०६ वैकुण्ठे श्रुतयः

विश्वास-प्रस्तुतिः

क्षयन्तम्+++(=वसन्तम्)+++ अस्य रजतः पराके (तै.सं.२.३,१२.१८),

इति रजश्-शब्देन त्रिगुणात्मिका प्रकृतिर् उच्यते केवलस्य रजसोऽनवस्थानात् । +++(5)+++

नीलमेघः

यह अर्थ “क्षयन्तमस्य रजसः पराके” इस मन्त्र से स्पष्ट हो जाता है ।
मन्त्र का अर्थ यह है कि

सत्त्वरजस तमोमयी त्रिगुणात्मिका प्रकृति का अतिक्रमण करके
ऊपर विराजमान दिव्यस्थान में श्रीभगवान विराजमान रहते हैं ।

[[२९७]]
इस मन्त्र में रजः शब्द से
रजोगुणयुक्त प्रकृति का प्रतिपादन है
क्योंकि प्रकृति को छोड़कर केवल रजोगुण रह नहीं सकता ।

मूलम्

क्षयन्तमस्य रजसः पराके (तै.सं.२.२.१२.१८) इति रजश्शब्देन त्रिगुणात्मिका प्रकृतिरुच्यते केवलस्य रजसोऽनवस्थानात् ।

विश्वास-प्रस्तुतिः

इमां त्रिगुणात्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने
क्षयन्तम् वसन्तम् इत्यर्थः ।

मूलम्

इमां त्रिगुणात्मिकां प्रकृतिमतिक्रम्य स्थिते स्थाने क्षयन्तम् वसन्तमित्यर्थः ।

विश्वास-प्रस्तुतिः

अनेन

त्रिगुणात्मकात् क्षेत्रज्ञस्य भोग्य-भूताद् वस्तुनः परस्ताद्
विष्णोर् वास-स्थानम्

इति गम्यते ।

नीलमेघः

इस वचन से यह फलित होता है कि
यह तीन गुण वाली प्रकृति जीवात्मा का भोग्य है ।
इस प्रकृति मण्डल के आगे श्रीभगवान का निवास स्थान है ।

मूलम्

अनेन त्रिगुणात्मकात्क्षेत्रज्ञस्य भोग्यभूताद्वस्तुनः परस्ताद्विष्णोर्वासस्थानमिति गम्यते ।

विश्वास-प्रस्तुतिः

वेदाहम् एतं पुरुषं महान्तम्
आदित्यवर्णं तमसः परस्तात् (तै.आ.पु.३.१३.२)

इत्य्-अत्रापि
तमः-शब्देन सैव प्रकृतिर् उच्यते -
केवलस्य तमसोऽनवस्थानाद् एव ।

नीलमेघः

दूसरा मन्त्र भी इस अर्थ को बताता है वह यह है कि-

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।

अर्थात्–
तम अर्थात् प्रकृति के ऊपर रहने वाले
तथा सूर्य के समान वर्ण वाले
इस महापुरुष को मैं जानता हूँ ।

इस मन्त्र में “तमः” शब्द से प्रकृति बतलाई जाती है
क्योंकि प्रकृति को छोड़कर अकेला तमोगुण रह नहीं सकता है।

मूलम्

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् (तै.आ.पु.३.१३.२) इत्यत्रापि तमःशब्देन सैव प्रकृतिरुच्यते - केवलस्य तमसोऽनवस्थानादेव ।

विश्वास-प्रस्तुतिः

“रजसः पराके क्षयन्तम्” इत्य्-अनेनैक-वाक्यत्वात्

तमसः परस्ताद् वसन्तं महान्तम् आदित्यवर्णं पुरुषम्
अहं वेद

इत्य् अयम् अर्थोऽवगम्यते ।

नीलमेघः

“रजसः पराके क्षयन्तम्” इस वाक्य के साथ “प्रादित्यवर्णं तमसः परस्तात्” यह वाक्य मिलकर
एक वाक्य बन जाता है।
एक वाक्य होकर बतलाता है कि
तमोमय प्रकृति के ऊपर निवास करने वाले
आदित्यवर्ण महापुरुष को मैं जानता हूँ ।

मूलम्

रजसः पराके क्षयन्तमित्यनेनैक-वाक्यत्वात्तमसः परस्ताद्वसन्तं महान्तमादित्यवर्णं पुरुषमहं वेदेत्ययमर्थोऽवगम्यते ।

अक्षर-परम-व्योमादि-शब्दाभिधेयता

विश्वास-प्रस्तुतिः

सत्यं ज्ञानम् अनन्तं ब्रह्म, यो वेद निहितं गुहायां परमे व्योमन् (तै.उ.आ.१.१),

नीलमेघः

परमपद परम व्योम शब्द से भी उपनिषदों में वर्णित हैं ।
वे वचन यह हैं-

“सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन्”

सत्य ज्ञान और अनन्त स्वरूप ब्रह्म
हृदय गुहा में विराजमान है,
इस तत्त्व को जो जानता है
वह परमाकाश में पहुँचकर ब्रह्मानुभव करता है ।

मूलम्

सत्यं ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायां परमे व्योमन् (तै.उ.आ.१.१),

विश्वास-प्रस्तुतिः

तद् अक्षरे परमे व्योमन् (तै.उ.आ.१.२)

नीलमेघः

“तदक्षरे परमे व्योमन् "

वह ब्रह्म अविनाशी निर्विकार परमाकाश में रहता है ।

मूलम्

तदक्षरे परमे व्योमन् (तै.उ.आ.१.२)

विश्वास-प्रस्तुतिः

इति तत्-स्थानम् अविकार-रूपं
परम-व्योम-शब्दाभिधेयम्
इति च गम्यते ।

नीलमेघः

इन दोनों वचनों से विदित होता है कि
वह दिव्यस्थान निर्विकार होने से
परमाकाश शब्द से अभिहित होता है ।

मूलम्

इति तत्स्थानमविकाररूपं परमव्योमशब्दाभिधेयमिति च गम्यते ।

विश्वास-प्रस्तुतिः

“अक्षरे परमे व्योमन्न्” इत्य्
अस्य स्थानस्याक्षरत्व-श्रवणात्
क्षर-रूपादित्य-मण्डलादयो +++(भगवत्-स्थानत्वेनोक्ता अपि)+++ न परम-व्योम-शब्दाभिधेयाः । +++(5)+++

नीलमेघः

“अक्षरे परमे व्योमन्”
इस वचन में वह स्थान अक्षर अर्थात् अविनाशी कहा गया है।
इससे सिद्ध होता है कि
सूर्यमण्डल इत्यादि भगवत्-स्थान नश्वर होने से
परमाकाश शब्द से नहीं कहे जा सकते ।

मूलम्

अक्षरे परमे व्योमन्नित्यस्य स्थानस्याक्षरत्वश्रवणात्क्षररूपादित्य-मण्डलादयो न परमव्योमशब्दाभिधेयाः ।

विश्वास-प्रस्तुतिः

यत्र पूर्वे साध्याः सन्ति देवाः (तै.आ.पु.३.१२.१८),

मूलम्

यत्र पूर्वे साध्याः सन्ति देवाः (तै.आ.पु.३.१२.१८),