अध्यात्मचिन्ता

श्रीमते रामानुजाय नमः ॥
श्रीवादिकेसरिसुन्दरजामातृमुनिविरचिता
अध्यात्मचिन्ता ॥

सुन्दरजामातृमुनेः प्रपद्ये चरणाम्बुजम् ।
संसारार्णवसम्मग्नजन्तुसन्तारपोतकम् ॥

नमोऽस्त्वस्मद्गुरुभ्यश्च तद्गुरुभ्यस्तथा नमः।
परमेभ्यो गुरुभ्यश्च निखिलेभ्यो नमो नमः॥ १ ॥
नमो रामानुजायेदं पूर्णाय महते नमः।
यामुनाय मुनीन्द्राय नमस्सर्वार्थवेदिने॥ २ ॥
नमोऽस्तु राममिश्राय पुण्डरीकदृशे नमः।
नाथाय मुनये नित्यं नमः परमयोगिने॥ ३ ॥
आद्याय कुलनाथाय नमोऽस्तु शठवैरिणे।
नमः सेनाधिपतये ज्ञानयाथात्म्यवेदिने ॥ ४ ॥
श्रियै श्रीशानपायिन्यै जगन्मात्रे नमो नमः।
श्रीधरायादिगुरवे नमो भूयो नमो नमः ॥ ५ ॥
इत्थं संचिन्त्य मनसा शुभां गुरुपरम्पराम्।
अध्यात्मविषयां चिन्तां करोम्यात्मविशुध्दये॥ ६॥
आत्मा न देवो न नरो न तिर्यक् स्थावरो न च ।
न देहो नेन्द्रियन्नैव मनः प्राणो न नापि धीः॥ ७ ॥
न जडो न विकारी च ज्ञानमात्रात्मको न च ।
स्वस्मै स्वयंप्रकाशः स्यादेकरूपस्वरूपभाक्॥ ८ ॥
चेतनो व्याप्तिशीलश्च चिदानन्दात्मकस्तथा।
अहमर्थः प्रतिक्षेत्रं भिन्नोऽणुर्नित्यनिर्मलः॥ ९ ॥
तथा ज्ञातृत्वकर्तृत्वभोक्तृत्वनिजधर्मकः।
परमात्मैकशेषत्वस्वभावस्सर्वदा स्वतः॥ १० ॥
एवं सामान्यतः सिद्धनिजाकारयुतोऽप्यहम्।
अनादेर्गुणमायायाः बलेनैव तिरोहितः॥ ११ ॥
अप्रकाशनिजाकारो नित्यमान्द्यमुपेयिवान्।
अपथे कर्मपाशेन कृश्यमाणो निराश्रयः॥ १२ ॥
अजानन्ननुकूलञ्च प्रतिकूलं तथात्मनः ।
अन्यथा तत्तदारोप्यरागद्वेषौ प्रवर्तयन्॥ १३ ॥
अकृत्यकरणादावप्यत्यन्तोद्भटवृत्तिकः।
मत्तप्रमत्तोन्मतानां वर्ते सदृशचेष्टितः॥ १४ ॥
गर्भजन्माद्यवस्थासु दुःखमत्यन्तदुस्सहम्।
न किञ्चिद्गणयन्नित्यं चरामीन्द्रियगोचरे॥ १५ ॥
एवं विषयतृष्णाया विरागस्य जरा मम।
तद्भोगे करणानां च शैथिल्यं कुरुते भृशम्॥ १६ ॥
तथा तु तृष्णामाहात्म्यात् करणानामपाटवात्।
भोगालाभसमुद्भूतः शोकोऽपि भवति ध्रुवम्॥ १७ ॥
तथा पुत्रकळत्रादिबन्धुवर्गावमानजम्।
दुःखं दुस्सहमेवापि सहन्नत्राप्रतिक्रियः॥ १८ ॥
आधिव्याधिभिरत्यर्थं पीडितो मूढचेतनः।
अर्थादिषु तदानीमप्यभिवृद्धस्पृहो भवन्॥ १९ ॥
तादृग्बन्धुवियोगेषु तापेन महतार्दितः।
कालशेषं नयाम्यत्र कर्मबन्धवशानुगः॥ २० ॥
