति “शैवालव्यापकवह्न्यभावसमानाधिकरणशैवालवान् तादृशह्रदः” इति ज्ञानीय-
[[180]]
[[191]]
तादृशशैवालनिष्ठप्रकारतापि तत्र सत्यन्तदलघटकप्रतिबध्यतानिरूपितप्रतिबन्धकता- वच्छेदकत्वाभावात् भवति अव्याप्तिः । अतः तद्वारणाय स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वं स्वविशिष्टप्रकारतात्व- घटकतया अनिवेश्य तत्स्थाने स्वनिरूपितविशेष्यतावच्छेदकविशिष्टत्वं निवेश्यते । वैशिष्ट्यं च स्वावच्छिन्नविशेष्यतानिरूपितत्व, स्वव्यापकत्वावच्छिन्नसांसर्गिकविषयतानिरूपित- त्वोभयसंबन्धेन । एवं च नाव्याप्तिः । पूर्वं स्वपदेन जलवद्ध्रदत्वावच्छिन्नविशेष्यतानिरूपित- वह्न्यभावत्वावच्छिन्नप्रकारता गृहीता । तद्वैशिष्ट्यं- जलवद्ध्रदत्वसामानाधिकरण्येन शैवाल- व्यापकवह्न्यभावसमानाधिकरणशैवालविषयकज्ञानीय शैवालप्रकारतायां नास्ति । स्वपदग्राह्यजलवद्ध्रदत्वावच्छिन्नविशेष्यतानिरूपितवह्न्यभावत्वावच्छिन्नप्रकारतानिरूपितजल- वद्ध्रदत्वावच्छिन्नविशेष्यतानिरूपितत्वं यद्दपि अस्ति तथापि जलवद्ध्रदत्वव्यापकसांसर्गिक- विषयतानिरूपितत्वं नास्ति । सामानाधिकरण्येन साध्यावगाहिज्ञाने पक्षतावच्छेदकव्यापकत्वं विधेये संसर्गतयापि न भासते इति नियमात् । अतः शैवालव्यापकवह्न्यभावसमानाधिकरण- शैवालप्रकारता न स्वविशिष्टप्रकारतापदेन स्वीकर्तुं शक्यते । किन्तु जलवद्ध्रदत्वावच्छेदेन तादृशशैवालविषयकज्ञानीयतादृशशैवालप्रकारता एव तादृशी तत्र च प्रकृतानुमितिप्रतिबन्धकता- वच्छेदकत्वसत्वात् नाव्याप्तिः । एवं च सति पूर्वोक्तातिव्याप्तिः तदवस्थैव । तत्र जलवद्ध्रदत्वसामानाधिकरण्येन शैवालव्यापकजलव्यापकवह्न्यभावसमानाधिकरणशैवालविषयकज्ञानीय०शैवालप्रकारतायां प्रतिबन्धकतावच्छेदकत्वाभावेऽपि तादृशजलवद्ध्रदत्वावच्छेदेन तादृशशैवालविषयकज्ञानीय तादृशशैवालप्रकारतायाः एव स्वविशिष्टप्रकारतापदेन स्वीकर्तुं शक्यत्वात् तस्याः च प्रतिबन्धकतावच्छेदकत्वात् अतिव्याप्तिः ।
[[181]]
[[192]]
४०
चत्वारिंशत्कोटिः॥
पूर्वोक्तातिव्याप्तिवारणाय विरोध्यनुमितौ प्रकृतानुमितिप्रतिबन्धकतानवच्छेदक- विषयताशून्यत्वं विशेषणं देयम् । तत्र विरोध्यनुमितिपदेन जलवद्ध्रदत्वसामानाधिकरण्येन जलव्यापकवह्न्यभावप्रकारकानुमितिरेव ग्राह्या । तस्यां च प्रकृतानुमितिप्रतिबन्धकतानवच्छेदक- जलव्यापकवह्न्यभावप्रकारतानिरूपिता या सांसर्गिकविषयता तस्याः सत्वात् । प्रतिबन्धकता- नवच्छेदकविषयताशून्यत्वाभावात् नातिव्याप्तिः ।
४१
एकचत्वारिंशत्कोटिः॥
एवमपि घटः गगनाभाववदभाववत्कालीनगगनवान् इत्यत्र तादृशगगनाभावव्याप्यवद्घटे सत्प्रतिपक्षे अव्याप्तिः दुर्वारा । तत्र विरोध्यनुमितिपदेन “घटः तादृशगगनाभाववान्” इत्याकारक- बाधज्ञानस्य स्वीकरणीयत्वात् तत्र प्रकृतानुमितिप्रतिबन्धकतानवच्छेदककालीनत्वनिष्ठ- विषयतायाः एव सत्वात् तच्छून्यत्वाभावात् अव्याप्तिः । “घटः तादृशगगनाभाववान्” इत्याकारकनिश्चयस्य “अभाववान् गगनाभाववान्” “अभाववांश्च घटः” इति निश्चयविशिष्ट- निश्चयत्वेनैव प्रतिबन्धकत्वात् कालीनत्वविषयतायाः प्रतिबन्धकतायां अनुपयुक्तत्वात् प्रतिबन्धकतावच्छेदकत्वं नास्ति इति ज्ञेयम् ।
४२
द्विचत्वारिंशत्कोटिः॥
३९ कोट्युक्तातिव्याप्तिवारणाय ४०कोट्युक्तपरिष्कारं परित्यज्य प्रतिबध्यता- विशिष्टप्रकारतेत्यत्र प्रकारतायां प्रकृतानुमितिप्रतिबन्धकतानिरूपितप्रकारतात्वावच्छिन्ना- वच्छेदकत्वाश्रयत्वं इति विशेषणं दीयते । इत्थं च जलवद्ध्रदत्वसामानाधिकरण्येन वह्निसाध्यकस्थले जलवान् ह्रदः जलव्यापकवह्न्यभाववान् इत्याकारकज्ञानीय-
[[182]]
[[193]]
वह्न्यभावत्वावच्छिन्नप्रकारतायाः प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वेऽपि न सा अवच्छेदकता प्रकारतात्वावच्छिन्ना किन्तु विशेष्यतात्वावच्छिन्नैव । “जलव्यापकः वह्न्यभावः” इति ज्ञाने तस्य विशेष्यत्वात् प्रकारत्वाभावात् । अतः नातिव्याप्तिः ।
४३
त्रिचत्वारिंशत्कोटिः॥
एवं सति अभावः अभाववृत्तित्वव्यापकगगनाभावकालीनगगनवान् इत्यत्र अभावा- वृत्तित्वव्याप्यवत्तादृशगगने अव्याप्तेः । अत्र बाधनिश्चयः भवति “अभाववृत्तित्वव्यापक- गगनाभावकालीनगगनं अभाववृत्तिवाभाववत्” इत्याकारकः । तस्य निश्चयस्य “अभाववृत्तित्व- व्यापकः गगनाभावः” इति निश्चयविशिष्ट अभाववृत्तित्ववान् अभावः इति निश्चयत्वेन अभावपक्षकतादृशगगनसाध्यकानुमितिप्रतिबन्धकत्वं वक्तव्यम् । अभाववृत्तित्ववत्वं अभावे प्रतियोगितासंबन्धेन । अभाववृत्तित्वव्यापकः गगनाभावः इत्यत्र अभाववृत्तित्वस्य व्याप्यत्वं प्रतियोगितासंबन्धेन । एवं च प्रकृते ईदृशनिश्चयविशिष्टनिश्चयत्वेनैव प्रतिबन्धकत्वोपपत्तौ प्रतिबन्धकत्वान्तरे मानाभावात् तन्नाङ्गीक्रियते । एवं च अत्र प्रकारतापदेन “अभाववृत्तित्वाभाववत् तादृग्गगनं” इत्याकारकज्ञानीय अभाववृत्तित्वाभावप्रकारतायाः ग्रहणे तस्याः प्रकृतानुमिति- प्रतिबन्धकतावच्छेदकत्वं यद्दपि अस्ति । तथापि सा अवच्छेदकता विशेष्यतात्वावच्छिन्नैव न तु प्रकारतात्वावच्छिन्ना इति पूर्वोक्तलक्षणविरहात् अव्याप्तिः । शङ्का - पूर्वं “ह्रदो वह्निमान्” इत्यत्र घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रदे अतिव्याप्तिवारणाय प्रतिबध्यतावैशिष्ट्यघटकतया स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वं संबन्धः इति निवेशितः । स च परिष्कारोऽपि अत्र नास्ति इति अव्याप्तिः वक्तुं शक्यते खलु । तदनुक्त्वा अवच्छेदकतायां प्रकारतात्वावच्छिन्नत्वं नास्ति इति अव्याप्तिकथनम् अयुक्तम् इति ।
[[183]]
[[194]]
समाधानम् - सत्यम् । पूर्वं घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रदे अतिव्याप्तिवारणाय स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वं निवेशितमासीत् । परन्तु तन्निवेशे अन्यस्य दोषस्य सम्भवात् तत् त्यज्यते । अतः प्रकारतात्वावच्छिन्नत्वाभावात् अवच्छेदकतायाम् अव्याप्तिः प्रकृते उच्यते। घटकालीनेत्यादिविशिष्टे अतिव्याप्तिवारणप्रकारः अग्रे प्रदर्शयिष्यते । शङ्का - ३९ कोट्युक्तातिव्याप्तिवारणाय प्रतिबध्यतावैशिष्ट्यघटकतया पूर्वोक्तसंबन्धेन सह स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवन्निश्चयवृत्तित्वसंबन्धोऽपि योजनीयः । न तु तद्वारणाय कृतं प्रकृतानुमितिप्रतिबन्धकतानवच्छेदकविषयताशून्यत्वं विरोध्यनुमितिविशेषणम् । अवच्छेदकत्वादिकं मूलोक्तं अस्यार्थस्तु सत्यन्तदलघटकप्रतिबध्यतानिरूपितप्रतिबन्धकता- शून्यनिश्चये यत्प्रकारतावच्छेदकावच्छिन्नविषयकत्व, तत्प्रकारतानिरूपितविशेष्यता- वच्छेदकावच्छिन्नविषयकत्वोभयं वर्तते सैव प्रकारता विशेष्यदले निविष्टा इति ज्ञेयम् । एवं च जलवद्ध्रदपक्षकस्थले जलवद्ध्रदत्वसामानाधिकरण्येन जलव्यापकवह्न्यभाववत्तानिश्चयीय वह्न्यभावप्रकारता तादृशी नास्ति । यतोहि तदवच्छेदकावच्छिन्नविषयकत्वतन्निरूपितविशेष्यता- वच्छेदकावच्छिन्नविशेष्यकत्वोभयं यत्र यत्र निश्चये वर्तते “जलवद्ध्रदः जलव्यापक- वह्न्यभाववान्” “जलव्यापकवह्न्यभावः जलवद्ध्रदवान्” इत्यादि निश्चये तत्र तादृशह्रदे वह्निवैशिष्ट्यावगाहिबुद्धिप्रतिबन्धकता वर्तते न तु तेन संबन्धेन स्ववद्भेदः इति नातिव्याप्तिः ।
[[184]]
[[195]]
समाधानम् - तत्रातिव्याप्तिवारणेऽपि एतत्कोट्युक्ताव्याप्तिवारणमशक्यमेव । “तादृशगगनं अभावावृत्ति” इति ज्ञानीय अभावावृत्तित्वप्रकारतायाः स्वीकर्तुं अशक्यत्वात् अव्याप्तिः तदवस्था भवति । अतः तत्संबन्धनिवेशेऽपि न निस्तारः ।
४४
चतुश्चत्वारिंशत्कोटिः॥
३९ कोट्युक्तातिव्याप्तिं पूर्वकोट्युक्ताव्याप्तिं च एकेनैव परिष्कारेण वार्यते । तथाहि प्रतिबध्यतावैशिष्ट्यघटकतया पूर्वोक्तसंबन्धेन सह स्वावच्छेदकविषयित्वावच्छिन्नप्रति- बन्धकतानिरूपितप्रतिबध्यतावच्छेदकत्वमपि निवेशनीयम् । एवं च नातिव्याप्तिः तत्र स्वपदेन जलव्यापकवह्न्यभावप्रकारता जलवद्ध्रदत्वसामानाधिकरण्येन तादृशवह्न्यभावावगाहिज्ञानीया गृह्यते । तत्र उक्तसंबन्धेन प्रतिबध्यतावैशिष्ट्यं नास्ति । स्वंप्रतिबध्यता तदवच्छेदकविषयित्वाव- च्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकत्वस्य तस्यां प्रकारतायां असत्वात् । “जलवद्ध्रदः वह्निमान्” इत्याकारकबुद्धिं प्रति सामानाधिकरण्येन जलव्यापकवह्न्यभावावगाहि “जलवद्ध्रदः जलव्यापकवह्न्यभाववान्” इति ज्ञानस्य प्रतिबन्धकत्वेऽपि प्रतिबध्यत्वं नास्ति। अत्र प्रकृतानुमिति एवं प्रकारताश्रय (विरोध्य)नुमित्योः परस्परप्रतिबध्यप्रतिबन्धकभावः विवक्षितः । एवं पूर्वोक्ताव्याप्तिरपि नास्ति । तथाहि- “अभाववृत्तित्वव्यापकगगनाभावकालीनगगनं अभावावृत्ति” इत्याकारकज्ञानं प्रति अभावः तादृशगगनवान् इत्याकारकानुमितेः प्रतिबन्धकत्वमपि अस्ति प्रतिबध्यत्वमपि अस्ति । अतः नाव्याप्तिः ।
[[185]]
[[196]]
४५
पञ्चचत्वारिंशत्कोटिः॥
एवमपि “भावभिन्नत्वविशिष्टवह्न्यभावः भावभिन्नत्वव्यापकत्वाभावव्याप्यवह्निमान्” इत्यत्र भावभिन्नत्वव्यापकवह्न्यभावाभाववदवृत्तिमत्तादृशवह्न्यभावे अतिव्याप्तिः दुर्वारा । अत्र पक्षतावच्छेदककोटौ भावभिन्नत्वं वह्न्यभावत्वावच्छेदेन ग्राह्यम् । अनुमितिश्च प्रकृते पक्षतावच्छेदकतादृशवह्न्यभावत्वसामानाधिकरण्येन साध्यावगाहिनी ग्राह्या । अत्र “भावभिन्नत्व- व्यापकवह्न्यभावाभाववदवृत्तिमान् भावभिन्नत्वविशिष्टवह्न्यभावः” इत्याकारक उक्तविशिष्ट- विषयकनिश्चयस्य “भावभिन्नत्वव्यापकः वह्न्यभावः” इति निश्चयविशिष्ट “भावभिन्नत्ववांश्च वह्न्यभावः” इत्याकारकनिश्चयत्वेन प्रकृतानुमितिप्रतिबन्धकत्वात् सत्यन्तदलाक्रान्तत्वम् । एवं पूर्वोक्तविशेष्यदलमपि अस्ति । तत्र प्रतिबध्यतावैशिष्ट्यं प्रकारतायां निवेशितमासीत् । तत्र वैशिष्ट्यं त्रितयसंबन्धेन निवेशितमासीत् । तत्र संबन्धतया प्रकृतानुमितिविरोध्यनुमित्योः परस्परप्रतिबध्यप्रतिबन्धकभावः विवक्षितः । स च प्रकृते संभवति । प्रकारतापदेन भावभिन्न- वह्न्यभावत्वसामानाधिकरण्येन भावभिन्नत्वव्यापकवह्न्यभावप्रकारकज्ञानीय तादृशवह्न्यभाव- प्रकारता गृह्यते । तत्र च प्रकृतानुमितिप्रतिबध्यतावच्छेदकत्वम् अस्ति प्रकृतानुमितिः “भावभिन्नवह्न्यभावः भावभिन्नत्वव्यापकत्वाभावव्याप्यवह्निमान्” इत्याकारिका । तां प्रति “भावभिन्नत्वव्यापकवह्न्यभाववान् भावभिन्नवह्न्यभावः” इत्याकारकविरोध्यनुमितेः प्रतिबन्धकत्ववत् प्रतिबध्यत्वमपि अस्ति । विरोध्यनुमितौ वह्न्यभावत्वावच्छेदेन भावभिन्नत्व- व्यापकत्वं विषयः । तां प्रति वह्न्यभावत्वसामानाधिकरण्येन भावभिन्नत्वव्यापकत्वाभावावगाहि- प्रकृतानुमितेः प्रतिबन्धकत्वं सुलभं अतः प्रतिबध्यतावैशिष्ट्यस्य प्रकारतायां सुलभत्वात् भवति अतिव्याप्तिः ।
[[186]]
[[197]]
शङ्का - इयं अतिव्याप्तिः नास्ति । यतो हि वैशिष्ट्यघटकतृतीयसंबन्धसत्वेऽपि घटकालीनवह्न्य- भावाभाववदवृत्तिमद्ध्रदवारकद्वितीयसंबन्धाभावात् । स च संबन्धः स्ववृत्तिभेदप्रतियोगिता- वच्छेदकत्वरूपः । तेन संबन्धेन प्रतिबन्ध्यता उक्तप्रकारतायां नास्ति । तथाहि- भावभिन्नत्व- व्यापकवह्न्यभावत्वपर्याप्तावच्छेदकताकप्रकारतानिरूपितभावभिन्नवह्न्यभावत्वावच्छिन्न- विशेष्यत्वानिरूपकस्य तादृशविशेष्यतानिरूपकत्वाव्यापकविषयिताशून्यस्य भावभिन्नवह्न्य- भावत्वसामानाधिकरण्येन भावभिन्नत्वव्यापकत्वावगाहिनः “भावभिन्नत्वव्यापकः वह्न्यभावः” इति निश्चयवैशिष्ट्यावच्छिन्नप्रकृतानुमितिप्रतिबन्धकतायाः सत्वेन तादृशनिश्चयनिष्ठप्रतिबन्धकता- निरूपितप्रतिबध्यतावच्छेदकावच्छिन्नत्वसंबन्धावच्छिन्नप्रतिबध्यतावृत्तिभेदप्रतियोगिता- वच्छेदकत्वविरहात् द्वितीयसंबन्धेन प्रतिबध्यताविशिष्टत्वस्य प्रकारतायां विरहात् नातिव्याप्तिः। समाधानम् - एवमपि जलवान् ह्रदः वह्निमान् इत्यत्र वह्न्यभावव्याप्यजलव्याप्यवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । तत्र प्रकारतापदेन वह्न्यभावव्याप्यजलनिष्ठप्रकारता गृह्यते तत्र च संबन्धद्वयेन प्रतिबध्यतावैशिष्ट्यस्य पूर्वोक्तरीत्या सत्वात् अतिव्याप्तिः । शङ्का - संबन्धद्वयेन उक्तप्रकारतायां प्रतिबध्यतावैशिष्ट्यसद्भावेऽपि तृतीयसंबन्धेन तन्नास्ति। तथाहि वह्न्यभावव्याप्यजलनिष्ठप्रकारतायां प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वेऽपि प्रतिबध्यतावच्छेदकत्वं नास्ति । “ जलवान् ह्रदः वह्निमान्” इत्याकारकानुमितेः “वह्न्यभावव्याप्यजलवान् जलवद्ध्रदः” इत्याकारकज्ञानप्रतिबन्धकत्वाभावात् । अतः नातिव्याप्तिः।
[[187]]
[[198]]
समाधानम् - एवमपि वह्न्यभावव्याप्याभाववद्वह्निमत्कालीनजलवान् ह्रदः इत्यत्र वह्न्यभावव्याप्य- जलव्याप्यवज्जलवद्ध्रदे अतिव्याप्तिः दुर्वारा । अत्र वह्न्यभावव्याप्यजलनिष्ठप्रकारतायां “वह्न्यभावव्याप्याभाववद्वह्निमत्कालीनजलवान् ह्रदः वह्निमान्” इत्याकारकानुमिति- प्रतिबध्यतावच्छेदकत्वसत्वात् । तादृशानुमितेः वह्न्यभावव्याप्याभाववत् वह्निमत् इति निश्चयविशिष्टवह्निमांश्च तादृशह्रदः इति निश्चयत्वेन “वह्न्यभावव्याप्यजलवान् तादृशह्रदः” इत्याकारकज्ञानप्रतिबन्धकत्वात् भवति अतिव्याप्तिः । यदि तद्वारणाय कश्चन प्रयत्नः क्रियते इत्युच्यते तदापि “प्रतियोगित्वं निरूपितत्वसंबन्धेन अभाववद्भिन्नं” इत्यत्र सत्प्रतिपक्षे अभाववद्भेदाभावव्याप्यवत्प्रतियोगित्वे अव्याप्तिः । अत्र व्याप्तिः व्यापकताघटिता ग्राह्या । तथा च प्रतिहेतुव्यापकाभाववद्भेदाभावसमानाधिकरण- प्रतिहेतुमत्प्रतियोगत्वं सत्प्रतिपक्षः । उक्तसत्प्रतिपक्षविषयकज्ञानस्य “प्रतियोगित्वं निरूपितत्व- संबन्धेन अभाववत्” इत्याकारकज्ञानत्वेनैव प्रतिबन्धकत्वं स्वीक्रियते । अतः तद्घटक- व्यापकतायाः प्रतिबन्धकतायां अनुपयुक्तत्वात् प्रतिबन्धकतावच्छेदकत्वं व्यापकत्वप्रकारतायां नास्ति इति भवति अव्याप्तिः । शङ्का - पूर्वं प्रतिबध्यतावैशिष्ट्यं प्रकारतायां निवेशितम् । तत्र वैशिष्ट्यघटकतया स्वविशिष्ट- प्रकारतात्वं निवेशितमासीत् । तत्र स्ववैशिष्ट्यं न पूर्वोक्तसंबन्धेन । किन्तु स्वावच्छेदकावच्छिन्न- वद्भिन्नावृत्तित्वप्रकारतानिरूपितविशेष्यताविशिष्टत्व, स्वनिरूपितविशेष्यतावच्छेदकाव- च्छिन्नविशेष्यतानिरूपितत्वोभयसंबन्धेन । विशेष्यतावैशिष्ट्यं मूलोक्तम् । ह्रदो वह्निमान् इत्यत्र
