श्रीः रघुवीरपदद्वन्द्वचिन्तासन्तुष्टमानसः ।
श्रीकृष्णतातस्तनुते वावदूककुतूहलम् ॥
सत्प्रतिपक्षलक्षणे वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदो वह्निमान् इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदे अतिव्याप्तिः ॥१॥ न च प्रतिहेतुव्यापकत्वप्रकारतानिरूपितसाध्याभावनिष्ठविशेष्यत्वानिरूपकज्ञान- वैशिष्ट्यानवच्छिन्नत्वस्य प्रतिबन्धकतायां निवेशनीयतया न दोषः । घटाभावव्याप्यव्याप्यवान् वह्न्यभाववान् घटाभावव्याप्यव्याप्यवाश्चं तादृशह्रदः इति ज्ञानसाधारण्यानुरोधेन ज्ञानविशिष्टज्ञानत्वेनैव तादृशज्ञानस्य प्रतिबन्धकत्वात् । ज्ञानवैशिष्ट्यं च - स्ववृत्तिधर्मविशिष्टत्व, सामानाधिकरण्य, कालिकविशेषणत्व एतत्त्रितयसम्बन्धेन । वृत्तिश्च स्वावच्छिन्नप्रतियोगिताकाभावव्याप्यव्याप्यव्यापकत्वविशिष्टस्वरूपसंबन्धावच्छिन्नवह्न्यभावत्वा- वच्छिन्नप्रकारतानिरूपकत्वसंबन्धेन । धर्मवैशिष्ट्यं च - स्वावच्छिन्नप्रतियोगिताकाभाव- व्याप्यव्याप्यत्वावच्छिन्नप्रकारतानिरूपिततादृशह्रदत्वावच्छिन्नविशेष्यतानिरूपकत्वसम्बन्धेन। प्रतिहेतुव्यापकेत्यादि सत्प्रतिपक्षसङ्ग्रहाय प्रतिहेतुव्यापकत्वप्रकारतानिरूपित- साध्याभावनिष्ठविशेष्यत्वानिरूपकत्वोपादानम् । अत्र यद्दपि वह्न्यभावव्याप्यव्याप्येत्यत्र वह्न्यभावव्याप्यत्वस्य प्रतिहेतुव्यापक- साध्याभावसामानाधिकरण्यरूपस्य घटकत्वेन१ तद्दोषतादवस्थ्यम् ।
१. घटकत्वे - इति पाठभेदः (c)
[[73]]
वह्न्यभावव्याप्यव्याप्यवान् वह्न्यभाववान् इत्यादिज्ञानस्यापि तादृशविशेष्यता- निरूपकत्वात् । तथापि धर्मविशिष्टान्या या ज्ञाननिष्ठावच्छेदकता तदनिरूपकत्वं प्रतिबन्धकताविशेषणं पर्यवसितमिति न दोषः । धर्मवैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वसंबन्धेन। स्वनिष्ठावच्छेदकता - स्वावच्छिन्ननिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावत्वावच्छिन्न- विशेष्यतावृत्तिभेदप्रतियोगितावच्छेदकत्वसंबन्धेन । अवच्छेदकता च - अवच्छेदकतासम्बन्धेन। इत्थं च जलव्यापको वह्न्यभाव इत्यादि ज्ञानीयविषयतायाः तादृशप्रतिबन्धकता- वच्छेदकतावच्छेदकघटकत्वविरहात् न दोष इति वाच्यम् ॥ २ ॥ एवमपि वह्न्यभावव्याप्यव्याप्यव्यापकवह्न्यभावकालीनह्रदः वह्निमान् इत्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदेऽतिव्याप्तेः । घटाभावव्याप्यव्याप्यव्यापको वह्न्यभावः घटाभावव्याप्यव्याप्यवांश्च तादृशह्रदः इति ज्ञानसाधारण्यानुरोधेन तादृशज्ञानस्य ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वात् । ज्ञानवैशिष्ट्यं च प्रागुक्तत्रितयसंबन्धेन । तत्र वृत्तिश्च स्वावच्छिन्नप्रतियोगिताकाभावव्याप्यव्याप्यव्यापकत्वप्रकारतानिरूपितवह्न्यभावत्वा- वच्छिन्नविशेष्यतानिरूपकत्वसंबन्धेन। धर्मवैशिष्ट्यं पूर्वोक्तसंबन्धेन ॥ ३ ॥ न च यद्रूपावच्छिन्नविषयितायां ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्व, प्रतिहेतु- व्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयिताविशिष्टान्यत्व उभयाभाववत्वं निवेशनीयम् इति न दोषः । विषयितावैशिष्ट्यं - निरूपितत्वतादात्म्यान्यतरसंबन्धेन इति वाच्यम् ॥ ४ ॥ ह्रदो वह्मिमान् इत्यत्र वह्न्यभावाभाववदवृत्तिमद्ध्रदे अव्याप्तेः । “अभाववद्व्यापको
[[74]]
वह्न्यभावः” इति ज्ञानकालीन ज्ञानीयतया वह्न्यभावाभाववदवृत्तिमद्ध्रदविषयितायाः अपि ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्वसत्वात् ॥ ५ ॥
प्रधानपूर्वपक्षः
न च प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयिताविशिष्टान्य- विषयितानिष्ठज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वीयावच्छेदकत्वसम्बन्धावच्छिन्नसत्यन्तदलघटक- प्रतिबन्धकत्वनिष्ठप्रतियोगिताकात्यन्ताभावस्यैव यद्रूपावच्छिन्ननिरूपकताकविषयितायां निवेशनीयतया न दोषः । वह्न्यभावव्याप्यव्याप्यवत्तादृशह्रदविषयितायाः उक्तसम्बन्धेन तादृशप्रतिबन्धकतावत्त्वात्। अनुगमस्तु- विशिष्टपक्षग्रहत्वाव्यापकविशिष्टसाध्यग्रहत्वाव्यापकपक्षसाध्यवैशिष्ट्यग्रहत्व- व्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावृत्तिरूपवत्त्वम् तत्त्वम् । वृत्तिश्च स्वनिष्ठावच्छेदकता- कप्रतियोगिताकभेदवत्त्व, स्वावच्छिन्ननिरूपकताकविषयितावृत्त्यभावप्रतियोगित्वोभयसम्बन्धेन । स्वनिष्ठावच्छेदकता स्वविशिष्टनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्ना। अवच्छेदकता च स्वरूप-स्वनिरूपितप्रतिबध्यतावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपित- प्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकत्वोभयसम्बन्धावच्छिन्ना। अभावप्रतियोगिता च प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुविषयता- विशिष्टान्यविषयतानिष्ठज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वीयावच्छेदकत्वसम्बन्धावच्छिन्ना इति वाच्यम् ॥६ ॥ वह्न्यभावाभावव्यापकीभूताभावप्रतियोगिजलवद्ध्रदे व्यापकसामानाधिकर- ण्यरूपव्याप्तिघटितह्रदव्याप्यवद्वह्न्यभावे तादृशह्रदावृत्तित्वव्याप्यवद्वह्नौ चाव्याप्तेः॥ ७ ॥ न च तत्तद्विषयताभिन्नविषयतानिष्ठज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वीया- वच्छेदकतासम्बन्धावच्छिन्नत्वमेव प्रतियोगितायां निवेश्यमिति नोक्तदोष इति वाच्यम्॥८॥
[[75]]
एवमपि जलव्यापकधूमाभावसमानाधिकरणजलव्यापकवह्न्यभावव्याप्यस- मानाधिकरणतादृशजलव्यापकवह्न्यभावकालीनह्रदः वह्निधूमोभयवानित्यत्र तादृश- जलवत्तादृशह्रदेऽतिव्याप्तेः । तादृशविशिष्टविषयतायाः प्रतिहेतुव्यापकेत्यादिविषयताविशिष्टा- न्यत्वविरहात् वह्निवैशिष्ट्यावगाहिबुद्धिप्रतिबन्धकताघटितविशिष्टान्तराघटितत्वसत्त्वात् ॥ ९ ॥ न च धर्मविशिष्टान्यत्व, ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वोभयाभाववत्त्वं निश्चये निवेश्यमिति न दोषः । धर्मवैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन । स्वनिष्ठावच्छेदकता च स्वविशिष्टरूपविशिष्टत्वसम्बन्धावच्छिन्ना । रूपे स्ववैशिष्ट्यं स्वसमानाधिकरणाभाव- प्रतियोगितावृत्तित्वसम्बन्धेन । प्रतियोगितावृत्तित्वं च स्वावच्छिन्ननिरूपकताकविषयिता१- वच्छिन्नत्वसम्बन्धेन । स्वाधिकरणत्वं च - स्वविशिष्टपक्षतावच्छेदका- वच्छिन्नविशेष्यतानिरूपकभ्रमभिन्नत्वसम्बन्धेन । विशेष्यतायां स्ववैशिष्ट्यं स्वविशिष्टप्रकारता निरूपकत्वसम्बन्धेन । प्रकारतायां स्ववैशिष्ट्यं स्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रका- रतानिरूपितसाध्याभावप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितत्व, स्वावच्छिन्नत्वोभयसम्बन्धेन । यदि च ह्रदनिष्ठजलव्यापकवह्न्यभावसमानाधिकरणजलादेः वह्न्यभावाभावव्यापकीभूताभावप्रतियोगिजलवद्ध्रदादेश्चासङ्ग्रह इत्युच्यते, तदा स्वनिष्ठावच्छेदकताकप्रतियोगिताकतत्तद्भेदान्यतमसम्बन्धेन धर्मवैशिष्ट्यं निवेश्यम्। एकभेदः प्रागुक्तः । भेदान्तरेषु स्वविशिष्टरूपविशिष्टेत्यादिकं तुल्यम् । स्वाधिकरणत्वं स्वविशिष्ट- विशेष्यतानिरूपितपक्षतावच्छेदकावच्छिन्नप्रकारतानिरूपकत्वसम्बन्धेन । विशेष्यतायां स्ववैशिष्ट्यं प्रागुक्तेन प्रकारतायां स्ववैशिष्ट्यघटकसम्बन्धेन । एवं साध्याभावाभावव्यापकीभूता- १. विषयित्वावच्छिन्नत्वसं न- पाठभेदः (c)
[[76]]
भावप्रतियोगित्वावच्छिन्नस्वावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यता- निरूपकत्वसम्बन्धेनेत्यादिकमूह्यमिति । यदि च वह्न्यभावव्याप्यव्याप्यत्वरूपतादृशधर्मविशिष्टत्वस्य वह्न्यभाववद्- वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदपक्षके वह्न्यभावव्याप्यव्याप्यवत्तादृशपक्षविषयकज्ञानेऽपि सत्त्वेनातिव्याप्तितादवस्थ्यमिति विभाव्यते, तदा प्रागुक्तस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्व, स्वविशिष्टपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपकत्वोभयसम्बन्धेनैव धर्मवैशिष्ट्यं विवक्षणीयम्। पक्षनिष्ठप्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुत्वादेः सङ्ग्रहाय प्रागुक्तभेदान्तरैस्सह स्वविशिष्टविशेष्यतानिरूपितपक्षतावच्छेदकावच्छिन्नप्रकारतानिरूपिकत्वादिकमन्तर्भाव्य १तत्तदुभयान्यतमसम्बन्धेनैव धर्मवैशिष्ट्यं वाच्यम् । यद्दपि उभयान्यतमत्वमुभयभिन्नभिन्नत्वरूपं अप्रसिद्धम् । उभयभिन्नत्वस्य केवलान्वयित्वात् । तत्तदुभयावृत्तिधर्मशून्यत्वं च प्रत्येकमात्रसाधारणमिति प्रागुक्तातिव्याप्तितादवदस्थ्यम् । तथापि तत्तदुभयवत्त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदक- ताकप्रतियोगिताकभेदकूटवत्त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन धर्मविशिष्टत्वं वाच्यमिति न काचिदनुपपत्तिरिति वाच्यम् ॥१०॥ सर्वं गगनवदित्यत्र प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुमद्घटादेरपि सत्प्रतिपक्षतया तत्राव्याप्तेः । सर्वत्वरूपपक्षतावच्छेदकावच्छिन्नविशेष्यताघटित- तादृशविषयकत्वाव्यापकविषयताशून्यत्वस्य उक्तविशिष्टविषयकज्ञाने असत्त्वेन तत्र उक्तधर्मविशिष्टा- न्यत्वस्य ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकत्वस्य च सत्त्वात् । पक्षतावच्छेदकावच्छिन्नत्वस्थाने किञ्चिद्धर्मावच्छिन्नविषयतानिवेशेऽपि तादृशप्रतिहेतुमत्पटादिविषयकज्ञाने तादृशप्रतिहेतुमद्घटादि- १. तदुभय - पाठभेदः (c)
[[77]]
विषयकत्वासत्त्वेन तद्दोषतादवस्थ्यम् । (एवमेकरूपेण प्रतिबन्धकत्वानुपगमेवह्न्यभाववद्वह्न्य- भावव्याप्यव्याप्यवानिति निश्चयकालीन “ह्रदो वह्न्यभावव्याप्यव्याप्यवानिति” निश्चयेऽपि ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतायाः एव सत्त्वेनातिव्याप्तितादवस्थ्यम्)१ ॥११॥ न च विशिष्टान्तरविषयित्वाव्यापकत्वस्य प्रतिबन्धकतायां निवेशनीयतया ततः एवोक्तातिव्याप्तिवारणसम्भवः , वह्न्यभाववदिन्धनाभावव्याप्यव्याप्यवत्कालीन इन्धनाभावव्याप्यव्याप्यवत्तादृशह्रदरूपविशिष्टान्तरविषयिताव्यापकत्वस्य तादृशप्रतिबन्धकतायां सत्त्वात् । वह्न्यभावव्याप्यव्याप्यवान् वह्न्यभाववान् वह्न्यभावव्याप्यव्याप्यवांश्चतादृशह्रदः, इन्धनाभावव्याप्यव्याप्यवान् वह्न्यभाववान् इन्धनाभावव्याप्यव्याप्यवांश्च तादृशहृदः इत्यादि निश्चयानामेकरूपेण प्रतिबन्धकत्वात् । यद्दपि जलव्यापकवह्न्यभावसमानकालीनजलवद्ध्रद- विषयताव्यापकतामादाय प्रसक्ताव्याप्तेः विशिष्टान्तरविषयतायां प्रतिहेतुव्यापकसाध्याभाव- समानाधिकरणप्रतिहेतुविषयताविशिष्टान्यत्व, ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतावच्छेदकत्वोभयाभावं निवेश्य वारणे साध्याभावाभावव्यापकीभूताभावप्रतियोगीप्रतिहेतुमत्पक्षे मेयत्वविशिष्टेऽतिव्याप्तिः, केवलतादृशसत्प्रतिपक्षविषयतायाः निरुक्तोभयाभाववत्त्व विरहात् । अतः स्वावच्छिन्नविषयकत्वा- व्यापकविषयताशून्यज्ञानीयत्वस्य विशिष्टान्तरविषयतायां निवेशनीयतयाऽतिव्याप्तितादवस्थ्यम् । यदि च धर्मविशिष्टान्यत्वमेव विशिष्टान्तरविषयतायां निवेशनीयम् । धर्मवैशिष्ट्यं च स्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावत्वावच्छिन्नविशेष्यता- निरूपकत्वावच्छिन्नज्ञाननिष्ठावच्छेदकताकप्रतिबन्धकतावच्छेदकत्व, स्वनिष्ठावच्छेदक- १. अयं भागः कर्गजमातृकायां नास्ति । (c)
[[78]]
ताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन । स्वनिष्ठावच्छेदकता च स्वविशिष्टविषयताविशिष्टत्व- सम्बन्धावच्छिन्ना । विषयतायां स्ववैशिष्ट्यं च स्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारता निरूपितसाध्याभावत्वावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितत्व, स्वावच्छिन्नत्वोभयसम्बन्धेन । विषयतावैशिष्ट्यं च निरूपितत्वतादात्म्यान्यतरसम्बन्धेन । इत्थं च नोक्तातिव्याप्त्यवकाशः (न वा वह्न्यभावाभावव्यापकीभूताभावप्रतियोगि जलवद्ध्रदे मेयत्वविशिष्टेऽतिव्याप्तिः) इत्युच्यते, तदा जलव्यापकेत्यादिसत्प्रतिपक्षे मेयत्वविशिष्टेऽतिव्याप्तिः। केवलसत्प्रतिपक्षविषयतायाः शैवालत्वात्मकतादृशधर्मविशिष्टत्वात् । एकरूपेण प्रतिबन्धकत्वात्। यदि ज्ञानत्वविशिष्टत्वमेव विशिष्टान्तरविषयतायां निवेश्यम् । वैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन । स्वनिष्ठावच्छेदकता च स्वाश्रयनिष्ठधर्मविशिष्टावच्छेदकताकप्रतिबन्धकतावच्छेदकत्व, स्वनिष्ठावच्छेदकताक- प्रतियोगिताकभेदवत्वोभयसम्बन्धेन । स्वाश्रयनिष्ठावच्छेदकतायां धर्मवैशिष्ट्यं च स्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारता निरूपितसाध्याभावनिष्ठविशेष्यता- निरूपकत्वावच्छिन्नत्वसम्बन्धेन । स्वनिष्ठावच्छेदकता च स्वाश्रयविषयधर्मविशिष्टत्व- सम्बन्धावच्छिन्ना। धर्मवैशिष्ट्यं च स्वविशिष्टविषयताविशिष्टत्वसम्बन्धेन। विषयतायां स्ववैशिष्ट्यं स्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावप्रकारतानिरूपित- सामानाधिकरण्यप्रकारतानिरूपितत्व, स्वावच्छिन्नत्वोभयसम्बन्धेन । विषयतावैशिष्ट्यं च१ स्वनिरूपितत्व, तादात्म्यान्यतरसम्बन्धेन इत्युच्यते, १. “स्व” इति नास्ति - पाठभेदः
[[79]]
तदा पक्षव्याप्यवत्साध्याभावे, पक्षावृत्तित्वव्याप्यवत्साध्ये च व्यापकसामानाधिकरण्यघटिते च अव्याप्तिः । उक्तसम्बन्धसमशीलसम्बन्धान्तरावच्छिन्नस्वनिष्ठावच्छेदकताकप्रति- योगिताकभेदघटितकूटवत्त्वसम्बन्धेन ज्ञानत्ववैशिष्ट्यनिवेशेऽपि शैवालव्यापकवह्न्य- भावसमानाधिकरणशैवालवद्ध्रदविषयतामादाय जलव्यापकवह्न्यभावसमानाधिकरण- जलवद्ध्रदादावव्याप्तिर्दुर्वारा । अतः स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यज्ञानीयत्वमेव विशिष्टान्तरविषयितायां निवेश्यमित्यतिव्याप्तितादवस्थ्यमेव । तथापि स्वावच्छिन्ननिरूपकताकविषयि१त्वाव्यापकविषयतावत्त्वसम्बन्धावच्छिन्नस्वनिष्ठ- प्रतियोगिताकात्यन्ताभाववज्ज्ञानीयत्वमेव विशिष्टान्तरविषयितायां निवेश्यम् । स्वावच्छिन्न- निरूपकताकविषयित्वे च धर्मवैशिष्ट्यं देयम् । वैशिष्ट्यं च स्वविशिष्टविषयतानिरूपितत्वसम्बन्धेन। विषयतायां स्ववैशिष्ट्यं च स्वविशिष्टविषयताविशिष्टत्वसम्बन्धेन । विषयतायां स्ववैशिष्ट्यं स्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावप्रकारतानिरूपित सामानाधिकरण्यप्रकारतानिरूपितत्वस्वावच्छिन्नत्वोभयसम्बन्धेन । विषयतावैशिष्ट्यं च निरूपितत्वतादात्म्यान्यतरसम्बन्धेन । यद्दपि एवं सति वह्न्यभावाभावव्यापकीभूताभावप्रतियोगि- जलवद्ध्रदादावव्याप्तिः, साध्याभावाभावव्यापकीभूताभावप्रितयोगित्वावच्छिन्नस्वावच्छिन्नविषयता- विशिष्टविषयतानिरूपितत्वाद्दन्यतमसम्बन्धेनैव धर्मवैशिष्ट्यं निवेश्य उक्तदोषवारणेऽपि प्रागुक्त वह्निधूमोभयसाध्यकस्थलीयमहाविशिष्टेऽतिव्याप्तिः । तदीयविषयतायाः धर्मविशिष्टत्वात् । १. विषयकत्व- प.भे.
