॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
श्रीभगवद्रामानुजविरचितः उपनिषदर्थसङ्ग्राहकः
वेदार्थसङ्ग्रहः
मङ्गलाचरणम्
अशेषचिदचिद्वस्तुशेषिणे शेषशायिने ।
निर्मलानन्तकल्याणनिधये विष्णवे नमः ॥ १॥
परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत्
परोपाध्यालीढं विवशमशुभस्यास्पदमिति ।
श्रुतिन्यायापेतं जगति विततं मोहनमिदं
तमो येनापास्तं स हि विजयते यामुनमुनिः ॥२॥
स्वसिद्धान्तार्थसारः
अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयमर्थः जीवपरमात्मयाथात्म्यज्ञान-पूर्वकवर्णाश्रमधर्मेतिकर्तव्यताक परमपुरुषचरणयुगलध्यानार्चनप्रणामादिरत्यर्थप्रियः तत्प्राप्तिफलः।
अस्य जीवात्मनोऽनाद्यविद्यासञ्चितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यक् स्थावरात्मकचतुर्विधदेहप्रवेशकृततत्तदभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्म-स्वरूपतत्स्वभाव-तदन्तर्यामिपरमात्मस्वरूपतत्स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वक- अनवधिकातिशयानन्द-ब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्, तत्त्वमसि (छा.उ.६.८.४) । अयमात्मा ब्रह्म । (बृ.उ.६.४.५) य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः । (बृ.उ.मा.पा.५.७.२६) एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः । (सुबा.उ.७) तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन । ब्रह्मविदाप्नोति परम्। तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते (तै.आ.पु.३.१२.१७) इत्यादिकम् ।
जीवात्मनः स्वरूपम्
जीवात्मनः स्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणं, तस्यैतस्य कर्मकृतदेवादिभेदेऽपध्वस्ते स्वरूपभेदो वाचामगोचरः स्वसंवेद्यः, ज्ञानस्वरूपमित्येतावदेव निर्देश्यम् । तच्च सर्वेषामात्मनां समानम् ।
परमात्मनः स्वरूपम्
एवंविधचिदचिदात्मकप्रपञ्चस्योद्भवस्थितिप्रलयसंसारनिर्वर्तनैकहेतुभूतस्समस्तहेय-प्रत्यनीकानन्तकल्याणतया च स्वेतरसमस्तवस्तुविलक्षणस्वरूपोऽनवधिकातिशयासंख्येय-कल्याणगुणगणः सर्वात्म-परब्रह्मपरज्योतिःपरतत्त्वपरमात्मसदादिशब्दभेदैर्निखिलवेदान्तवेद्यो भगवान्नारायणः पुरुषोत्तम इत्यन्तर्यामिस्वरूपम् ।
परमात्मनो वैभवम्
अस्य च वैभवप्रतिपादनपराः श्रुतयः स्वेतरसमस्तचिदचिद्वस्तुजातान्तरात्मतया निखिलनियमनं तच्छक्ति-तदंश-तद्विभूति-तद्रूप-तच्छरीर-तत्तनुप्रभृतिभिः शब्दैः तत्सामानाधिकरण्येन च प्रतिपादयन्ति ।
निरसनीयानां मतानां संक्षिप्तानुवादः तत्र शाङ्करमतसंग्रहश्च
तस्य वैभवप्रतिपादनपराणामेषां सामानाधिकरण्यादीनां विवरणे प्रवृत्ताः केचन निर्विशेषज्ञानमात्रमेव ब्रह्म, तच्च नित्यमुक्तस्वप्रकाशस्वभावमपि तत्त्वमस्यादि-सामानाधिकरण्यावगतजीवैक्यं, ब्रह्मैवाज्ञं बध्यते मुच्यते च, निर्विशेषचिन्मात्रातिरेकेश्वरेशितव्यादि अनन्तविकल्परूपं कृत्स्नं जगन्मिथ्या, कश्चिद्बद्धः, कश्चिन्मुक्त इतीयं व्यवस्था न विद्यते । इतः पूर्वं केचन मुक्ता इत्ययमर्थो मिथ्या । एकमेव शरीरं जीववत्, निर्जीवानीतराणि, तच्छरीरं किमिति न व्यवस्थितम्, आचार्यो ज्ञानस्योपदेष्टा मिथ्या, शास्त्रं च मिथ्या, शास्त्रप्रमाता च मिथ्या, शास्त्रजन्यं ज्ञानं च मिथ्या, एतत्सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति ।
भास्करमतसंक्षिप्तानुवादः
अपरे तु अपहतपाप्मत्वादिसमस्तकल्याणगुणोपेतमपि ब्रह्मैतेनैववाक्यावबोधेन केनचिदुपाधिविशेषेण संबद्धं बध्यते मुच्यते च नानाविधमलरूपपरिणामास्पदं चेति व्यवस्थिताः ।