अथ देहावसाने च दुःखमुत्क्रान्तिसंभवम्।
कुच्छ्रेण देहान्निष्क्रान्तिं यमकिङ्करदर्शनम्॥ २१ ॥
यातनादेहसम्बन्धं याम्यपाशैश्च कर्षणम्।
उग्रमार्गगतिक्लेशं यमस्य पुरतः स्थितिम्॥ २२ ॥
तन्नियोगसमायाता यातनाश्च सहस्रशः।
श्रुत्वा स्मृत्वा च दूयेऽहं तत्प्रवेशभयाकुलः॥ २३ ॥
पुनश्च गर्भजन्मादिप्रवेशं कर्मनिर्मितम्।
मुहुर्विचिन्त्य मच्चिन्तं कम्पते जलचन्द्रवत्॥ २४ ॥
एवं मां भवचक्रेऽस्मिन् भ्रममाणं सुदुःखितम्।
कृपया केवलं श्रीमन् रक्ष नाथ कटाक्षतः॥ २५ ॥
अहमुत्पत्तिवेळायां त्वत्कटाक्षादिवीक्षितः ।
सत्त्वोद्रेकेण सम्पन्नः सद्गत्याकाङ्क्षयान्वितः ॥ २६
बाह्येषु विमुखो नित्यं वैदिकेऽभिमुखस्तथा।
सद्भिस्सहैव निवसन् सत्कथाश्रवणे रतः॥ २७ ॥
सदाचार्योपसत्तौ च साभिलाषस्त्वदात्मकम् ।
तत्त्वज्ञाननिधिं तत्त्वनिष्टं सद्गुणसागरम्॥ २८ ॥
सतां गतिं कारुणिकं तमाचार्यं यथाविधि।
प्रणिपातनमस्कारप्रियवाग्भिश्च तोषयन्॥ २९ ॥
त्वत्प्रसादवशेनैव तदङ्गीकारलाभवान्।
तदुक्ततत्त्वयाथात्म्यज्ञानामृतसुसंभृतः॥ ३० ॥
अर्थ रहस्यत्रितयगोचरं लब्धवानहम्।
केवलं कृपया मां तु नयतस्ते प्रसादतः॥ ३१ ॥
कारणं रक्षकं श्रीशं शेषिणं त्वां विचिन्तयन्।
त्वदर्थमितरेषां च शेषिणां विनिवर्तनात्॥ ३२ ॥
अनन्यार्हं स्वतो नित्यं प्रकृत्यादिविलक्षणम्।
पञ्चविंशं चिदानन्दस्वरूपगुणसंयुतम्॥ ३३ ॥
अहमर्थमणुं नित्यमात्मवर्गं निरूप्य च।
तं च स्वानर्हतासिद्धेरहन्ताममतोज्झिता॥ ३४ ॥
स्वरक्षणेऽप्यस्वतन्त्रं त्वद्रक्ष्यत्वनिरूपितम्।
विज्ञाय त्वदुपायत्वादनन्यशरणं तथा॥ ३५ ॥
नित्यनिःसीमनिस्सङ्ख्यविभूतीनामुपाश्रयम्।
तदन्तर्यामिणं देवं नाथं नारायणं प्रति॥ ३६ ॥
नित्यं सर्वत्र निखिलावस्थं निरवशेषतः।
प्रीतिकारितकैङ्कर्यनिरतं चिन्तयाम्यहम्॥ ३७ ॥
इत्थं चेतनसामान्यरूपान्तर्भावतः स्वतः।
स्वात्मनोऽप्यनुसन्धानं तथैव विदधाम्यहम्॥ ३८ ॥
अकारार्थार्थभूतोऽहमनन्यार्हो ऽचितः परः ।
स्वार्थतारहितो नित्यमनन्यशरणस्तथा॥ ३९ ॥
नारायणाय नाथाय किङ्करः स्यां निरन्तरम्।
इति मन्त्रं स्वयाथात्म्यपरमेवानुसन्दधे॥ ४० ॥
इत्थं प्रकाशितस्वात्मयाथात्म्यस्योचितामहम्।
वृत्तिं प्रवृत्तिं निश्चित्य विदधामि द्वयेन ताम्॥ ४१ ॥
त्वां श्रितां निखिलैस्सेव्यां श्रियं घटकभावतः।