[[188]]
[[199]]
“ह्रदो वह्न्यभाववान्” इति ज्ञानीयप्रकारता प्रकारतापदेन गृह्यते तद्विशिष्टप्रकारता भवति वह्न्यभाववद्भिन्नावृत्तिजलवज्जलवान् ह्रदः” इति ज्ञानीयजलप्रकारता भवति एवं वह्न्यभाव- वद्भिन्नावृत्तिशैवालवच्छैवालवान् ह्रदः इति ज्ञानीय शैवालप्रकारतापि भवति । तत्र प्रकृतानुमिति- प्रतिबन्धकतावच्छेदकत्वसत्वात् लक्षणसमन्वयः । पूर्वोक्तनिश्चयादीनां जलादौ वह्न्यभाव- निरूपिततद्वदन्यावृत्तित्वरूपव्याप्त्यवगाहितया, एवं ह्रदे जलावगाहित्वाच्च प्रतिबन्धकत्वम् । एवं “प्रतियोगित्वं निरूपितत्वसंबन्धेन अभाववद्भिन्नम्” इत्यत्र सत्प्रतिपक्षाव्याप्तिरपि नास्ति। तत्र प्रकारतापदेन “अभाववत्प्रतियोगित्वं” इतिज्ञानीय अभावनिष्ठप्रकारता गृह्यते। तद्विशिष्टप्रकारता भवति “निरूपितत्वसंबन्धेन अभाववद्भिन्नावृत्तितद्व्यक्तिमत्तद्व्यक्ति- मत्प्रतियोगित्वं” इति ज्ञानीय तादृशतद्व्यक्तिनिष्ठप्रकारता । तत्र च प्रकृतानुमितिप्रतिबन्ध- कतावच्छेदकत्वसत्वात् नाव्याप्तिः । समाधानम् - एवं सति “वृत्तित्वं निरूपितत्वसंबन्धेन भिन्नवद्भिन्नं” इत्यत्र निरूपितत्वसंबन्धेन भिन्न- व्याप्यवद्वृत्तित्वरूपसत्प्रतिपक्षे अव्याप्तिः । प्रतिबध्यताविशिष्टप्रकारता इत्यत्र प्रकारतापदेन “वृत्तित्वं निरूपितत्वसंबन्धेन भिन्नवत्” इति ज्ञानीयभिन्ननिष्ठप्रकारता गृह्यते । तत्प्रकारता- विशिष्टप्रकारता इत्यनेन “निरूपितत्वसंबन्धेन भिन्नवद्भिन्नावृत्तितद्व्यक्तिमत्तद्व्यक्तिमद्वृत्तित्वम्” इति ज्ञानीयतद्व्यक्तिनिष्ठप्रकारता ग्राह्या इति वक्तव्यम् । परन्तु तत्र प्रकृतानुमिति- प्रतिबन्धकतावच्छेदकत्वं नास्ति । उक्तज्ञानस्य “भिन्नावृत्ति” इत्यत्र वृत्तित्वांशे निरूपितत्व- संबन्धेन भिन्नवत्वाभावस्य विषयत्वात् तदभाववत्ता निश्चयमुद्रया एव प्रतिबन्धकत्वं वक्तव्यं तदवच्छेदककोटौ तद्व्यक्तिप्रकारतायाः अप्रयोजकत्वात् निवेशः न भवति । अतः स्वविशिष्टप्रकारतात्वं इत्यनेन तादृशतद्व्यक्तिप्रकारतायाः ग्रहणासंभवात् अव्याप्तिः ।
[[189]]
[[200]]
४६
षड्चत्वारिंशत्कोटिः॥
उक्तदोषाणां वारणाय प्रतिबध्यताविशिष्टप्रकारतेत्यत्र वैशिष्ट्यघटकस्ववृत्तिभेदप्रति- योगितावच्छेदकता स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वद्वयवत्वसंबन्धावच्छिन्ना एव ग्राह्या । तत्र प्रथमे स्वाधिकरणता - पूर्वोक्तस्वविशिष्टप्रकारतात्वसंबन्धेन । द्वितीये स्वाधिकरणता- स्वावच्छेदकावच्छिन्नवद्भिन्नावृत्तित्वप्रकारतानिरूपितविशेष्यताविशिष्टत्व, स्वनिरूपितविशेष्यता- वच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसंबन्धावच्छिन्ना ग्राह्या । विषयतावैशिष्ट्यं - मूलोक्तम्। अस्य परिष्कारस्य अर्थः तावत् उक्तव्यापकत्वद्वयान्यतरदेव विवक्षणीयम् इति । एवं च वृत्तित्वं निरूपितत्वसंबन्धेन भिन्नवद्भिन्नं इत्यत्र सत्प्रतिपक्षे अव्याप्तिः नास्ति। अत्र प्रकारतापदेन “वृत्तित्वं भिन्नवदि”ति ज्ञानीयभिन्ननिष्ठप्रकारता गृह्यते । तस्याः स्वावच्छेदकावच्छिन्नेत्यादिसंबन्धेनाधिकरणीभूतायां “वृत्तित्वं निरूपितत्वसंबन्धेन भिन्नवद्भिन्ना वृत्तितद्व्यक्तिमत्तद्व्यक्तिमत्” इति ज्ञानीयतद्व्यक्तिप्रकारतायां प्रकृतानुमितिप्रतिबन्धकता- वच्छेदकत्वाभावात् एकेन स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसंबन्धेन प्रतिबध्यतायां सत्वेऽपि अन्येन संबन्धेन प्रकारतायाः प्रतिबध्यतायां असत्वात् तादृशभेदद्वयवत्वसंबन्धेन प्रतिबध्यतावृत्तिभेदप्रतियोगितावच्छेदकत्वस्य पूर्वोक्तज्ञानीयप्रकारतायां अक्षतत्वात् समन्वयः। एवं प्रतियोगित्वं निरूपितत्वसंबन्धेन अभाववद्भिन्नम् इत्यत्र सत्प्रतिपक्षाव्याप्तिरपि नास्ति । स्वावच्छेदकावच्छिन्नवद्भिन्नावृत्तित्वेत्यादिसंबन्धेन “प्रतियोगित्वं निरूपितत्वसंबन्धेन अभाववत्” इति ज्ञानीयप्रकारताविशिष्टतद्व्यक्तिनिष्ठप्रकारतायां प्रतिबध्यताव्याप्यत्वसत्वात्। एवं च तत्संबन्धघटितस्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वस्य विरहात् तत्संबन्धा- वच्छिन्नस्ववृत्तिभेदप्रतियोगितावच्छेदकत्वस्य तादृशाभाववन्निष्ठप्रकारतायां अक्षतत्वात् समन्वयः नाव्याप्तिः ।
[[190]]
[[201]]
४७
सप्तचत्वारिंशत्कोटिः॥
एवमपि सर्वं अभाववद्भिन्नम् इत्यत्र प्रमेयत्वव्यापकाभावसमानाधिकरणप्रमेयत्व- वत्सर्वस्मिन्नव्याप्तिः दुर्वारा । अत्र प्रतिहेतुः प्रमेयत्वं भवति । “सर्वं अभाववत्” इति ज्ञानीयाभावनिष्ठप्रकारता प्रतिबध्यताविशिष्टप्रकारता इत्यनेन ग्राह्या । परन्तु तत्र प्रतिबध्यतावैशिष्ट्यं न भवति । स्वावच्छेदकावच्छिन्नप्रकारताविशिष्टत्वघटितोभयसंबन्धेन तादृशप्रकारता भवति “प्रमेयत्वव्यापकाभावसमानाधिकरणप्रमेयत्ववत्सर्वम्” इति ज्ञानीय- प्रमेयत्वप्रकारता तस्यां सर्वत्वावच्छिन्नविशेष्यतानिरूपिताभाववद्भिन्नत्वावच्छिन्नप्रकारता- शाल्यनुमितिप्रतिबन्धकतावच्छेदकत्वं नास्ति । यतो हि सर्वपक्षकस्थले असमानधर्मिताव- च्छेदककज्ञानस्यापि प्रतिबन्धकत्वम् एष्टव्यम् । एवं सति उक्तसत्प्रतिपक्षनिश्चयस्य किञ्चिद्धर्माव- च्छिन्नविशेष्यताकाभावप्रकारकज्ञानत्वेनैव प्रतिबन्धकत्वात् प्रमेयत्वप्रकारतायां प्रतिबन्धकतावच्छेदकत्वं नास्ति । अतः प्रतिबध्यतायां स्वसमानाधिकरणभेदप्रतियोगिता- वच्छेदकत्वद्वयसत्वात् प्रतिबध्यतावृत्तिभेदप्रतियोगितावच्छेदकत्वस्य अभावनिष्ठप्रकारतायां विरहात् अव्याप्तिः । शङ्का - अभावत्वेन रूपेण अभावस्य केवलान्वयित्वात् अभाववद्भेदस्यैव अप्रसिद्धत्वात् तत्साध्यकानुमितिरपि अप्रसिद्धा अतः तत्र सत्प्रतिपक्षः एव नास्ति । अतः न दोषः । समाधानम् - अभावस्य केवलान्वयित्वेऽपि अभाववत्वच्छिन्नतादात्म्यसंबन्धावच्छिन्नप्रतियोगिताक- भावः एव अप्रसिद्धः । परन्तु भेदत्वं प्रकृते न तादृशम् । किन्तु अखण्डधर्मः । अतः अभाववद्भेदः प्रसिद्ध्यति इति कृत्वा न अनुमित्यप्रसिद्धिः । तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकाभावत्वं भेदत्वं इति वक्तव्यम् । तर्हि भेदशरीरेऽपि अभावत्वं निविष्टमस्ति । स च अभावविशेष एव । अभाववद्भिन्नम् इत्यत्र अभावसामान्यं
[[191]]
[[202]]
विवक्षितम् । तर्हि अत्र अभाववद्भिन्नं सर्वम् इति ज्ञानम् आहार्यं भवति । तस्य अनुमितित्वं नाङ्गीक्रियते इति प्रश्ने समाधानं भवति भेदत्वम् अखण्डधर्मः एव । न तु पूर्वोक्तः इति । शङ्का - एवमपि अनुमितिः न सम्भवति । यतो हि प्रकृते अनुमितिकारणत्वेन अभिमतव्यापक- सामानाधिकरण्यावगाहिपरामर्शस्य अनुमितिप्रतिबन्धकत्वमेव अस्ति । तथाहि- तद्व्यक्ति- व्यापकाभाववद्भेदसमानाधिकरणतद्व्यक्तिमत्सर्वम् इत्याकारकपरामर्शस्य अभाववद्भेदे अभावरूपव्यापकत्वावगाहिनः प्रतिबन्धकत्वात् । समाधानम् - अत्र पूर्वपक्षव्याप्तिघटितपरामर्शः एव कारणत्वेन स्वीक्रियते । तत्र अभाववत्वं भासते परन्तु तस्य भानं निर्धर्मितावच्छेदककं भवति । अतः तस्य अप्रतिबन्धकत्वात् अनुमितिप्रसिद्धिः। शङ्का - अस्तु अनुमितिः प्रसिध्यतु । परन्तु सत्प्रतिपक्षाव्याप्तिः न भवति । यतोहि प्रतिबध्यता- वैशिष्ट्यघटकस्ववृत्तिभेदप्रतियोगितावच्छेदकतासंबन्धघटकस्वसेत्यादिभेदद्वयवत्वसंबन्ध- घटकस्वाधिकरणता - स्वविशिष्टप्रकारतात्वेनैव । स्ववैशिष्ट्यम् एकं पूर्वोक्तम् । द्वितीयं तु स्वावच्छेदकावच्छिन्नवद्भिन्नावृत्तित्वावच्छिन्नत्व, स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्न- विशेष्यतानिरूपितत्वोभयसंबन्धेन । ह्रदो वह्निमान् इत्यत्र वह्न्यभाववद्भिन्नावृत्तिमान् ह्रदः इति ज्ञानीयप्रकारतामादाय व्याप्यव्यापकः भवति । एवं प्रकृताव्याप्तिरपि नास्ति । स्वपदेन सर्वम् अभाववत् इति ज्ञानीयप्रकारता गृह्यते तदवच्छेदकावच्छिन्नवद्भिन्नावृत्तित्वावच्छिन्नत्व, स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्न-
[[192]]
[[203]]
विशेष्यतानिरूपितत्वोभयवती प्रकारता भवति सर्वं अभाववद्भिन्नावृत्तिमत् इति ज्ञानीयप्रकारता। तत्र प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वम् अक्षतम् । अस्य निश्चयस्य तद्वदन्यावृत्तित्वरूप- व्याप्त्यवगाहित्वेनैव प्रतिबन्धकत्वं न तु अन्यविधं तथात्वम् । अतः तादृशभिन्नावृत्तित्वप्रकारतायां प्रतिबन्धकतावच्छेदकत्वम् अक्षतम् इति समन्वयः नाव्याप्तिः । समाधानम् - एवमपि “अभावविशिष्टवदभावविशिष्टव्याप्यव्याप्यवत्कालीनो घटः अभावविशिष्ट- व्याप्याभावव्याप्याभावविशिष्टवद्भेदवान्” इत्यत्र अभावविशिष्टव्याप्यव्याप्यवत्तादृशघटे अतिव्याप्तिः दुर्वारा । तथाहि - उक्तविशिष्टविषयकनिश्चयस्य “अभावविशिष्टव्याप्यव्याप्यवान् अभाव- विशिष्टवान्” इति निश्चयविशिष्ट “अभावविशिष्टव्याप्यव्याप्यवान् तादृशघटः” इति निश्चयत्वेन प्रकृतानुमितिप्रतिबन्धकत्वात् सत्यन्तदलसत्वम् । एवं विशेष्यदलमपि अस्ति । तथाहि- प्रकृते प्रकारतापदेन तादृशघटः अभावविशिष्टव्याप्यवान् इति ज्ञानीय अभावविशिष्टव्याप्यनिष्ठप्रकारता गृह्यते । तदवच्छेदकावच्छिन्नवद्भिन्नावृत्तित्वावच्छिन्नत्व, स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्न- विशेष्यतानिरूपितत्वोभयसंबन्धेन तद्विशिष्टा प्रकारता भवति अभावविशिष्टव्याप्यवद्भिन्नावृत्तिमान् तादृशघटः (प्रकृतविशिष्टविषयकनिश्चयः) इति ज्ञानीयतादृशभिन्नावृत्तिनिष्ठप्रकारता। तत्र प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वसत्वात् प्रतिबध्यतावैशिष्ट्यं प्रकारतायाम् अक्षतमिति अतिव्याप्तिः ।
[[193]]
[[204]]
४८
अष्टचत्वारिंशत्कोटिः॥
पूर्वकोट्युक्तवैशिष्ट्यघटकस्वावच्छेदकावच्छिन्नवद्भिन्नावृत्तित्वावच्छिन्नत्वस्थाने स्वावच्छेदकावच्छिन्नवद्भिन्नवृत्तित्वप्रकारताविशिष्टत्वमेव निवेश्यम् । वैशिष्ट्यं मूलोक्तं ग्राह्यम्। अस्यार्थस्तु - स्वावच्छेदकावच्छिन्नवद्भिन्ननिरूपितवृत्तित्वप्रकारता यत्संबन्धावच्छिन्नत्व- प्रकारतानिरूपिता तादृशवृत्तित्वप्रकारतानिरूपिताभावप्रकारतानिरूपितत्संबन्धावच्छिन्न- प्रकारतामादाय व्यापकत्वं विवक्षणीयमिति । एवं च न पूर्वोक्तातिव्याप्तिः । तत्र अभावविशिष्टव्याप्यवद्भिन्ननिरूपितसंयोगसंबन्धा- वच्छिन्नाधेयताशून्यस्य संयोगसंबन्धेन पक्षतावच्छेदकघटकत्वे, अभावविशिष्टव्याप्यवद्भिन्न- निरूपितसमवायसंबन्धावच्छिन्नवृत्तित्वशून्यप्रकारकसमवायसंसर्गकतादृशघटविशेष्यक- निश्चयस्य प्रकृतानुमितिप्रतिबन्धकताविरहात् तादृशनिश्चयीयप्रकारतायाम् अभावविशिष्ट- व्याप्यवत्तादृशघटविषयकज्ञानीयप्रकारताविशिष्टायां प्रतिबन्धकतावच्छेदकत्वं नास्ति । एवं स्वावच्छेदकावच्छिन्नप्रकारताविशिष्टत्व, स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्न- विशेष्यतानिरूपितत्वोभयसंबन्धेन तज्ज्ञानीयप्रकारताविशिष्टायां तद्व्यक्तिव्यापकाभावविशिष्ट- व्याप्यसमानाधिकरणतद्व्यक्तिमत्तादृशघटविषयकज्ञानीयप्रकारतायामपि प्रतिबन्धकता- वच्छेदकत्वविरहात् स्वसेत्यादिभेदद्वयवत्वसंबन्धेन प्रतिबध्यतावृत्तिः भवति इयं प्रकारता । अतः प्रतिबध्यतावृत्तिभेदप्रतियोगितावच्छेदकत्वस्य तत्र विरहात् नातिव्याप्तिः ।
४९
नवचत्वारिंशत्कोटिः॥
एवमपि “अभावः वृत्तित्वद्भिन्नः” इत्यत्र वृत्तित्वव्याप्यवदभावे अव्याप्तिः दुर्वारा । तथाहि- प्रकारतापदेन अभावः वृत्तित्ववान् इति ज्ञानीयप्रकारता गृह्यते चेत् तत्र प्रतिबध्यतावैशिष्ट्यं
[[194]]
[[205]]
न भवति । यतोहि स्वावच्छेदकावच्छिन्नप्रकारताविशिष्टत्वघटितोभयसंबन्धेन तद्विशिष्टप्रकारता- भवति तद्व्यक्तिव्यापकवृत्तित्वसमानाधिकरणतद्व्यक्तिमान् अभावः इति ज्ञानीयतद्व्यक्तिनिष्ठ- प्रकारता । एवं स्वावच्छेदकावच्छिन्नवद्भिन्नेत्यादि उभयसंबन्धेन प्रकारताविशिष्टो भवति अभावः वृत्तित्ववद्भिन्नावृत्तिमान् इति ज्ञानीय तादृशावृत्तित्वप्रकारता । एतादृशप्रकारताद्वयेऽपि प्रतिबन्धक- तावच्छेदकत्वं नास्ति । अत्र अवच्छेदकत्वं स्वरूपसंबन्धविशेषरूपं वक्तव्यं परन्तु न भवति । व्यापकत्वावगाहिज्ञानस्य अभावे वृत्तित्वावगाहित्वेनैव प्रतिबन्धकत्वम् । तत्र तद्व्यक्तिप्रकारतायाः अवच्छेदककोटौ अप्रवेशात् एवं वृत्तित्ववद्भिन्नावृत्तित्वज्ञानीयप्रतिबन्धकतायां अवृत्तित्वे न स्वरूपसंबन्धरूपावच्छेदकत्वं सम्भवति । तज्ज्ञानस्य अभावप्रकारकज्ञानत्वेनैव प्रतिबन्धकत्वात्। एवं प्रतिबध्यतावैशिष्ट्यं स्वसेत्यादिभेदद्वयवत्वसंबन्धावच्छिन्नस्ववृत्तिभेद- प्रतियोगितावच्छेदकत्वसंबन्धेन अभावः वृत्तित्ववान् इति ज्ञानीयप्रकारतायां विरहात् अव्याप्तिः। शङ्का - उक्तस्थले अनुमितिरेव न भवति । परमर्शेनैव तत्प्रतिबन्धात् । तथाहि तत्र परामर्शो भवति “वृत्तित्ववद्भेदव्याप्यवानभावः” इत्याकारकः । तस्य च व्यापकसामानाधिकरण्यावगाहि- रूपत्वात् तद्घटकतया व्यापकत्वभानम् आवश्यकम् । व्यापकत्वशरीरे अभावे वृत्तित्वस्य भानात् अनुमितिप्रतिबन्धकत्वमेव अस्य परामर्शस्य न जनकत्वम् । अतः अप्रसिद्धिः । समाधानम् - वृत्तित्वतद्वद्भेदौ अविरुद्धौ इति ज्ञानकाले अभावधर्मिकवृत्तित्वप्रकारकज्ञानस्य न प्रतिबन्धकत्वम् । तादृशप्रतिबन्धकतायां अविरुद्धत्वप्रकारकज्ञानस्य उत्तेजकत्वात् । अतः अनुमित्युपपत्तिः । अतः अव्याप्तिः दुर्वारा ।
[[195]]
[[206]]
एवं च उक्ताव्याप्तिरूपदोषसद्भावात् स्वरूपसंबन्धरूपावच्छेदकत्वघटितलक्षण- परिष्कारः न भवति । तथा च प्रतिबध्यतावैशिष्ट्यं प्रकारतायां निवेशयितुम् अशक्यम् । अतः पूर्वोक्त “वह्न्यभावव्याप्याभाववद्वह्निमत्कालीनजलवान् ह्रदः वह्निमान्” इत्यत्र वह्न्यभावव्याप्यजलव्याप्यवत् तादृशह्रदे अतिव्याप्तिः दुर्वारा ।
- ix) विरोध्यनुमितौ विशिष्टद्वयाघटितत्वनिवेशकल्पः
५०
पञ्चाशत्कोटिः॥