[[69]]
[[80]]
यदि च प्रागुक्तस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेद, स्वविशिष्टपक्षतावच्छेदका- वच्छिन्नविशेष्यतानिरूपकत्वोभयाद्दन्यतमसम्बन्धेन धर्मविशिष्टज्ञानीयत्वमेव स्वावच्छिन्न- निरूपकताकविषयितायां निवेश्यते इति न दोषः इत्युच्यते । तदा सर्वमाकाशवदित्यत्र प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुमद्घटादावव्याप्तिः। तथापि प्रकारताविशिष्टज्ञानीयत्वमेव स्वावच्छिन्ननिरूपकताकविषयितायां निवेश्यम् । प्रकारतावैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्व, स्वविशिष्टविशेष्यता- निरूपकत्वोभयाद्दन्यतमसम्बन्धेन । स्वनिष्ठावच्छेदकता च स्वविशिष्टरूपविशिष्टत्वसम्बन्धावच्छिन्ना। रूपे स्ववैशिष्ट्यं (रूपवैशिष्ट्यं)१ च प्राग्वत् । तत्र स्वाधिकरणत्वं स्वविशिष्टविशेष्यतानिरूपकत्व- सम्बन्धेन । विशेष्यतायां स्ववैशिष्ट्यं च स्वविशिष्टप्रकारतानिरूपितत्व, स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसम्बन्धेन । प्रकारतायां स्ववैशिष्ट्यं च स्वावच्छेदकावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्याभावप्रकारतानिरूपित- सामानाधिकरण्यप्रकारतानिरूपितत्व, स्वावच्छेदकावच्छिन्नत्वोभयसम्बन्धेन । उभयसम्बन्धघटकस्वविशिष्टविशेष्यतानिरूपकत्वमप्येवंविधमेव । एवं प्रागुक्तरीतिमनुसृत्य भेदान्तराण्यप्यूह्यानि । इत्थं च सर्वं गगनवदित्यत्र प्रतिहेतुमान् घट इत्यादि ज्ञानीयप्रकारतामादाय लक्षणगमनसम्भवः इति वाच्यम् ॥१२॥ तथापि घटव्याप्यवद्गगनाभावादौ व्यापकसामानाधिकरण्यघटिते अव्याप्तेः । यदि च स्वविशिष्टसाध्याभावत्वावच्छिन्नविशेष्यतानिरूपकत्व, स्वनिष्ठावच्छेदकताकप्रतियोगिताक- भेदवत्त्वोभयसम्बन्धोऽपि अन्यतमसम्बन्धे अन्तर्भावनीयः । विशेष्यतायां स्ववैशिष्ट्यं च १. अयं कर्गजमातृकायां नास्ति । (b)
[[70]]
[[81]]
स्वविशिष्टप्रकारतानिरूपितत्वसम्बन्धेन । प्रकारतायां स्ववैशिष्ट्यं च स्वावच्छेदकावच्छिन्नत्व, स्वविशिष्टप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितत्वोभयसम्बन्धेन । प्रकारतायां स्ववैशिष्ट्यं च स्वावच्छेदकावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारता निरूपितत्व, स्वनिरूपित विशेष्यतावच्छेदकावच्छिन्नत्वोभयसम्बन्धेन । भेदश्च प्रागुक्तः । तत्र स्वाधिकरणत्वं उक्तस्वविशिष्टसाध्याभावत्वावच्छिन्नविशेष्यतानिरूपकत्व सम्बन्धेन । इत्थं च घटः गगनप्रतियोगिकत्ववानिति ज्ञानीय प्रकारतामादाय घटव्याप्यगगनप्रतियोगिकत्ववद्गगनाभावादौ लक्षणसङ्गतिरित्युच्यते, तदा वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनवह्न्यभावः तादृशवह्निमानित्यत्र वह्न्यभावव्याप्यव्याप्यवत्तादृशवह्न्यभावेऽतिव्याप्तिः । ह्रदादि वृत्तित्ववद्वह्न्यभावव्याप्यमिति ज्ञानीयप्रकारतामादाय लक्षणोपपादनसम्भवात् ॥१३॥ न च पक्षतावच्छेदकविशिष्टत्वं सत्यन्तदलघटकप्रतिबन्धकतायां देयम्। वैशिष्ट्यं च स्वावच्छिन्नविषयकनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्व सम्बन्धेन । अवच्छेदकता च स्वविशिष्टविषयितासम्बन्धेन । विषयितायां स्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताक- भेदवत्त्वसम्बन्धेन । स्वनिष्ठावच्छेदकता च स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदद्वयवत्त्वसम्बन्धेन। एकभेदप्रतियोगितावच्छेदकता अवच्छेदकतासम्बन्धवच्छिन्ना । अपरभेदप्रतियोगितावच्छेदकता स्वावच्छेदकतावच्छेदकत्वसम्बन्धावच्छिन्ना । इत्थं च नोक्तातिव्याप्त्यवकाशः इति वाच्यम् ॥१४॥ जलव्यापकवह्न्यभावकालीनह्रदपक्षके प्रतिहेतुव्यापकेत्यादिसत्प्रतिपक्षेऽव्याप्तेः ॥१५॥ न च साध्यतावच्छेदकविशिष्टत्वं प्रतिबन्धकताविशेषणम् । साध्यतावच्छेदकवैशिष्ट्यं च स्वविशिष्टरूपविशिष्टत्वसम्बन्धेन । रूपे स्ववैशिष्ट्यं स्वसमानाधिकरणेत्यादिभेदवत्त्वसम्बन्धेन ।
[[71]]
[[82]]
स्वाधिकरणत्वं स्वावच्छिन्नप्रकारतानिरूपितकिंचिदवच्छिन्नविशेष्यतानिरूपकानुमितित्वसम्बन्धेन। भेदप्रतियोगितावच्छेदकता च स्वविशिष्टप्रतिबन्धकतानिरूपितप्रतिबध्यतासम्बन्धेन । प्रतिबन्धकतायां स्ववैशिष्ट्यं च स्वसमानाधिकरणेत्यादि भेदवत्त्वसम्बन्धेन । स्वाधिकरणत्वं च स्वावच्छिन्नप्रकारता- विशिष्टत्वसंबन्धेन । प्रकारतावैशिष्ट्यं च स्वसमानाधिकरणेत्यादिभेदवत्वसंबन्धेन। स्वाधिकरणत्वं स्वविशिष्टविशेष्यतानिरूपकनिश्चयत्वसम्बन्धेन विशेष्यतायां स्ववैशिष्ट्यं स्वनिरूपितविशेष्यता- वच्छेदकावच्छिन्नत्व, स्वविशिष्टप्रकारतानिरूपितत्वोभयसम्बन्धेन । प्रकारतायां स्ववैशिष्ट्यं स्वावच्छेदकावच्छिन्नत्व, स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । रूपवैशिष्ट्यं स्वावच्छिन्नप्रकारता विशिष्टत्वसम्बन्धेन। प्रकारता वैशिष्ट्यं प्राग्वत्१ । यदि च वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवद्वृत्तिवह्न्यभावव्याप्यव्याप्यत्वरूपसाध्यता- वच्छेदकविशिष्टधर्मवैशिष्ट्यमादाय महाविशिष्टेऽतिव्याप्तिरित्युच्यते । तदा प्रागुक्तप्रतिबन्धकतावृत्तिधर्मवत्त्वं सत्प्रतिपक्षत्वम् । वृत्तिश्च स्वविशिष्टनिश्चयेत्यादि- प्रागुक्तभेदवत्त्व, स्वविशिष्टसाध्यतावच्छेदकविशिष्टरूपविशिष्टत्वोभयसम्बन्धेन । साध्यतावच्छेदक- वैशिष्ट्यं रूपवैशिष्ट्यं च प्राग्वत् । रूपे स्ववैशिष्ट्यं स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्य- ज्ञानविषयतावच्छेदकत्वसम्बन्धेन । यद्दपि जलव्यापकवह्न्यभावसमानाधिकरणजलाभाववान् वह्निमान् इति ज्ञाने १. प्राग्वदिति । स्वसेत्यादिभेदवत्वसंबन्धेनेत्यर्थः । स्वाधिकरणता - स्वविशिष्टविशेष्यतानिरूपक- निश्चयत्वसंबन्धेन । स्ववैशिष्ट्यं - स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नत्व, स्वविशिष्टप्रकारता- निरूपितत्वोभयसंबन्धेन । स्ववैशिष्ट्यं - स्वावच्छेदकावच्छिन्नत्व, स्वावच्छेदकसंबन्धावच्छिन्न- त्वोभयसंबन्धेन ।
[[72]]
[[83]]
साध्यतावच्छेदकाधिकरणे तादृशजलत्वस्य स्वविशिष्टप्रतिबन्धकता निरूपितप्रतिबध्यता संबन्धेनासत्वात् अङ्गतिः । तथापि स्वावच्छिन्नप्रकारतानिरूपित अनवच्छिन्नावच्छेदकताकविशेष्यता- निरूपकानुमितित्वसंबन्धेनैव साध्यतावच्छेदकाधिकरणत्वं विवक्षितमिति न दोषः इति वाच्यम्। (१६) पक्षनिष्ठसाध्याभावव्याप्ये पक्षव्याप्यवत्साध्याभावादौ चाव्याप्तेः । यदि च रूपवैशिष्ट्यं - स्वावच्छिन्नप्रकारताविशिष्टत्व, स्वावच्छिन्नविशेष्यता विशिष्टत्वा- न्यतरसंबन्धेन । प्रकारतावैशिष्ट्यं च - प्रागुक्तं । विशेष्यतावैशिष्ट्यं च - स्वसमानेत्यादि- भेदवत्वसंबन्धेन। स्वाधिकरणत्वं - स्वविशिष्टविशेष्यतानिरूपकत्वसंबन्धेन। विशेष्यतायां स्ववैशिष्ट्यं - स्वावच्छेदकावच्छिन्नत्व, स्वनिरूपितप्रकारताविशिष्टप्रकारतानिरूपितत्वो- भयसंबन्धेन । प्रकारतायां प्रकारतावैशिष्ट्यं - स्वावच्छेदकावच्छिन्नत्वस्वावच्छेदक- संबन्धावच्छिन्नत्वोभयसंबन्धेन । तथा च वह्न्यभावत्वादिकमादाय ह्रदव्याप्यवद्वह्न्यभावादावपि लक्षणसमन्वयः इत्युच्यते । तदापि ह्रदावृत्तित्वव्याप्यवद्वह्नौ अव्याप्तिः । प्रागुक्ते वह्न्यभाववद्वह्न्यभावव्याप्य- व्याप्यवत्कालीनवह्न्यभावपक्षके महाविशिष्टेऽतिव्याप्तिश्च । (१७) न च उन्नेयविषयतायां प्रतिबध्यतावच्छेदकत्व, प्रतिबन्धकतावच्छेदकत्वोभयनिवेशान्न दोषः इति । सत्यन्तदलं च वह्निव्याप्याभाववद्वह्न्यभाववत्कालीनह्रदः वह्निव्याप्यवान् इत्यत्र वह्न्यभावव्याप्यवत्तादृशह्रदे अतिव्याप्तिवारणाय प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्व- निवेशे च गगनाभाववदभाववत्कालीनगगनसाध्यके तादृशगगनाभावव्याप्यवत्पक्षे अव्याप्तिः। वह्न्यभावाभाववदवृत्यभाववद्वह्निमत्कालीनह्रदपक्षके वह्न्यभावाभाव-
[[73]]
[[84]]
वदवृत्तिव्याप्यवत्तादृशह्रदे अतिव्याप्तिश्चेति वाच्यम् । (१८) तथापि वह्निव्याप्याभाववद्वह्न्यभावव्याप्यवत्कालीनत्वस्यापि पक्षतावच्छेदकघटकत्वे दर्शितस्थले एव वह्न्यभावव्याप्यवत्तादृशपक्षे अतिव्याप्तेः । एवं वह्न्यभाववद्- वह्न्यभावाभाववदवृत्तिव्याप्यवत्कालीनत्वस्यापि पक्षतावच्छेदकघटकत्वे वह्न्यभावा- भावेत्याद्दुक्तस्थले महाविशिष्टे अतिव्याप्तिः । (१९) न च विरोध्यनुमितिजनकतानवच्छेदकत्वमेव उन्नेय विषयतायां देयं । सत्यन्तदलं तु वह्न्यसमानाधिकरणव्याप्यवद्ध्रदे अतिव्याप्तिवारणायेति वाच्यम् । ॥२०॥ वह्न्यभाववद्वह्न्यसमानाधिकरणव्याप्यवत्कालीनह्रदपक्षके वह्न्यसमानाधिकरणव्याप्य- वत्तादृशह्रदे अतिव्याप्तेः। (२१) न च स्वनिरूपितज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकताविशिष्टत्व, स्वावच्छेदकावच्छिन्न- प्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकत्वो- भयसंबन्धेन प्रतिबध्यतायाः व्यापकत्वविवक्षया महाविशिष्टे अतिव्याप्तिवारणसंभवः । प्रतिबन्धकतावैशिष्ट्यं च - स्वव्याप्यजनकतानिरूपितजन्यतावच्छेदका- वच्छिन्नजन्यतानिरूपितजनकत्वसंबन्धेन । तथा च साध्याभावाभाववदवृत्तिमान् पक्षः इत्यादिज्ञानीय प्रतिबन्धकतामादाय सर्वत्र सत्प्रतिपक्षलक्षणं सङ्गमनीयम् । यद्दपि ह्रदो वह्निमानित्यत्र बाधनिश्चयस्य उक्तसंबन्धेन प्रतिबन्धकताविशिष्टत्वं न संभवति इति विशेष्यदलवैयर्थ्यम् । तथापि वह्निव्याप्याभावसाध्यके बाधे अतिव्याप्तिः । जनकतायां विरोध्यनुमिति- निरूपितत्वानिवेशेन तन्निश्चयस्य उक्तसंबन्धेन प्रतिबन्धकताविशिष्टत्वसंभवात् । एवं
[[74]]
[[85]]