समाश्रित्य तया नित्यं युक्तं वात्सल्यसागरम्॥ ४२ ॥
स्वामिनं शीलजलधिं सुलभं सुगमं तथा।
सर्वज्ञं शक्तिसम्पन्नमाप्तकामञ्च शेषिणम्॥ ४३ ॥
कारणं करुणापूर्णमशेषफलदायिनम्।
त्वां विनिश्चित्य कल्याणनित्यमङ्गळरूपिणम्॥ ४४ ॥
चरणौ तव सर्वात्मसाधारणशुभाश्रयौ।
अरिष्टविनिवृत्त्यर्थमिष्टप्राप्यर्थमेव च॥ ४५ ॥
उपायभावाच्छरणं प्रपद्येऽध्यवसायवान्।
इयं प्रपत्तिविश्वासपूर्वकप्रार्थना मतिः॥ ४६ ॥
तस्मान्ममापि मुख्यार्थप्रवृत्तिरियमित्यदः ।
त्वमेवोपायभूतस्सन् मां पाहि करुणाकर॥ ४७ ॥
सर्वातिशायिताकारं स्वरूपगुणसम्पदा।
श्रिया नित्यं सहासीनां देवदेवं जगत्पतिम्॥ ४८ ॥
भवन्तमनुभूयाहमाह्लादपरिबृंहितः।
नित्यं सार्वत्रिकं सर्वावस्थं सर्वविधं तथा॥ ४९ ॥
ऐश्वर्यकैवल्याकीर्णं त्वदानन्दाद्विलक्षणम्।
लक्ष्मीभोगाद्विशिष्टं च कैङ्कर्यसुखमाप्नुयाम्॥ ५० ॥
तत्र स्वार्थत्वसंभूतमहन्ताममतात्मकम्।
प्रतिबन्धमशेषेण विनिवर्तय माधव ॥ ५१ ॥
इत्थं द्वयार्थं संचित्य पूर्णप्रपदनात्मकम्।
तत्र त्वदादरात्पुण्यं जाने श्लोकविधानतः॥ ५२ ॥
अभीष्टोपायरूपेण साध्यानां चिरकालतः।
स्वकर्मज्ञानभक्तीनां स्वरूपपरिशोधनात्॥ ५३ ॥
स्वविलम्बाक्षमत्वेन स्वाकिञ्चन्यविरोधतः।
स्वानुपायत्वनिष्कर्षात् सर्वं सन्त्यज्य दूरतः॥ ५४ ॥
त्यागं स्वीकारविद्याङ्गं विनिश्चित्य च मानतः।
त्वत्सारथ्ये स्थितत्वेन सुशीलं भक्तवत्सलम् ॥ ५५ ॥
अनन्यापेक्षरूपं त्वमद्वितीयमनुत्तमम्।
अरिष्टध्वंसने दक्षमुपायं परिचिन्तयन्॥ ५६ ॥
मनोवाक्कायसम्पन्नगतित्रितयगोचरम्।
वर्जनं सर्वभावेन कुरु विश्वासपूर्वकम्॥ ५७ ॥
अहं स्वार्धं न सर्वात्मबन्धमोक्षविधिक्रमः।
सार्वज्ञ्यसर्वशक्तित्वपूर्तिप्राप्तिदयोदधिः॥ ५८ ॥
मयि निक्षिप्तकर्तव्यतन्त्रनिर्भरमुज्वलम्।
त्वां प्रपत्तिक्रियामुद्रामुद्रितं मत्परायणम्॥ ५९ ॥
पूर्वोत्तरारब्धाकारविभागेन विशेषितान्।
निरस्तसाङ्ख्याद्दुर्मोचान्निखिलात् पापसंचयात्॥ ६० ॥
मुक्तमेव करिष्यामि सङ्कल्पादेव मामकात्।
कथं लभेतावस्थानं तमः समुदिते रवौ ॥ ६१ ॥
तस्मादुपायसाध्यत्वदौष्कर्यात् त्वं विशेषतः।
फलसिद्धिविलम्बाच्च न शोकं कर्तुमर्हसि ॥ ६२ ॥
इत्थं पार्थ समुद्दिश्य विधानाच्चरमोदितात्।
भवतो बहुमन्तव्यां प्रपत्तिमनुसन्दधे॥ ६३ ॥