तादृशातिव्याप्तिवारणाय विरोध्यनुमितौ विशिष्टद्वयाघटितत्वं विशिष्टद्वयाविषयकत्वरूपं निवेश्यते । तच्च यादृशविशिष्टविषयकनिश्चयविशिष्टस्वविषयताशून्ययादृशविशिष्टविषयक- निश्चयत्वव्यापिका प्रकृतानुमितिप्रतिबन्धकता तादृशविशिष्टद्वयाविषयकत्वरूपम् । एवं च नातिव्याप्तिः । वह्न्यभावव्याप्यजलत्वावच्छिन्नविषयकनिश्चयविशिष्ट- जलवत्तादृशह्रदत्वावच्छिन्नविषयकनिश्चयत्वस्य प्रकृतानुमितिप्रतिबन्धकताव्याप्यत्वात् उक्तविशिष्टद्वयविषयकत्वस्यैव विरोध्यनुमितौ सत्वात् तदविषयकत्वाभावात् नातिव्याप्तिः । शङ्का - विशिष्टद्वयाघटितत्वशरीरे द्वितीयनिश्चये किमर्थं स्वविषयताशून्यत्वं निवेशितम् इति। समाधानम् - तदभावे “ह्रदो वह्निमान्” इत्यत्र “वह्न्यभाववान् ह्रदः” इति अनुमितिरेव विरोध्यनुमितिः तत्र ह्रदत्वावच्छिन्नविषयिताशालिनिश्चयविशिष्टवह्न्यभाववद्ध्रदत्वावच्छिन्नविषयिताशालि- निश्चयत्वरूपविशिष्टद्वयघटितत्वात् असम्भवः स्यात् । तद्वारणाय इदं निवेशितम् । तथा सति स्वविषयतापदेन वह्न्यभाववद्ध्रदविषयतायाः एव ग्राह्यत्वात् तच्छून्यत्वस्य “वह्न्यभाववान् ह्रदः” इत्याकारकद्वितीयनिश्चये अभावात् ईदृशविशिष्टद्वयस्य स्वीकर्तुं अशक्यत्वात् नासम्भवः।
[[196]]
[[207]]
५१
एकपञ्चाशत्कोटिः॥
एवमपि घटः गगनाभाववदभाववत्कालीनगगनवान् इत्यत्र तादृशगगनाभावव्याप्यवद्घटे अव्याप्तिः दुर्वारा । तत्र विरोध्यनुमितिपदेन “घटः तादृशगगनाभाववान्” इत्याकारकानुमितिरेव ग्राह्या । तत्र च विशिष्टद्वयाविषयकत्वं नास्ति । तथाहि तादृशानुमितेः अभाववान् गगनाभाववान् इति निश्चयविशिष्ट “अभाववांश्च घटः” इति निश्चयत्वेनैव प्रतिबन्धकत्वात् तस्य च गगनाभाव- वदभाववत्वच्छिन्नविषयिताविशिष्टाभाववद्घटत्वावच्छिन्ननिरूपकताकविषयिताशालित्वात् तच्छून्यत्वाभावात् भवति अव्याप्तिः । शङ्का - उक्ताव्याप्तिवारणाय विशिष्टद्वयविषयितायां प्रकृतानुमितिप्रतिबध्यतानवच्छेदकत्वं निवेश्यते । तथा च गगनाभाववदभाववत्वावच्छिन्ननिरूपकताकविषयिताविशिष्ट अभाववद्घट- त्वावच्छिन्ननिरूपकताकविषयितायां प्रकृतानुमितिनिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यता- वच्छेदकत्वसत्वात् इयं विशिष्टद्वयविषयिता स्वीकर्तुं न शक्यते । अन्यां विशिष्टद्वय- विषयितामादाय समन्वयः भवितुमर्हति । समाधानम् - तथा सति पूर्वोक्तवह्न्यभावव्याप्यजलव्याप्यवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । तत्र विशिष्टद्वयविषयितापदेन वह्न्यभावव्याप्यजलत्वावच्छिन्ननिरूपकताकविषयिताविशिष्टजल- वत्तादृशह्रदत्वावच्छिन्ननिरूपकताकविषयिता स्वीक्रियते । तस्यां च प्रकृतानुमितिप्रतिबध्यता- वच्छेदकत्वमेव अस्ति न तु तदनवच्छेदकत्वम् । “वह्न्यभावव्याप्यजलवान् तादृशह्रदः” इत्याकारकविरोध्यनुमितिं प्रति प्रकृतानुमितेः “वह्न्यभावव्याप्याभाववान् वह्निमान्” इति
[[197]]
[[208]]
निश्चयविशिष्ट “वह्निमांश्च तादृशह्रदः” इति निश्चयत्वेन प्रतिबन्धकत्वात् । अतः अतिव्याप्तिः दुर्वारा ।
५२
द्विपञ्चाशत्कोटिः॥
उक्तातिव्याप्तिवारणाय विशिष्टद्वयविषयितायां साध्यवत्ताज्ञानसमानधर्मितावच्छेदकक- यद्धर्मावच्छिन्नवत्ताज्ञानसामान्यं स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानप्रतिबध्यं तद्धर्मावच्छिन्नविषयितानन्तःपातित्वं एव विशेषणं दीयते न तु प्रकृतानुमितिप्रतिबध्यता- नवच्छेदकत्वमपि । तथा च नातिव्याप्तिः । प्रकृते साध्यवत्ताज्ञानं भवति “वह्न्यभावव्याप्या- भाववद्वह्निमत्कालीनजलवान् ह्रदः वह्निमान्” इत्याकारकं ज्ञानम् । तज्ज्ञानस्य स्वसमानधर्मिता- वच्छेदकीभूततादृशह्रदत्वावच्छिन्नविशेष्यकवह्न्यभावव्याप्यजलप्रकारकज्ञानप्रतिबन्धकत्व- सम्भवेऽपि ह्रदो वह्निमान्, घटो वह्निमान् इत्यादिज्ञानानामपि साध्यवत्ताज्ञानसामान्यान्तर्गतत्वात् तेषां च स्वसमानधर्मितावच्छेदकीभूतह्रदत्व, घटत्वाद्दवच्छिन्नविशेष्यताकवह्न्यभावव्याप्य- जलप्रकारकज्ञानप्रतिबन्धकत्वाभावात् साध्यवत्ताज्ञानसामान्यस्य वह्न्यभावव्याप्यजलत्वा- वच्छिन्नप्रकारताशालिज्ञानप्रतिबन्धकत्वविरहात् यद्धर्मपदेन वह्न्यभावव्याप्यजलत्वस्य अग्रहणात् केवलवह्न्यभावत्वस्यैव गृहीतुं शक्यत्वात् तद्धर्मावच्छिन्नविषयतानिरूपिततादृशह्रदत्वा- वच्छिन्नविशेष्यतानन्तःपातिनी भवति वह्न्यभावव्याप्यजलत्वावच्छिन्ननिरूपकताकविषयिता- विशिष्टजलवद्ध्रदत्वावच्छिन्ननिरूपकताकविषयिता (विशिष्टद्वयविषयिता) इति कृत्वा तच्छालित्वस्यैव विरोध्यनुमितौ सद्भावात् तच्छून्यत्वविरहात् नातिव्याप्तिः । एवं घटः गगनाभाववदभाववत्कालीनगगनवान् इत्यत्र तादृशगगनाभावव्याप्यवद्घटे नाव्याप्तिः च । तत्र “घटः तादृशगगनाभाववान्, पटः तादृशगगनाभाववान्” इत्यादिज्ञान-
[[198]]
[[209]]
सामान्यस्य “घटः तादृशगगनवान् पटः तादृशगगनवान्” इत्यादि साध्यवत्ताज्ञानसामान्य- प्रतिबध्यत्वात् गगनाभाववदभाववत्वावच्छिन्ननिरूपकताकविषयिताविशिष्ट अभाववद्- घटविषयितायाः तादृशप्रकृतपक्षविषयतान्तःपातित्वमेव अस्ति न तु तदनन्तःपातित्वमिति विशिष्टद्वयविषयितापदेन इयं विषयिता गृहीतुं न शक्यते । अन्यां विषयितामादाय समन्वयः भवति ।
५३
त्रिपञ्चाशत्कोटिः॥
एवमपि जलवान् ह्रदः वह्न्यभावव्याप्याभावव्याप्यवह्निमान् इत्यत्र वह्न्यभावव्याप्यजल- व्याप्यवज्जलवद्ध्रदे अतिव्याप्तिः दुर्वारा । तत्र प्रकृतानुमितिं प्रति उक्तविशिष्टविषयकनिश्चयस्य “वह्न्यभावव्याप्यं जलं इति निश्चयविशिष्टजलवान् ह्रदः” इति निश्चयत्वेन प्रतिबन्धकत्वात् सत्यन्तदलाक्रान्तत्वम् । एवं विशेष्यदलाक्रान्तत्वमपि अस्ति । तत्र विशिष्टद्वयविषयितापदेन वह्न्यभावव्याप्यजलत्वावच्छिन्ननिरूपकताकविषयिताविशिष्टजलवद्ध्रदत्वावच्छिन्नविषयिता ग्राह्या । परन्तु सा गृहीतुं न शक्यते । यतोहि तत्र तादृशविषयितान्तःपातित्वमेव अस्ति । तथाहि ह्रदः तादृशवह्निमान्, घटः तादृशवह्निमान् इत्यादि साध्यवत्ताज्ञानसामान्यस्य ह्रदः वह्न्यभावव्याप्यजलवान्” इत्याकारकविरोध्यनुमितिप्रतिबन्धकत्वात् यद्धर्मपदेन वह्न्यभाव- व्याप्यजलत्वस्य ग्रहणं भवति । अतः तद्धर्मावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदका- वच्छिन्नविषयतान्तःपातित्वमेव संभवति विशिष्टद्वयविषयितायाम् । अतः तादृशविषयि- तानन्तःपातिनी विशिष्टद्वयविषयिता अन्या एव ग्राह्या तच्छून्यत्वस्य विरोध्यनुमितौ सत्वात् अतिव्याप्तिः।
[[199]]
[[210]]
५४
चतुःपञ्चाशत्कोटिः॥
विशिष्टद्वयाविषयकत्वं विरोध्यनुमितौ नैव निवेश्यते । परन्तु वह्न्यभावव्याप्याभाव- वद्वह्निमत्कालीनो जलवान् ह्रदः वह्निमान् इत्यत्र वह्न्यभावव्याप्यजलव्याप्यवत्तादृशह्रदे अतिव्याप्तिवारणाय प्रकृतानुमितिप्रतिबध्यतानवच्छेदकविषयिताशून्यत्वमेव निवेशनीयम् । तथा सति नातिव्याप्तिः । तथाहि तादृशह्रदः वह्निमान् इत्याकारकानुमितेः वह्न्यभावव्याप्या- वगाहितादृशह्रदविशेष्यकवह्न्यभावव्याप्यप्रकारकविरोध्यनुमितिप्रतिबन्धकत्वात् । तत्र प्रतिबध्यतावच्छेदककोटौ जलत्वस्यापि निवेशः नास्ति । अतः वह्न्यभावव्याप्यजलवान् तादृशह्रदः” इत्याकारकज्ञानीयजलत्वप्रकारतायां प्रकृतानुमितिप्रतिबध्यतानवच्छेदकत्वसत्वात् तादृशजलत्वविषयिताशालित्वस्यैव विरोध्यनुमितौ सत्वात् तच्छून्यत्वाभावात् नातिव्याप्तिः। शङ्का - एवमपि “तादृशह्रदः वह्न्यभावव्याप्यजलाभावव्याप्यवह्निमान्” इत्यत्र तादृशजल- व्याप्यजलव्याप्यवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । वह्न्यभावव्याप्यजलाभावविषयकानुमितेः विरोध्यनुमितिप्रतिप्रतिबन्धकत्वात् प्रतिबध्यतावच्छेदककोटौ जलत्वस्यापि निवेशः कार्यः । तथा च विरोध्यनुमितौ प्रतिबध्यतानवच्छेदकविषयिताशून्यत्वाभावात् भवति अतिव्याप्तिः । समाधानम् - उक्तस्थले अनुमितिरेव अप्रसिद्धा । पक्षतावच्छेदकघटकत्वेन जलस्य ह्रदे भानात् साध्यतावच्छेदककोटौ जले वह्न्यभावव्याप्यत्वस्य भानात् उक्तसाध्यवत्ताज्ञानस्य आहार्यत्वात् अनुमितित्वं न भवति । अतः तत्र अतिव्याप्तिप्रसक्तिरेव नास्ति ।
[[200]]
[[211]]
शङ्का - एवमपि “ह्रदः वह्न्यभावव्याप्यजलाभावव्याप्यवह्निमान्” इत्यत्र वह्न्यभावव्याप्य- जलव्याप्यजलवद्ध्रदे अतिव्याप्तिः दुर्वारा । अत्र पक्षकोटौ जलस्य अविषयत्वात् अस्य अनाहार्यत्वम् । एवं “वह्न्यभावव्याप्यजलवान् ह्रदः” इत्याकारकविरोध्यनुमितेः प्रकृतानुमिति- प्रतिबध्यतावच्छेदविषयिताशालित्वात् तदनवच्छेदकविषयिताशून्यत्वसत्वात् अतिव्याप्तिः । समाधानम् - तथा सति पूर्वोक्तप्रतिबध्यतावैशिष्ट्यं प्रकारतायाम् इदानीम् अपि निवेश्य तद्वारणं कर्त्तव्यम् ।
५५
पञ्चपञ्चाशत्कोटिः॥
एवमपि ह्रदः वह्न्यभावव्याप्याभावव्याप्यवह्न्यभावव्याप्यजलाभावव्याप्योभयवद्वह्निमान् इत्यत्र वह्न्यभावव्याप्यजलव्याप्यजलवद्ध्रदे अतिव्याप्तिः दुर्वारा । अत्र पूर्वोक्तरीत्या विरोध्यनुमितौ प्रकृतानुमितिप्रतिबध्यतानवच्छेदकविषयिताशून्यत्वसत्वात् । एवं वह्न्यभावव्याप्य- जलवान् ह्रदः” इति ज्ञानीयप्रकारतायां प्रतिबध्यताविशिष्टत्वसत्वात् अतिव्याप्तिः दुर्वारा ।
५६
षड्पञ्चाशत्कोटिः॥
उक्तातिव्याप्तिभिया इमं कल्पं परित्यज्य विरोध्यनुमितौ विशिष्टद्वयाविषयकत्वमेव निवेश्यते । न च तर्हि ५३ कोट्युक्तातिव्याप्तिः दुर्वारा इति वाच्यम् । तद्वारणाय विशिष्टद्वय- विषयितायां साध्यवत्ताज्ञानसमानधर्मितावच्छेदककयद्धर्मावच्छिन्नेत्यादिविशेषणे यद्धर्मे स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतादृशधर्मावच्छिन्नाविषयकप्रतीतिविषयताव- च्छेदकत्वरूपं तादृशधर्मान्तराघटितत्वमपि निवेशनीयम् ।
[[201]]
[[212]]
एवं च प्रकृते यद्धर्मपदेन वह्न्यभावव्याप्यजलत्वस्यैव ग्रहणात् तस्य च स्वावच्छिन्ना- विषयक “वह्न्यभावव्याप्यवान् ह्रदः” इत्याकारकप्रतीतिविषयतावच्छेदकवह्न्यभावव्याप्यत्व- रूपधर्मावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वाभावात् यद्धर्मपदेन वह्न्यभावव्याप्य- जलत्वस्य स्वीकर्तुं अशक्यत्वात् नातिव्याप्तिः । शङ्का - उक्तस्थले जलत्वविषयिता एव तादृशपक्षतावच्छेदकावच्छिन्नविषयतानन्तःपातिनी भवति। धर्मपदेन वह्न्यभावव्याप्यत्वमात्रग्रहणे इयं जलत्वविषयिता तादृशी भवति । परन्तु सा विशिष्टद्वयनिरूपिता नास्ति विशिष्टद्वयं च “वह्न्यभावव्याप्यजलं, जलवद्ध्रदश्च” । या विषयिता विशिष्टद्वयनिरूपिता सा अवश्यं तादृशविषयतान्तःपातिनी एव । न तदनन्तःपातिनी अतः विशिष्टद्वयविषयितायां तादृशविषयितानन्तःपातित्वं कथम् । समाधानम् - उक्तदोषवारणाय विशिष्टद्वयविषयितायां तादृशविषयितानन्तःपातिविषयता सामानाधिकरण्यमेव निवेश्यते एवं तादृशविषयितानन्तःपातिनी विषयिता भवति जलत्वविषयिता तत्सामानाधिकरण्यस्य वह्न्यभावव्याप्यजल, जलवद्ध्रदात्मकविशिष्टद्वयविषयितायां सत्वात् न दोषः । शङ्का - अत्र विरोध्यनुमितौ साक्षात्तादृशविषयितानन्तःपातिविषयताशून्यत्वमेव निवेश्यतां किमर्थं विशिष्टद्वयेति ।
[[202]]
[[213]]
समाधानम् - विशिष्टद्वयविषयितायाम् इदं विशेषणं नास्ति चेत् पक्षावृत्तित्वव्याप्यवत्साध्ये सत्प्रतिपक्षे अव्याप्तिः । तत्र “वह्नित्वव्यापकह्रदावृत्तित्वसमानाधिकरणवह्नित्ववान् वह्निः” इत्याकारकः सत्प्रतिपक्षनिश्चयः वक्तव्यः । तत्र विरोध्यनुमितिः भवति “वह्निः पक्षावृत्तिः” इत्याकारिका । तत्र च तादृशविषयितानन्तःपातिनीभूतवृत्तित्वविषयिताशालित्वमेव अस्ति न तु तच्छून्यत्वम् इति अव्याप्तिः स्यात् । अतः विशिष्टद्वयेति वक्तव्यम् । तथा सति द्वितीयविषयितायां स्वविषयिताशून्यत्वस्य निविष्टत्वात् वह्नित्वावच्छिन्नविषयताविशिष्टपक्षावृत्तित्वविशिष्ट- वह्नित्वावच्छिन्नविषयतायाः विशिष्टद्वयविषयतापदेन स्वीकर्तुं अशक्यत्वात् नाव्याप्तिः।
५७
सप्तपञ्चाशत्कोटिः॥
एवं सति “घटः गगनाभाववदभाववत्कालीनगगनवान्” इत्यत्र तादृशगगनाभाव- व्याप्यवद्घटे अव्याप्तिः दुर्वारा । यतो हि तत्र तादृशविषयितानन्तःपातिनी या विशिष्टद्वयविषयिता तच्छून्यत्वं नास्ति । तत्र धर्मपदेन गगनाभावत्वस्य ग्रहणे तद्धर्मावच्छिन्नविषयितानिरूपित- घटत्वावच्छिन्नविषयितान्तानन्तःपातिनी भवति अभावत्वादिविषयिता तच्छालित्वस्यैव विरोध्यनुमितौ सत्वात् विशिष्टद्वयविषयिताशून्यत्वविरहात् अव्याप्तिः स्यात् । अतः तद्वारणाय यः यः तादृशः धर्मः तत्तद्धर्मावच्छिन्नविषयतानिरूपितपक्षतावच्छेदका- वच्छिन्नविषयतान्तःपातित्वाभावकूटवत्वमेव तदनन्तःपातित्वम् इत्यनेन विवक्षितम् । तथा सति नाव्याप्तिः तादृशधर्मपदेन यथा गगनाभावत्वं गृह्यते तद्वत् गगनाभाववदभाववत्कालीन- गगनाभावत्वस्यापि ग्रहणसम्भवात् तद्धर्मावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविषयतान्तः- पातित्वस्यैव विशिष्टद्वयविषयितायां सत्वात् तदन्तःपातित्वाभावकूटवत्वविरहात् नाव्याप्तिः।
[[203]]
[[214]]
एवं सति पूर्वोक्तातिव्याप्तिः तदवस्था । तत्र वह्न्यभावव्याप्यजलत्वस्यापि धर्मपदेन स्वीकर्तुं शक्यत्वात् तदवच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिन्नविषयतान्तःपातित्वम् एव जलत्व- विषयितायाम् अस्ति । न तु तादृशविषयतान्तःपातित्वाभावकूटवत्वम् इति अतिव्याप्तिः । अत्र मूले एतादृशपरिष्कारस्य परिष्कारः उक्तः सः तत्रैव ज्ञेयः । शङ्का - उक्तातिव्याप्तिवारणाय विरोध्यनुमितौ स्वीयपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपित- प्रकारतावच्छेदकं यत् साध्यवत्ताज्ञानसमानधर्मितावच्छेदककयद्धर्मावच्छिन्नप्रकारताशालिज्ञानं स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानसामान्यप्रतिबध्यं तद्धर्मावच्छिन्नाविषयकप्रतीति- विषयतावच्छेदकः यः तादृशः धर्मः तदवच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्न- विशेष्यत्वानिरूपकत्वं विशेषणं दीयते । तथा सति पूर्वोक्तस्थले नातिव्याप्तिः । तथाहि - अत्र तादृशं रूपं भवति वह्न्यभावव्याप्यजलत्वं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य वह्न्यभावव्याप्यत्वे सत्वेऽपि तत्र तादृशत्वविरहात् । एवं यदि प्रकारतावच्छेदकधर्मपदेन वह्न्यभावव्याप्यत्वं गृह्यते तदा तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वं वह्न्यभाव- व्याप्यजलत्वे विरहात् नातिव्याप्तिः । समाधानम् - एवमपि “जलवद्ध्रदः वह्न्यभावव्याप्याभावव्याप्यवह्निमान्” इत्यत्र वह्न्यभावव्याप्य- जलव्याप्यवज्जलवद्ध्रदे अतिव्याप्तिः दुर्वारा । तत्र प्रकारतावच्छेदकधर्मपदेन वह्न्यभाव- व्याप्यत्वस्य वा वह्न्यभावव्याप्यजलत्वस्य वा ग्रहणे तदवच्छिन्नाविषयकप्रतीतिविषयता- वच्छेदकत्वं जलत्वविषयतायां वक्तव्यं परन्तु जलत्वविषयतायां तादृशत्वं नास्ति । “जलवान्