विशिष्टवैशिष्ट्यावगाहिबुद्धिजनकतामादाय ह्रदो वह्निमानित्यत्र वह्न्यभाववद्ध्रदे एव अतिव्याप्तिः। अतः विशेष्यदलम् । यद्दपि वह्न्यभावव्याप्यव्याप्यवह्न्यभाववद्ध्रदे अतिव्याप्तिः । तत्रापि विशिष्टवैशिष्ट्यावगाहिबुद्धिजनकतामादाय लक्षणोपपादनसंभवात् । तादृशप्रतिबन्धकतायां विशिष्टान्तरविषयित्वाव्यापकत्वनिवेशे प्रतिहेतुव्यापकेत्यादि सत्प्रतिपक्षाव्याप्तिः । साध्याभावाभाववदवृत्तिमानिति ज्ञानीय प्रतिबन्धकतायाः विशिष्टान्तरविषयिताव्यापकत्वात्। तदव्यापकज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकत्वाप्रसिद्धेः। तथापि स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्य-ज्ञानीयविशिष्टान्तर- विषयित्वाव्यापकत्वस्यैव तादृशप्रतिबन्धकतायां निवेशनीयतया न दोषः। प्रतिहेतुमत्पक्षादिरूपतादृशविशिष्टान्तरविषयित्वाव्यापकत्वस्य तादृशप्रतिबन्धकतायां सुलभत्वादिति वाच्यम् । (२२) प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटिते साध्याभावव्याप्यवत्पक्षादावतिव्याप्तेः । तन्निश्चये उक्तसंबन्धेन प्रतिबन्धकतासत्वात् । यथाश्रुते तु न दोषः । तादृशव्याप्त्यवगाहि- ज्ञानप्रतिबन्धकतायां साध्याभावधर्मिकाव्याप्यवृत्तित्वज्ञानस्य उत्तेजकतया तादृशज्ञान- कालीनतादृशविशिष्टविषयकज्ञाने प्रतिबन्धकता विरहात् । (२३) न च यथाश्रुते उन्नेयविषयतायां ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकता- व्याप्यजनकतानिरूपितजन्यतावच्छेदकत्वमेव निवेश्यमिति न महाविशिष्टे अतिव्याप्तिः, न वा, प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटितोक्तमहाविशिष्टे अतिव्याप्तिः । सत्यन्तदलविरहादिति वाच्यम् । (२४) महाविशिष्टे अतिव्याप्तेर्दुवारत्वात् । वह्न्यभावव्यापकवह्न्यभावव्याप्य- समानाधिकरणवह्न्यभाववान् तादृशह्रदः इत्यकारकनिश्चयनिष्ठवह्न्यभावव्याप्यानुमिति
[[75]]
[[86]]
जनकतायाः ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकताव्याप्यत्वात् । ज्ञानवैशिष्ट्यानवच्छिन्न- प्रतिबन्धकतायां विशिष्टान्तरविषयित्व अव्यापकत्वनिवेशे च प्रतिहेतुव्यापकेत्यादिसत्प्रतिपक्षे अव्याप्तिः । स्वावच्छिन्नविषयकत्वाव्यापकविषयिताशून्यज्ञानीयविशिष्टान्तरविषयित्वा- व्यापकत्वनिवेशे च वह्न्यभावव्याप्यव्याप्यजलवत्तादृशह्रदे अतिव्याप्तिः । (२५) न च ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतानवच्छेदकविषयित्वानवच्छिन्नत्वमेव तादृशप्रतिबन्धकताव्याप्येत्यनेन विवक्षितम् इति नोक्तदोषावसरः । प्रागुक्तनिश्चयीयजनकतायाः अतथात्वात् इति वाच्यम् । (२६) तथापि अभाववद्व्यापकगगनाभावकालीनगगनसाध्यकसत्प्रतिपक्षाव्याप्तिः । तादृशगगनाभावाभाववदवृत्तिमान् घटः इत्यादिनिश्चयस्य अभाववद्व्यापकगगना- भावविषयकज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतयैव उपपत्तौ ज्ञानवैशिष्ट्यानवच्छिन्न- प्रतिबन्धकतान्तरे मानाभावात् । (२७) न च गगनाभावाभाववन्निरूपितवृत्तित्वसामान्यशून्यप्रकारकस्य स्वरूपसमवयादिसकल- संसर्गकस्यापि निश्चयस्य प्रतिबन्धकत्वजनकत्वयोः सद्भावात् तदनुरोधेन ज्ञानवैशिष्ट्यानवच्छिन्न- प्रतिबन्धकत्वान्तरमावश्यकम् । अभाववद्व्यापकेत्यत्र अभाववतः येन संबन्धेन व्याप्यत्वमभिमतं तदन्यसंसर्गकस्यापि तादृशगगनाभावाभाववदवृत्तिप्रकारकस्य१ प्रतिबन्धकत्वात् । तस्य ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतया निर्वाहविरहात् । एवं तादृशगगनाभावाभाववन्निरूपितसमवायादिसंबन्धावच्छिन्नाधेयताशून्यनिश्चयानां १. ज्ञानस्येति शेषः ।
[[76]]
[[87]]
समवायादिसंसर्गकाणाम् एकरूपेण प्रतिबन्धकत्वजनकत्वयोरभ्युपगन्तव्यतया ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतान्तरसत्वात् नोक्तदोषः । एकरूपं च - संबन्धविशिष्टप्रकारता निरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यता- शालिनिश्चयत्वम्। प्रकारतायां संबन्धवैशिष्ट्यं च - स्वावच्छिन्नत्वप्रकारतानिरूपितसाध्या- भावाभाववद्वृत्तित्वत्वावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारतानिरूपितत्व, स्वावच्छिन्नत्वोभयसंबन्धेन इति वाच्यम् । (२८) एवमपि अभावपक्षके प्रतियोगितासंबन्धावच्छिन्नव्याप्यताघटितवृत्तित्व- व्यापकगगनाभावकालीनगगनसाध्यके सत्प्रतिपक्षाव्याप्तिः। तत्र साध्याभावाभाववद- वृत्तिमत्तानिश्चये ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतान्तरविरहात् । (२९) न च प्रतिबन्धकतायां स्वरूप, स्वविशिष्टजनकत्वोभयसंबन्धेन यद्रूपावच्छिन्न- विषयकत्वव्यापकतायाः विवक्षणीयतया न दोषः । जनकतायां स्ववैशिष्ट्यं - स्वनिरूपित- प्रतिबध्यताविशिष्टप्रकारतानिरूपितविषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितत्वसंबन्धेन। प्रकारतायां प्रतिबध्यतावैशिष्ट्यं च - स्ववृत्तिभेदप्रतियोगितावच्छेदकतासंबन्धेन । अवच्छेदकता च स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतासंबन्धेन। स्वाधिकरणत्वं च - स्वविशिष्ट- विशेष्यतानिरूपकत्वसंबन्धेन । विशेष्यतायां स्ववैशिष्ट्यं स्वनिरूपितविशेष्यतावच्छेदका- वच्छिन्नत्व, स्वावच्छेदकावच्छिन्नप्रकारताविशिष्टप्रकारतानिरूपितत्वोभयसंबन्धेन। प्रकारतावैशिष्ट्यं च स्वनिरूपितसामानाधिकरण्यप्रकारतानिरूपितत्व, स्ववृत्तिप्रकारता- विशिष्टत्वोभयसंबन्धेन। वृत्तिश्च - स्वनिरूपितव्यापकत्वप्रकारतानिरूपितत्वसंबन्धेन । प्रकारतावैशिष्ट्यं च - स्वावच्छेदकावच्छिन्नत्वस्वावच्छेदकसंबन्धावच्छिन्नत्वोभयसंबन्धेन । भेदप्रतियोगितावच्छेदकता च स्वावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतासंबन्धेन।
[[77]]
[[88]]
इत्थं च जलव्यापकवह्न्यभावव्याप्यसमानाधिकरणजलादेः वह्न्यभावावच्छेदकतया पक्षतावच्छेदकताघटकत्वेऽपि तादृशशैवालवत्ताज्ञानस्याप्रतिबन्धकतया तत्साधारणप्रकारतां प्रति प्रतिबध्यतायाः व्यापकत्वविरहेण न महाविशिष्टे अतिव्याप्तिः । सत्यन्तदलं तु प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटिते साध्याभावव्याप्यवत्पक्षे अतिव्याप्तिवारणाय इति वाच्यम्। (३०) एवमपि समानाधिकरणवत्समानाधिकरणव्याप्यजलाभाववदवृत्तिवह्निमत्कालीनह्रदः समानाधिकरणाभाववान् इत्यत्र समानाधिकरणव्याप्यजलाभाववदवृत्तिमत्तादृशह्रदे अतिव्याप्तिः। तादृशह्रदांशे समानाधिकरणव्याप्यनिरूपितव्यापकसामानाधिकरण्यरूपव्याप्ति- विशिष्टप्रकारकनिश्चयस्य समानाधिकरणसामान्याभाववत्ताबुद्धिप्रतिबन्धकत्वनियमात् ।(३१)॥ न च स्वनिरूपितसामानाधिकरण्यप्रकारतानिरूपितत्वेत्यनेन स्वनिरूपितप्रकारतानिरू- पितप्रकारतानिरूपितत्वमेव विवक्षितम् । इत्थं च प्रकारतायाः शैवालव्यापकसमानाधिकरण- व्याप्यजलवज्ज्ञानविषयशैवालवांस्तादृशह्रदः इति ज्ञानसाधारणतया तादृशज्ञानस्य च अप्रतिबन्धकतया नातिव्याप्त्यवसरः । यद्दपि अत्र व्यापकत्वशरीरप्रविष्टाभाववृत्तौ साध्यतावच्छेदकातिरिक्तसंबन्धावच्छिन्न- त्वावगाहिनः ज्ञानस्य अप्रतिबन्धकतया तद्वारणाय साध्यतावच्छेदकसंबन्धावच्छिन्नत्वा- वगाहित्वघटितस्यैव संबन्धस्य निवेश्यतया ह्रदावृत्तित्वव्याप्यवद्वह्नौ अव्याप्तिः । तत्र अभाववृत्तौ स्वरूपसंबन्धावच्छिन्नत्वावगाहिन एव प्रतिबन्धकत्वात् । तथापि व्यापकत्वघटकवृत्तिप्रकारतायां संबन्धावच्छिन्नत्वप्रकारत्वानिरूपितत्वस्यैव निवेशनीयतया न दोषः । अभाववृत्तौ संबन्धावच्छिन्नत्वानवगाहिनोऽपि ज्ञानस्य वह्नौ ह्रदवृत्तित्वसामान्याभावावगाहिज्ञानस्यैव ह्रदे संयोगेन वह्निमत्ताबुद्धिप्रतिबन्धकत्वसत्वात् ।
[[78]]
[[89]]
यत्तु - अभाववृत्तौ संबन्धावच्छिन्नत्वाघटितस्य व्यापकत्वानात्मकतया तज्ज्ञानस्य तदभावव्याप्यव्याप्यवत्ताज्ञानस्येव विषयविरोधेऽपि न प्रतिबन्धकत्वसंभवः इति । तन्न द्रव्यत्वादिनिष्ठात्मत्वादिव्यापकताशरीरे अभाववृत्तौ संबन्धभेदनिवेशे प्रयोजनविरहेण तत्र वृत्तौ संबन्धावच्छिन्नत्वाघटितस्य व्यापकतारूपत्वे सिद्धे अन्यत्रापि तस्य तथात्वाविरोधात् ईदृशव्यापकताज्ञानस्यापि सिद्धान्तलक्षणे अनुमितिजनकतायाः भट्टाचार्येणोक्तत्वात् । तादृशव्यापकताघटिततदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धकतानुपगमे संशयानुमितिप्रसङ्गात्। कूटघटितलक्षणे अभावाभावस्य अतिरिक्ततामते तेन सह फलसाम्यानुरोधेन तदतिरिक्तता- ग्रहदशायां प्रतिबन्धकत्वानुरोधेन च स्वरूपसंसर्गकघटत्वाभावाभावप्रकारकबुद्धेरपि घटत्वाभाव- बुद्धिप्रतिबन्धकतायाः उक्तत्वेन तत्तुल्यन्यायेन अभाववृत्तौ स्वरूपसंबन्धावच्छिन्नत्वावगाहिनोऽपि संयोगेन वह्निमत्ताबुद्धिप्रतिबन्धकत्वावश्यंभावात् । स्वरूपसंबन्धावच्छिन्नाधेयताघटितव्या- पकतावगाहित्वस्यैव निवेशनीयत्वात् । स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वद्वयान्यतरसंबन्धेन प्रतिबध्यतावैशिष्ट्यनिवेशसम्भवाच्च । तत्र एकम् अभाववृत्तौ साध्यतावच्छेदकसंबधावच्छिन्नत्वावगाहित्वघटितम् । अपरं तु तत्र स्वरूपसंबन्धावच्छिन्नत्वावगाहित्वघटितमिति न कोऽपि दोषः इति वाच्यम् । (३२) एवमपि जलवद्ध्रदपक्षकवह्निसाध्यके वह्न्यभावव्याप्यजलव्याप्यवत्तादृशह्रदे अतिव्याप्तेः। एतेन सत्यन्तदलघटकप्रतिबन्धकताव्याप्यत्वस्य विरोध्यनुमितिजनकतायां विवक्षणीयतया न महाविशिष्टे अतिव्याप्तिः । जलव्यापकवह्न्यभावव्याप्यसमानाधिकरणजलवान्, शैवालव्यापकवह्न्यभावव्याप्यसमानाधिकरणशैवालवान् इत्यादिसकलज्ञानसाधारण- एकरूपावच्छिन्नजनकतायाम् अवच्छेदकधर्मदर्शनीयप्रतिबन्धकताव्याप्यत्वविरहात् ।
[[79]]
[[90]]
न च वह्न्यभावव्याप्याभाववदवृत्तेः वह्न्यभावावच्छेदकतया पक्षतावच्छेदकघटकत्वे अतिव्याप्तिः दुर्वारैव इति वाच्यम् । वह्न्यभावव्याप्याभाववन्निरूपितस्वरूपसंबन्धावच्छिन्नाधेयताशून्यस्यस्वरूपसंबन्धेन वह्न्यभावावच्छेदकत्वेन पक्षतावच्छेदकघटकत्वे दर्शितावच्छेदकधर्मदर्शनीयप्रतिबन्धकता- व्याप्यत्वस्य संबन्धान्तरावच्छिन्नतादृश आधेयताशून्यावगाहिज्ञानसाधारणजनकतायामसत्त्वात्। यदि च प्रतियोगिवैयधिकरण्यघटिततदघटितव्याप्तिज्ञानयोः प्रतियोगिवैयधिकरण्य- घटितव्यभिचारज्ञानप्रतिबन्धकतावच्छेदकविषयताशालित्वेन एकरूपेण जनकतायाः सिद्धान्तलक्षणव्याप्त्यनुगमयोः उक्तत्वेन सत्प्रतिपक्षाव्याप्तिः, प्रतियोगिवैयधि- करण्यघटितव्याप्त्यवगाहिसाध्याभावव्याप्यवत्तानिश्चये साध्याभावधर्मिकाव्याप्यवृत्तित्वज्ञानकालीने जनकतावति प्रतिबन्धकताविरहादित्युच्यते । तदा स्वनिरूपितप्रतिबध्यतावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकता विशिष्टत्वसम्बन्धेन प्रतिबन्धकतायाः व्यापकत्वं विवक्षणीयम् । प्रतिबन्धकतावैशिष्ट्यं च स्वरूपस्वावच्छेदकीभूताभावप्रतियोग्युपहितत्वान्यतरसम्बन्धेन । तथा च अव्याप्यवृत्तित्वज्ञानकालीने प्रतियोगिवैयधिकरण्यघटिततदभावव्याप्यवत्तावगाहिज्ञानेऽपि प्रतिबन्धकतायाः स्वावच्छेदकीभूताभाव- प्रतियोग्युपहितत्वसम्बन्धेन सत्त्वात् जनकतायाः प्रतिबन्धकताव्याप्यत्वोपपत्तिः। यद्दपि एकरूपेण जनकत्वानुपगमे न प्रागुक्तरीत्या महाविशिष्टेऽतिव्याप्तिवारणसम्भवः । जलव्यापकवह्न्यभाव(व्याप्य)१समानाधिकरणजलादिरूपावच्छेदकधर्मदर्शनीयप्रतिबन्धकतायाः एतादृशजलादिमत्तानिश्चयीयजनकताव्यापकत्वसम्भवात् । १. अयं भागः कर्गजमातृकायां नास्ति । व्याप्य इति पाठः समीचीनः । (b)
[[80]]
[[91]]