एतावन्तं सदा ध्यानमित्थं मां कृपया नयन्।
शेषाध्वलेशनयनं त्वमेव कुरु माधव॥ ६४ ॥
त्वत्स्वरूपगुणाकारविभूतिविषयां मतिम्।
विशदीकृत्य तां देव भक्तिरूपां कुरुष्व मे॥ ६५ ॥
परभक्तिं परज्ञानं परमां भक्तिसम्पदम्।
आविष्कुरु ममात्यर्थमात्मधर्मत्वयोगतः॥ ६६ ॥
पूर्वाघमुत्तराघञ्च समारब्धमघं तथा।
त्वत्प्राप्तिरोधकं कृत्स्नं निःशेष परिहारय॥ ६७ ॥
शरीरे दारपुत्रादौ वनक्षेत्रादिके तथा।
सङ्गं दुर्मोचमखिलं सहसैव विनाशय॥ ६८ ॥
त्वद्गुणानुभवास्वादरसिकेषु महात्मसु।
त्वदीयेषु परं प्रेम त्वमेव परिवर्धय॥ ६९ ॥
द्वयार्थगतवाक्चित्तं तापैस्त्रिभिरनाकुलम्।
यावच्छरीरपातं मां कुरुष्व त्वं त्वदन्तिके॥ ७० ॥
योऽसौ त्वयैव दत्तो मे व्यवसायमहोदयः।
कुरुष्व निश्चलममुं यावत्प्राप्त्यनुवर्तनम्॥ ७१ ॥
ततो देहावसाने च त्यक्तसर्वेतरस्पृहः ।
त्वामेवातिप्रबुद्धस्सन् पश्येयं भगवन्नहम्॥ ७२ ॥
अव्यक्तबुध्यहङ्कारज्ञानकर्माक्षमानसैः।
स तन्मात्रमहाभूतैः परिकल्पितमादितः॥ ७३ ॥
चर्मासृङ्मांसमेदोऽस्थिमज्जाशुक्लादिसंस्थितम्।
तथा मूत्रपुरीषादिपूर्णं नित्यजुगुप्सितम्॥ ७४ ॥
इदं शरीरं दुःखैकनिदानं परितप्य च।
नाड्या शतातिशायिन्या मां निर्गमय देहतः॥ ७५ ॥
वह्न्यहःशुक्लपक्षोदगयनाब्दानिलास्थितान्।
मार्गास्तैस्सत्कृतो गत्वा भित्वा सूर्यस्य मण्डलम्॥ ७६ ॥
चन्द्रविद्युज्जलेशेन्द्रप्रजापतिसुपूजितः ।
अण्डमावृतिभेदांश्च व्यतिवर्त्य दशोत्तरान्॥ ७७ ॥
अथ संख्याविहीनं तदव्यक्तमतिवर्तयन्।
विरजाममृताकारां मां प्रापय महानदीम्॥ ७८
कृत्वा सूक्ष्मशरीरस्य चिरसक्तस्य धूननम्।
तस्माद्राहुविनिर्मुक्तचन्द्रसान्निभमण्डलम्॥ ७९ ॥
तां नदीं मनसा तीर्य वैद्युतेनानुगच्छता।
अमानवेन सहितं मां विभूतिं परां नय॥ ८० ॥
तत्र स्वाभाविकाकारानवबोधादिकान् गुणान्।
अनन्तानपरिच्छिन्नानसङ्ख्यान् मे प्रकाशय॥ ८१ ॥
ततस्त्वप्राकृतं दिव्यं शुद्धसत्त्वप्रकाशकम्।
पञ्चोपनिषदाकारं विग्रहं सुमनोहरम्॥ ८२ ॥
प्रापय्य दिव्यामोदं ते रसं तेजः प्रवेश्य च।
स्वस्वरूपाभिनिष्पत्त्या लब्धसाम्यं च मां कुरु॥ ८३ ॥
ततश्चैरम्मदीयाख्ये तटाकेऽश्वत्थमूलतः।
दिव्याप्सरोगणैः पञ्चशतसंख्यासमन्वितैः॥ ८४ ॥
मालाचूर्णांजनक्षौमभूषाहस्तैरुपस्थितैः।