[[204]]
[[215]]
जलवद्ध्रदः” इत्यादिज्ञानानां जलवद्ध्रदः तादृशवह्निमान् इत्यादि साध्यवत्ताज्ञानप्रतिबध्यत्वा- भावात् अन्यधर्ममादाय अतिव्याप्तिः ।
५८
अष्टपञ्चाशत्कोटिः॥
पक्षसाध्यवैशिष्ट्यग्राह्यनुमितित्वव्यापकतद्धर्मावच्छिन्नप्रतिबध्यतावच्छेदक- विषयित्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतायां तद्धर्मावच्छिन्नप्रतिबध्यताव्याप्यप्रकारता- निरूपितविशेष्यतानिरूपितयद्विषयितायाः स्वावच्छिन्नत्व, स्वनिरूपकतावच्छेदकरूपावच्छिन्ना- विषयकप्रतीतिविषयतावच्छेदकरूपावच्छिन्ननिरूपकताकविषयित्वाव्यापकत्वोभयं वर्तते तद्विषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदकत्वं विशेष्यदलार्थः । एवं च “वह्न्यभावव्याप्याभाववद्वह्निमत्कालीनो जलवान् ह्रदः वह्निमान्” इत्यत्र पूर्वोक्तस्थले च न वह्न्यभावव्याप्यजलव्याप्यवत्तादृशह्रदे अतिव्याप्तिः । उक्तविशेष्य- दलाभावात्। तथाहि तत्र पक्षसाध्यवैशिष्ट्यावगाह्यनुमितित्वव्यापकवह्न्यभावव्याप्याभाव- वद्वह्निमत्कालीनत्व, जलवत्व, ह्रदत्व एतत् त्रितयावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्न- प्रकारताकबुद्धित्वावच्छिन्नप्रतिबध्यतावच्छेदकविषयित्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यता वह्न्यभावव्याप्यजलत्वावच्छिन्नप्रकारताकतादृशह्रदत्वावच्छिन्नविशेष्यकज्ञाने वर्तते प्रकृतानुमितेः वह्न्यभावव्याप्याभावावच्छेदकतया गृहीतवह्निप्रकारकनिश्चयत्वेन वह्न्यभाव- व्याप्यजलप्रकारकज्ञानप्रतिबन्धकत्वात् । तत्र च प्रतिबध्यतायां पक्षसाध्यवैशिष्ट्याव- गाहिबुद्धित्वावच्छिन्नप्रतिबध्यताव्याप्यप्रकारतानिरूपिततादृशह्रदत्वावच्छिन्नविशेष्यता- निरूपितविषयितावच्छिन्नत्वं यद्दपि वर्तते । तथापि तादृशविषयितानिरूपकतावच्छेदकरूपा- वच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकरूपावच्छिन्ननिरूपकताकविषयितारूपविशिष्टान्तर-
[[205]]
[[216]]
विषयित्वाव्यापकत्वं नास्ति । तथाहि जलत्वाघटितवह्न्यभावव्याप्यवत्तादृशह्रदत्वावच्छिन्न- निरूपकताकविषयितायाः विशिष्टान्तरविषयितापदेन धर्तुं शक्यतया तदव्यापकत्वस्य तादृशप्रतिबध्यतायां विरहात् नातिव्याप्तिः । ह्रदो वह्निमान् इत्यत्र घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रदे अतिव्याप्तिवारणाय पूर्वं प्रतिबध्यताविशिष्टप्रकारतेत्यत्र वैशिष्ट्यघटकस्ववृत्तिभेदप्रतियोगितावच्छेदकत्वम् अन्यत् निवेशनीयम् इति उक्तम् । तथा सति अभावः अभाववृत्तित्वव्यापकगगनाभावकालीनगगनवान् इत्यत्र अभावावृत्तित्वव्याप्यवद्गगने अव्याप्तिः आगता । प्रकृतपरिष्कारे कृते सति नोक्तदोषद्वयमपि। तथाहि - प्रकृतलक्षणे पक्षसाध्यवैशिष्ट्यावगाहिबुद्धित्वावच्छिन्नप्रतिबध्यता- वच्छेदकविषयित्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतायां विशिष्टान्तरविषयित्वाव्यापकत्वं विशेषणम् । एवं च घटकालीनवह्न्यभाववद्ध्रदत्वावच्छिन्ननिरूपकताकविषयितानिरूपकता- वच्छेदकरूपावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकीभूतवह्न्यभाववद्ध्रदत्वावच्छिन्ननिरूप- कताकविषयिताव्यापकत्वस्यैव तादृशप्रतिबध्यतायां सत्वात् घटकालीनवह्न्यभावाभाव- वदवृत्तिमद्ध्रदे अतिव्याप्तिः नास्ति । एवं च तद्वारणाय कृतपरिष्कारस्य इदानीम् अनावश्यकत्वेन तत्परिष्कारप्रयुक्त अभावपक्षकविशिष्टगगनसाध्यकस्थलीयसत्प्रतिपक्षाव्याप्तिरपि नास्ति ।
५९
नवपञ्चाशत्कोटिः॥
एवमपि वह्न्यभाववत्सुन्दरवह्न्यभाववत्कालीनपर्वतः सुन्दरवह्न्यभाववान् इत्यत्र सुन्दरवह्निव्याप्यवत्तादृशपर्वते अव्याप्तेः । तत्र तादृशपर्वतत्वावच्छिन्नविशेष्यकसुन्दरवह्न्य- भावत्वावच्छिन्नप्रकारकबुद्धित्वावच्छिन्नप्रतिबध्यतावच्छेदकविषयित्वावच्छिन्ना या वह्न्यभाववान् सुन्दरवह्न्यभाववान् इति निश्चयविशिष्टनिश्चयत्वावच्छिन्नप्रतिबन्धकता तन्निरूपितप्रतिबध्यतायां
[[206]]
[[217]]
विशिष्टान्तरभूतवह्निमत्तादृशपर्वतत्वावच्छिन्ननिरूपकताकविषयिताव्यापकत्वस्यैव सत्वात् तदव्यापकत्वाभावात् भवति अव्याप्तिः ।
६०
षष्टिकोटिः॥
सुन्दरवह्न्यभाववति वह्न्यभावः अव्याप्यवृत्तिः इति ज्ञानकालेऽपि तादृशपर्वते सुन्दरवह्न्यभाववत्तानिश्चयस्य प्रतिबन्धकत्वं वक्तव्यम् । परन्तु इदं प्रतिबन्धकत्वं न निश्चयविशिष्ट- निश्चयत्वावच्छिन्नम् । यतो हि वह्न्यभावावच्छेदकतया सुन्दरवह्न्यभावमवगाहमाने निश्चये सुन्दरवह्न्यभावव्यापकत्वं वह्न्यभावांशे संसर्गतया, सुन्दरवह्न्यभाववति वह्न्यभावस्य संसर्गतया भासमानायां दैशिकविशेषणतायां प्रतियोगिवैयधिकरण्यस्य निविष्टत्वे, तद्घटितव्यापक- त्वावगाहिनः उक्तनिश्चयस्य या सुन्दरवह्निमत्ताबुद्धिप्रतिबन्धकता तस्यां वह्न्यभावधर्मिका- व्याप्यवृत्तित्वग्रहस्य उत्तेजकतया तत्काले तादृशपर्वते तादृशवह्निमत्ताज्ञानोत्पादनं निराबाधम्। परन्तु ज्ञानोत्पादः न अनुभवसिद्धः । अतः तादृशानुत्पत्तिनिर्वाहाय सुन्दरवह्न्यभाववान् तादृशपर्वतः इत्याकारकनिश्चयस्य तदभाववत्तानिश्चयविधया प्रतिबन्धकत्वम् अवश्यं वाच्यम्। एवं च प्रकृतानुमितित्वव्यापकप्रतिबध्यतावच्छेदकविषयित्वावच्छिन्नप्रतिबन्धकतानिरूपित- प्रतिबध्यताविशिष्टेत्यत्र प्रतिबन्धकतापदेन उक्तप्रतिबन्धकत्वस्वीकारे तन्निरूपितप्रतिबध्यतायां केवलवह्निमत्तादृशपर्वतरूपविशिष्टान्तरविषयित्वाव्यापकत्व, सुन्दरवह्निमत्तादृशपर्वतत्वा- वच्छिन्ननिरूपकताकविषयित्वावच्छिन्नत्वोभयं सुलभमिति समन्वयः नाव्याप्तिः ।
६१
एकषष्टिकोटिः॥
पूर्वोक्ताव्याप्तिः नास्ति यदि सुन्दरवह्न्यभावव्यापकताघटकतया प्रतियोगिवैयधि- करण्यस्य निवेशः क्रियते । परन्तु तत्र व्यापकत्वं प्रतियोगिवैयधिकरण्याघटितमेव निवेश्यते
[[207]]
[[218]]
चेत् अव्याप्तिः तदवस्था भवति । तत्र सुन्दरवह्न्यभाववति वह्न्यभावः अव्याप्यवृत्तिः इत्याकारकाव्याप्यवृत्तित्वग्रहस्य ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतायाम् उत्तेजकत्वाभावात्। प्रतियोगिवैयधिकरण्याघटितव्यापकतावगाहिनिश्चयनिष्ठप्रतिबन्धकतायाम् अव्याप्यवृत्तित्वग्रहस्य अनुत्तेजकत्वात्। एवं तेनैव प्रतिबन्धकत्वेन अनुमित्यनुत्पादोपपत्तौ प्रतिबन्धकत्वान्तरे मानाभावात् पूर्वोक्तरीत्या ईदृशप्रतिबन्धकतानिरूपितप्रतिबध्यतायां विशिष्टान्तरविषयित्वाव्यापकत्वाभावात् भवति अव्याप्तिः। शङ्का - वृत्तेः अव्याप्यवृत्तित्वे वृत्तिमतः व्याप्यवृत्तित्वं सिद्धान्ते नाङ्गीक्रियते स्पष्टमिदं सिद्धान्त- लक्षणदीधितौ । एवं च संयोगेन द्रव्यं सर्वं अव्याप्यवृत्ति एव । वह्निरपि तुल्ययुक्त्या अव्याप्यवृत्तिः। अतः तत्र अन्यदेव प्रतिबन्धकत्वं वाच्यं तथा सति विशिष्टान्तरविषयित्वा- व्यापकत्वसत्वात् नाव्याप्तिः । समाधानम् - एवमपि द्रव्यत्वाभाववद्गुणभिन्नद्रव्यत्वाभाववत्कालीनः पर्वतः गुणभिन्नद्रव्यत्वाभाववान् इत्यत्र गुणभिन्नद्रव्यत्वव्याप्यवत्तादृशपर्वते अव्याप्तिः दुर्वारा । उक्तानुमितेः “गुणभिन्नद्रव्यत्ववान् तादृशपर्वतः” इत्याकारकबाधनिश्चयं प्रति प्रतिबन्धकत्वात् तन्निरूपिततथाविधबुद्धिनिष्ठ- प्रतिबध्यतायां द्रव्यत्ववत्पर्वतरूपविशिष्टान्तरविषयित्वाव्यापकत्वं नास्ति इति कृत्वा गुणभिन्नद्रव्यत्वव्याप्यवत्तादृशपर्वते अव्याप्तिः । अत्र बाधबुद्धिः, तादृशद्रव्यत्वप्रकारिका द्रव्यत्वं च न अव्याप्यवृत्ति इति बोध्यम् ।
[[208]]
[[219]]
६२
द्विषष्टिकोटिः॥
उक्ताव्याप्तिवारणाय यद्रूपावच्छिन्ननिरूपकताकविषयितायां साध्यतावच्छेदकावच्छिन्न- व्याप्यत्वावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशाल्यनुमितित्वव्यापक- प्रतिबन्धकतानिरूपितप्रतिबध्यताविशिष्टविषयित्वावच्छिन्नजन्यतानिरूपितजनकत्व, विशिष्ट- पक्षसाध्यग्रहत्वाव्यापकपक्षसाध्यवैशिष्ट्यावगाहिग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकत्व एतदुभयानतिरिक्तवृत्तित्वं निवेश्यते । वैशिष्ट्यं पूर्वोक्तं ग्राह्यम् । अत्र परिष्कारे विशिष्टान्तरविषयित्वाव्यापकत्वं साध्यव्याप्यवत्पक्षानुमितित्वव्यापक- प्रतिबन्धकतानिरूपितप्रतिबध्यतायामेव निवेश्यते । न तु पक्षे साध्यवैशिष्ट्यावगाहि अनुमितित्व- व्यापकप्रतिबध्यतावच्छेदकविषयित्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतायां इति विशेषः। एवं च नाव्याप्तिः । सुन्दरवह्न्यभावत्वावच्छिन्नव्याप्यत्वावच्छिन्नप्रकारतानिरूपित- तादृशपर्वतत्वावच्छिन्नविशेष्यताशाल्यनुमितित्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यतायां “तादृशपर्वतः सुन्दरवह्निमान्” इत्याकारकज्ञाननिष्ठायां वह्निमत्तादृशपर्वतरूपविशिष्टान्तर- विषयिताव्यापकत्वं नास्ति इति तदव्यापकत्वसत्वात् नाव्याप्तिः । एवं पूर्वं “वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्न्यभावव्याप्याभाव- व्याप्यवह्निमान्” इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिवारणाय प्रकारतायां प्रतिबध्यतावैशिष्ट्यं निवेशितम् । तदिदानीं नावश्यकम् । तद्विनापि तत्र अतिव्याप्तिवारण- सम्भवात् । तथाहि - वह्न्यभावव्याप्याभावव्याप्यवह्नित्वावच्छिन्नप्रकारकतादृशह्रदत्वावच्छिन्न- विशेष्यकानुमितित्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यता न “वह्न्यभावव्याप्यवान् तादृश- ह्रदः” इत्याकारकबुद्धिनिष्ठा अपि तु “वह्न्यभाववान् तादृशह्रदः” इत्याकारकबुद्धिनिष्ठैव।
[[209]]
[[220]]
अतः तदवच्छेदकत्वं वह्न्यभावव्याप्यवत्तादृशह्रदत्वावच्छिन्ननिरूपकताकविषयितायां नास्तीति कृत्वा अतिव्याप्तिवारणसम्भवे प्रकारतायां प्रतिबध्यतावैशिष्ट्यं नावश्यकम्।
६३
त्रिषष्टिकोटिः॥
एवं सति “वह्न्यभाववत्सुन्दरवह्न्यभावव्याप्यवत्कालीनपर्वतः सुन्दरवह्न्यभाववान्” इत्यत्र सुन्दरवह्निव्याप्यवत्तादृशपर्वते अव्याप्तिः दुर्वारा । “तत्र सुन्दरवह्निमान् तादृशपर्वतः” इत्याकारकबाधनिश्चयं प्रति “वह्न्यभाववान् सुन्दरवह्न्यभावव्याप्यवान्” इति निश्चयविशिष्ट- “सुन्दरवह्न्यभावव्याप्यवांश्च तादृशपर्वतः” इति निश्चयत्वेन “सुन्दरवह्न्यभावव्याप्यवान् तादृशपर्वतः” इत्याकारकसाध्यव्याप्यवत्तानिश्चयस्य प्रतिबन्धकत्वात् । सुन्दरवह्निमत्तादृशपर्वत- विषयकनिश्चयनिष्ठप्रतिबध्यतायां वह्निमत्तादृशपर्वतरूपविशिष्टान्तरविषयित्वव्यापकत्वस्यैव सत्वात् तदव्यापकत्वाभावात् भवति अव्याप्तिः । एवं वह्न्यभावव्याप्याभाववद्वह्निव्याप्यवत्कालीनः वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्य- वत्कालीनह्रदः वह्न्यभावव्याप्याभावव्याप्यवह्निमान् इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे महाविशिष्टे अतिव्याप्तिः दुर्वारा । तथाहि “वह्निव्याप्यवान् तादृशह्रदः” इत्याकारको- न्नेयविषयकज्ञानं प्रति “वह्निव्याप्यवान् वह्न्यभावव्याप्याभाववान्” इति निश्चयविशिष्टवह्नि- व्याप्यवांश्च तादृशह्रदः” इत्याकारकनिश्चयत्वेन साध्यव्याप्यवत्तानिश्चयस्य प्रतिबन्धकत्वात् तादृशोन्नेयविषयकनिश्चयनिष्ठप्रतिबध्यतायां विशिष्टान्तरविषयिताव्यापकत्वविरहात् भवति अतिव्याप्तिः ।
[[210]]
[[221]]
६४
चतुष्षष्टिकोटिः॥
उक्तदोषाणां वारणाय साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाववद्वृत्तित्वनिष्ठा या प्रतियोगित्वसंबन्धावच्छिन्ना प्रकारता तद्विशिष्टप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यता- शालिनिश्चयत्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यत्वं विरोध्यनुमितौ विशेषणम् । अत्र “साध्याभाववदवृत्तिमान् पक्षः” इत्याकारकज्ञानस्य प्रतिबन्धकत्वम् उच्यते । तत्र साध्याभाव- वन्निरूपितवृत्तितावच्छेदकसंबन्धः एवं “वृत्तिमान् पक्षः” इत्यत्र वृत्तिनिष्ठप्रकारतावच्छेदक- संबन्धः च एकः ग्राह्यः । तदेव प्रकारतावैशिष्ट्यघटकसंबन्धतया सूचितम् । एवं च नोक्ताव्याप्तिः तत्र ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतायाम् उक्तनिश्चयत्व- व्यापकत्वासत्वात् । अन्यादृशप्रतिबन्धकतायाः एव तथात्वात् तदादाय समन्वयः ।
६५
पञ्चषष्टिकोटिः॥
एवं सति अभावः वह्न्यभावव्याप्यद्रव्यत्वाभावाभाववद्वृत्तित्ववत्कालीनवह्निमान् इत्यत्र वह्न्यभावव्याप्यद्रव्यत्वाभावव्याप्यद्रव्यत्वाभाववदभावे अतिव्याप्तिः । अत्र विरोध्यनुमितिपदेन “वह्न्यभावव्याप्यद्रव्यत्वाभाववान् अभावः” इत्याकारकानुमितिरेव ग्राह्या । तत्र उक्तविशेषणम् अस्ति । तथाहि “साध्याभाववदवृत्तिमान् पक्षः” इत्याकारकनिश्चयस्य साध्यतावच्छेदककोटि- घटक“वह्न्यभावव्याप्यद्रव्यत्वाभावाभाववान् वृत्तित्वान्” इति निश्चयविशिष्टवृत्तित्ववांश्च अभावः”इत्याकारकनिश्चयत्वेन “वह्न्यभावव्याप्यद्रव्यत्वाभाववान् अभावः” इत्याकारक- विरोध्यनुमितिं प्रति प्रतिबन्धकत्वात् भवति अतिव्याप्तिः । अत्र उक्तविशिष्टविषयकनिश्चयस्य द्रव्यत्वाभावव्यापकः वह्न्यभावः इति निश्चयविशिष्ट“द्रव्यत्वाभाववांश्च अभावः” इति निश्चयत्वेन प्रकृतानुमितिप्रतिबन्धकत्वात् सत्यन्तदलाक्रान्तत्वमपि भवति इति ज्ञेयम् ।
[[211]]
[[222]]
६६
षष्ठषष्टिकोटिः॥
तत्र ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतायां साध्याभाववदवृत्तित्वविषयकग्रहत्वा- व्यापकत्वं निवेश्यते । तथासति नोक्तातिव्याप्तिः । तत्र प्रतिबन्धकता साध्याभाववदवृत्तित्व- विषयकग्रहत्वव्यापिका एव गृहीता न तु तदव्यापिका । अतः न दोषः ।
६७
सप्तषष्टिकोटिः॥
एवं सति अभावः वह्निमद्वृत्तित्ववत्कालीनवह्निमान् इत्यत्र वह्न्यभावव्याप्यवदभावे अव्याप्तेः । तत्र विरोध्यनुमितिपदेन वह्न्यभाववान् अभावः इत्याकारकानुमितिः ग्राह्या। तत्र च साध्याभाववदवृत्तिमान् इत्याकारकज्ञानप्रतिबध्यत्वमेव अस्ति । तथाहि वह्निमद्वृत्तित्व- वत्कालीनवह्न्यभाववन्निरूपितवृत्तित्वाभाववद्वान् अभावः” इत्याकारकज्ञानस्य वह्निमान् वृत्तित्ववान् इति निश्चयविशिष्टवृत्तित्ववांश्च अभावः इति निश्चयत्वेन विरोध्यनुमितिप्रतिबन्धकत्वं स्वीक्रियते । एवं अवच्छेदकधर्मदर्शनीयप्रतिबन्धकतयैव उपपत्तौ अन्यादृशप्रतिबन्धकतायां मानाभावात् । तत्र प्रतिबन्धकतायां साध्याभाववदवृत्तित्वग्रहत्वव्यापकत्वमेव अस्ति इति अव्यापकत्वाभावात् भवति अव्याप्तिः।