तथापि तत्पक्षे जनकतायाः स्वनिरूपितजन्यतावच्छेदकावच्छिन्नजन्यतानिरूपितजनकता सम्बन्धेन व्याप्यत्वस्य विवक्षणीयतया न दोषः । उक्तसम्बन्धेन जनकतायाः शैवालव्यापकवह्न्य- भावव्याप्यसमानाधिकरणशैवालादिवत्ताज्ञानसाधारणत्वादित्यपास्तम् । वह्न्यभावव्याप्यजलव्याप्यवज्जलवद्ध्रदेऽतिव्याप्तेः दुर्वारत्वात् । यद्दप्यत्र प्रतिबन्धकतायां विशिष्टान्तरविषयित्वाव्यापकत्वं दुर्लभम्, तादृशजलव्याप्यत्वस्य व्यापकसामानाधिकरण्यरूपत्वे तादृशजलसमानाधिकरणवत्तादृशह्रदरूपविशिष्टान्तरविषयिता- व्यापकत्वात् । अभाववदवृत्तित्वरूपत्वेऽपि अभाववद्वृत्तित्वीयवद्विशिष्टतादृशह्रदरूपविशिष्टान्तर- विषयिताव्यापकत्वात् । तथापि जनकतायामेव विशिष्टान्तरविषयित्वाव्यापकत्वं निवेशनीयमित्यस्य अन्यत्र व्यवस्थापितत्वात् नासङ्गतिः । किं च जलवान् ह्रदः अभाववद्व्यापकजातित्वाभावकालीनजातित्ववानित्यत्र तादृश जातित्वाभावव्याप्यजलाभाववदवृत्तिमत्तादृशह्रदेऽतिव्याप्तिः । तत्र प्रतिबन्धकतायामपि विशिष्टान्तरविषयित्वाव्यापकत्वसत्त्वात् । (३३) न च प्रकारतायाः स्वविशिष्टप्रकारतात्वसम्बन्धेन व्याप्यत्वं प्रतिबध्यतायाश्च स्वावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकतासम्बन्धेन व्यापकत्वमभिमतमिति न दोषः । स्ववैशिष्ट्यं च स्वनिरूपिताधिकरणताविशिष्टत्वसम्बन्धेन । अधिकरणता च स्वावच्छेदकावच्छिन्नत्वसम्बन्धावच्छिन्ना । अधिकरणतावैशिष्ट्यं च स्वविशिष्टप्रकारताविशिष्टत्व, स्वाश्रयप्रकारतानिरूपितत्वोभयसम्बन्धेन । प्रकारतायां स्ववैशिष्ट्यं च स्वनिरूपकप्रकारता- निरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्व, स्वाश्रयप्रकारतानिरूपितप्रकारता
[[81]]
[[92]]
निरूपितप्रकारतानिरूपितत्वोभयसम्बन्धेन । प्रकारतावैशिष्ट्यं च स्वविशिष्टप्रकारतानिरूपितत्व- सहितव्यापकत्वत्वावच्छिन्नत्वसम्बन्धेन । स्ववैशिष्ट्यं स्वावच्छेदकावच्छिन्नत्वस्वावच्छेदक- सम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । इत्थं च वह्न्यभावव्याप्यजलनिष्ठशैवालादिव्यापकत्वप्रकारतायाः प्रतिबन्धकतानवच्छेदकतया नोक्तातिव्याप्त्यवसरः इति वाच्यम् । (३४) तथापि अभावो गगनवानित्यत्र प्रतियोगित्वव्यापकगगनाभावकालीनप्रतियोगित्वव्याप्य- वदभावेऽतिव्याप्तेः । प्रतियोगितासम्बन्धेन प्रतियोगितायाः व्याप्यत्वावगाहि तादृशज्ञानस्य प्रतियोगित्वाभावरूपव्यापकत्वावगाहितया प्रतिबन्धकतया उक्तलक्षणसत्त्वात् । एवं सर्वं गगनवदित्यत्र अभावव्यापकगगनाभावकालीनाभावव्याप्यवत्सर्वस्मिन्नतिव्याप्तिः । अभावव्यापकगगना- भावावगाहिनः सधर्मितावच्छेदककाभावप्रकारकज्ञानस्य प्रतिबन्धकतया तत्र लक्षणसत्त्वात् । यद्दपि उक्तज्ञानयोः व्यापकत्वावगाहिज्ञानत्वेनैव प्रतिबन्धकत्वं, न तु ज्ञानविशिष्टज्ञानत्वेन, तथापि “विषयताव्यापको गगनाभावः विषयतावांश्चाभावः, अधिकरणताव्यापको गगनाभावः अधिकरणतावांश्चाभावः” इति ज्ञानसाधारण एकरूपेण प्रतिबन्धकतामादाय लक्षणसत्त्वमिति ।(३५) न च स्वावच्छेदकावच्छिन्नप्रकारताविशिष्टत्वस्वनिरूपितविशेष्यतावच्छेदकावच्छिन्न- विशेष्यतानिरूपितत्वोभयसम्बन्धेन स्वविशिष्टप्रकारतात्वं व्याप्यतावच्छेदकसम्बन्धः। प्रकारताविशिष्टत्वं च स्ववृत्तिप्रकारताविशिष्टत्व, स्वनिरूपितप्रकारतानिरूपितप्रकारतानिरूपित- त्वोभयसम्बन्धेन । वृत्तिश्च स्वनिरूपितव्यापकत्वप्रकारतानिरूपितत्वसम्बधेन । वैशिष्ट्यं च स्वावच्छेदकावच्छिन्नत्व, स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । इत्थं च शैवालव्यापक- तादृशजलसमानाधिकरणशैवालवान् तादृशह्रदः इति ज्ञानीयप्रकारतायाः प्रतिबन्धकतानवच्छेदकतया न दोषः ।
[[82]]
[[93]]
यद्दपि अवच्छेदकधर्मदर्शनीयप्रतिबन्धकतावच्छेदकत्वं सर्वत्रापि सुलभमिति महाविशिष्टेऽतिव्याप्तिवारणासम्भवः । तथापि प्रतिबन्धकतावच्छेदकत्वस्थाने स्वावच्छेदकत्व, स्वानतिरिक्तवृत्तित्वोभयसम्बन्धेन प्रतिबन्धकतावैशिष्ट्यमेव निवेश्यम् । अनतिरिक्तवृत्तित्वं च स्वनिष्ठावच्छेदकताकप्रतियोगिताक- भेदवद्वृत्तित्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वमिति वाच्यम् । (३६) एवमपि ह्रदो वह्निमानित्यादौ घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रदादावतिव्याप्तेः ।(३७) न च प्रागुक्तस्ववृत्तिभेदप्रतियोगितावच्छेदकत्वद्वयान्यतर, स्ववृत्तिभेदप्रतियोगितावच्छेदक- त्वोभयसम्बन्धेन प्रतिबध्यताविशिष्टत्वं प्रकारतायां निवेश्यम् । अवच्छेदकता च स्वविशिष्टनिश्चयनिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकावच्छिन्नत्वसम्बन्धावच्छिन्ना । निश्चये स्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदद्वयवत्त्वसम्बन्धेन । एकभेदप्रतियोगिता- वच्छेदकता स्वविशिष्टविशेष्यतानिरूपकत्वसम्बन्धावच्छिन्ना । विशेष्यतायां स्ववैशिष्ट्यं स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नत्व, स्वविशिष्टप्रकारतानिरूपितत्वोभयसम्बन्धेन । प्रकारतायां स्ववैशिष्ट्यं स्वावच्छेदकतापयर्ा्रप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकत्व, स्वावच्छेदकसम्बन्धा- वच्छिन्नत्वोभयसम्बन्धेन । अपरभेदप्रतियोगितावव्छेदकता च स्वविशिष्टरूपविशिष्टत्व- सम्बन्धावच्छिन्ना। रूपे स्ववैशिष्ट्यं स्वसमानाधिकरणाभावप्रतियोगितावृत्तित्वसम्बन्धेन । स्वाधिकरणत्वं स्वविशिष्टविशेष्यतानिरूपकत्वसम्बन्धेन । विशेष्यतायां स्ववैशिष्ट्यं पूर्वोक्तम्। प्रतियोगितावृत्तित्वं स्वावच्छिन्ननिरूपकताकविषयितात्वावच्छिन्नत्वसम्बन्धेन । रूपवैशिष्ट्यं स्वावच्छिन्ननिरूपकताकविषयित्वसम्बन्धेन । इत्थं च न घटकालीनवह्न्यभावभाववदवृत्तिमद्ध्रदे अतिव्याप्तिः । वह्निवैशिष्ट्यावगाहिबुद्धित्वावच्छिन्नप्रतिबध्यतायाः वह्न्यभाववान् ह्रदः इति निश्चयनिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकावच्छिन्नत्वसत्त्वात् ।
[[83]]
[[94]]
(१यदि च अभाववान् वह्न्यभाववानिति ज्ञानकालीन अभाववान्ह्रद इति ज्ञाननिष्ठ- प्रतिबन्धकतामादायवह्न्यभावव्याप्यवद्ध्रदे अव्याप्ति इत्युच्यते, तदा स्वविशिष्टरूपविशिष्टत्व- सम्बन्धावच्छिन्नैव प्रागुक्तभेदप्रतियोगितावच्छेदकता ग्राह्या । रूपे स्ववैशिष्ट्यं प्रागुक्तभेदद्वयवत्त्वसम्बन्धेन । रूपवैशिष्ट्यं स्वविशिष्टनिश्चयनिष्ठभेदप्रतियोगितावच्छेदकत्व- सम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन । भेदप्रतियोगितावच्छेदकता- स्वावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतासम्बन्धेन) तालपत्रे एव कुण्डलीकृतोऽयमंशः। इति वाच्यम् । (३८) एवमपि ह्रदत्वावच्छेदेन जलवत्त्वघटितजलवद्ध्रदत्वााामानाधिकरण्येन वह्नौ साध्ये तादृशह्रदत्वसामानाधिकरण्येन जलव्यापकवह्न्यभावाभाववदवृत्तिमत्तादृशह्रदेऽतिव्याप्तेः । जलव्यापकवह्न्यभावविषयकनिश्चयवैशिष्ट्यावच्छिन्नप्रतिबन्धकताघटितसत्यन्तदलसत्त्वात्२ । यद्दपि शैवालव्यापकजलव्यापकवह्न्यभावसमानाधिकरणशैवालवान् जलवान् ह्रदः इत्यादि ज्ञानस्य जलवद्ध्रदत्वसामानाधिकरण्येन तादृशशैवालावगाहिनः या शैवालविषयता तस्याः न स्वरूपसम्बन्धविशेषरूपावच्छेदकत्वमस्ति, तथापि तत्र सत्प्रतिपक्षाव्याप्त्यापत्त्या स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्न- विशेष्यतानिरूपितत्वस्थाने स्वनिरूपितविशेष्यतावच्छेदकविशिष्टत्वमेव निवेश्यम् । वैशिष्ट्यं च स्वावच्छिन्नविशेष्यतानिरूपितत्व, स्वव्यापकत्वावच्छिन्नसांसर्गिकविषयतानिरूपितत्वोभयसम्बन्धेन। इत्थं चोक्तातिव्याप्तिरिति । (३९) १. अयं भागः कर्गजमातृकायां नास्ति । (b) २. (उक्तवह्न्यभाववत्तादृशह्रदमात्रविषयकनिश्चयस्य प्रतिबन्धकतया उक्तविशेषणस्यापि सत्त्वात् ।) अयं भागः नास्ति - कर्गजमातृका (b)
[[84]]
[[95]]
न च प्रकृतानुमितिप्रतिबन्धकतानवच्छेदकविषयताशून्यत्वं विरोध्यनुमितिविशेषणं देयमिति नोक्तदोषावसरः । तादृशह्रदत्वसामानाधिकरण्येन जलव्यापकवह्न्यभावावगाहिज्ञानीय- सांसर्गिकविषयतायाः प्रतिबन्धकतानवच्छेदकत्वात् इति वाच्यम् । (४०) घटो गगनाभाववदभाववत्कालीनगगनवानित्यत्र तादृशगगनाभावव्याप्यवद्घटरूप- सत्प्रतिपक्षाव्याप्तेः । बाधज्ञानीयकालीनत्वादिविषयतायाः प्रतिबन्धकतानवच्छेदकत्वात् । (४१) न च प्रकृतानुमितिप्रतिबन्धकता निरूपितप्रकारतात्वावच्छिन्नावच्छेदकताश्रयत्वं प्रकारता विशेषणमिति नोक्तातिव्याप्त्यवसरः । तथा सति जलवान् ह्रदः जलव्यापकवह्न्यभाववानिति ज्ञानीयवह्न्यभावत्वावच्छिन्नप्रकारतायां तादृशावच्छेदकत्वविरहात् इति वाच्यम् । (४२) एवं सति अभावः अभाववृत्तित्वव्यापकगगनाभावकालीनगगनवानित्यत्र अभावावृत्तित्वव्याप्यवत्तादृशगगने अव्याप्तेः । प्रतियोगितासम्बन्धावच्छिन्नव्याप्यतावगाहि अभाववृत्तित्वव्यापकगगनाभावविषयकनिश्चयसहित अभाववृत्तित्वाभावविषयकनिश्चयत्वेन अभावधर्मिकगगनवैशिष्ट्यावगाहिबुद्धिप्रतिबन्धकतयैव निर्वाहे अतिरिक्तप्रतिबन्धकताविरहात् तादृशप्रतिबन्धकतानिरूपिताभाववृत्तित्वाभावविषयतानिष्ठावच्छेदकतायाः प्रकारतात्वानवच्छिन्नत्वात्। अत्र घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रद वारकविशेषणोपपादनप्रकारः अग्रे दर्शयिष्यते । एतेन प्रकारतायां प्रतिबध्यतावैशिष्ट्यघटकतया प्रागुक्तसम्बन्धेन सह स्वनिष्ठाव- च्छेदकताकप्रतियोगिताकभेदवन्निश्चयवृत्तित्वसम्बन्धोऽप्यन्तर्भावनीयः इति नोक्तातिव्याप्तिः। स्वनिष्ठावच्छेदकता च स्वावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतासम्बन्धावच्छिन्ना। वृत्तिश्च स्वावच्छेदकावच्छिन्नविषयकत्व, स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविषयकत्वोभय- सम्बन्धेन इत्यपास्तम्, दर्शिताव्याप्तेः । (४३)
[[85]]
[[96]]