ब्रह्मालङ्काररूपेण सादरं समलङ्कृतम्॥ ८५ ॥
अभ्युत्थानार्थमायातैर्दिव्यजानपदैस्सुरैः।
संघशस्समवेतैश्च सत्कृतं संभ्रमाकुलैः॥ ८६ ॥
संसारनिरयादेवमुत्थाप्य करुणानिधे।
मां त्वं गमय ते देव तद्विष्णोः परमं पदम्॥ ८७ ॥
ततस्सूरिजनैदिव्यैर्वैकुण्ठपुरवासिभिः।
राजमार्गगतं लाजपुष्पवृष्ट्यादितोषितम्॥ ८८ ॥
दृष्ट्वा प्रणम्य चोत्थाय वैकुण्ठद्वारगोपुरम्।
अन्तःप्रविष्टं पश्यन्तं धाम दिव्यमितस्ततः॥ ८९ ॥
अथ मण्डपरत्नं तदानन्दपरिपूरितम्।
महावकाशमाणिक्यस्तम्भसाहस्रशोभितम्॥ ९० ॥
आरोप्य सूरिपरिषदन्तर्भावमहोदयम्।
गमय त्वं त्वदीयं मां कृतकृत्यस्सुखी भवन्॥ ९१ ॥
तत्र चाधारशक्त्यादिक्रमेण परिकल्पिते।
धर्माद्यैस्सूरिभिस्तत्तत्पदगात्रमयात्मकैः॥ ९२ ॥
निर्मिते निर्मले पीठे नानारत्नसमन्विते।
शुभास्तरणसंयुक्ते सुन्दरेऽतिमनोहरे॥ ९३ ॥
विलसद्दळसाहस्रपुण्डरीकाक्षिगोचरे।
तत्कण्ठिकोपरितले तत्र चामीकरोज्वले॥ ९४ ॥
अनन्तभोगपर्यंके विमले विस्तृतोच्छ्रिते।
फणासहस्रमाणिक्यप्रभाचित्रवितानके॥ ९५ ॥
आसीनमखिलस्यास्य स्वामिन्या जगतः स्वयम्।
देव्या त्वदनपायिन्या श्रिया भूम्या च नीळया॥ ९६ ॥
समेतं सच्चिदानन्दशान्तोदितदशात्मकम्।
सन्मङ्गळगुणावासं सदैकाकारविग्रहम्॥ ९७ ॥
लावण्यकान्तिमयुतायोयनादिगुणोदधिम्॥
विश्वाधिराज्यपिशुनकिरीटमकुटोच्छ्रितैः॥ ९८॥
सुस्निग्धनीलकुटिलैरलकैर्ललिताळिकम्।
सुविभक्तललाटास्थिमध्यपुण्डेन सेतुना॥ ९९ ॥
आकर्णनासमालोलपुण्डरीकायतेक्षणम्।
ऋजुनासमुखाघ्रातनिजश्यामोदसम्पदम्॥ १०० ॥
अंसावलम्बिरत्नाढ्यकर्णिकामकरच्छविम्।
निरस्तनिस्तुलाधिक्यदन्तमन्तस्स्मितोज्वलम् ॥ १०१ ॥
शुद्धकोमलवत् स्वादुप्रवाळसदृशाधरम्।
प्रफुल्लगण्डफलकं कर्णपूरपरिष्कृतम्॥ १०२ ॥
पद्यचन्द्रामृतसरःप्रस्पार्धमुखमण्डलम्।
भ्रूक्षेपालोकितालापैर्भुवनाह्लादकारणम्॥ १०३ ॥
ग्रैवेयभूषाविलसत्कम्बुबन्धुरकन्धरम्।
उन्नतांसमुदारोरस्फारच्छ्रीवत्सकौस्तुभम् ॥ १०४ ॥
उदग्रपरीवरोदारदीर्घबाहुचतुष्टयम्।
हारकेयूरकटकैरंगुलीयैश्च शोभितम् ॥१०५॥
भुजद्वयधृतोदग्रशंखचक्रविराजितम्।
जानुप्रसारितभुजं पर्यंकन्यस्तबाहुकम्॥ १०६ ॥
तनुमध्यं जगद्रक्षानिबद्धोदरबन्धनम्।
नूतनाभिद्रदोदभूतविधिसूतिग्रहाम्बुजम् ॥ १०७ ॥
कटीनिबद्धकाञ्चीकं कनकोज्वलवाससम्।