६८
अष्टषष्टिकोटिः॥
उक्ताव्याप्तिवारणाय ५२ कोट्युक्तपरिष्कृतविशिष्टद्वयाविषयिकत्वमेव विरोध्यनुमिति- विशेषणं दीयते । तथा च तेनैव परिष्कारेण अत्र अव्याप्तिः वार्यते । एवं विरोध्यनुमितौ पूर्वोक्तविशेषणानि न सन्ति इति भाति । पूर्वोक्तस्थले विशिष्टद्वयविषयितापदेन जलव्यापक- वह्न्यभावविषयिताविशिष्टजलवदभावविषयितायाः ग्रहणे तदविषयकत्वस्य “वह्न्यभाववान् अभावः” इत्याकारकविरोध्यनुमितौ सत्वात् नाव्याप्तिः ।
[[212]]
[[223]]
अत्र विशिष्टद्वयविषयितायां सधर्मितावच्छेदककयद्धर्मावच्छिन्नवत्ताज्ञानसामान्यं स्वसमानधर्मितावच्छेदककसाध्याभाववदवृत्तिमत्ताज्ञानसामान्यप्रतिबध्यं तद्धर्मावच्छिन्नविषयिता- निरूपितपक्षतावच्छेदकावच्छिन्नविषयतानन्तःपातित्वं विशेषणं दीयते । यद्धर्मपदेन वह्न्यभावत्वं गृहीतुं शक्यते । “वह्न्यभाववान् अभावः, वह्न्यभाववान् ह्रदः” इत्यादिज्ञानसामान्यं प्रति वह्निव्याप्यवान् अभावः, वह्निव्याप्यवान् ह्रदः इत्यादिनिश्चयसामान्यस्य प्रतिबन्धकत्वम् अस्ति। अतः तद्धर्मपदग्राह्यवह्न्यभावत्वावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नविषयतान्तःपातिनी एव वह्न्यभाववदभावविषयता न तदनन्तःपातिनी इति कृत्वा विशिष्टद्वयविषयिता इयं गृहीतुं न शक्यते इति नाव्याप्तिः । ५० कोटौ साध्यवत्ताज्ञानसामान्यप्रतिबध्यत्वं निविष्टम् । प्रकृते साध्याभाववदवृत्तिमत्ता- ज्ञानसामान्यप्रतिबध्यत्वं निविष्टमिति विशेषः । अत एव ५१ कोट्युक्तातिव्याप्तिवारणमपि । वह्न्यभावव्याप्यजलवान् तादृशह्रदः इत्याकारकज्ञानं प्रति तादृशवह्निव्याप्यवान् तादृशह्रदः इत्याकारकज्ञानस्य प्रतिबन्धकत्वविरहात् नातिव्याप्तिः ।
६९
नवषष्टिकोटिः॥
एवमपि गगनं गगनाभाववदभाववत्कालीनगगनवत् इत्यत्र गगनावृत्तित्वव्याप्यवद्गगने अव्याप्तिः दुर्वारा । तत्र विरोध्यनुमितिपदेन “गगनं तादृशगगनावृत्ति” इत्याकारकबाधनिश्चयः ग्राह्यः । तस्य च गगनाभाववदभाववत्, अभाववद्गगनरूपविशिष्टद्वयविषयकत्वमेव अस्ति। तदविषयकत्वाभावात् भवति अव्याप्तिः । एवं गगनं गगनाभाववत्प्रतियोगित्ववत्कालीनगगनवदित्यत्र गगननिष्ठाभावप्रतियोगित्व- व्याप्यवद्गगने अव्याप्तेः । तत्र विरोध्यनुमितिः “तादृशगगननिष्ठाभावप्रतियोगिगगनं” इत्याकार-
[[213]]
[[224]]
कानुमितिः । तस्य च गगनाभाववत्प्रतियोगित्ववत्, प्रतियोगित्ववद्गगनरूपविशिष्टद्वय- विषयकत्वात् तदविषयकत्वाभावात् भवति अव्याप्तिः । एवं ह्रदो वह्निमान् इत्यत्र प्रमेयह्रदावृत्तित्वव्याप्यवद्वह्नौ अतिव्याप्तिः । ह्रदावृत्तित्वं प्रमेयह्रदवृत्तित्वाभावापेक्षया भिन्नम् । अतः घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रदवारकेण विषयितायां प्रतिबध्यतावैशिष्ट्यघटकपरिष्कारेण अस्य वारणं कर्तुं न शक्यते । अत्र विरोध्यनु- मितिपदेन “प्रमेयह्रदावृत्तिः वह्निः” इत्याकारकानुमितिः गृहीतुं शक्यते तत्र विशिष्टद्वया- विषयकत्वस्य सत्वात् । अत्र “ह्रदावृत्तिः वह्निः, प्रमेयह्रदावृत्तिः वह्निः” इत्याकारकनिश्चयानां भिन्नभिन्नरूपेणैव प्रतिबन्धकत्वम् । यदि लाघवात् ह्रदावृत्तित्वप्रकारकनिश्चयत्वेनैव तेषां प्रतिबन्धकत्वं स्वीक्रियते तथा च दोषः नास्ति इत्युच्यते तदापि गगनाभाववदभाववत्कालीनगगनाभावव्याप्यवद्घटसंग्रहाय अव्यापकविषयिताशून्यत्वघटितविशिष्टान्तरविषयित्वाव्यापकत्वमेव प्रतिबन्धकतायां निवेश्यते। अन्यथा तस्य गगनाभाववदभाववद्रूपविशिष्टान्तरविषयित्वव्यापकत्वात् भवति अव्याप्तिः । अतः प्रकृतेऽपि प्रतिबन्धकतायां ह्रदावृत्तित्वरूपविशिष्टान्तरविषयिताव्यापकत्वसत्वेऽपि अव्यापकविषयिताशून्यज्ञानीयविशिष्टान्तरविषयित्वाव्यापकत्वसत्वात् अतिव्याप्तिः तदवस्था। अस्यैव परिष्कारस्य स्वरूपं मूले तदयमर्थः इत्यादिना उक्तम् । शङ्का - प्रमेयह्रदावृत्तित्वस्यापि बाधत्वम् इष्टम् । अतः ह्रदः वह्निमान् इत्यत्र प्रमेयह्रदावृत्तित्व- व्याप्यवद्वह्निः लक्ष्यः एव । तत्र लक्षणगमनं न दोषाय । प्रमेयह्रदावृत्तित्वस्य कथं बाधत्वम् इति चेत् उच्यते । मेयत्वविशिष्टं यत् साध्याभाववद्वृत्तित्वं तस्य दोषत्वमेव अङ्गीकृतं
[[214]]
[[225]]
जगदीशतर्कालङ्कारैः । भट्टाचार्येण तु प्रतिबन्धकतान्तरविरहात् दोषत्वं न स्वीकृतम् । एवं च प्रकृते प्रमेयह्रदावृत्तित्वज्ञानस्य ह्रदावृत्तित्वज्ञानस्य च पृथक् पृथक् प्रतिबन्धकत्वस्य आवश्यकत्वेन बाधत्वं सम्भवति । समाधानम् - जगदीशस्य यत् प्रमेयत्वविशिष्टव्यभिचारस्य दोषत्वकथनं तत् प्रामादिकम् । तेन लक्ष्यव्यवस्था कर्तुं न शक्यते । लक्ष्यव्यवस्था तावत् व्यवहारसद्भावासद्भावाधीना न तु प्रतिबन्धकत्वसद्भावासद्भावाधीना । एवं केवलपक्षावृत्तिसाध्ये एव बाधव्यवहारः अस्ति । घटकालीन, प्रमेयत्वादिविशिष्टे तादृशे बाधव्यवहारः नास्ति अतः तत् अलक्ष्यमेव भवति । एवं तेषां एकरूपेणैव प्रतिबन्धकत्वं वक्तव्यम् । न तु भिन्नभिन्नरूपेण । तथाहि- ह्रदत्वावच्छिन्न- निरूपित्वसंबन्धावच्छिन्नप्रकारताभिन्नप्रकारत्वानिरूपितवृत्तित्वत्वावच्छिन्नप्रतियोगिता- संबन्धावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारतानिरूपितवह्नित्वावच्छिन्नविशेष्यता- शालिनिश्चयत्वेन ह्रदावृत्तिः वह्निः प्रमेयह्रदावृत्तिः वह्निः इत्यादिनिश्चयानां प्रतिबन्धकत्वं स्वीक्रियते। दलप्रयोजनं तु मूलोक्तं ग्राह्यम् । अत्र प्रतिबध्यतावच्छेदकं भवति वह्नित्वावच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिन्न- विशेष्यताशालिबुद्धित्वम् । न तु केवलवह्नित्वावच्छिन्नप्रकारताशालिबुद्धित्वम् । तन्मात्रस्य तथात्वे ह्रदावृत्तिः वह्निः इत्याकारकनिश्चयदशायां “घटः वह्निमान्” इत्याकारकबुद्धेः अनुत्पत्तिः स्यात् । तस्याः अपि वह्नित्वावच्छिन्नप्रकारताशालित्वात् । अतः तद्वारणाय पक्षविषयतायाः अपि प्रतिबध्यतावच्छेदककोटौ निवेशः कार्यः । एवं च प्रमेयह्रदावृत्तित्वव्याप्यवद्वह्नौ अतिव्याप्तिः दुर्वारा ।
[[215]]
[[226]]
- x) सधर्मितावच्छेदकककल्पः
७०
सप्ततिकोटिः॥
सधर्मितावच्छेदककयद्धर्मावच्छिन्नवत्ताज्ञानसामान्यं स्वसमानधर्मितावच्छेदककसाध्या- भाववदवृत्तिमत्ताज्ञानसामान्यप्रतिबध्यं तद्धर्मावच्छिन्नविषयतानिरूपितपक्षतावच्छेदकावच्छिन्न- विषयतानन्तःपातिनी, पक्षावृत्तिसाध्यविषयतानन्तःपातिनी, पक्षनिष्ठाभावप्रतियोगिसाध्यविषयता- नन्तःपातिनी च या विषयता तच्छून्यत्वमेव विरोध्यनुमितौ विशेषणं दीयते । एवं च प्रकृते नातिव्याप्तिः । प्रमेयह्रदावृत्तिः वह्निः इत्याकारकानुमितिरेव विरोध्यनुमितिः। तत्र पक्षावृत्तिसाध्यविषयतानन्तःपातिनी या प्रमेयत्वविषयता तच्छालित्वात् तच्छून्यत्वाभावात् नातिव्याप्तिः । एवं “ह्रदो वह्निमान्” इत्यत्र प्रमेयह्रदावृत्तित्वं न बाधः । तत्रातिव्याप्तिवारणाय बाधलक्षणेऽपि यद्रूपावच्छिन्नविषयकनिश्चये उक्तविषयताशून्यत्वं निवेशनीयम् । तथा सति नातिव्याप्तिः । अत एव वह्न्यभाववज्जलवद्वृत्तिजलवद्ध्रदे नातिव्याप्तिः तादृशविषयतानन्तः- पातिनीविषयता भवति जलविषयता तच्छालित्वात् उक्तविशिष्टविषयकनिश्चयस्य इति तच्छून्यत्वाभावात् नातिव्याप्तिः ।
७१
एकसप्ततिकोटिः॥
एवमपि ३९ कोट्युक्तातिव्याप्तिः दुर्वारा । तथाहि तत्र ह्रदत्वावच्छेदेन जलवत्वघटित- जलवद्ध्रदत्वसामानाधिकरण्येन वह्निव्याप्यजलकालीनवह्निमान् इत्यत्र जलव्यापकवह्न्यभावा- भाववदवृत्तिमज्जलवद्ध्रदे अतिव्याप्तिः दुर्वारा । तत्र यद्धर्मपदेन जलव्यापकवह्न्यभावत्वं गृहीतुं शक्यते । जलवद्ध्रदः तादृशवह्निव्याप्यवान्, ह्रदः वह्निव्याप्यवान् इत्यादिसकलनिश्चयानां वह्न्यभावत्वावच्छिन्नप्रकारताशालि“जलव्यापकवह्न्यभाववान् ह्रदः, जलव्यापकवह्न्यभाववान्
[[216]]
[[227]]
जलवद्ध्रदः” इति सकलज्ञानप्रतिबन्धकत्वात् । वह्न्यभावत्वावच्छिन्नप्रकारतायाः सर्वत्र अनुगतत्वात् तस्याः प्रतिबध्यतावच्छेदकत्वं सुलभम् । एवं यद्धर्मपदेन जलव्यापकवह्न्य- भावत्वस्य ग्रहणे तद्धर्मावच्छिन्नविषयतानिरूपितजलवद्ध्रदत्वावच्छिन्नविषयतान्तःपातिनी एव जलव्यापकवह्न्यभावविषयिता न तदनन्तःपातिनी इति कृत्वा तादृशविषयतानन्तःपाति- विषयिताशून्यत्वस्य “जलव्यापकवह्न्यभाववान् जलवद्ध्रदः” इत्याकारकविरोध्यनुमितौ सत्वात् तज्जनकत्वमादाय जलव्यापकवह्न्यभावाभाववदवृत्तिमज्जलवद्ध्रदे अतिव्याप्तिः ।
७२
द्विसप्ततिकोटिः॥
यद्धर्मे तादृशधर्मान्तराघटितत्वं विशेषणं देयम् । तथा सति अतिव्याप्तिः न भवति । प्रकृते च तादृशधर्मान्तरं भवति केवलवह्न्यभावत्वम् । “ह्रदो वह्न्यभाववान्, घटो वह्न्यभाववान्” इत्यादिसकलवह्न्यभावप्रकारकज्ञानं प्रति स्वसमानधर्मितावच्छेदककवह्निव्याप्यवत्ताज्ञानस्य प्रतिबन्धकत्वेन वह्न्यभावत्वे तादृशधर्मत्वस्य अक्षतत्वात् । तदघटितत्वं च जलव्यापक- वह्न्यभावत्वे नास्ति इति कृत्वा लक्षणघटकयद्धर्मपदेन जलव्यापकवह्न्यभावत्वस्य गृहीतुं अशक्यत्वात् केवलवह्न्यभावत्वस्य गृहीतुं शक्यत्वेऽपि तदवच्छिन्नप्रकारतानिरूपितपक्षता- वच्छेदकावच्छिन्नविषयतानन्तःपातिनीविषयता भवति जलविषयता तच्छालित्वस्यैव विरोध्यनुमितौ सत्वात् तच्छून्यत्वविरहात् नातिव्याप्तिः । शङ्का - एवं सति विरोध्यनुमितौ यत् विशिष्टान्तराघटितत्वम् इति विशेषणं पूर्वं निविष्टं तद्व्यर्थं स्यात् । तथाहि- तद्धि “ह्रदः वह्निमान्” इत्यत्र घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रदे अतिव्याप्तिवारणाय निवेशितम् । इदानीं तद्विनापि प्रकृतपरिष्कारेणैव तद्वारणं सम्भवति । तत्र
[[217]]
[[228]]
विरोध्यनुमितिपदेन “घटकालीनवह्न्यभाववान् ह्रदः” इत्याकारकानुमितिः ग्राह्या । तत्र च तादृशविषयतानन्तःपातिविषयिताशून्यत्वं नास्ति । यद्दपि यद्धर्मपदेन घटकालीनवह्न्यभावत्वं स्वीकर्तुं शक्यते । तथापि प्रकृते तद्धर्मे तादृशधर्मान्तराघटितत्वस्य निविष्टत्वात् घटकालीनवह्न्य- भावत्वस्य तादृशधर्मान्तरभूतवह्न्यभावत्वरूपधर्मघटितत्वात् तदघटितत्वाभावात् अतिव्याप्ति- वारणात् विरोध्यनुमितौ विशिष्टान्तराघटितत्वनिवेशनं व्यर्थम् । समाधानम् - सत्यं तस्य तद्वारणरूपप्रयोजनविरहेऽपि “वह्न्यभावः वह्निमान्” इत्यत्र वह्न्यभाववद्- वह्न्यभावाभाववद्वृत्तिमद्वह्न्यभावे अतिव्याप्तिवारणाय तदावश्यकम् । तथाहि तत्र विरोध्यनुमितिः भवति “वह्न्यभाववद्वह्न्यभाववान् वह्न्यभावः इत्याकारकानुमितिः तत्र तादृशविषयतानन्तः- पातिविषयताशून्यत्वम् अस्ति । यद्धर्मपदेन वह्न्यभावत्वस्यैव गृहीतुं शक्यत्वेन तदवच्छिन्न- विषयतानन्तःपातिविषयिताशून्यत्वस्य, तत्र सत्वात् अतिव्याप्तिः । तद्वारणाय विरोध्यनुमितौ पूर्वोक्तविशिष्टान्तराघटितत्वं विशेषणम् आवश्यकम् । तथा सति तस्य वह्न्यभाववद्रूपविशिष्टान्तर- घटितत्वात् नातिव्याप्तिः ।
७३
त्रिसप्ततिकोटिः॥
एवमपि “गुणः गुणवान्” इत्यत्र गुणावृत्तिगुणावृत्तित्वव्याप्यवद्गुणे अतिव्याप्तेः । तथाहि तत्र विरोध्यनुमितिः भवति “गुणावृत्तिगुणावृत्तिः गुणः” इत्याकारकानुमितिः तत्र पक्षावृत्तिसाध्य- विषयतानन्तःपातिनी कापि विषयता नास्ति इति कृत्वा तादृशविषयताशून्यत्वसत्वात् एवं प्रागुक्तविशिष्टान्तराघटितत्वस्य च सत्वात् भवति अतिव्याप्तिः ।
[[218]]
[[229]]
७४
चतुःसप्ततिकोटिः॥
तादृशविषयतानन्तःपातित्वं नाम पक्षावृत्तित्वप्रकारतानिरूपितसाध्यतावच्छेदकाव- च्छिन्नमुख्यविशेष्यतानन्तःपातित्वम् । प्रकृते साध्यतावच्छेदकावच्छिन्नमुख्यविशेष्यता गुणे एव पर्याप्ता तदनन्तःपातिनीविषयता भवति गुणावृत्तित्वविषयता तच्छालित्वस्यैव विरोध्यनुमितौ सत्वात् तच्छून्यत्वाभावात् सा ग्रहीतुं न शक्यते इति नातिव्याप्तिः ।
७५
पञ्चसप्ततिकोटिः॥
एवमपि “सुन्दरवह्निमद्वह्निमत्कालीनः पर्वतः सुन्दरवह्न्यभाववान्” इत्यत्र सुन्दरवह्नि- व्याप्यवत्तादृशपर्वते अव्याप्तिः दुर्वारा । तथाहि - तत्र विरोध्यनुमितिपदेन सुन्दरवह्निमान् तादृशपर्वतः इत्याकारकानुमितिः ग्राह्या । परन्तु सा न तादृशविषतानन्तःपातिविषयताशून्या। प्रकृते तादृशविषयतानन्तःपातित्वं नाम तादृशधर्मावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकाव- च्छिन्नमुख्यविशेष्यतानन्तःपातित्वम् । प्रकृते च तादृशविषयतानन्तःपातिनी विषयता भवति वह्निमत्तादृशपर्वतविषयता । तच्छालित्वस्यैव विरोध्यनुमितौ सत्वात् तच्छून्यत्वविरहात् भवति अव्याप्तिः । शङ्का - विशिष्टान्तरविषयितायां प्रतिबध्यतावच्छेदकत्वमपि निवेशनीयम् । एवं च नाव्याप्तिः। प्रकृते विशिष्टान्तरविषयितापदेन वह्निमत्तादृशविषयिता एव गृहीता तस्यां च प्रकृतानुमिति- प्रतिबध्यतानवच्छेदकत्वसत्वेन सा विशिष्टान्तरविषयितापदेन गृहीतुम् अशक्या । अतः अन्यां विषयितामादाय समन्वयः कार्यः । अत एव गगनं गगनाभाववदभाववत्कालीनगगनवान्” इत्यत्र गगनावृत्तित्वव्याप्य- वत्तादृशगगने नाव्याप्तिः । तथाहि तत्र विरोध्यनुमितिपदेन “गगनावृत्तितादृशगगनं” इत्याकारका-
[[219]]
[[230]]
नुमितिः तत्र च गगनाभाववदभाववद्रूपविशिष्टान्तरविषयिताव्यापकत्वस्यैव सत्वात् अव्याप्तिः। सा इदानीं नास्ति तादृशविशिष्टान्तरविषयिता “गगनं तादृशगगनवत्” इत्याकारकानुमितिप्रति- बन्ध्यतावच्छेदिका न भवति इति अन्यां विषयतामादाय समन्वयः भवति। समाधानम् - तदा “सुन्दरवह्निमद्वह्निमत्कालीनवह्न्यभाववत्सुन्दरवह्न्यभाववत्कालीनपर्वतः सुन्दरवह्न्यभाववान्” इत्यत्र सुन्दरवह्निव्याप्यवत्तादृशपर्वते अव्याप्तिः दुर्वारा । तत्र या वह्निमत्पर्वतविषयता सा प्रतिबध्यतावच्छेदिका भवति । “वह्निमान् तादृशपर्वतः” इत्याकारकज्ञानं प्रति प्रकृतानुमितेः वह्न्यभाववान् सुन्दरवह्न्यभाववान् इति निश्चयविशिष्टसुन्दरवह्न्यभाववांश्च तादृशपर्वतः इति निश्चयत्वेन प्रतिबन्धकत्वात् । एवं च वह्निमत्तादृशपर्वतविषयित्वाव्यापकत्व- विरहात् भवति अव्याप्तिः । शङ्का - अत्र स्थले केवलवह्निमत्पर्वतः एव बाधः न सुन्दरवह्निमत्पर्वतः । बाधलक्षणेऽपि विशिष्टान्तराघटितत्वस्य निवेशितत्वात् सुन्दरवह्निमत्पर्वतस्य च वह्निमत्पर्वतरूपविशिष्टान्तर- घटितत्वात् तस्य बाधत्वं नास्ति इति केचन वदन्ति । समाधानम् - लक्षणं दृष्ट्वा लक्ष्यम् इदं भवति इति निर्णयः न कर्तव्यः । लक्ष्यनिर्णयं तु प्रामाणिक- व्यवहाराधीनः न लक्षणज्ञानाधीनः । अतः उक्तस्थले सुन्दरवह्निमत्पर्वतस्य लक्ष्यत्वं सिद्धम् । तदुक्तं “सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः इति ।