न च प्रकारतायां प्रतिबध्यतावैशिष्ट्यघटकतया प्रागुक्तसम्बन्धेन सह स्वावच्छेदकविषयित्वा- वच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकत्वस्य अन्तर्भावनीयतया नोक्तातिव्याप्त्यव्याप्ती इति वाच्यम् । (४४) तथापि वह्न्यभावत्वावच्छेदेन भावभिन्नत्वघटित भावभिन्नवह्न्यभावत्वसामानाधिकरण्येन भावभिन्नत्वव्यापकत्वाभावव्याप्यवह्निसाध्यकस्थले भावभिन्नत्वव्यापकवह्न्यभावाभाव- वदवृत्तिमत्तादृशवह्न्यभावेऽतिव्याप्तेः । वह्न्यभावत्वावच्छेदेन भावभिन्नत्वव्यापकतायाः घटकतया तादृशवह्न्यभावविषयतायां प्रतिबध्यतावच्छेदकत्वसत्त्वात्। यदि च घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रदवारकविशेषणविरहात् नोक्तातिव्या- प्त्यवकाशः। वह्न्यभावत्वसामानाधिकरण्येन भावभिन्नत्वव्यापकताघटितविशिष्टान्तरविषयक- निश्चयेऽपि तत्प्रतिबन्धकत्वसत्त्वात् इत्युच्यते । तदापि जलवान् ह्रदः वह्निमानित्यत्र वह्न्यभावव्याप्यजलव्याप्यवत्तादृशह्रदेऽतिव्याप्तिः। प्रतिबध्यतावच्छेदकत्वविरहात् वारणेऽपि तत्रैव वह्न्यभावव्याप्याभाववद्वह्निमत्कालीनत्वस्य पक्षविशेषणत्वे वह्न्यभावव्याप्यजलव्याप्यवज्जलवद्ध्रदेऽतिव्याप्तिः । यदि च तद्वारणाय व्यापकत्वादौ प्रागुक्तस्वरूपसम्बन्धरूपावच्छेदकत्वघटितप्रकारोऽप्यादरणीयः इत्युच्यते, तदा प्रतियोगित्वं निरूपितत्वसम्बन्धेनाभाववद्भिन्नमित्यादौ सत्प्रतिपक्षाव्याप्तिः । अभावादौ प्रतिहेतुव्यापकत्वावगाहिज्ञानस्य प्रतियोगिताधर्मिकनिरूपितत्वसंसर्गकाभाव- प्रकारकज्ञानत्वेनैव प्रतिबन्धकतया व्यापकत्वविषयतायाः प्रतिबन्धकतानवच्छेदकत्वात् । यदि च स्वावच्छेदकावच्छिन्न१वद्भिन्नावृत्तित्वप्रकारतानिरूपितविशेष्यताविशिष्टत्व, १. (वद्भिन्न) इति भागः कर्गजमातृकायां नास्ति । (b)
[[86]]
[[97]]
स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसम्बन्धेन स्वविशिष्टप्रकारतात्वं व्याप्यतावच्छेदकसम्बन्धः इति नोक्तदोषावसरः । विशेष्यतावैशिष्ट्यं च स्वावच्छेदकाव- च्छिन्नत्वस्वनिरूपितत्वोभयसम्बन्धेन । वह्न्यभाववद्भिन्नावृत्तिजलवज्जलवानित्यादिज्ञानीय- जलादिप्रकारतान्तर्भावेण व्याप्यव्यापकभाव इत्युच्यते । तदा वृत्तित्वं निरूपितत्वसम्बन्धेन भिन्नवद्भिन्नमित्यत्राव्याप्तिः । स्थलद्वयेऽपि अन्यतरस्य अनपायात् । (४५) न च प्रतिबध्यतावैशिष्ट्यघटकस्ववृत्तिभेदप्रतियोगितावच्छेदकता स्वसमानाधि- करणभेदप्रतियोगितावच्छेदकत्वद्वयवत्त्वसम्बन्धावच्छिन्ना । एकत्र स्वाधिकरणत्वं प्रागुक्त- स्वविशिष्टप्रकारतात्वसम्बन्धेन। अन्यत्र तु स्वावच्छेदकावच्छिन्नवद्भिन्नावृत्तित्वेत्याद्दुक्त- सम्बन्धेन। तथा च नोक्तस्थलद्वयव्याप्तिरिति वाच्यम् । (४६) सर्वमभाववद्भिन्नमित्यत्र प्रमेयत्वव्यापक अभावसमानाधिकरणप्रमेयत्ववत्सर्व- रूपसत्प्रतिपक्षाव्याप्तेः । सधर्मितावच्छेदककाभावप्रकारकज्ञानत्वेन तत्प्रतिबन्धकत्वात् । भेदत्वमत्र अखण्डधर्मः , न तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम् । अतो नानुमित्यप्रसिद्धिः । यद्दपि व्यापकसामानाधिकरण्यावगाहिपरामर्शस्तादृशानुमितौ प्रतिबन्धकः, तथापि साध्याभाववदवृत्तिमान् पक्ष इत्यभावांशे निर्धर्मितावच्छेदककपरामर्शादनुमितिः सम्भवत्येव । यदि च स्वावच्छेदकावच्छिन्नवद्भिन्नावृत्तित्वावच्छिन्नत्व स्वनिरूपितविशेष्यतावच्छेदका- वच्छिन्नविशेष्यतानिरूपितत्वोभयसम्बन्धेन स्वविशिष्टप्रकारतात्वसम्बन्धेनैव स्वाधिकरणत्वं निवेशनीयमिति न दोषः इत्युच्यते, तदा अभावविशिष्टवदभावविशिष्टव्याप्यव्याप्यवत्कालीनो घटः अभावविशिष्टव्याप्या-
[[87]]
[[98]]
भावव्याप्य अभावविशिष्टवद्भेदवानित्यत्र अभावविशिष्टव्याप्यव्याप्यवत्तादृशघटे- ऽतिव्याप्तिः। (४७) न च स्वावच्छेदकावच्छिन्नवद्भिन्नावृत्तित्वावच्छिन्नत्वस्थाने स्वावच्छेदकावच्छिन्न- वद्भिन्नवृत्तित्वप्रकारताविशिष्टत्वमेव निवेशनीयम् । वैशिष्ट्यं च स्वनिरूपिताभावप्रकारता- निरूपितत्व, स्ववृत्तिसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । वृत्तिश्च स्वावच्छिन्नत्वप्रकारता- निरूपितत्वसम्बन्धेन । इत्थं च उक्तस्थले नातिव्याप्तिः । स्वावच्छेदकावच्छिन्नवद्भिन्ननिरूपित- सम्बन्धान्तरावच्छिन्नाधेयताशून्यस्य सम्बन्धान्तरेण भाने प्रतिबन्धकताविरहात् इति वाच्यम्। (४८) एवमपि अभावो वृत्तित्ववद्भिन्नः, इत्यत्र वृत्तित्वव्याप्यवदभावे अव्याप्तेः । व्यापकताज्ञानस्य अभावधर्मिकवृत्तित्वप्रकारकज्ञानत्वेन वृत्तित्ववद्भिन्नावृत्तित्वज्ञानस्य अभावप्रकारकज्ञानत्वेन च प्रतिबन्धकत्वात् प्रागुक्तस्वरूपसम्बन्धविशेषरूपावच्छेदकत्व- घटितलक्षणासत्त्व(म्)१ । यद्दप्येवं सति परामर्शस्यैव प्रतिबन्धकतया अनुमित्यप्रसिद्धिः , तथापि वृत्तित्वतद्वद्भेदौ अविरुद्धौ इति ज्ञानकाले अभावधर्मिकवृत्तित्वज्ञानस्याप्रतिबन्धकतया अनुमित्युपपत्तिः । अतः स्वरूपसम्बन्धविशेषरूपावच्छेदकत्वघटनासम्भवात् प्रागुपदर्शिते वह्न्यभावव्याप्याभाव- वद्वह्निमत्कालीनो जलवान् ह्रदो वह्निमानित्यत्र वह्न्यभावव्याप्यजलव्याप्यवत्तादृश- ह्रदेऽतिव्याप्तिः दुर्वारैव । (४९) न च यादृशविशिष्टविषयकनिश्चयविशिष्टस्वविषयताशून्ययादृशविशिष्टविषयक- १. ात् - इति पाठभेदः
[[88]]
[[99]]
निश्चयत्वव्यापिका प्रकृतानुमितिप्रतिबन्धकता तादृशविशिष्टद्वयाविषयकत्वं विरोध्यनुमितिविशेषणं देयम् । स्वविषयताशून्यत्वनिवेशात् वह्न्यभाववान् ह्रदः इत्यादेः न विशिष्टद्वयाविषयकत्वा- नुपपत्तिः। तथा च नोक्तातिव्याप्तिरिति वाच्यम् । (५०) घटो गगनाभाववदभाववत्कालीनगगनवानित्यत्र तादृशगगनाभावव्याप्यवद्घटे अव्याप्तिवारणाय विशिष्टद्वयविषयतायां प्रकृतानुमितिप्रतिबध्यतानवच्छेदकत्वस्य निवेशनीयतया उक्तातिव्याप्तेः दुर्वारत्वात् । (५१) न च साध्यवत्ताज्ञानसमानधर्मितावच्छेदककयद्धर्मावच्छिन्नवत्ताज्ञानसामान्यं स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानसामान्यप्रतिबध्यं तद्धर्मावच्छिन्नविषयतानिरूपित- प्रकृतपक्षतावच्छेदकावच्छिन्नविषयतानन्तःपातित्वमेव विशिष्टद्वयविषयतायां निवेशनीयम् इति नोक्तदोषावसरः इति वाच्यम् । (५२) एवमपि जलवान् ह्रदः वह्न्यभावव्याप्याभावव्याप्यवह्निमानित्यत्र वह्न्यभावव्याप्य- जलव्याप्यवज्जलवद्ध्रदेऽतिव्याप्तेः । तत्र वह्न्यभावव्याप्यजलत्वस्यापि यद्धर्मपदेन ग्रहणसम्भवात् । (५३) न च प्रकृतानुमितिप्रतिबध्यतानवच्छेदकविषयताशून्यत्वमेव विरोध्यनुमितिविशेषणम्। दर्शितस्थले वह्न्यभावव्याप्यजलवान् तादृशह्रदः इति ज्ञानीयजलत्वविषयतायाः प्रतिबध्यतानवच्छेदकतया न दोषः । वह्न्यभावव्याप्यजलाभावव्याप्यत्वस्य साध्यतावच्छेदक- घटकत्वं तु न सम्भवति, अनुमित्यप्रसिद्धिप्रसङ्गात् । जले वह्न्यभावव्याप्यत्वभाने जलवति ह्रदे वह्निभानासम्भवात् । यद्दपि केवलह्रदपक्षके वह्न्यभावव्याप्यजलाभावव्याप्यवह्निसाध्यके वह्न्यभाव- व्याप्यजलव्याप्यजलवद्ध्रदेऽतिव्याप्तिः । तथापि प्रागुक्तस्य प्रकारतायां प्रतिबध्यतावैशिष्ट्य-
[[89]]
[[100]]
विशेषणस्यापि सत्वान्नोक्तदोषः इति वाच्यम् । (५४) तथापि वह्न्यभावव्याप्याभावव्याप्यवह्नौ व्याप्यजलाभावव्याप्यत्वस्यापि विशेषणत्वेऽतिव्याप्तेः दुर्वारत्वात् । (५५) न च प्रागुक्ततादृशविषयतानन्तःपातिविशिष्टद्वयविषयताशून्यत्वमेव विरोध्यनुमिति- विशेषणम् । परंतु तादृशधर्मे स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतादृशधर्मावच्छिन्ना- विषयकप्रतीतिविषयतावच्छेदकत्वरूपं तादृशधर्मान्तराघटितत्वमपि विशेषणं देयम् । अतो नोक्तातिव्याप्तिः, वह्न्यभावव्याप्यजलत्वस्य वह्न्यभावव्याप्यत्वरूपतादृशधर्मान्तरघटितत्वात्। यद्दपि जलत्वविषयतैव वह्न्यभावव्याप्यत्वरूपतादृशधर्मावच्छिन्नविषयतानिरूपित- पक्षतावच्छेदकावच्छिन्नविषयतानन्तःपातिनी, न सा वह्न्यभावव्याप्यजल, जलवद्ध्रदा- त्मकविशिष्टद्वयनिरूपिता । या च विशिष्टद्वयनिरूपिता सा तादृश विषयतान्तः पातिन्येव । तथापि तादृशविषयतानन्तः पातिविषयतावैशिष्ट्यमेव विशिष्टद्वयविषयतायां देयम्। वैशिष्ट्यं च सामानाधिकरण्यरूपम् । उक्त विशिष्टद्वयविषयतायां तादृशविषयतानन्तः पातिजलत्व- विषयतावैशिष्ट्यसत्त्वात् न दोषः । अत्र तादृशविषयतानन्तःपातिविषयताशून्यत्वमात्रनिवेशे पक्षावृत्तित्वव्याप्य- वत्साध्येऽव्याप्तिः । अतो विशिष्टद्वयेति । प्रागुक्तस्वविषयताशून्यत्वघटितविशिष्टद्वया- विषयकत्वस्य पक्षावृत्तिसाध्यविषयकज्ञाने सत्त्वात् नाव्याप्तिरिति वाच्यम् । (५६) तादृशो यो यो धर्मः तत्तद्धर्मावच्छिन्नविषयतानिरूपितपक्षतावच्छेदकावच्छिन्न- विषयतान्तःपातित्वाभावकूटवत्त्वस्य ज्ञानत्वविशिष्टत्वस्य वा अनन्तः१पातित्वान्तेन १. अन्तः - कर्गजमातृका (b)
[[90]]
[[101]]
विवक्षणीयतया जलत्वविषयतायां तदसम्भवात् । अन्यथा गगनाभावत्वादिकमादाय गगनाभाववदभाववत्कालीनगगनाभावव्याप्यवद्घटे अव्याप्तेः । ज्ञानत्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन । स्वनिष्ठावच्छेदकता स्वविशिष्टरूप- विशिष्टत्वसम्बन्धावच्छिन्ना । रूपे स्ववैशिष्ट्यं स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वसम्बन्धेन । अवच्छेदकता च स्वविशिष्टज्ञाननिष्ठभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्ना । ज्ञाने स्ववैशिष्ट्यं साध्यवत्ताज्ञानधर्मितावच्छेदकावच्छिन्नविशेष्यतानिरूपितस्वावच्छिन्न- प्रकारतानिरूपकत्वसम्बन्धेन । भेदप्रतियोगितावच्छेदकता च स्वाश्रयविशिष्टत्वसम्बन्धेन । आश्रयता समवायेन। वैशिष्ट्यं स्वविशिष्टप्रतिबन्धकतानिरूपितप्रतिबध्यत्व, तादात्म्योभयसम्बन्धेन । प्रतिबन्धकतायां स्ववैशिष्ट्यं स्वविशेष्यतावच्छेदकधर्मविशिष्टत्व- सम्बन्धेन । धर्मवैशिष्ट्यं स्वविशिष्टज्ञाननिष्ठभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्न१- स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन । ज्ञाने स्ववैशिष्ट्यं स्वावच्छिन्नविशेष्यता निरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपिकतासम्बन्धेन । भेदप्रतियोगितावच्छेदकता स्वरूपसम्बन्धेन । स्वविशिष्टरूपविशिष्टेत्यत्ररूपवैशिष्ट्यं स्वावच्छिन्नप्रकारतानिरूपित- पक्षतावच्छेदकावच्छिन्नविशेष्यतान्तःपातित्वसम्बन्धेन । यदि च स्वीयपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकारतावच्छेदकं यत् तादृशं रूपं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकतादृशधर्मावच्छिन्नप्रकारतानिरूपितपक्षता- वच्छेदकावच्छिन्नविशेष्यत्वानिरूपकत्वमेव विरोध्यनुमितिविशेषणमिति नोक्तातिव्याप्ति- रित्युच्यते। १. स्वसेत्यादिभेदवत्व सं x न - इति पाठभेदः । कर्गजमातृका (b)
[[91]]
[[102]]