रम्भेभहस्तकरभकान्तिचौर्यक्षमोरुकम्॥ १०८ ॥
ककुद्मत्ककुदोदारजानुद्वितयशोभितम्।
मनोज्ञजङ्घाद्वितयं महार्हमणिनूपुरम्॥ १०९ ॥
शारदाम्भोजसदृशचरणद्वयसुन्दरम्।
शरण्यं सर्वलोकानां चतुर्वर्गफलप्रदम्॥ ११० ॥
अपौरुषेयवचसामभूमिं भक्तवत्सलम्।
दुष्प्रापं विधिरुद्राद्यैः सुप्रापं भक्तिशालिभिः॥ १११ ॥
शङ्खचक्रगदाखड्गशार्डाद्यैरायुधोत्तमैः।
परीतं पुरुषाकारैरास्थानत्राणतत्परैः॥ ११२ ॥
अनन्तविहगाधीशसेनान्याद्यैश्च सेवितः।
गजाननाद्यैश्चण्डाद्यैः कुमुदाद्यैस्तथैव च॥ ११३ ॥
अन्यैः परिजनैनित्येर्मुक्त गपरायणैः।
पराङ्कुशाद्यैर्भक्तैरप्याचार्यस्समुपस्थितम्॥ ११४ ॥
अवाप्तकामं लोकानामखिलानामधीश्वरम्।
आत्मानुभवजानन्दादवाकीनमनादरम्॥ ११५ ॥
भवन्तं तत्र दृष्ट्वैव प्रणमन् भवता स्वयम्।
अङ्कमारोपितः प्रेम्णा भुजैरालिङ्गितस्तदा ॥ ११६ ॥
आघातो मूर्ध्नि सस्नेहमात्रालोकाभिलक्षितः।
शृणुयां सान्त्ववाक्यानि श्रोतृकर्णामृतानि ते॥ ११७ ॥
ततः प्रणम्य पुरतः पाश्चयोस्त्वां तु पृष्ठतः।
भक्तिरूपप्रबोधेन पश्यन् सह विभूतिभिः ॥ ११८ ॥
सर्वत्र प्रसृतालादहठात्कारेण कारितः।
त्वरमाणस्सदा कुर्यां कैङ्कर्याण्यखिलान्यहम्॥ ११९ ॥
एकधा दशधा चैव शतधा च सहस्रधा।
अनन्तधा स्वयंकल्पादात्तकिङ्करविग्रहः॥ १२० ॥
यथा द्रव्येषु लोकेषु तथा त्वां दययाश्रितम्।
इमान् लोकान् कामभोगः कामरूप्यनुसञ्चरन्॥ १२१ ॥
सर्वदा दूरविध्वस्तदुःखलेशलवांशकः।
गुणानुभवजप्रीत्या कुर्यां दास्यमशेषतः॥ १२२ ॥
यथा शेषञ्च गरुडं सुमित्रातनयं तथा।
कुरुष्व मामनुचरं दययैव दयानिधे॥ १२३ ॥
आत्मान्तरात्मरूपेण स्थितं चानुभवन् सदा।
भवन्तमनुवर्तय स्वच्छन्दानुगतात्मकः॥ १२४ ॥
पश्यन् नमन् समुत्तिष्ठन् प्रवृद्धप्रणयो भवन्।
स्तुवन् नृत्यन् प्रमोदेन भवेयं भवदन्तिके॥ १२५ ॥
यावदात्मकमानन्दान् साम गायन् सहामरैः।
आशिषीय श्रिया साधं भवन्तमपि निर्विशन्॥ १२६ ॥
इत्थं त्वत्सन्निधौ वाचमुक्तां मम दयानिधे ।
सत्यां कुरुष्व दयया तथा तत्प्रतिपादनात्॥ १२७ ॥
सौम्यजामातृमुनिना सम्यग्दृष्टामिमां सदा।
अध्यात्मविषयां चिन्तां परिचिन्वन् भवेत् सुखी ॥ १२८ ॥

अस्मद्विधपरित्राणप्रेमप्रद्राणमानसम्।
वादिकेसरिणं वन्दे सौम्यजामातरं मुनिम्॥

अध्यात्मचिन्ताग्रन्थः समाप्तः ॥