[[220]]
[[231]]
७६
षड्सप्ततिकोटिः॥
तादृशविषयतानन्तःपातित्वं विरोध्यनुमितौ इव तादृशविषयतानन्तःपातिविषयताशून्य- ज्ञानीयत्वं विशिष्टान्तरविषयितायां निवेश्यते । एवं च लक्षणम् इत्थं फलति पक्षसाध्यग्रहत्वा- व्यापकपक्षसाध्यवैशिष्ट्यग्रहत्वव्यापकतद्धर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकता- विशिष्टविषयित्वावच्छिन्न उक्तानन्तःपातिविषयिताशून्यानुमितिनिष्ठजन्यतानिरूपितजनकत्व, तद्धर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकत्वोभयं यद्रूपावच्छिन्ननिरूपकताकविषयिता- व्यापकं तद्रूपावच्छिन्नत्वं सत्प्रतिपक्षत्वम् इति । पूर्वोक्तस्थले च केवलवह्निमद्विषयिता तावत् तादृशविषयितानन्तःपातिविषयिता- शून्यज्ञानीया नास्ति तादृशविषयितानन्तःपातिविषयिताशालिज्ञानीया एव इति कृत्वा विशिष्टान्तरविषयितापदेन सा स्वीकर्तुं न शक्यते इति नाव्याप्तिः ।
७७
सप्तसप्ततिकोटिः॥
एवमपि वह्न्यभाववज्जलव्यापकवह्न्यभावसमानाधिकरणजलवत्कालीनह्रदः वह्निमान् इत्यत्र जलव्यापकवह्न्यभावसमानाधिकरणजलवत्तादृशह्रदे प्रतियोगविैयधिकरण्यघटित- व्याप्तिघटिते अतिव्याप्तिः दुर्वारा । अत्र यद्धर्मपदेन वह्निमत्तादृशह्रदविषयकबुद्धित्वमेव गृह्यते तदवच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टविषयित्वावच्छिन्नतादृशविषयता- नन्तःपातिविषयिताशून्य “तादृशह्रदः वह्न्यभाववान्” इत्याकारकविरोध्यनुमितिनिष्ठजन्यता- निरूपितजनकत्वं एवं वह्निमत्तादृशह्रदविषयकबुद्धित्वावच्छिन्नप्रतिबध्यता निरूपितप्रतिबन्धकत्वं च जलव्यापकवह्न्यभावसमानाधिकरणजलवान् तादृशह्रदः इत्याकारकनिश्चये सत्वात् भवति अतिव्याप्तिः । अत्र प्रतिबन्धकत्वं ज्ञानवैशिष्ट्यावच्छिन्नमेव भवति । अन्यादृशस्य “वह्न्यभावः
[[221]]
[[232]]
अव्याप्यवृत्तिः” इति ज्ञानकाले असम्भवात् । उक्तविशिष्टविषयकनिश्चयस्य “वह्न्यभाववान् जलव्यापकवह्न्यभावसमानाधिकरणजलवान्” इति निश्चयविशिष्ट“जलव्यापकवह्न्यभाव- समानाधिकरणजलवांश्च तादृशह्रदः” इति निश्चयत्वेन प्रतिबन्धकत्वम् ।
७८
अष्टसप्ततिकोटिः॥
सत्यन्तदलेन विरोध्यनुमितिजनकतायां तादृशप्रतिबन्धकताव्याप्यत्वमेव विवक्ष्यते। एवं च नातिव्याप्तिः । जनकत्वं च “शैवालव्यापकवह्न्यभावसमानाधिकरणशैवालवान् तादृशह्रदः”, “जलव्यापकवह्न्यभावसमानाधिकरणजलवान् तादृशह्रदः” इति ज्ञानसाधारणम् एकमेव । परन्तु तादृशज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वं भिन्नं भिन्नं भवति । एवं च तादृशह्रदः वह्निमान् इति अनुमितिं प्रति “शैवालव्यापकवह्न्यभावसमानाधिकरणशैवालवान् तादृशह्रदः” इत्याकारकनिश्चयस्य प्रतिबन्धकत्वाभावात् तत्र च जनकतायाः सत्वात् जनकतायां प्रतिबन्धकताव्याप्यत्वं नास्ति इति नातिव्याप्तिः ।
७९
नवसप्ततिकोटिः॥
“वह्न्यभाववत्प्रतियोगिव्यधिकरणवह्न्यभावाभाववदवृत्तिमत्कालीनह्रदः वह्निमान्” इत्यत्र प्रतियोगिव्यधिकरणवह्न्यभावाभाववदवृत्तिमत्तादृशह्रदे अतिव्याप्तिः एवमपि दुर्वारा । उक्तस्थले “प्रतियोगिव्यधिकरणवह्न्यभावाभाववदवृत्तिमान् तादृशह्रदः” इत्याकारकज्ञान- निष्ठजनकतायां प्रतिबन्धकताव्याप्यत्वं अक्षतमेव । तथाहि - उक्तविशिष्टविषयकनिश्चयस्य वह्न्यभाववत् प्रतियोगिव्यधिकरणवह्न्यभावाभाववदवृत्तिमत् इति निश्चयविशिष्टप्रतियोगिव्यधि- करणवह्न्यभावाभाववद्वृत्तिमान् तादृशह्रदः” इत्याकारकनिश्चयत्वेनैव प्रतिबन्धकत्वात् । अत्र प्रतिहेतूनां विशिष्टनिवेशः न कृतः इति कृत्वा न प्रतिबन्धकताभेदः । अतः प्रतिबन्धकता- व्याप्यत्वस्य जनकतायां सत्वात् भवति अतिव्याप्तिः ।
[[222]]
[[233]]
८०
अशीतिकोटिः॥
उक्तज्ञानीयजनकता तावत् नानासंबन्धावगाहिज्ञानसाधारणी प्रतियोगिव्यधिकरण- वह्न्यभावाभाववन्निरूपितवृत्तित्वप्रकारताविशिष्टप्रकारतानिरूपिततादृशह्रदत्वावच्छिन्न- विशेष्यताशालिनिश्चयत्वरूपानुगतधर्मावच्छिन्ना गृह्यते । प्रकारतावैशिष्ट्यं च स्वनिरूपिताभाव- त्वावच्छिन्नप्रकारतानिरूपितत्वस्ववृत्तिसंबन्धावच्छिन्नत्वोभयसंबन्धेन । वृत्तिः च स्वावच्छिन्नत्व- प्रकारतानिरूपितत्वसंबन्धेन । एवं च समवायादिसंबन्धेन तादृशवह्न्यभावाभाववदवृत्ति- प्रकारकज्ञानानाम् एकरूपेण जनकत्वेऽपि तत्र संयोगादिसंबन्धघटितसाध्यवत्ताज्ञानप्रति- बन्धकत्वाभावात् । प्रतिबन्धकताशून्ये विभिन्नसंसर्गकतादृशविशिष्टविषयकज्ञाने जनकतायाः विरहात् जनकतायां प्रतिबन्धकताव्याप्यत्वं दुर्घटम् इति नातिव्याप्तिः ।
८१
एकाशीतिकोटिः॥
जनकतायां प्रतिबन्धकताव्याप्यत्वं यदि निवेश्यते तर्हि व्यापकताघटितसत्प्रतिपक्षमात्रे अव्याप्तिः दोषः । तथाहि - सिद्धान्तलक्षणे प्रतियोगिवैयधिकरण्यघटिततदघटितव्याप्तिज्ञानयोः प्रतियोगिवैयधिकरण्यघटितव्यभिचारज्ञानप्रतिबन्धकतावच्छेदकविषयताशालित्वेन अनुगमः कृतः। तर्हि जनकता तादृशद्विविधव्याप्तिज्ञानसाधारणी एव भवति । तथा सति प्रकृते प्रतिबन्धकताशून्ये प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटितविशिष्टविषयकनिश्चयेऽपि जनकतायाः सत्वात् जनकतायां प्रतिबन्धकताव्याप्यत्वस्य सुतरां वक्तुम् अशक्यत्वात् भवति अव्याप्तिः। अत्र असम्भवः कुतः नोक्तः इति तु न ज्ञायते ।
८२
द्व्यशीतिकोटिः॥
सिद्धान्तलक्षणादिग्रन्थे प्रतियोगिवैयधिकरण्यघटिततदघटितव्याप्तिज्ञानयोः एकरूपेण अनुमितिजनकत्वकथनं आपाततः एव न तु सः एव सिद्धान्तः । तथाहि- एकरूपेण जनकत्वं
[[223]]
[[234]]
नाम किं इति तु द्रष्टव्यम् । तच्च प्रतियोगिवैयधिकरण्यघटितव्यभिचारज्ञानत्वावच्छिन्नप्रतिबध्यता- निरूपितप्रतिबन्धकतावच्छेदकीभूतविषयतानिरूपितसाध्यप्रकारतानिरूपितसामानाधिकरण्य- प्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशालि- निश्चयत्वम्। ईदृशं च निश्चयत्वम् अतिप्रसक्तम् । अर्थात् तादृशद्विविधव्याप्तिज्ञानातिरिक्तज्ञानेऽपि ईदृशनिश्चयत्वस्य सत्वात् तज्ज्ञानकाले अनुमित्यापत्तेः । तथाहि- पर्वतः वह्निमान् इत्याकारकानुमितिं प्रति अवच्छेदकत्वसामान्याभाववद्वह्नित्वावच्छिन्नवह्निसमानाधिकरणधूमवान् पर्वतः इत्याकारकज्ञानस्यापि जनकत्वं स्यात् । “धूमसमानाधिकरणाभावप्रतियोगितानिरूपिताव- च्छेदकत्ववत् वह्नित्वम्” इत्याकारकव्यभिचारज्ञानं प्रति वह्नित्वांशे अवच्छेदकत्वसामान्या- भावावगाहि उक्तनिश्चयस्य अवश्यं प्रतिबन्धकत्वं वाच्यम् । यत्किञ्चिदवच्छेदकत्वावगाहिज्ञानं प्रति अवच्छेदकत्वसामान्याभावावगाहिनिश्चयस्य प्रतिबन्धकत्वात् । एवं च प्रतिबन्धकताव- च्छेदकीभूततादृशवह्नित्वप्रकारतानिरूपितवह्निनिष्ठप्रकारतानिरूपितसामानाधिकरण्यप्रकारता- निरूपितधूमप्रकारतानिरूपितपर्वतनिष्ठविशेष्यताशालित्वस्य “अवच्छेदकत्वसामान्याभाव- वद्वह्नित्वावच्छिन्नवह्निसमानाधिकरणधूमवान् पर्वतः” इत्याकारके व्याप्त्यविषयकनिश्चये सत्वात् तस्यापि जनकत्वं स्यात् जनकतावच्छेदकधर्माक्रान्तत्वात् । परन्तु नेष्यते तत् । तथा च एकरूपेण प्रतियोगिवैयधिकरण्यघटिततदघटितव्याप्तिज्ञानयोः अनुमितिजनकत्वकथनं न सिद्धान्तरीतिमनुसृत्य । एवं च न अव्याप्तिः । शङ्का - उक्तनिश्चये अनुगतधर्मवारणाय प्रतिबन्धकतावच्छेदकप्रकारतायां हेतुतावच्छेदका- वच्छिन्नप्रकारतानिरूपिताधिकरणप्रकारतानिरूपिताधेयत्वप्रकारतानिरूपिताभावप्रकारता-
[[224]]
[[235]]
निरूपितप्रतियोगित्वप्रकारतानिरूपितावच्छेदकत्वप्रकारतानिरूपिताभावप्रकारतानिरूपितत्वमपि योजनीयम् । प्रकृते प्रतिबन्धकतावच्छेदकीभूतवह्नित्वनिष्ठप्रकारतायां हेतुतावच्छेदकाव- च्छिन्नेत्यादिप्रकारतानिरूपितत्वस्य विरहात् तच्छालिज्ञानस्य जनकत्वापत्तिः नास्ति । तथा च एकरूपेणैव जनकत्वं तयोः व्याप्तिज्ञानयोः वक्तव्यम् । समाधानम् - “वह्न्यधिकरणमहानसवृत्यभावप्रतियोगितानवच्छेदकधूमत्वावच्छिन्नधूमसमानाधि- करणवह्निमान् पर्वतः” इत्याकारकज्ञानात् धूमानुमितिः दुर्वारा । धूमत्वे वह्न्यधिकरण- महानसवृत्यभावप्रतियोगितानवच्छेदकत्वेऽपि व्याप्तिलक्षणे अधिकरणस्य अधिकरणत्वेनैव निवेशात् तादृशाधिकरणभूतायोगोलकवृत्यभावप्रतियोगितावच्छेदकत्वस्यैव धूमत्वे सत्वात् तदनवच्छेदकत्वाभावात् उक्तज्ञानस्य व्याप्तिज्ञानानात्मकत्वं सिद्धम् । अस्यापि ज्ञानस्य व्यभिचारग्रहप्रतिबन्धकत्वम् अस्ति । वह्न्यधिकरणमहानसवृत्यभावप्रतियोगितानवच्छेदकं धूमत्वम् इति ज्ञानस्य तदभाववतानिश्चयविधया प्रतिबन्धकत्वविरहेऽपि अवच्छेदकधर्मदर्शनविधया प्रतिबन्धकत्वात् । शङ्का - उक्तदोषवारणाय प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्वं निवेश्यते । तथा च पूर्वोक्तज्ञाननिष्ठा प्रतिबन्धकता ज्ञानवैशिष्ट्यावच्छिन्ना एव न तु तदनवच्छिन्ना इति न दोषः इति। समाधानम् - तथा सति उक्तदोषः यद्दपि नास्ति तथापि व्यभिचारज्ञाननिष्ठप्रतिबध्यता किंधर्मावच्छिन्ना इति द्रष्टव्यम् । सा च प्रतियोगिव्यधिकरणहेत्वधिकरणवृत्यभावप्रतियोगितावच्छेदकत्वप्रकारक-
[[225]]
[[236]]
साध्यतावच्छेदकविशेष्यकबुद्धित्वावच्छिन्ना इति वक्तव्यम् । तथा सति प्रतियोगिवैयधिकरण्या- घटितव्यापकतावगाहिपरामर्शस्य संग्रहः न भवति । द्वयोः व्याप्तिज्ञानयोः सङ्ग्रहाय खलु अयं प्रयासः कृतः । तद्व्यर्थं भवति । तथाहि- प्रतिबध्यप्रतिबन्धकज्ञानयोः समानविषयकत्वस्य विवक्षितत्वात् प्रतियोगिवैयधिकरण्याघटिततादृशप्रतियोगितावच्छेदकत्वाभावावगाहिज्ञाननिष्ठ- प्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदककोटौ प्रयोजनविरहात् प्रतियोगिवैयधिकरण्य- विषयतायाः निवेशः न क्रियते । केवलतादृशबुद्धित्वापेक्षया प्रतियोगिवैयधिकरण्यघटिततादृश- बुद्धित्वस्य गुरुत्वात् स्वरूपसंबन्धरूपावच्छेदकत्वविरहात् । शङ्का - अत्र प्रतिबध्यतावच्छेदकत्वं न स्वरूपसंबन्धरूपं येन उक्तदोषः स्यात् किन्तु अनतिरिक्त- वृत्तित्वरूपमेव । तथा च न दोषः । गुरुधर्मस्यापि अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्य स्वीकारात् इति । समाधानम् - तथा सति भेदवद्धेत्वधिकरणवृत्यभावप्रतियोगितानवच्छेदकत्वावगाहिज्ञानस्यापि अनुमितिजनकताप्रसङ्गः । शङ्का - इष्टापत्तिः । समाधानम् - तर्हि तुल्ययुक्त्या “महानसत्ववद्वह्निमद्वृत्यभावप्रतियोगितानवच्छेदकधूमत्वाव- च्छिन्नधूमसमानाधिकरणवह्निमत् अयोगोलकम्” इत्याकारकज्ञानादपि “धूमवदयोगोलकम्”
[[226]]
[[237]]
इति भ्रमात्मकानुमितिः स्यात् । अत्रापि उक्तप्रतिबध्यतावच्छेदकविशेषणाक्रान्तधर्मावच्छिन्न- प्रतिबध्यतानिरूपितप्रतिबन्धकत्वसत्वात् । एवं सिद्धान्तलक्षणे प्रतियोगिवैयधिकरण्यघटितव्यापकतावच्छेदकत्वस्य एवं निष्कर्षः कृतः भट्टाचार्यैः - “हेत्वधिकरणवृत्तिभेदप्रतियोगितानिरूपितस्वावच्छेदकावच्छिन्नाधिकरणता- संबन्धावच्छिन्नावच्छेदकतावत्प्रतियोगितानवच्छेदकत्वम्” इति । तथा च ईदृशव्यापकताज्ञानस्य प्रतियोगिवैयधिकरण्याघटितव्यापकताघटितव्यभिचार- ज्ञानाप्रतिबन्धकत्वेन द्वयोः व्याप्तिज्ञानयोः एकरूपेण जनकत्वकथनम् आपाततः एव न तु सिद्धान्तः इति ज्ञायते । शङ्का - द्वयोः ज्ञानयोः सङ्ग्रहाय प्रतियोगिवैयधिकरण्यघटिततदघटितव्यभिचारद्वयावगाहि- ज्ञानत्वमेव प्रतिबध्यतावच्छेदकम् इति स्वीक्रियते तथा च यथासंख्यं प्रतिबन्धकत्वमादाय समन्वयः भवति एवं सङ्ग्रहः च इति । समाधानम् - व्यभिचारद्वयविषयतयोः कथं निवेशः । यदि द्वित्वेन निवेशः इत्युच्यते तदा द्वित्वम् एकविशिष्टापरत्वरूपम् । तर्हि विशेष्यविशेषणभावे विनिगमनाविरहात् गुरुधर्मावच्छिन्नकारणता- द्वयं कल्पनीयम् । तदपेक्षया द्वयोः व्याप्तिज्ञानयोः पृथक् प्रतिबन्धकत्वपक्षे लघुधर्माव- च्छिन्नकारणताद्वयम् इति लाघवम् । एवं द्वयोः विषयतयोः प्रतिबध्यतावच्छेदककोटौ निवेशोऽपि न भवति तादृशविषयितायां प्रतिबध्यताव्याप्यत्वविरहात् । कस्यापि व्यभिचारज्ञानस्य द्विविधव्याप्तिज्ञानप्रतिबध्यत्वं सिद्धान्तिभिः नाभ्युपगतम् ।
[[227]]
[[238]]
एवं प्रतिबन्धकतावच्छेदककोटौ अप्रामाण्यज्ञानानास्कन्दितत्वमपि निवेशनीयं तच्च ज्ञानव्यक्तिभेदेन भिन्नं भिन्नं भवति । तथा च तेषाम् अननुगतत्वात् तद्घटितप्रतिबन्धकत्वमपि अननुगतमेव भवति । तथा च एकरूपेण प्रतियोगिवैयधिकरण्यघटिततदघटितव्याप्तिज्ञानयोः सङ्ग्रहः न भवति । अतः प्रतिबन्धकताव्याप्यत्वस्य प्रतियोगिवैयधिकरण्याघटितव्यापकतावगाहिज्ञानीय- जनकतायामक्षतत्वात् नाव्याप्तिः । शङ्का - जनकताव्यापकत्वं प्रतिबन्धकतायां विवक्ष्यते । व्यापकता च स्वनिरूपितप्रतिबध्यता- वच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकत्व, तादृशप्रतिबन्धकतावच्छेदकीभूताभावप्रति- योग्युपहितत्वान्यतरसंबन्धेन । एवं च ईदृशव्यापकत्वविवक्षायां प्रतियोगिवैयधिकरण्य- घटिततदघटितव्याप्तिज्ञानयोः एकरूपेण जनकत्वपक्षेऽपि अव्याप्तिः न भवति । अव्याप्तिवारणाय खलु पृथक् पृथक् प्रतिबन्धकत्वम् अङ्गीकृतम् । इदानीं तद्विनापि अव्याप्तिवारणं कृतम् इति केषांचित्प्रश्नः । अत्र स्वावच्छेदकीभूताभावप्रतियोग्युपहितत्वम् इति संबन्धस्य निवेशः कुतः इति चेत् अव्याप्यवृत्तित्वज्ञानकाले प्रतियोगिवैयधिकरण्यघटितव्यापकताज्ञानस्य प्रतिबन्धकत्वाभावात् तत्संग्रहः न स्यात् । अतः तत्सङ्ग्रहाय तन्निवेशः । तथा च प्रतिबन्धकतावच्छेदकीभूताभाव- प्रतियोगि अव्याप्यवृत्तित्वज्ञानोपहितत्वात् उक्तज्ञानस्य इति समन्वयः । समाधानम् - केषाञ्चित् मतं यदुक्तं तत् समीचीनं नास्ति । तथा सति ७७ कोट्युक्ते “वह्न्यभाववज्जल-
[[228]]
[[239]]
व्यापकवह्न्यभावसमानाधिकरणजलवत्कालीनह्रदः वह्निमान्” इति स्थलीये प्रतियोगिवैय- धिकरण्यघटितव्यापकताघटितजलव्यापकवह्न्यभावसमानाधिकरणजलवत्तादृशह्रदे अतिव्याप्तिः दुर्वारा । तत्रापि स्वावच्छेदकीभूताभावप्रतियोगि अव्याप्यवृत्तित्वज्ञानोपहितत्वसंबन्धेन प्रतिबन्धकतायाः तस्मिन् ज्ञाने सत्वात् भवति अतिव्याप्तिः । अतः प्रतियोगिवैयधिकरण्य- घटिततदघटितव्याप्तिज्ञानयोः एकरूपेण जनकत्वकथनं आपाततः एव । तथा च अव्याप्तिविरहात् इदं लक्षणं निर्दुष्टमिति ।
८३