तदा जलवद्ध्रदे वह्न्यभावव्याप्याभावव्याप्यवह्नौ साध्ये वह्न्यभावव्याप्यजलव्याप्य- १वज्जलवद्ध्रदेऽतिव्याप्तिः । तत्र जलत्वस्य तादृशधर्मत्वाभावात्। तत्र तादृशत्वानुपादाने अभावत्वमादाय वह्न्यभावव्याप्यवद्ध्रदे अव्याप्तिः । (५७) न च पक्षसाध्यवैशिष्ट्यावगाह्यनुमितित्वव्यापकप्रतिबध्यताविशिष्टविषयित्वा- वच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतेत्यादिक्रमेण निवेशान्नोक्तदोषः, विषयितायां प्रतिबध्यतावैशिष्ट्यं च २स्वविशिष्टप्रकारतानिरूपितविशेष्यतानिरूपितत्व, स्वावच्छेदक- विषयित्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यताविशिष्टत्वोभयसम्बन्धेन । प्रकारतायां स्ववैशिष्ट्यं प्रागुक्तम् । विषयितायां प्रतिबध्यतावैशिष्ट्यं स्वावच्छेदकत्व, स्ववृत्तिभेदप्रतियोगिता- वच्छेदकत्वोभयसम्बन्धेन । भेदप्रतियोगितावच्छेदकता स्वनिरूपकतावच्छेदकरूपविशिष्ट- रूपवत्त्वसम्बन्धावच्छिन्ना । रूपवैशिष्ट्यं स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वरूपम् । रूपवत्वं च यद्रूपावच्छिन्ननिरूपकताकविषयिताव्यापकत्वरूपम् । इत्थं च घटकालीनवह्न्य- भावाभाववदवृत्तिमद्ध्रदादिवारणाय यत्नान्तरमपि न कार्यम् । अत एव अभावः अभाववृत्तित्वव्यापकगगनाभावकालीनगगनवानित्यत्र अभावावृत्तित्वव्याप्यवत्तादृशगगने, सुन्दरवह्निमद्वह्निमत्कालीनपर्वतः सुन्दरवह्न्यभाववानित्यत्र सुन्दरवह्निव्याप्यवत्तादृशपर्वते च प्रागुक्तघटकालीनेत्याद्दतिव्याप्तिवारकविशेषणासत्त्वेऽपि न क्षतिः । तथा च न १. वत् - इति पाठः नास्ति (कर्गजमातृका) (b) २. वह्न्यभाववद्वह्न्यभावव्याप्यव्याप्यवत्कालीनह्रदः वह्न्यभावव्याप्याभावव्याप्यवह्निमानित्यत्र वह्न्यभावव्याप्यव्याप्यवद्ध्रदेऽतिव्याप्तिवारणाय अयं सम्बन्धः ।
[[92]]
[[103]]
प्रागुक्तवह्न्यभावव्याप्याभावेत्यादिस्थलीय अतिव्याप्तिः । प्रतिबध्यतायाः वह्न्यभावव्याप्यवत्तादृशह्रदादिरूपविशिष्टान्तरविषयिताव्यापकत्वादिति वाच्यम् । (५८) तथा सति वह्न्यभाववत्सुन्दरवह्न्यभाववत्कालीनपर्वतः सुन्दरवह्न्यभाववानित्यत्र सुन्दरवह्निव्याप्यवत्तादृशपर्वते अव्याप्तेः । प्रतिबध्यतायाः वह्निमत्तादृशपर्वतरूप- विशिष्टान्तरविषयताव्यापकत्वात् । (५९) न च सुन्दरवह्न्यभाववति वह्न्यभावः अव्याप्यवृत्तिरिति ज्ञानकालेऽपि तादृशपर्वते सुन्दरवह्न्यभाववत्तानिश्चयस्य सुन्दरवह्निमत्ताबुद्धिप्रतिबन्धकत्वानुरोधेन प्रतिबध्यप्रतिबन्धक- भावान्तरस्य आवश्यकतया तादृशप्रतिबध्यतामादाय लक्षणगमनं सम्भवतीति वाच्यम् । (६०) प्रतियोगिवैयधिकरण्याघटितसुन्दरवह्न्यभावव्यापकतायाः संसर्गघटकत्वे तत्राव्याप्यवृत्तित्वज्ञानस्यानुत्तेजकतया तत्र प्रतिबध्यप्रतिबन्धकभावान्तरे मानाभावेनाव्याप्तेः। संयोगेन द्रव्यस्याव्याप्यवृत्तित्वेऽपि द्रव्यत्वाभाववद्गुणभिन्नद्रव्यत्वाभाववत्कालीनः पर्वतः गुणभिन्नद्रव्यत्वाभाववानित्यत्राव्याप्तिः बोध्या । (६१) न च साध्यतावच्छेदकावच्छिन्नव्याप्यत्वावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदका- वच्छिन्नविशेष्यताशाल्यनुमितित्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यताविशिष्टविषयित्वा- वच्छिन्नजन्यतानिरूपितजनकत्व, पक्षसाध्यग्रहत्वाव्यापकपक्षसाध्यवैशिष्ट्यावगाहिग्रहत्व- व्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकात्वोभयं यद्रूपावच्छिन्ननिरूपकताकविषयिताव्यापकं तद्रूपावच्छिन्नत्वमेव सत्प्रतिपक्षत्वमिति न कोऽपि दोषः । दर्शितस्थले सुन्दरवह्न्यभाव- व्याप्यवत्तानिश्चयप्रतिबध्यतायाः विशिष्टान्तरविषयित्वाव्यापकत्वात् । वह्न्यभाववद्वह्न्यभाव- व्याप्यव्याप्यवत्कालीनो ह्रदः वह्न्यभावव्याप्याभावव्याप्यवह्निमानित्यादौ वह्न्यभावव्याप्यव्याप्य-
[[93]]
[[104]]
वत्तादृशह्रदेऽतिव्याप्तेरप्युक्तविवक्षयैव वारणात् प्रकारतायां प्रागुक्तप्रतिबध्यतावैशिष्ट्यमपि नोपादेयमिति वाच्यम् । (६२) एवं सति वह्न्यभाववत्सुन्दरवह्न्यभावव्याप्यवत्कालीनपर्वतः सुन्दरवह्न्यभाव- वानित्यत्राव्याप्तेः१, वह्न्यभावव्याप्याभाववद्वह्निव्याप्यवत्कालीनत्वस्यापि पक्षतावच्छेदक- घटकत्वे महाविशिष्टेऽतिव्याप्तेश्च । (६३) न च साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाववद्वृत्तित्वनिष्ठप्रतियोगिता- सम्बन्धावच्छिन्नप्रकारताविशिष्टप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशालिनिश्चयत्व- व्यापकप्रतिबन्धकतेत्यादिक्रमेण निवेशात् नोक्तदोषावसरः । प्रकारतावैशिष्ट्यं स्वनिरूपिताभावत्वावच्छिन्नप्रकारतानिरूपितत्वस्ववृत्तिसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । सम्बन्धे वृत्तिश्च स्वावच्छिन्नत्वप्रकारतानिरूपितत्वसम्बन्धेन । तादृश एकरूपावच्छिन्न- प्रतिबन्धकतायामुक्तनिश्चयत्वव्यापकत्वमक्षतमिति वाच्यम् । (६४) एवमपि अभावः वह्न्यभावव्याप्यद्रव्यत्वाभावाभाववद्वृत्तित्ववत्कालीनवह्निमानित्यत्र वह्न्यभावव्याप्यद्रव्यत्वाभावव्याप्यद्रव्यत्वाभाववदभावेऽतिव्याप्तेः । उक्तसाध्याभाववदवृत्ति- मानिति ज्ञानस्य वृत्तित्वरूपावच्छेदकधर्मदर्शनमुद्रया वह्न्यभावव्याप्यद्रव्यत्वाभाववत्ताबुद्धि- प्रतिबन्धकत्वात् । (६५) न च साध्याभाववदवृत्तित्वविषयकग्रहत्वाव्यापकत्वस्य तादृशप्रतिबन्धकता- विशेषणत्वाङ्गीकारात् न दोष इति वाच्यम् । (६६) १. अतिव्याप्तिः - कर्गजमातृका (b)
[[94]]
[[105]]
तथा सति अभावः वह्निमद्वृत्तित्ववत्कालीनवह्निमान् इत्यत्र वह्न्यभावव्याप्यवदभावे अव्याप्तेः । अभावे तादृशवह्न्यभाववदवृत्तिमत्तानिश्चयस्य अवच्छेदकधर्मदर्शनीय- प्रतिबन्धकतातिरिक्तप्रतिबन्धकत्वविरहात् । तस्याश्च उक्तसाध्याभाववदवृत्तित्वग्रहत्व- व्यापकत्वात्। (६७) न च सधर्मितावच्छेदककयद्धर्मावच्छिन्नवत्ताज्ञानसामान्यं स्वसमानधर्मितावच्छेदक- कसाध्याभाववदवृत्तिमत्ताज्ञानसामान्यप्रतिबध्यं तद्धर्मावच्छिन्नविषयतानिरूपितपक्षतावच्छेदका- वच्छिन्नविषयतानन्तःपातिविषयतावैशिष्ट्यं विशिष्टद्वयविषयतायां निवेश्य प्रागुक्तकल्प एव आद्रीयते । तथा च नोक्तदोषावसरः इति वाच्यम् । (६८) एवमपि गगनं गगनाभाववदभाववत्कालीनगगनवदित्यत्र गगनावृत्तित्वव्याप्यवद्गगने अव्याप्तेः । गगनावृत्तितादृशगगनविषयकानुमितेः गगनाभाववदभाववत्, अभाववद्गगन- रूपविशिष्टद्वयविषयकत्वात् । एवं गगनं गगनाभाववत्प्रतियोगित्ववत्कालीनगगनवदित्यत्र गगननिष्ठाभावप्रतियोगित्वव्याप्यवद्गगने अव्याप्तिः । ह्रदो वह्निमानित्यत्र प्रमेयह्रदावृत्तित्व- व्याप्यवद्वह्नौ अतिव्याप्तिश्च । प्रमेयह्रदवृत्तित्वाभावस्य ह्रदवृत्तित्वाभावादतिरिक्ततया घटकालीनवह्न्यभावाभाववदवृत्तिमद्ध्रदवारकविशेषणेनावारणात् । “ह्रदावृत्तिर्वह्निः, प्रमेयह्रदा- वृत्तिर्वह्निरि”त्यादिनिश्चयानां भिन्नभिन्नरूपेणैव प्रतिबन्धकत्वात् । एकरूपेण प्रतिबन्धकतायामपि गगनाभाववदभाववत्कालीनगगनाभावव्याप्यवद्घटसङ्ग्रहाय अव्यापकविषयताशून्यज्ञानीय विशिष्टान्तरविषयित्वाव्यापकत्वस्यैव प्रतिबन्धकतायां निवेश्यत्वात् । तदयमर्थः - प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्ट- विषयित्वावच्छिन्नत्वं जन्यतायां निवेशनीयम् । प्रतिबन्धकतावैशिष्ट्यं स्वावच्छेदकत्व,
[[95]]
[[106]]
स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन । भेदप्रतियोगितावच्छेदकता स्वनिरूपकता- वच्छेदकरूपविशिष्टरूपवत्त्वसम्बन्धावच्छिन्ना । रूपवैशिष्ट्यं स्वनिष्ठावच्छेदकताक- प्रतियोगिताकभेदद्वयवत्प्रतीतिविषयतावच्छेदकत्वसम्बन्धेन । एकभेदः स्वावच्छिन्ना१- विषयकत्वरूपः । अपरभेदः स्वावच्छिन्नविषयकत्वाव्यापकविषयताशून्यत्वरूप इति । यत्तु- प्रमेयह्रदावृत्तिवह्न्यादेः बाधत्वमस्त्येव प्रतिबन्धकतान्तरसत्त्वात् । अत एव मेयत्वविशिष्टं यत् साध्याभाववद्वृत्तित्वं तद्विशिष्टसाधनस्य दोषत्वमेव जगदीशेन स्वीकृतम्। भट्टाचार्येण तु तत्र प्रतिबन्धकतान्तरास्वीकारात् न दोषत्वमङ्गीकृतम् । स्पष्टमिदं संशयपक्षतायाम्। प्रकृते तु सर्वेषामपि प्रतिबन्धकतान्तरस्य आवश्यकतया बाधत्वमावश्यकमेवेति । तन्न - लक्ष्यालक्ष्यव्यवस्थायाः व्यवहारसद्भावासद्भावमात्राधीनायाः प्रतिबन्धकता- भेदाभेदनिबन्धनत्वविरहात् । पक्षावृत्तिसाध्यादौ बाधव्यवहारेऽपि प्रमेयत्वघटकालीनत्वादि- विशेषणान्तरविशेषितपक्षावृत्तिसाध्यादौ तदव्यवहारात् । जगदीशवचनस्य प्रामादिकत्वात् । ह्रदावृत्तिर्वह्निः प्रमेयह्रदावृत्तिः वह्निरित्यादिनिश्चयानाम् एकरूपेण प्रतिबन्धकतायाः सुवचत्वाच्च। तथाहि ह्रदत्वावच्छिन्ननिरूपितत्वसम्बन्धावच्छिन्नप्रकारताभिन्नप्रकारत्वा- निरूपितवृत्तित्वत्वावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारता- निरूपितवह्नित्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेन ह्रदावृत्तिः वह्निः, प्रमेयह्रदावृत्तिर्वह्निरित्यादीनां प्रतिबन्धकता । प्रमेयं यद्ध्रदवृत्तित्वं तदभाववान् वह्निरिति ज्ञानस्य प्रतिबन्धकत्ववारणाय नञ्द्वयनिवेशः । निश्चयत्वाद्दनुगमप्रकारस्तु अग्रे दर्शयिष्यते । उक्तरूपस्य वृत्तित्व- सामान्याभाववान् वह्निरिति ज्ञानसाधारण्येऽपि न क्षतिः, तस्यापि ह्रदो वह्निमानिति १. स्वावच्छिन्नविषयके…. कर्गजमातृका (b)
[[96]]
[[107]]
ज्ञानप्रतिबन्धकत्वात् । प्रतिबध्यतावच्छेदकं न वह्नित्वावच्छिन्नप्रकारताशालिबुद्धित्वम् । किन्तु तादृशप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यताशालिबुद्धित्वमेव । अन्यथा ह्रदावृत्तिर्वह्निरिति निश्चयदशायां घटो वह्निमानिति बुद्ध्यनुपपत्तिप्रसङ्गादिति । न च तद्धर्मावच्छिन्नविषयतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयतानन्तःप्रातिनी पक्षावृत्तिसाध्यविषयतानन्तःपातिनी पक्षनिष्ठाभावप्रतियोगिसाध्यविषयतानन्तःपातिनी च या विषयता तच्छून्यत्वमेव विरोध्यनुमितौ निवेशनीयमिति नोक्तदोषावकाशः । प्रमेयह्रदावृत्ति- र्वह्निरित्यादिज्ञाने तादृशप्रमेयत्वविषयतासत्त्वात् । बाधलक्षणेऽपि यद्रूपावच्छिन्नविषयकनिश्चये दर्शितविशेषणस्य निवेशनीयतया न प्रमेयह्रदावृत्तिवह्न्यादावतिव्याप्तिः । अतएव न वह्न्यभाववज्जलवद्वृत्तिजलवद्ध्रदे बाधलक्षणातिव्याप्तिरिति वाच्यम् । (७०) एवमपि जलवद्ध्रदत्वसामानाधिकरण्येन वह्निव्याप्यजलकालीनवह्नौ साध्ये जलव्यापकवह्न्यभावाभाववदवृत्तिमज्जलवद्ध्रदे पूर्वोक्तेऽतिव्याप्तेः । जलव्यापकवह्न्य- भावत्वस्यापि यद्धर्मपदेन उपादानसम्भवेन तस्यापि तादृशधर्मत्वात् । वह्न्यभावत्वावच्छिन्न- प्रकारतायाः प्रतिबध्यतावच्छेदकत्वाच्च । (७१) न च तादृशधर्मान्तराघटितत्वं तादृशधर्मविशेषणं देयमिति नोक्तातिव्याप्तिः । जलव्यापकवह्न्यभावत्वस्यातादृशत्वात् । यद्दपि घटकालीनवह्न्यभावत्वमपि न तादृशम्, तथापि वह्न्यभावो वह्निमानित्यत्र वह्न्यभाववद्वह्न्यभावाभाववदवृत्तिमद्वह्न्यभावेऽतिव्याप्तिवारणाय प्रागुक्तविशिष्टान्तर- विषयित्वाव्यापकत्वं उपादेयमेवेति वाच्यम् । (७२) एवमपि गुणो गुणवानित्यत्र गुणावृत्तिगुणावृत्तित्वव्याप्यवद्गुणेऽतिव्याप्तेः । गुणावृत्ति- गुणावृत्तिगुणः इत्याकारकज्ञानस्य पक्षावृत्तिसाध्यविषयतानन्तःपातिविषयताशून्यत्वात्। (७३)
[[97]]
[[108]]
न च पक्षावृत्तित्वप्रकारतानिरूपितसाध्यतावच्छेदकावच्छिन्नमुख्यविशेष्यतानन्तः- पातित्वमेव निवेशनीयमिति नोक्तदोषावसरः इति वाच्यम् । (७४) एवमपि सुन्दरवह्निमद्वह्निमत्कालीनपर्वतः सुन्दरवह्न्यभाववान् इत्यत्र सुन्दरवह्निव्याप्य- वत्तादृशपर्वते अव्याप्तेः । यदि च विशिष्टान्तरविषयितायां प्रतिबध्यतावच्छेदकत्वं निवेशनीयमिति नाव्याप्तिः। वह्निमत्तादृशपर्वतविषयतायाः प्रतिबध्यतानवच्छेदकत्वात् । अत एव गगनं गगनाभाववदभाव- वत्कालीनगगनवदित्यत्र गगनावृत्तित्वव्याप्यवत्तादृशगगने नाव्याप्तिः इत्युच्यते। तदा सुन्दरवह्निमद्वह्निमत्कालीनवह्न्यभाववत्सुन्दरवह्न्यभाववत्कालीनपर्वतः सुन्दरवह्न्यभाववानित्यत्र सुन्दरवह्निव्याप्यवत्तादृशपर्वते अव्याप्तिः । यत्तु - ईदृशस्थले सुन्दरवह्निमत्पर्वतादेः न बाधत्वम्, विशिष्टान्तराघटितत्वविरहात् इति । तन्न - लक्षणानुरोधेन लक्ष्यशिक्षायाः अनुपपन्नत्वात् । उक्तं हि - “सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः । न सर्वलोकसिद्धस्य लक्षणेन निवर्तनमिति”। तस्मात् अभावसाध्यक- स्थलान्तरे इव प्रतियोगिमत्पक्षस्य अत्रापि बाधत्वमाश्रयणीयमेव । (७५) न च विशिष्टान्तरविषयितायां प्रागुक्तानन्तःपातिविषयिताशून्यज्ञानीयत्वस्य निवेशनीयतया नोक्तदोषः । उक्तस्थले केवलवह्निमद्विषयितायाः अतथात्वात् । तथाचायं निष्कर्षः - पक्षसाध्यग्रहत्वाव्यापकपक्षसाध्यवैशिष्ट्यग्रहत्वव्यापकतद्धर्मावच्छिन्नप्रतिबध्यता- निरूपितप्रतिबन्धकताविशिष्टविषयित्वावच्छिन्न उक्तानन्तःपातिविषयिताशून्यानुमिति- निष्ठजन्यतानिरूपितजनकत्व, तद्धर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकत्वोभयं यद्रूपाव-
[[98]]
[[109]]
च्छिन्ननिरूपकताकविषयिताव्यापकं तद्रूपावच्छिन्नत्वम् तत्त्वमिति । अतः न कोऽपि दोषः इति वाच्यम् । (७६) एवमपि वह्न्यभाववज्जलव्यापकवह्न्यभावसमानाधिकरणजलवत्कालीनह्रदः वह्निमानित्यत्र जलव्यापकवह्न्यभावसमानाधिकरणजलवत्तादृशह्रदे प्रतियोगिवैयधिकरण्य- घटितव्यापकताघटितेऽतिव्याप्तेः । अव्याप्यवृत्तित्वग्रहकालेऽपि अनुमित्यनुत्पादानुरोधेन अवच्छेदकधर्मदर्शनविधया प्रतिबन्धकतान्तरस्यैव स्वीकरणीयत्वात् । तस्य च यद्रूपावच्छिन्नविषयकत्वव्यापकतासम्पत्तेः । (७७) न च विरोध्यनुमितिजनकतायां तादृशप्रतिबन्धकताव्याप्यत्वमेव सत्यन्तदलेन विवक्षितमिति नोक्तदोषावसरः । शैवालव्यापकवह्न्यभावसमानाधिकरणशैवालवान् तादृशह्रदः इति ज्ञानसाधारणजनकतायाः दर्शितावच्छेदकधर्मदर्शनीयप्रतिबन्धकत्वाव्याप्यत्वात् इति वाच्यम्।(७८) एवमपि वह्न्यभाववत्प्रतियोगिव्यधिकरणवह्न्यभावाभाववदवृत्तिमत्कालीनह्रदः वह्निमानित्यत्र प्रतियोगिव्यधिकरणवह्न्यभावाभाववदवृत्तिमत्तादृशह्रदेऽतिव्याप्तेः । तन्निश्चयीयजनकतायाः अवच्छेदकधर्मदर्शनीयप्रतिबन्धकताव्याप्यत्वाक्षतेः । (७९) न च तादृशवह्न्यभावाभाववन्निरूपितवृत्तित्वप्रकारताविशिष्टप्रकारतानिरूपिततादृश- ह्रदत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वरूपानुगतधर्मावच्छिन्नजनकतायाः नानासम्बन्धावगाहि- ज्ञानसाधारणतया दर्शितावच्छेदकधर्मदर्शनीयप्रतिबन्धकताव्याप्यत्वविरहात् न दोष इति वाच्यम्।(८०)
[[99]]
[[110]]
प्रतियोगिवैयधिकरण्यघटितव्यभिचारज्ञानप्रतिबन्धकतावच्छेदकविषयताशालित्वेन एकरूपेण प्रतियोगिवैयधिकरण्यघटिततदघटितव्याप्तिज्ञानयोः जनकतायाः व्याप्त्यनुगमसिद्धान्त- लक्षणयोरुक्तत्वेन तादृशजनकतायां प्रतिबन्धकताव्याप्यत्वविरहेणाव्याप्तेः। (८१) न च तयोरेकरूपेण जनकत्वाभिधानमापाततः एव । तथाहि प्रतियोगिवैयधि- करण्यघटितव्यभिचारज्ञानत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकीभूत- विषयतानिरूपितसाध्यप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितहेतुता- वच्छेदकावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशालिनिश्चयत्वं तादृशरूपं वाच्यम् । तथा सति अवच्छेदकत्वसामान्याभाववद्वह्नित्वावच्छिन्नवह्निसमानाधिकरणधूमवान् पर्वतः इत्यादिज्ञानानामपि वह्न्यनुमितिजनकताप्रसङ्गः । यदि च तादृशप्रतिबन्धकतावच्छेदकप्रकारता हेतुतावच्छेदकावच्छिन्नप्रकारता- निरूपिताधिकरणप्रकारतेत्यादिप्रकारतानिरूपितैव ग्राह्या । अतो नोक्तदोषः इत्युच्यते । तदापि वह्न्यधिकरणमहानसवृत्त्यभावप्रतियोगितानवच्छेदकधूमत्वावच्छिन्नधूम- समानाधिकरणवह्निमत्ताज्ञानेन धूमानुमितिप्रसङ्गः । वह्न्यधिकरणमहानसवृत्त्यभावप्रतियोगितान- वच्छेदकत्वप्रकारकज्ञानस्यापि अवच्छेदकधर्मदर्शनादिविधया प्रतिबन्धकत्वात् । ज्ञानवैशिष्ट्या- नवच्छिन्नप्रतिबन्धकतानिवेशेन उक्तानुपपत्तिवारणेऽपि प्रतियोगिव्यधिकरणहेत्वधिकरण- वृत्त्यभावप्रतियोगितावच्छेदकत्वप्रकारकसाध्यतावच्छेदकविशेष्यकबुद्धित्वावच्छिन्नत्वस्य स्वरूपसम्बन्धविशेषरूपस्य प्रतिबध्यताविशेषणत्वे प्रतियोगिवैयधिकरण्याघटितव्यापकता- वगाहिपरामर्शासङ्ग्रहः । तादृशसामान्याभावनिश्चयप्रतिबध्यतावच्छेदककोटौ प्रतियोगि- वैयधिकरण्यविषयतायाः अनिवेशात् । व्यापकत्वरूपस्य तथात्वे भेदवद्धेत्वधिकरणवृत्त्यभाव- प्रतियोगितानवच्छेदकत्वावगाहिज्ञानस्यापि अनुमितिजनकताप्रसङ्गः।
[[100]]
[[111]]
न चेष्टापत्तिः, तथा सति तुल्ययुक्त्या महानसत्ववद्वह्निमद्वृत्यभावप्रतियोगितान- वच्छेदकधूमत्वावगाहिप्रमात्मकपरामर्शेन अयोगोलकं धूमवदिति भ्रमानुमितिप्रसङ्गात् । एवं हेत्वधिकरणवृत्तिभेदप्रतियोगितानिरूपितस्वावच्छेदकावच्छिन्नाधिकरणतासम्बन्धावच्छिन्नावच्छेदकता वत् प्रतियोगितानवच्छेदकत्वमेव प्रतियोगिवैयधिकरण्यघटितव्यापकतावच्छेदकत्वमिति सिद्धान्तलक्षणे भट्टाचार्यैरेव निष्कर्षः कृतः । तथा च ईदृशव्यापकताज्ञानप्रतिबध्यव्यभिचारज्ञाने प्रतियोगिवैयधिकरण्याघटितव्यापकताज्ञानस्याविरोधितया नोक्तरूपेण उभयसङ्ग्रहसम्भवः। व्यभिचारद्वयावगाहिज्ञानत्वव्यापकप्रतिबध्यतानिविशे व्यभिचारद्वयविषयतयोरेक- विशिष्टापरत्वेनैव निवेशनीयतया मिथो विशेषणविशेष्यभावे विनिगमनाविरहेण गुरुधर्मावच्छिन्न- कारणताद्वयम् । तदपेक्षया प्रतियोगिवैयधिकरण्यघटिततदघटितव्यापकतावगाहिज्ञानयोः पृथगेव लघुधर्मावच्छिन्नकारणताद्वयस्वीकारो युक्तः । मणिमन्त्रादिन्यायेन एकविधव्यभिचारज्ञानस्य नानाविधव्याप्तिज्ञानप्रतिब१ध्यत्वं तु न सिद्धान्तसम्मतम् । एवमप्रामाण्यज्ञानाननुगमेनापि एकरूपेण प्रतिबन्धकत्वासम्भवो बोध्यः । तथा च प्रतियोगिवैयधिकरण्याघटितव्यापकतावगाहि- ज्ञानीयजनकताव्यापकतायाः प्रतिबन्धकतायामक्षततया नाव्याप्त्यवकाशः । यद्दपि स्वनिरूपितप्रतिबध्यतावच्छेदकावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकता- विशिष्टत्वसम्बन्धेन प्रतिबन्धकतायाः व्यापकत्वविवक्षायां प्रतियोगिवैयधिकरण्यघटिततदघटित- व्यापकतावगाहिज्ञानयोः एकरूपेण जनकत्वेऽपि नाव्याप्तिः । प्रतिबन्धकतावैषिष्ट्यं स्वरूपस्वावच्छेदकीभूताभावप्रतियोग्युपहितत्वान्यतरसम्बन्धेन । तेन अव्याप्यवृत्तित्वज्ञान- कालीनस्य प्रतियोगिवैयधिकरण्यघटितव्यापकतावगाहिज्ञानस्याप्रतिबन्धकत्वेऽपि न क्षतिः । स्वावच्छेदकीभूताभावप्रतियोगि-अव्याप्यवृत्तित्वज्ञानोपहितत्वस्य तत्र सत्त्वात् । १. प्रतिबन्धकत्वं - कर्गजमातृका - अयं पाठः अशुद्धः (b)
[[101]]
[[112]]
तथाऽपि प्रागुक्ते जलव्यापकवह्न्यभावसमानाधिकरणजलवत्तादृशह्रदेऽतिव्याप्ति- तादवस्थ्यमिति न तत्सम्भवः इति वाच्यम् । (८२) तथापि प्रतिबन्धकतायाः जनकताव्यापकत्वासम्भवात् । तथाहि तदभावव्याप्यवत्ता- निश्चयीयप्रतिबन्धकतावच्छेदककोटौ अनाहार्यत्वं निवेशनीयमित्यविवादम्। तत्र आहार्यत्वं यदि स्वविषयत्व, स्वाव्यवहितोत्तरत्व, उभयसम्बन्धेन इच्छाविशिष्टप्रत्यक्षत्वम्, तदा बाधा- समवहितस्वविषयकेच्छासमनन्तरोत्पन्नतदभावव्याप्यवत्ताप्रत्यक्षस्य प्रतिबन्धकत्वानुपपत्तिः । अत एव इच्छाजन्यत्वमपि न तत् । चाक्षुषत्वाद्दवच्छिन्नविषयकेच्छाविशिष्टचाक्षुषत्वाद्दवच्छिन्नं प्रति तादृशेच्छात्वेन हेतुत्वस्य व्यवस्थापितत्वेन तत्र इच्छाजन्यत्वस्याप्यक्षतेः । नापि बाधनिश्चयकालीनेच्छाविशिष्टज्ञानान्यत्वं तत् । आहार्यबाधनिश्चयकालीनतादृशेच्छा- समनन्तरोत्पन्नप्रत्यक्षस्य प्रतिबन्धकतानुपपत्तेः । बाधज्ञाने इच्छाविशिष्टान्यत्वनिवेशे स्वविषयकेच्छासमनन्तरोत्पन्नानाहार्यबाधनिश्चयकालीनाहार्यनिश्चयस्य प्रतिबन्धकतापत्तिः । इच्छाविशिष्टान्यबाधज्ञानकालीनत्वविरहेण उक्तानाहार्यत्वस्य तत्राक्षतेः । अतः आहार्यज्ञानानां तत्तद्व्यक्तिभेदाः एव प्रतिबन्धकतावच्छेदककोटौ जनकतावच्छेदककोटौ च निवेशनीयाः । इत्थं च तद्वत्तानिश्चयकालीनत१दभावव्याप्यवत्ता निश्चयवृत्तिभेदो जनकतावच्छेदककोटौ न निवेशनीयः। तत्र बाधाभावविरहादेवानुमितिवारणात् । प्रतिबन्धकतावच्छेदककोटौ तु तन्निवेशः आवश्यकः । तत्रानन्तरमपि तद्वत्ताबुद्ध्युदयात् । तथा च तत्साधारणजनकतां प्रति प्रतिबन्धकतायाः न व्यापकत्वसम्भवः इति । (८३) न च स्वरूपस्वावच्छेदकीभूतभेदप्रतियोगित्वान्यतरसम्बन्धेनैव प्रतिबन्धकतायाः १. आहार्यवदभव… इति कर्गजमातृका
[[102]]
[[113]]
व्यापकत्वं विवक्षितमिति न दोषः । उक्ताहार्यज्ञानेऽपि उक्तान्यतरसम्बन्धेन प्रतिबन्धकतासत्त्वादिति वाप्यम् । (८४) एवमपि जलव्यापकवह्न्यभावसमानाधिकरणजलवत्तादृशह्रदेऽतिव्याप्तिवारणा- सम्भवात्। जलव्यापकवह्न्यभावसमानाधिकरणजलवान्, शैवालव्यापकवह्न्यभावसमानाधि- करणशैवालवानित्यादिनिश्चयानामेकरूपेण जनकत्वायोगात्। तथा हि प्रागुक्तरीत्या आहार्यज्ञानानां तत्तद्व्यक्तिभेदानामेव निवेशनीयतया एकरूपेण जनकतापक्षे एकत्र बहुतरभेदानां निवेशनीयतया गुरुधर्मावच्छिन्नानन्तजनकतापत्तिः । भिन्नभिन्नरूपेण जनकतायां तु लघुधर्मावच्छिन्न- कतिपयजनकताः। एकैक जनकतावच्छेदकगर्भे भेदत्रयं निवेश्य जनकताचतुष्टयाङ्गीकारे हि भेदत्रयस्य मिथो विशेषणविशेष्यभावे विनिगमनाविरहेण एकैक जनकतास्थाने जनकताषट्कमितिरीत्या चतुर्विंशतिः जनकताः । द्वादशभेदानामेकजनकतावच्छेदककोटौ निवेशे तु तेषां मिथो विशेषणविशेष्यभावे विनिगमनाविरहेण द्वात्रिंशदधिकशतं गुरुधर्मावच्छिन्नाः जनकताः इति एकरूपेण जनकत्वासम्भवात् न प्रागुक्तरीत्या अतिव्याप्तिवारणसम्भवः इति।(८५ ) न च प्रतिबध्यप्रतिबन्धकभावलाघवानुरोधात् आहार्यव्यवहारानुरोधाच्च आहार्यज्ञाने अनाहार्यज्ञानव्यावृत्तविषयताविशेषः स्वीक्रियते । संशये च अर्वाचीनैः स्थापितः एव विषयता विशेषः । तथा च तत्तद्विषयताभेदं प्रतिबन्धकतावच्छेदकघटकविषयतायां निवेश्य एकरूपेण प्रतिबन्धकतायाः सुवचतया नोक्तदोषावकाशः इति वाच्यम् । (८६) तथापि अप्रामाण्यज्ञानाननुगमेन एकरूपेण प्रतिबन्धकतायाः दुर्घटत्वात् । तथाहि जलाभाववति जलप्रकारकत्वादिरूपाप्रामाण्यज्ञानविषय शैवालादिहेतुकपरामर्शादनुमित्य-