त्र्यशीतिकोटिः॥
जनकतायां प्रतिबन्धकत्वव्याप्यत्वं उच्यते चेत् तुल्यवित्तिवेद्दतया प्रतिबन्धकतायां जनकताव्यापकत्वमपि वक्तव्यम् । तच्च न भवति । तथाहि- तदभावव्याप्यवत्ताज्ञानं यदि आहार्यं स्यात् तदा तस्य प्रतिबन्धकत्वविरहात् प्रतिबन्धकतावच्छेदककोटौ अनाहार्यत्वम् अवश्यं निवेशनीयम् । अनाहार्यत्वं च आहार्यभिन्नत्वम् । आहार्यत्वं नाम किम् ? न तावत् इच्छाविशिष्टप्रत्यक्षत्वम् । वैशिष्ट्यं च स्वविषयत्वस्वाव्यवहितोत्तरत्वोभयसंबन्धेन । तथा सति बाधासमानकालीनस्वविषयकेच्छाऽव्यवहितोत्तरोत्पन्नतदभावव्याप्यवत्ता- प्रत्यक्षस्य प्रतिबन्धकत्वं न स्यात् । बाधसमानकालीनस्वविषयकेच्छाकालीनतदभावव्याप्य- वत्ताज्ञानस्यैव अप्रतिबन्धकत्वनियमात् । अत एव केवलेच्छाजन्यत्वम् आहार्यत्वम् इत्यपि न । उक्तदोषात् एवं चाक्षुषत्वाद्द- वच्छिन्नविषयकेच्छाविशिष्टचाक्षुषत्वाद्दवच्छिन्नं प्रति चाक्षुषत्वाद्दवच्छिन्नविषयकेच्छायाः कारणत्वात् तस्याः आहार्यत्वम् एव स्यात् इच्छाजन्यत्वस्य तत्रापि अक्षतत्वात्। तथा च तस्य प्रतिबन्धकत्वं न स्यात् इति भावः ।
[[229]]
[[240]]
नापि बाधकालीनेच्छाविशिष्टज्ञानान्यत्वम् अनाहार्यत्वम् । तथा सति यत्र बाधज्ञानम् आहार्यं भवति तत्समानकालीनस्वविषयकेच्छानन्तरजायमानतदभावव्याप्यवत्तानिश्चयस्य प्रतिबन्धकत्वं न स्यात् तत्र उक्तानाहार्यत्वस्य असत्वात् । यदि तद्वारणाय बाधज्ञानेऽपि इच्छाविशिष्टान्यत्वं निवेश्यते चेत् तर्हि तादृशेच्छानन्तरजायमानानाहार्यबाधनिश्चयकालीना- हार्यतदभावव्याप्यवत्तानिश्चयस्य प्रतिबन्धकत्वं स्यात् तत्र उक्तानाहार्यबाधनिश्चयकालीनत्वेऽपि इच्छाविशिष्टान्यबाधज्ञानकालीनत्वविरहात् । अतः अनाहार्यत्वम् एकं दुर्वचम् इति कृत्वा आहार्यव्यक्तीनां प्रत्येकं भेदः एव प्रतिबन्धकतावच्छेदककोटौ जनकतावच्छेदककोटौ च निवेशनीयः । एवं च जनकतावच्छेदककोटौ तद्वत्तानिश्चयकालीनाहार्यतदभावव्याप्यवत्ता- निश्चयवृत्तिभेदः न निवेशनीयः । तत्र अनुमितिवारणं तु बाधाभावविरहादेव । परन्तु प्रतिबन्धकतावच्छेदककोटौ ईदृशभेदः वक्तव्यः । अन्यथा तादृशाहार्यभिन्नतदभावव्याप्यवत्ता- ज्ञानकालेऽपि अनुमितिप्रसङ्गापत्तेः । एवं जनकताव्यापकत्वं प्रतिबन्धकतायां दुर्घटम् । जनकता तु भिन्ना भिन्ना भवति इति कृत्वा तत्र सर्वत्र प्रतिबन्धकतायाः विरहात् । तथा च अव्याप्तिः ।
८४
चतुरशीतिकोटिः॥
प्रतिबन्धकतायाः जनकताव्यापकत्वं स्वरूपस्वावच्छेदकीभूतभेदप्रतियोगित्वा- न्यतरसंबन्धेन वक्तव्यम् । तथा सति उक्ताहार्यज्ञानेऽपि प्रतिबन्धकता स्वावच्छेदकीभूत आहार्यभेदप्रतियोगित्वसंबन्धेन सत्वात् । स्वरूपसंबन्धेन तदभावेऽपि अन्यतरसंबन्धघटकोक्त- संबन्धेन सत्वात् न दोषः इति ।
[[230]]
[[241]]
८५
पञ्चाशीतिकोटिः॥
एवमपि पूर्वोक्तप्रतियोगिवैयधिकरण्यघटितजलव्यापकवह्न्यभावसमानाधिकरण- जलवत्तादृशह्रदे अतिव्याप्तिः दुर्वारैव । तत्र “तादृशह्रदः वह्न्यभाववान्” इत्याकारकानुमितिं प्रति “जलव्यापकवह्न्यभावसमानाधिकरणजलवान्, शैवालव्यापकवह्न्यभावसमानाधिकरण- शैवालवान्” इत्यादिनिश्चयानाम् एकरूपेण जनकत्वं वक्तुं न शक्यते । तथाहि ८३कोट्युक्तरीत्या आहार्यज्ञानानां तत्तद्व्यक्तिभेदानामेव जनकतावच्छेदककोटौ निवेशनीयतया एकरूपेण जनकतापक्षे शैवालहेतुकपरामर्शविषयकनानाऽहार्यव्यक्तिभेद, जलहेतुकपरामर्शविषयकनाना- ऽहार्यव्यक्तिभेदानां निवेशापत्या तेषां च विनिगमनाविरहात् गुरुतरानन्तधर्मावच्छिन्नजनकतापत्तिः स्यात् । विभिन्नजनकतापक्षे तु लघुधर्मावच्छिन्नकतिपयजनकताः एव भवन्ति । गुरुधर्मावच्छिन्नजनकताप्राप्तिः तु इत्थम् - क) एकैकजनकतावच्छेदकगर्भे भेदत्रयं इति रीत्या जनकताचतुष्टयाङ्गीकारे विशेष्य- विशेषणभावे विनिगमनाविरहेण एकैकजनकतास्थाने चतुर्विंशतिः (२४) जनकताः भवन्ति। ख) द्वादशभेदानाम् एकजनकतावच्छेदककोटौ निवेशपक्षे विनिगमनाविरहात् द्वात्रिंशदधिकशतं (१३२) गुरुधर्मावच्छिन्नाः जनकताः । तथा च एकरूपेण जनकत्वं न सम्भवति इति कृत्वा पूर्वोक्तातिव्याप्तिः तदवस्थैव ।
८६
षडशीतिकोटिः॥
प्रतिबन्धकता भिन्नभिन्ना जनकतापि भिन्ना इति कृत्वा एकज्ञानीयप्रतिबन्धकतायाम् अन्यज्ञानीयजनकता नास्ति इति प्रतिबन्धकताव्याप्यत्वं जनकतायां, जनकताव्यापकत्वं वा प्रतिबन्धकतायां न भवति । कथञ्चिन्निवेशे पूर्वोक्तातिव्याप्तिः इत्युक्तम् । इदानीं प्रतिबन्धकता
[[231]]
[[242]]
एकैव इति निरूप्यते । तथाहि- प्रतिबध्यप्रतिबन्धकभावलाघवात् आहार्यव्यवहारानुरोधेन च आहार्यज्ञाने अनाहार्यज्ञानव्यावृत्तविषयताविशेषः एव स्वीक्रियते । विषयताविशेषः तावत् अर्वाचीनैः संशयेऽपि स्वीकृता इति न अदृष्टकल्पना । तथा च ज्ञाने आहार्यज्ञानभेदं त्यक्त्वा प्रतिबन्धकतावच्छेदकघटकविषयतायां तत्तद्विषयताविशेषभेद एव निवेशनीयः । तथा च एकरूपेण प्रतिबन्धकतायाः वक्तुं शक्यत्वात् पूर्वोक्तस्थले नातिव्याप्तिः । प्रतिबन्धकत्ववति “शैवाल- व्यापकवह्न्यभावसमानाधिकरणशैवालवान् तादृशह्रदः” इत्याकारकज्ञाने जलहेतुकपरामर्शीय- जनकतायाः विरहात् नातिव्याप्तिः । अत्र ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वान्तरकल्पनं विनापि वारणं सम्भवति ।
८७
सप्ताशीतिकोटिः॥
एकरूपेण प्रतिबन्धकता सुतरां वक्तुं न शक्यते अप्रामायज्ञानाभावस्य प्रतिबन्धकता- वच्छेदककोटौ अवश्यं निवेशनीयतया अप्रामाण्यज्ञानानां च अननुगतत्वात् तत्तद्धर्मावच्छिन्न- प्रतियोगिताकज्ञानाभावानामेव विशिष्य निवेशात् गुरुधर्मावच्छिन्नानन्तप्रतिबन्धकत्वापत्तिः । यदि तादृशज्ञानाभावकूटस्यैव निवेश्यत्वात् न दोषः इति उच्यते । तदपि न भवति । तथा सति जलाभाववति जलप्रकारकत्वरूपाप्रामाण्यज्ञानकाले शैवालहेतुकपरामर्शादनुमितिः न स्यात् । इष्यते तु तत्र अनुमितिः । शैवालहेतुकपरामर्शस्य अप्रामाण्यज्ञानानास्कन्दित्वात् । परन्तु न भवति । यावदप्रामाण्यज्ञानान्तर्गतजलत्ववति जलत्व- प्रकारकज्ञानाभावस्य तत्र विरहात् । तथा च पृथगेव कारणता, प्रतिबन्धकता च वक्तव्या । तथा च अनुमित्यनुत्पादप्रसङ्गरूप- दोषः नास्ति । परन्तु अतिव्याप्तिपरम् अवशिष्यते ।
[[232]]
[[243]]
८८
अष्टाशीतिकोटिः॥
एकरूपेण जनकत्वं किञ्चित्परिष्कारेण निरूप्यते । तथाहि- धर्मविशिष्टज्ञानत्वं जनकतावच्छेदकम् । धर्मवैशिष्ट्यं च - स्वविशिष्टप्रकारताविशिष्टत्वसंबन्धेन । अत्र स्वपदेन प्रतिहेतुतावच्छेदकधर्मः ग्राह्यः तद्विशिष्टप्रकारता भवति प्रतिहेतुप्रकारता । धर्मपदेन जलत्वस्य ग्रहणे तदवच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावप्रकारतानिरूपित- सामानाधिकरण्यप्रकारतानिरूपितत्वं, एवं जलत्वावच्छिन्नत्वस्य “जलव्यापकवह्न्यभाव- समानाधिकरणजलवान् तादृशह्रदः” इति ज्ञानीयजलप्रकारतायां सत्वात् सा स्वविशिष्टा भवति। प्रकारतावैशिष्ट्यं अप्रामाण्यज्ञानाभावस्य परिष्कारः । तत्सूचनायैव स्वनिष्ठावच्छेदक- ताकप्रतियोगिताकभेदवत्वरूपद्वितीयसंबन्धः । तत्संबन्धघटकस्वपदेन जलनिष्ठप्रकारता ग्राह्या। तद्विशिष्टप्रकारतापदेन जलप्रकारकत्वनिष्ठप्रकारता गृह्यते । तथा च अप्रामाण्यज्ञानाभावानाम् ईदृशपरिष्कारेण अनुगतीकृतत्वात् न दोषः । शङ्का - एवं सति सामानाधिकरण्यांशे अप्रामाण्यज्ञानास्कन्दितस्य उक्तज्ञानस्य जनकत्वापत्तिः। पूर्वपरिष्कारे तावत् जलाभाववति जलप्रकारकत्वरूपाप्रामाण्यज्ञानानामेव अनुगमः कृतः न सर्वेषाम् इति । समाधानम् - प्रथमस्वविशिष्टप्रकारतासंबन्धघटकसामानाधिकरण्यप्रकारतानिरूपितत्वस्य स्थाने सामानाधिकरण्यप्रकारताविशिष्टत्वम् इति वक्तव्यम् । वैशिष्ट्यं च निरूपितत्व, सामानाधि-
[[233]]
[[244]]
करण्योभयसंबन्धेन । सामानाधिकरण्यसंबन्धः तावत् स्वनिष्ठावच्छेदकताकप्रतियोगि- ताकभेदवत्व, निरूपकत्वोभयघटितः । भेदादिकं पूर्वोक्ताप्रामाण्यज्ञानपरिष्कारस्थानीयमेव ग्राह्यम्। तथा च एकरूपेण जनकतायाः वक्तुं शक्यत्वात् जनकताव्यापकत्वं प्रतिबन्धकतायां नास्ति इति नातिव्याप्तिः ।
८९
नवाशीतिकोटिः॥
एवमपि अनाहार्यज्ञानसमानाकारकानियताहार्यज्ञानानां तत्तद्व्यक्तिभेदस्य निवेशनीयतया गौरवं दुर्वारम् । समानाकारकज्ञानेषु विषयताभेदानङ्गीकारात् । यदि लाघवाय तत् स्वीक्रियते तर्हि अप्रामाण्यज्ञानानास्कन्दितत्वमपि तथैव भवतु । एवं विषयताविशेषमादृत्य जनकप्रतिबन्धकज्ञानयोः सङ्ग्रहः क्रियते चेत् तर्हि सैव विषयता जनकतावच्छेदिका, प्रतिबन्धकतावच्छेदिका इति भवतु किमर्थं निरूप्यनिरूपकभावापन्न- विषयतायाः तदनुसरणम् । अतः एकरूपेण जनकत्वादिकं न भवति इति कृत्वा पूर्वोक्ता- तिव्याप्तिः दुर्वारैवेति । यदि जनकत्वादिकं एकरूपावच्छिन्नमेवेति आग्रहः स्यात् तर्हि अतिव्याप्तिः नास्ति । अन्यत्र अतिव्याप्तिः भवति । तथाहि- अभावः वह्न्यभावव्याप्यवृत्तित्वकालीनवह्निमान्, अथवा अभावः वह्न्यभाववद्वृत्तित्ववत्कालीनवह्निमान् इत्यत्र प्रतियोगिव्यधिकरणतादृशवह्न्यभावा- भाववदवृत्तिमदभावे अतिव्याप्तिः दुर्वारा । स्थलद्वयेऽपि विरोध्यनुमितिजनकतायां प्रतिबन्धकताव्याप्यत्वसत्वात् । प्रथमस्थले वह्न्यभावव्याप्यं वृत्तित्वं इति निश्चयविशिष्टवृत्तित्ववांश्च अभावः इत्याकारकनिश्चयत्वेन प्रतिबन्धकत्वात् तत्र जनकतायाः सत्वात् जनकतायां प्रतिबन्धकताव्याप्यत्वम् ।
[[234]]
[[245]]
द्वितीये तावत् प्रकृतानुमितिं प्रति उक्तविशिष्टनिश्चयस्य वह्न्यभाववत् वृत्तित्ववत्, वृत्तित्वांश्च अभावः इति निश्चयत्वेन प्रतिबन्धकत्वात् तत्र अनुगतजनकतायाः सत्वात् प्रतिबन्धकतायां जनकताव्यापकत्वस्य अक्षतत्वात् भवति अतिव्याप्तिः । शङ्का - विशिष्टान्तरविषयित्वाव्यापकत्वस्य प्रतिबन्धकतायां निवेशे न दोषः द्वयोः प्रतिबन्धकतयोः विशिष्टान्तरविषयिताव्यापकत्वात् । अव्यापकत्वाभावात् नातिव्याप्तिः इति। उभयत्र विशिष्टान्तरविषयिता भवति केवलतादृशवह्न्यभावाभाववदवृत्तिमदभावविषयता । समाधानम् - विशिष्टान्तरविषयित्वाव्यापकत्वं जनकतायाम् एव निवेश्यते न तु प्रतिबन्धकतायाम्। अन्यथा पूर्वोक्तस्थलद्वये एव “प्रतियोगिव्यधिकरण” इत्यंशरहिततादृशवह्न्यभावाभाव- वदवृत्तिमदभावे अव्याप्तिः स्यात् । तस्मात् उक्तपरिष्काराणां दोषघटितत्वात् प्रथमकोट्युक्तवह्न्यभावव्याप्यव्याप्यवत्तादृश- ह्रदे अतिव्याप्तिवारणप्रकारः कथं इति प्रधानपूर्वपक्षः संपन्नः ।
- xi) सधर्मितावच्छेदकककल्पः (सिद्धान्तकल्पः) सिद्धान्तः
९०
नवतिकोटिः॥
साध्यवत्ताज्ञानसमानधर्मितावच्छेदककयद्धर्मावच्छिन्नप्रकारताशालिज्ञानसामान्यं स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानसामान्यप्रतिबन्धकं तद्धर्मावच्छिन्नविषयतानिरूपित- प्रकृतपक्षतावच्छेदकावच्छिन्नविषयतानन्तःपातिनी या तादृशधर्मावच्छिन्नप्रकारतानिरूपित- पक्षतावच्छेदकावच्छिन्नविशेष्यताशाल्यनुमितिजनकताच्छेदिका विषयता तच्छून्यत्वं यद्रूपावच्छिन्नविषयकनिश्चये विशेषणं दीयते ।
[[235]]
[[246]]
तथा च वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्निमान् इत्यत्र वह्न्यभाव- व्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः नास्ति । अत्र यद्धर्मपदेन वह्न्यभावत्वं गृह्यते तदवच्छिन्न- प्रकारताशालिज्ञानसामान्यं वह्न्यभाववान् ह्रदः, वह्न्यभाववान् घटः, इत्यादि भवति । तस्य सर्वस्यापि वह्निमान् ह्रदः, वह्निमान् घटः इत्यादि स्वसमानधर्मितावच्छेदककवह्निमत्ताज्ञान- प्रतिबन्धकत्वं वर्तते । तथा च वह्न्यभावत्वावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदक- तादृशह्रदत्वावच्छिन्नविषयतानन्तःपातिनी या तादृशधर्मावच्छिन्नप्रकारतानिरूपितपक्षता- वच्छेदकावच्छिन्नविशेष्यताशाल्यनुमितिजनकतावच्छेदिका नाम वह्न्यभावव्याप्यत्वावच्छिन्न- प्रकारतानिरूपिततादृशह्रदत्वावच्छिन्नविशेष्यताशाल्यनुमितिजनकतावच्छेदकीभूत- वह्न्यभावव्याप्यव्याप्यत्वावच्छिन्नप्रकारता तच्छून्यत्वस्य “वह्न्यभावव्याप्यव्याप्यवान् तादृशह्रदः” इत्याकारकनिश्चये विरहात् नातिव्याप्तिः । अत्र तादृशधर्मपदेन वह्न्यभावव्याप्यत्वस्यापि ग्रहणं सम्भवति । तदवच्छिन्नप्रकारता- शालिज्ञानसामान्यस्य वह्निमत्ताज्ञानसामान्यप्रतिबन्धकत्वात् । यद्दपि तादृशधर्मपदेन पुनः वह्न्यभावत्वमपि गृहीतुं शक्यते । तथा सति तस्य ग्रहणे ह्रदो वह्निमान् इत्यत्र वह्न्यभावत्वावच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यताशालि “ह्रदः वह्न्यभाववान्” इत्याकारकानुमितिजनकतावच्छेदकत्वस्य वह्न्यभावव्याप्यवद्ध्रदविषयतायां सत्वात् भवति सत्प्रतिपक्षासङ्ग्रहः । तथापि तादृशधर्मपदेन यथा वह्न्यभावत्वं गृहीतुं शक्यते तथा वह्न्यभावव्याप्यत्वमपि गृहीतुं शक्यते इति कृत्वा नाव्याप्तिः ।
[[236]]
[[247]]
एवं वह्न्यभाववत्प्रतियोगिव्यधिकरणवह्न्यभावाभाववदवृत्तिमत्कालीनह्रदः वह्निमान् इत्यत्र प्रतियोगिव्यधिकरणवह्न्यभावाभाववदवृत्तिमत्तादृशह्रदे अतिव्याप्तिरपि नास्ति । तत्र तादृशधर्मपदेन प्रतियोगिव्यधिकरणतादृशवह्न्यभावाभाववदवृत्तित्वस्यैव ग्रहणं कर्तव्यम् । परन्तु ग्रहीतुं न शक्यते । तदवच्छिन्नप्रकारताशालिनिश्चयसामान्यान्तर्गते “वह्न्यभावः अव्याप्यवृत्तिः” इत्याकारकज्ञानकालीने प्रतियोगिव्यधिकरणतादृशवह्न्यभावाभाववदवृत्तिमान् घटः इत्याकारकनिश्चये तादृशवह्निमत्ताज्ञानप्रतिबन्धकत्वविरहात् । तथा च तादृशवह्न्यभावत्वमेव तादृशधर्मपदेन गृह्यते तदवच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यता- शालि“तादृशह्रदः वह्न्यभाववान्” इत्याकारकानुमितिजनकतावच्छेदकतादृशवह्न्यभावाभाव- वदवृत्तित्वप्रकारताशालित्वस्यैव “तादृशह्रदः प्रतियोगिव्यधिकरणवह्न्यभावाभाववदवृत्तिमान्” इत्याकारकनिश्चये सत्वात् तच्छून्यत्वविरहात् नातिव्याप्तिः । शङ्का - एवं सति सत्यन्तं व्यर्थम् । तादृशधर्मपदेन वह्न्यभावव्याप्यव्याप्यत्वस्य सुतरां गृहीतुमशक्यत्वात् वह्न्यभावव्याप्यत्वस्यैव गृहीतुं शक्यत्वेन तदवच्छिन्नप्रकारताशाल्यनुमिति- जनकतावच्छेदकवह्न्यभावव्याप्यव्याप्यत्वप्रकारताशालित्वात् उन्नायकनिश्चयस्य इति तच्छून्यत्वविरहात् नातिव्याप्तिः । एवं च तत्र अतिव्याप्तिविरहात् तद्वारकं सत्यन्तदलं व्यर्थम् इति । समाधानम् - एवमपि प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटितपक्षव्याप्यवत्साध्याभावे अतिव्याप्ति- वारणाय तदावश्यकं भवति । अत्र तादृशधर्मपदेन पक्षव्याप्यत्वं ग्रहीतुं न शक्यते तदवच्छिन्न-
[[237]]
[[248]]
प्रकारकनिश्चयस्य समानधर्मितावच्छेदककसाध्यवत्ताज्ञानप्रतिबन्धकत्वविरहात् । परन्तु साध्याभावत्वं, साध्याभावव्याप्यत्वं एव तथा । तथा च तदवच्छिन्नप्रकारकानुमितिजनकता- वच्छेदकत्वं पक्षव्याप्यवत्साध्याभावविषयतायां अस्ति इति कृत्वा उक्तदलाक्रान्तत्वं भवति। अतः सत्यन्तदलस्यापि निवेशः कार्यः । सत्यन्तदले च प्रतिबध्यतायां व्यापकत्वस्य निविष्टत्वात् अव्याप्यवृत्तित्वग्रहकालीनोक्तविशिष्टविषयकनिश्चयस्य प्रतिबन्धकत्वविरहात् व्यापकत्वा- सम्भवात् नातिव्याप्तिः । अतः तदावश्यकं भवति ।
९१
एकनवतिकोटिः॥
एवमपि अभावः गगनाभाववदभावव्याप्यवत्कालीनगगनवानित्यत्र अभावव्याप्य- वत्तादृशगगनाभावे प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटिते, एवं गगनं गगनाभाववद्गगना- वृत्तित्वव्याप्यवत्कालीनगगनवदित्यत्र गगनावृत्तित्वव्याप्यवत्तादृशगगने प्रतियोगिवैयधिकरण्य- घटितव्याप्तिघटिते च अतिव्याप्तिः दुर्वारा । तथाहि- अत्र तादृशधर्मपदेन साध्याभावत्वादिकमेव ग्राह्यम् । अतः तदवच्छिन्नप्रकारका- नुमितिजनकतावच्छेदकविषयताशून्यत्वस्य द्वयोः ज्ञानयोः सत्वात् उक्तदलाक्रान्तत्वं भवति। एवं सत्यन्तदलाक्रान्तत्वमपि भवति । कथम् इति चेत् साध्याभावधर्मिकाव्याप्यवृत्तित्व- ज्ञानकालेऽपि प्रतियोगिवैयधिकरण्यघटित अभावव्याप्यवद्गगनाभावविषयकज्ञानस्य, एवं तादृशगगनावृत्तित्वव्याप्यवत्तादृशगगनविषयकनिश्चयस्य च क्रमेण “अभावः गगनाभाव- वदभावव्याप्यवत्कालीनगगनवान्”, एवं “गगनं गगनाभाववद्गगनावृत्तित्वव्याप्यवत्कालीन- गगनवत्” इति अनुमितिप्रतिबन्धकत्वम् अनुभवसिद्धम् । तच्च ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्ध- कत्वान्तरं विना न भवति । तत्र च अनुमितिसामान्यप्रतिबन्धकत्वसत्वात् भवति व्यापकत्वं प्रतिबध्यतायाम् इति सत्यन्तदलाक्रान्तत्वम् । अतः अतिव्याप्तिः ।
[[238]]
[[249]]
शङ्का - पूर्ववत् जनकतायां प्रतिबन्धकताव्याप्यत्वविवक्षणेन अतिव्याप्तिवारणं कर्तुं शक्यते खलु । समाधानम् - सत्यम् । परन्तु अभावः गगनाभाववद्वृत्तित्ववत्कालीनगगनवान् इत्यत्र प्रतियोगि- व्यधिकरणाभाववृत्तित्वाभावाभाववदवृत्तिमत्तादृशगगने अतिव्याप्तिः दुर्वारा । सत्यन्दलघटक- ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकताव्याप्यत्वस्य जनकतायां सत्वात् एवं पूर्ववत् सत्यन्तदलादीनां सत्वाच्च भवति अतिव्याप्तिः ।
९२
द्विनवतिकोटिः॥
पूर्वोक्तविषयतानन्तःपातिनी, एवं सधर्मितावच्छेदककयद्धर्मावच्छिन्नवत्ताज्ञानसामान्यं स्वसमानधर्मितावच्छेदककपक्षवद्भेदवत्ताज्ञानप्रतिबन्धकं तद्धर्मावच्छिन्नविषयता- निरूपितसाध्याभावत्वावच्छिन्नविषयतानन्तःपातिनी, एवं सधर्मितावच्छेदककयद्धर्मावच्छिन्न- वत्ताज्ञानसामान्यं स्वसमानधर्मितावच्छेदककपक्षवृत्तित्ववत्ताज्ञानप्रतिबन्धकं तद्धर्मावच्छिन्न- विषयतानिरूपितसाध्यतावच्छेदकावच्छिन्नविषयतानन्तःपातिनी च या विषयता तच्छून्यत्वं सत्यन्तेन विवक्ष्यते । एवं च अभावः गगनाभाववद्वृत्तित्ववत्कालीनगगनवानित्यत्र प्रतियोगि- व्यधिकरणाभाववृत्तित्वाभावाभाववदवृत्तिमत्तादृशगगने नातिव्याप्तिः । तत्र तद्धर्मपदेन प्रतियोगि- व्यधिकरणाभाववृत्तित्वाभावाभाववदवृत्तित्वस्य ग्रहणे तदवच्छिन्नप्रकारतानिरूपिततादृशगगनादि- विशेष्यकनिश्चयसामान्यस्य अनुमितिप्रतिबन्धकत्वं नास्ति । अव्याप्यवृत्तित्वज्ञानकालीनस्य तस्य निश्चयस्य प्रतिबन्धकत्वविरहात् । तथा च केवलवह्न्यभावाभाववदवृत्तित्वम् एव तथा ।
[[239]]
[[250]]
तदवच्छिन्नप्रकारतानिरूपिततादृशगगनत्वावच्छिन्नविशेष्यतानन्तःपातिनीविषयता भवति प्रतियोगिवैयधिकरण्यविषयता तच्छून्यत्वस्य यद्रूपावच्छिन्नविषयकनिश्चये विरहात् नातिव्याप्तिः। शङ्का - एवमपि “ह्रदः वृत्तिजलाभाववान्” इत्यत्र जलव्यापकवृत्तिजलवद्वृत्तिजलवद्ध्रदे प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटिते अतिव्याप्तिः दुर्वारा । “जलव्यापकवृत्तिजलवद्वृत्ति- जलवान् ह्रदः” इत्याकारकनिश्चये तादृशविषयतानन्तःपातिविषयता कापि नास्ति । तत्र तद्धर्मपदग्राह्यजलव्यापकवृत्तिजलवद्वृत्तिजलत्वावच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिन्न- विषयतानन्तःपातिनी विषयता उदासीनविषयता एव तच्छून्यत्वस्यैव उक्तनिश्चये सत्वात् भवति अतिव्याप्तिः ।
९३
त्रिनवतिकोटिः॥
पूर्वशङ्कायाः समाधानम् अत्र क्रियते । पूर्वोक्तातिव्याप्तिवारणाय विशिष्टान्तर- विषयित्वाव्यापकत्वघटितप्रकृतानुमितिप्रतिबन्धकत्वरूपं सत्यन्तमपि पूर्वोक्तसत्यन्तदलेन सह निवेशनीयम् । तथा सति नातिव्याप्तिः “जलव्यापकवृत्तिजलवद्वृत्तिजलवान् ह्रदः” इत्याकारकनिश्चयनिष्ठप्रतिबन्धकतायां वृत्तिजलवद्ध्रदरूपविशिष्टान्तरविषयित्वव्यापकत्वस्यैव सत्वात् तदव्यापकत्वाभावात् नातिव्याप्तिः ।
९४
चतुर्नवतिकोटिः॥
एवमपि “घटो (अ) भाववद्व्यापकजातित्वाभावकालीनजातित्ववान्” इत्यत्र प्रतियोगिव्यधिकरणतादृशजातित्वाभावाभाववदवृत्तिमद्घटे अतिव्याप्तिः दुर्वारा । अत्र सत्यन्तदलघटकप्रतिबन्धकता ज्ञानवैशिष्ट्यानवच्छिन्ना एव ग्राह्या इति कृत्वा तत्र
[[240]]
[[251]]
विशिष्टान्तरविषयित्वाव्यापकत्वं सुलभं भवति । एवं तादृशविषयतानन्तःपातिविषयताशून्यत्वमपि यद्रूपावच्छिन्नविषयकनिश्चये भवति । तत्र धर्मपदेन तादृशजातित्वाभावाभाववदवृत्तित्वस्यापि ग्रहणं सम्भवति तदवच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानन्तःपातिनी विषयिता कापि उक्तविशिष्टविषयकनिश्चये नास्ति । तथा च सत्यन्तदलद्वयस्य विशेष्यदलस्य च सत्वात् भवति अतिव्याप्तिः ।
९५
पञ्चनवतिकोटिः॥
उक्त अतिव्याप्तिवारणाय जनकतायां प्रतिबन्धकताव्याप्यत्वमपि पूर्ववत् निवेशनीयम्। “प्रतियोगिव्यधिकरणजातित्वाभावाभाववदवृत्तिमान् घटः” इत्याकारकनिश्चयीयप्रतिबन्धकता- व्याप्यत्वं जनकतायां नास्ति । तत्र वृत्तित्वं यदि संयोगादिसंबन्धावच्छिन्नं भवेत् तदानीं तस्य प्रतिबन्धकत्वम् अस्ति चेत् तदा स्वरूपादिसंसर्गावच्छिन्नवृत्तित्वप्रकारकज्ञानस्य प्रतिबन्धकत्वं नास्ति । परन्तु तेषां च एकरूपेण जनकत्वं तु स्वीक्रियते । तच्च रूपं तादृशजातित्वाभावा- भाववन्निरूपितवृत्तित्वप्रकारताविशिष्टप्रकारतानिरूपिततादृशह्रदत्वावच्छिन्नविशेष्यता- शालिनिश्चयत्वात्मकम् । प्रकारतावैशिष्ट्यं प्रकारतायां स्वनिरूपिताभावत्वावच्छिन्नप्रकारता- निरूपितत्व, स्ववृत्तिसंबन्धावच्छिन्नत्वोभयसंबन्धेन । वृत्तिश्च- स्वावच्छिन्नत्वसंबन्धावच्छिन्ना। तथा च प्रतिबन्धकताशून्ये विभिन्नसंबन्धावच्छिन्नप्रतिहेतुप्रकारकनिश्चये उक्तानुगतजनकतायाः सत्वात् प्रतिबन्धकताव्यभिचरितत्वमेव अस्ति न तु प्रतिबन्धकताव्याप्यत्वम् इति नातिव्याप्तिः। शङ्का - प्रतिबन्धकताव्याप्यत्वस्य जनकतायां निवेशस्य आवश्यकत्वे सत्यन्तदलघटक- प्रतिबन्धकतायां विशिष्टान्तरविषयकत्वाव्यापकत्वस्य निवेशनं व्यर्थं भवति । तच्च ह्रदः
[[241]]
[[252]]
वृत्तिजलाभाववान् इत्यत्र प्रतियोगिवैयधिकरण्यघटितव्यापकताघटिते जलव्यापकवृत्तिजल- वद्वृत्तिजलवद्ध्रदे अतिव्याप्तिवारणाय खलु दत्तम् । उक्तविशिष्टविषयकनिश्चयनिष्ठप्रति- बन्धकतायां वृत्तिजलवद्ध्रदरूपविशिष्टान्तरविषयित्वाव्यापकत्वाभावात् तद्व्यापकत्वस्यैव सत्वात् भवति अतिव्याप्तिवारणम् इति वक्तव्यम् । परन्तु तत्र प्रतिबन्धकतायां जनकता- व्यापकत्वस्य विरहादेव अतिव्याप्तिवारणसम्भवे विशिष्टान्तरविषयित्वाव्यापकत्वदलं व्यर्थं भवति । प्रतिबन्धकतायां जनकताव्यापकत्वं कुतः नास्ति इति चेत् “ह्रदः वृत्तिजलाभाववान्” इत्याकारकानुमितिं प्रति जलस्य प्रतिहेतुत्वे जलव्यापकवृत्तिजलवद्वृत्तिजलवान् ह्रदः इति ज्ञानस्य एवं यदि शैवालस्य प्रतिहेतुत्वं तदा शैवालव्यापकवृत्तिजलवद्वृत्तिशैवालवान् ह्रदः” इति ज्ञानस्य च जनकत्वं वक्तव्यम् । परन्तु तत्र प्रतिबन्धकत्वं नास्ति । तथा च यत्र यत्र जनकता शैवालव्यापकवृत्तिजलवद्वृत्तिशैवालवद्ध्रदविषयकनिश्चये तत्र प्रतिबन्धकतायाः विरहात् प्रतिबन्धकतायां व्यापकत्वं दुर्घटम् । तथा च तेनैव दलेन अतिव्याप्तिवारणसंभवात् विशिष्टान्तरविषयित्वाव्यापकत्वं व्यर्थम् इति । समाधानम् - एवमपि ह्रदो वृत्यभाववान् इत्यत्र प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटिते जलव्यापकवृत्तिमद्वृत्तिजलवद्ध्रदे अतिव्याप्तिवारणाय तदावश्यकं भवति । तत्र शैवालादिहेतुकज्ञानेषु सर्वत्र एकैव प्रतिबन्धकता स्वीक्रियते । तथा च यत्र यत्र जनकता तत्र प्रतिबन्धकतायाः अपि सत्वात् जनकताव्यापकत्वं प्रतिबन्धकतायाम् अक्षतमिति अतिव्याप्तिः स्यात् । तद्वारणाय सत्यन्तदलघटकप्रतिबन्धकतायां विशिष्टान्तरविषयत्वाव्यापकत्वं अवश्यं निवेशनीयम् । तथा सति उक्तनिश्चयीयप्रतिबन्धकता वृत्तिजलवद्ध्रदरूपविशिष्टान्तर- विषयित्वव्यापिकैव इति तदव्यापकत्वाभावात् नातिव्याप्तिः ।
[[242]]
[[253]]
९६
षन्नवतिकोटिः॥
एवमपि “अभावः अभाववद्व्यापकवृत्तित्वव्यापकजातित्वाभावकालीनजातित्ववान्” इत्यत्र प्रतियोगिव्यधिकरणाभाववद्व्यापकजातित्वाभावकालीनजातित्वाभावाभाववदवृत्ति- मदभावे अतिव्याप्तिः । तत्र सत्यन्तदलेन ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकता एव गृह्यते । तथा च प्रकृतानुमितिं प्रति “प्रतियोगितासंबन्धेन वृत्तित्ववान् जातित्ववान्” इति निश्चयविशिष्ट“प्रतियोगितासंबन्धेन वृत्तित्ववांश्च” अभावः इति निश्चयत्वेन प्रतियोगिव्यधिकरणतादृशजातित्वाभावाभाववदवृत्तिमान् अभावः” इत्याकारकनिश्चयस्य प्रतिबन्धकत्वम् । अवृत्तिमान् इत्यस्य वृत्तित्वाभाववद्वान् इत्यर्थः। तत्र वृत्तित्वम् अभावे प्रतियोगितासम्बन्धेन अस्ति इति कृत्वा अस्य तथा प्रतिबन्धकत्वं स्वीकृतम् । एवं च उक्तप्रतिबन्धकतायां जनकताव्यापकत्वस्य अक्षतत्वात् भवति अतिव्याप्तिः।
९७
सप्तनवतिकोटिः॥
उक्तप्रतिबन्धकतायां विशिष्टान्तरविषयित्वाव्यापकत्वविरहादेव नातिव्याप्तिः । तथाहि- वृत्तित्वव्यापकजातित्वाभावविषयकनिश्चयविशिष्टवृत्तित्ववदभावविषयकनिश्चयत्वावच्छिन्न- प्रतिबन्धकतायां तादृशजातित्वाभाववदभावरूपविशिष्टान्तरविषयित्वव्यापकत्वमेव अस्ति । तादृशजातित्वाभावाभावेत्यत्र अभावे जातित्वाभावस्य प्रतियोगितासंबन्धेन विशेषणत्वात् । तथा च विशिष्टान्तरविषयित्वाव्यापकत्वविरहादेव नातिव्याप्तिः ।
[[243]]
[[254]]
९८
अष्टनवतिकोटिः॥
अभावः वृत्तित्वव्यापकजातित्वाभावकालीनजातित्ववान् इत्यत्र तादृशजातित्वा- भावाभाववदवृत्तिमदभावे अव्याप्तिः भवति । तथाहि- प्रकृतानुमितिं प्रति वृत्तित्वव्यापकः जातित्वाभावः इति निश्चयविशिष्टवृत्तित्वांश्च अभावः इति निश्चयत्वेन उक्तविशिष्टविषयकनिश्चयीय- प्रतिबन्धकता या वर्तते सैव सत्यन्तदलेन ग्राह्या । तत्र विशिष्टान्तरविषयित्वव्यापकत्वस्यैव सत्वात् भवति अव्याप्तिः वृत्तित्वव्यापकजातित्वाभाववदभावरूपविशिष्टान्तरविषयिता- व्यापकत्वात् उक्तप्रतिबन्धकत्वस्य । तथा च तदव्यापकत्वविरहात् भवति अव्याप्तिः । शङ्का - उक्ताव्याप्तिवारणाय विशिष्टान्तरविषयितायां तज्जनकतानवच्छेदकत्व, तत्प्रतिबन्ध- कतावच्छेदकत्वोभयाभाववत्वं निवेश्यते । एवं च नाव्याप्तिः । वृत्तित्वव्यापकजातित्वा- भावकालीनजातित्वाभाववदभावविषयितायां जनकतानवच्छेदकत्वप्रतिबन्धकता- वच्छेदकत्वद्वयसत्वात् उभयाभावविरहात् सा स्वीकर्तुं न शक्यते । किन्तु अन्या एव ग्राह्या तदव्यापकत्वस्य प्रतिबन्धकतायां सत्वात् भवति समन्वयः नाव्याप्तिः च । समाधानम् - एवं च सति पूर्वोक्तातिव्याप्तिः तदवस्था विशिष्टान्तरविषयितपदेन । वृत्तित्वव्यापक- जातित्वाभावकालीनजातित्वाभाववदभावविषयतायाः एव ग्राह्यत्वात् तत्र च उक्तोभयाभावः न भवति इति कृत्वा तादृशोभयाभाववती विषयिता अन्या एव भवति तदव्यापकत्वस्य प्रतिबन्धकतायाम् अक्षतत्वात् अतिव्याप्तिः तदवस्थैव ।
[[244]]
[[255]]
अन्तिमसमाधानम् - ९२ कोटौ एकः प्रश्नः आरब्धः तत्समाधानव्याजेन काश्चन कोटयः प्रवृत्ताः । इदानीं तस्य समाधानम् उच्यते । सत्यन्तदलेन विषयतावैशिष्ट्यमेव जनकतायां विवक्षितम् । वैशिष्ट्यं च - स्ववृत्तिप्रकारतात्वावच्छिन्नावच्छेदकताकत्व, स्ववृत्तिजन्यतानिरूपितत्वोभयसंबन्धेन । जन्यतायां वृत्तिश्च स्वावच्छेदकविधेयतावच्छेदकावच्छिन्ननिरूपितप्रतियोगिवैयधिकरण्याघटित- व्याप्तिप्रकारतान्यतमनिरूपितत्वसंबन्धेन । एवं च न पूर्वोक्तातिव्याप्तिः स्ववृत्तिजन्यतेत्यत्र प्रतियोगिवैयधिकरण्याघटितव्याप्तिप्रकारतायाः निविष्टत्वात् । अत एव सर्वत्र प्रतियोगि- वैयधिकरण्यघटितव्याप्तिघटितविशिष्टेषु नातिव्याप्तिः । इदं च प्रतियोगिवैयधिकरण्यघटिततदघिटतव्याप्तिज्ञानयोः भिन्नरूपेणैव जनकत्वम् इति पक्षे । अत्र जन्यतावच्छेदकत्वे किमर्थं प्रकारतात्वावच्छिन्नत्वं निवेश्यते इति चेत्- “अभाववद्व्यापकजातित्वाभावाभाववदवृत्तिद्रव्यत्वकालीनघटः अभाववद्व्यापकजातित्वा- भावकालीनजातित्ववान्” इत्यत्र प्रतियोगिव्यधिकरणतादृशजातित्वाभावाभाववदवृत्तिमत्तादृशघटे अतिव्याप्तिवारणाय तत् । तथाहि- तत्र तादृशावृत्तिद्रव्यत्वनिष्ठप्रकारतापि स्वपदेन स्वीकर्तुं शक्या । स्ववृत्तिविषयतात्वावच्छिन्नावच्छेदकताकत्वस्य जन्यतायां सत्वात् । स्ववृत्तिप्रकारतात्वावच्छिन्नावच्छेदकताकत्वनिवेशपक्षे तु तत्र धर्मितावच्छेदकत्वस्यैव सत्वात् प्रकारतात्वस्य विरहात् तस्याः ग्रहणं न भवति इति नातिव्याप्तिः ।
[[245]]
[[256]]
द्वयोः व्याप्तिज्ञानयोः एकरूपेण जनकत्वपक्षे तु जनकतायां यद्रूपावच्छिन्ननिरूपकता- कविषयिताव्यापकत्वं विवक्षणीयम् । व्यापकता च स्वविशिष्टविषयतासंबन्धेन । वैशिष्ट्यं च- स्वनिरूपितप्रकारतात्वावच्छिन्नावच्छेदकताकत्व, स्वनिरूपितजन्यतावच्छेदकीभूतविधेयता- वच्छेदकावच्छिन्ननिरूपितप्रतियोगिवैयधिकरण्याघटितव्याप्तिप्रकारतान्यतमनिरूपित- त्वोभयसंबन्धेन। तथा च कुत्रापि दोषाभावात् सत्यन्तदलेन इदमेव विवक्षणीयमिति सर्वं समञ्जसम्।
[[246]]
[[257]]
[[247]]