[[103]]
[[114]]
नुत्पादप्रसङ्गेन यावदप्रामाण्यज्ञानाभावकूटस्य निवेशो न सम्भवति। जलाद्देकैकघटिता- प्रामाण्यज्ञानाभावमात्रनिवेशे शैवालादिघटिताप्रामाण्यज्ञानास्कन्दितशैवालादिहेतुक- परामर्शादनुमित्युत्पादप्रसङ्गः । अतः पृथगेव कारणता वक्तव्या । तथा सति तत्तदप्रामाण्य- ज्ञानाभावस्य तत्तद्धेतुकपरामर्शे निवेशनीयतया नोक्तदोषावकाशः इति । (८७) न च धर्मविशिष्टज्ञानत्वेन जनकत्वम् । धर्मवैशिष्ट्यं च स्वविशिष्टप्रकारताविशिष्टत्व- सम्बन्धेन । प्रकारतायां स्ववैशिष्ट्यं च स्वावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपित- साध्याभावप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानिरूपितत्वस्वावच्छिन्नत्वोभयसम्बन्धेन। प्रकारतावैशिष्ट्यं च स्वनिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपकत्व, स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन । स्वनिष्ठावच्छेदकता च स्वविशिष्टप्रकारताविशिष्टत्वसम्बन्धेन । प्रकारतायां स्ववैशिष्ट्यं च स्वावच्छेदकावच्छिन्न- प्रतियोगिताकाभाववद्विशेष्यकत्वावच्छिन्नत्वप्रकारतानिरूपितत्व, स्वावच्छेदकावच्छिन्न- प्रकारकत्वनिष्ठत्वोभयसम्बन्धेन । प्रकारतावैशिष्ट्यं च स्वनिरूपितविशेष्यत्व, स्वनिरूपिकज्ञानविशिष्टत्वोभयसम्बन्धेन । ज्ञानवैशिष्ट्यं च स्वनिष्ठाधेयताविशिष्टाधेयतारूप- एकक्षणावच्छिन्नएकात्मवृत्तित्वसम्बन्धेन । आधेयतावैशिष्ट्यं च स्वावच्छेदकक्षणावच्छिन्नत्व- स्वनिरूपकनिरूपितत्वोभयसम्बन्धेन । यद्वा ज्ञानवैश्ष्ट्यिं सामानाधिकरण्य, कालिकविशेषणत्वोभयसम्बन्धेन । यद्दप्येवमपि सामानाधिकरण्यांशे अप्रामाण्यज्ञानास्कन्दितस्य जनकत्वापत्तिः, तथापि सामानाधिकरण्यविषयतानिरूपितत्वस्थाने तादृशविषयतावैशिष्ट्यस्य निवेश्यतया न दोषः । वैशिष्ट्यं च निरूपितत्व, सामानाधिकरण्योभयसम्बन्धेन । सामानाधिकरण्यं च स्वनिष्ठाव-
[[104]]
[[115]]
च्छेदकताकप्रतियोगिताकभेदवत्त्व, निरूपकत्वोभयघटितम् । भेदश्च पूर्वोपदर्शितः । इत्थं च सामानाधिकरण्यांशे अप्रामाण्यज्ञानास्कन्दितस्य ज्ञानस्य दर्शितसामानाधिकरण्यसम्बन्धेन प्रकारताविशिष्टप्रकारतावैशिष्ट्यासम्भवात् न दोषः । एवमितरत्रापि बोध्यमिति वाच्यम्। (८८) एवमपि अनाहार्यज्ञानसमानाकारकाणामनियताहार्यज्ञानानां तत्तद्व्यक्तिभेदानामेव निवेश्यतया प्रागुक्तगौरवस्य दुर्वारत्वात्, समानाकारकज्ञानेषु विषयताभेदानुपगमात् । उक्तकारणतालाघवानुरोधमात्रेण विषयताभेदोपगमे अप्रामाण्यज्ञानानास्कन्दितज्ञानस्यापि तथैव विषयताभेदोपगमसम्भवात् अप्रामाण्यज्ञानाभावनिवेशवैयर्थ्यम् । किञ्च जनकप्रतिबन्धकज्ञानेषु सर्वत्र विषयताविशेषमङ्गीकृत्य तस्य जनकत्वप्रतिबन्धकत्वावच्छेदकत्वस्वीकारसम्भवात् निरूप्यनिरूपकभावापन्नतत्तद्धर्मावच्छिन्नविषयताशालिज्ञानत्वेन जनकत्वप्रतिबन्धकत्वादि विलयप्रसङ्गः । तस्मादेकरूपेण जनकत्वादिकं न सम्भवत्येवेति दर्शितातिव्याप्तिः दुर्वारैवेति। अस्तु वा एकरूपेण प्रतिबन्धकत्वजनकत्वादिकम् । तथापि अभावः वह्न्यभावव्याप्य- वृत्तित्वकालीनवह्निमानित्यत्र वह्न्यभाववद्वृत्तित्ववत्कालीनवह्निमान् वेत्यादौ प्रतियोगिव्यधि- करणतादृशवह्न्यभावाभाववदवृत्तिमदभावेऽतिव्याप्तिः । विशिष्टान्तरविषयित्वाव्यापकत्वस्य जनकतायामेव निवेशनीयतायाः अन्यत्र स्थापितत्वात् । अन्यथा अत्रैव केवलतादृशवह्न्यभावा- भाववदवृत्तिमदभावे अव्याप्तिप्रसङ्गाच्चेति । (८९)
सिद्धान्तपक्षः
अत्रोच्यते - साध्यवत्ताज्ञानसमानधर्मितावच्छेदककयद्धर्मावच्छिन्नप्रकारताशालि- ज्ञानसामान्यं स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानसामान्यप्रतिबन्धकम् तद्धर्मावच्छिन्न- विषयतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविषयतानन्तः पातिनी या तादृशधर्मावच्छिन्न- प्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशाल्यनुमितिजनकतावच्छेदिका विषयता
[[105]]
[[116]]
तच्छून्यत्वस्य यद्रूपावच्छिन्नविषयकनिश्चये निवेशनीयतया नोक्तातिव्याप्त्यवसरः । प्रतियोगिव्यधिकरणतादृशवह्न्यभावाभाववदवृत्तिमान् घट इति ज्ञानस्य वह्न्यभावादौ अव्याप्यवृत्तित्वज्ञानसहितस्य घटत्वावच्छिन्नधर्मिकतादृशवह्निमत्ताज्ञानाप्रतिबन्धकतया प्रतियोगिव्यधिकरणतादृशवह्न्यभावाभाववदवृत्तित्वस्य तादृशधर्मत्वविरहात् । अत्र च पक्षव्याप्यवत्साध्याभावादौ प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटितेऽतिव्याप्तिवारणाय सत्यन्तम्१। (९०) न च अभावः गगनाभाववदभावव्याप्यवत्कालीनगगनवानित्यत्र अभावव्याप्यवत्तादृश- गगनाभावे प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटितेऽतिव्याप्तिः । एवं गगनं गगनाभाववद्- गगनावृत्तित्वव्याप्यवत्कालीनगगनवदित्यत्र गगनावृत्तित्वव्याप्यवत्तादृशगगने प्रतियोगि- वैयधिकरण्यघटितेऽतिव्याप्तिः । यदि च जनकतायां प्रतिबन्धकताव्याप्यत्वविशेषणस्यापि सत्त्वान्न दोषः इत्युच्यते, तदा अभावः गगनाभाववद्वृत्तित्ववत्कालीनगगनवानित्यत्र प्रतियोगिव्यधिकरणाभाववृत्तित्वा- भावाभाववदवृत्तिमत्तादृशगगनेऽतिव्याप्तिरिति वाच्यम् । (९१) यतः प्रागुक्ततद्धर्मावच्छिन्नविषयतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयतानन्तःपातिनी सधर्मितावच्छेदककयद्धर्मावच्छिन्नवत्ताज्ञानसामान्यं स्वसमानधर्मितावच्छेदकक- पक्षवद्भेदवत्ताज्ञानप्रतिबन्धकम्, तद्धर्मावच्छिन्नविषयतानिरूपितसाध्याभावत्वावच्छिन्न- विषयतानन्तःपातिनी सधर्मितावच्छेदककयद्धर्मावच्छिन्नवत्ताज्ञानसामान्यं स्वसमानधर्मिता- १. (तथा हि जनकतायाः सम्बन्धान्तरावच्छिन्नवृत्तित्वावगाहिज्ञानेऽपि सत्त्वात् नातिव्याप्तिः) (b) कर्गजमातृकायाम् अत्र नास्ति अयं भागः ।
[[106]]
[[117]]
वच्छेदककपक्षवृत्तित्ववत्ताज्ञानप्रतिबन्धकम् तद्धर्मावच्छिन्नविषयतानिरूपितसाध्यतावच्छेदका- वच्छिन्नविषयतानन्तःपातिनी च या विषयता तच्छून्यत्वमेव सत्यन्तदलार्थः । इत्थं च तादृशविषयताशून्यत्व-उक्तविरोध्यनुमितिजनकत्वोभयं यद्रूपावच्छिन्नविषयताव्यापकं तद्रूपावच्छिन्नत्वं तादृशविषयताशून्यनिश्चयवृत्तित्वविशिष्टयद्रूपावच्छिन्नविषयताव्यापकं विरोध्यनुमितिजनकत्वं तद्रूपावच्छिन्नत्वं वा सत्प्रतिपक्षत्वमिति न कोऽपि दोषः इति । यदि चैवमपि ह्रदो वृत्तिजलाभाववानित्यत्र जलव्यापकवृत्तिजलवद्वृत्तिजलवद्ध्रदे प्रतियोगिवैयधिकरण्यघटितव्यापकताघटितेऽतिव्याप्तिः । उक्तानन्तःपातिविषयताशून्यत्वस्य तादृशविशिष्टविषयकनिश्चये सत्त्वात् । (९२) न च प्रकृतानुमितिप्रतिबन्धकत्वरूपसत्यन्तमपि निवेश्य तत्र विशिष्टान्तरविषयित्वा- व्यापकत्वं निवेशनीयमिति वाच्यम् । (९३) एवमपि घटो अभाववद्व्यापकजातित्वाभावकालीनजातित्ववानित्यत्र प्रतियोगि- व्यधिकरणतादृशजातित्वाभावाभाववदवृत्तिमद्घटे अतिव्याप्तेः । प्रतिबन्धकतायां विशिष्टान्तरविषयित्वाव्यापकत्वस्यापि सत्त्वात् । (९४) न च जनकतायां प्रतिबन्धकताव्याप्यत्वं निवेशनीयमिति न दोषः । सम्बन्धान्तर- संसर्गकज्ञानसाधारणजनकतायाः प्रतिबन्धकत्वाव्याप्यत्वात् । यद्दप्येवं सति विशिष्टान्तरविषयित्वाव्यापकत्वस्य प्रागुक्तवृत्तिजलाभावसाध्यके प्रयोजनं न सम्भवति, शैवालव्यापकवृत्तिजलवद्वृत्तिशैवालवत्ताज्ञानसाधारणजनकतां प्रति प्रतिबन्धकतायाः व्यापकत्वविरहात्, तथापि ह्रदो वृत्त्यभाववानित्यत्र तादृशविशिष्टेऽतिव्याप्ति- वारणाय तद्विशेषणमावश्यकमेवेति वाच्यम् । (९५)
[[107]]
[[118]]
एवमपि अभाववद्व्यापकवृत्तित्वव्यापकजातित्वाभावकालीनजातित्वस्य अभावत्वा- वच्छेदेन साध्यत्वे प्रतियोगिव्यधिकरणतादृशजातित्वाभावाभाववदवृत्तिमदभावेऽतिव्याप्तेः । वृत्तित्वनिष्ठप्रतियोगितासम्बन्धावच्छिन्नव्याप्यतावगाहिज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतायाः जनकताव्यापकत्वसम्भवात् । (९६) न च तादृशप्रतिबन्धकतायाः न विशिष्टान्तरविषयत्वाव्यापकत्वमिति नातिव्याप्तिरिति वाच्यम् । (९७) अभावो वृत्तित्वव्यापकजातित्वाभावकालीनजातित्ववानित्यत्र तादृशजातित्वाभावा- भाववदवृत्तिमदभावे प्रतियोगिवैयधिकरण्याघटिते अव्याप्तिवारणाय विशिष्टान्तरविषयितायां तज्जनकतानवच्छेदकत्व, तत्प्रतिबन्धकतावच्छेदकत्वोभयाभाववत्त्वस्य निवेशनीयतया तादृश- विशिष्टान्तराघटितत्वस्याव्याहतत्वात् इत्युच्यते, तदा सत्यन्तदलेन विषयतावैशिष्ट्यमेव जनकतायां विवक्षितम् । वैशिष्ट्यं च स्ववृत्तिप्रकारतात्वावच्छिन्नावच्छेदकताकत्व, स्ववृत्तिजन्यतानिरूपितत्वोभयसम्बन्धेन । जन्यतायां वृत्तिश्च स्वावच्छेदकविधेयतावच्छेदकावच्छिन्ननिरूपितप्रतियोगिवैयधिकरण्याघटित- व्याप्तिप्रकारताऽन्यतमनिरूपितत्वसम्बन्धेन । इत्थं च प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटिते क्वापि नातिव्याप्तिः । अत्र अभाववद्व्यापकजातित्वाभावकालीनजातित्वाभावाभाववदवृत्तिद्रव्यत्वकालीनघटः तादृशजातित्ववानित्यत्र प्रतियोगिव्यधिकरणतादृशजातित्वाभावाभाववदवृत्तिमत्तादृशघटे धर्मितावच्छेदकविषयतामादायातिव्याप्तिवारणाय अवच्छेदकतायां प्रकारतात्वावच्छिन्नत्व- निवेशः। प्रतियोगिवैयधिकरण्यघटिततदघटितव्याप्तिज्ञानयोरेकरूपेण जनकत्वे (तु)
[[108]]
[[119]]
स्वविशिष्टविषयतासम्बन्धेन जनकतायाः यद्रूपावच्छिन्ननिरूपकताकविषयिताव्यापकत्वं निवेश्यमित्यत्रैव सत्यन्तदलतात्पर्यम् । विषयतायां स्ववैशिष्ट्यं स्वनिरूपितप्रकारतात्वावच्छिन्ना- वच्छेदकत्व, स्वनिरूपितजन्यतावच्छेदकीभूतविधेयतावच्छेदकावच्छिन्ननिरूपितप्रतियोगि- वैयधिकरण्याघटितव्याप्तिप्रकारतान्यतमनिरूपितत्वोभयसम्बन्धेनेति न काचिदनुपपत्तिः ।(९८) इति श्रीकृष्णताताचार्यविरचितं वावदूककुतूहलम् समाप्तम् ।
[[120]]
[[110]]