यादवप्रकाशमतसंक्षिप्तानुवादः
अन्ये पुनः ऐक्यावबोधयाथात्म्यं वर्णयन्तः स्वाभाविकनिरतिशयापरिमितोदारगुणसागरं ब्रह्मैव सुरनरतिर्यक्स्थावरनारकिस्वर्ग्यपवर्गिचेतनेषु स्वभावतो विलक्षणमविलक्षणं च वियदादिनानाविधमलरूप -परिणामास्पदं चेति प्रत्यवतिष्ठन्ते ।
शाङ्करमते औचित्यराहित्यम्
तत्र प्रथमपक्षस्य श्रुत्यर्थपर्यालोचनपरा दुष्परिहारान् दोषानुदाहरन्ति । प्रकृतपरामर्शितच्छब्दावगत-स्वसंकल्पकृत जगदुदयविभवविलयादयः तदैक्षत बहु स्यां प्रजायेय (छा.उ.६.२.३) इत्यारभ्य सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा (छा.उ.६.८.४) इत्यादिभिः पदैः प्रतिपादिताः तत्संबन्धितया प्रकरणान्तरनिर्दिष्टाः सर्वज्ञतासर्वशक्तित्वसर्वेश्वरत्व-सर्वप्रकारत्वसमाभ्यधिक-निवृत्तिसत्यकामत्वसत्यसंकल्पत्व-सर्वावभासकत्वाद्यनवधिकातिशय असंख्येयकल्याणगुणगणाः अपहतपाप्मा (छा.उ.८.७.१) इत्याद्यनेकवाक्यावगतनिरस्त-निखिलदोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते।
ब्रह्मणो निर्विशेषतायाः श्रौतत्वशङ्कापरिहारौ
अथ स्यात् – उपक्रमेऽप्येकविज्ञानेन सर्वविज्ञानमुखेन कारणस्यैव सत्यतां प्रतिज्ञाय तस्य कारणभूतस्यैव ब्रह्मणः सत्यतां विकारजातस्यासत्यतां मृद्दृष्टान्तेन दर्शयित्वा सत्यभूतस्यैव ब्रह्मणः सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.उ.६.२.१.) इति सजातीयविजातीयनिखिल-भेदनिरसनेन निर्विशेषतैव प्रतिपादिता। एतच्छोधकानि प्रकरणान्तरगतवाक्यान्यपि सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आन.१.१), निष्कलं निष्क्रियं (श्वे.उ.६.१९), निर्गुणं (श्वे.उ.६.१), विज्ञानम् (तै.उ.भृ.५.१) आनन्दम् (तै.उ.आ.९.१) इत्यादीनि सर्वविशेषप्रत्यनीकैकाकारतां बोधयन्ति । न चैकाकारताबोधने पदानां पर्यायता । एकत्वेऽपि वस्तुनः सर्वविशेषप्रत्यनीकतोपस्थापनेन सर्वपदानामर्थवत्त्वादिति ।
नैतदेवम् । एकविज्ञानेन सर्वविज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न सेत्स्यति। सत्यत्वमिथ्यात्वयोरेकताप्रसक्तिर्वा । अपि त्वेकविज्ञानेन सर्वविज्ञानं सर्वस्य तदात्मकत्वेनैव सत्यत्वे सिध्यति ।
भास्करमतसंक्षिप्तानुवादः
अयमर्थः – श्वेतकेतुं प्रत्याह स्तब्धोऽस्युत तमादेशमप्राक्ष्य (छा.उ.६.१.३) इति परिपूर्ण इव लक्ष्यसे तानाचार्यान् प्रति तमप्यादेशं पृष्टवानसीति । आदिश्यतेऽनेनेत्यादेशः । आदेशः – प्रशासनम्। एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्यादिभिरैकार्थ्यात् । तथा च मानवं वचः – प्रशासितारं सर्वेषां (म.स्मृ.१२-१२२) इत्यादि । अत्राप्येकमेवेति जगदुपादानतां प्रतिपाद्य अद्वितीयपदेनाधिष्ठात्रन्तरनिवारणात् अस्यैवाधिष्ठातृत्वमपि प्रतिपाद्यते ।
एकविज्ञानेन सर्वविज्ञानश्रुत्याशयः
अतस्तं प्रशासितारं जगदुपादानभूतमपि पृष्टवानसि येन श्रुतेन मतेन विज्ञातेनाश्रुतममतमविज्ञानं श्रुतं मतं विज्ञातं भवति इत्युक्तं स्यात् । निखिलजगदुदयविभवविलयादिकारणभूतं सर्वज्ञत्वसत्यकामत्व-सत्यसंकल्पत्वपरिमितोदार-गुणगणसागरं किं ब्रह्मापि त्वया श्रुतमिति हार्दो भावः ।
तस्य निखिलकारणतया कारणमेव नानासंस्थानविशेषसंस्थितं कार्यमित्युच्यत इति कारणभूतसूक्ष्मचिदचिद्वस्तुशरीरकब्रह्मविज्ञानेन कर्र्यभूतमखिलं जगद्विज्ञातं भवतीति हृदि निधाय येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं स्यात् (छा.उ.६.१.३) इति पुत्रं प्रति पृष्टवान् पिता ।
एकविज्ञानेन सर्वविज्ञानुपपत्तिचिन्तया पुरुषस्य चोदना
तदेतत्सकलस्य वस्तुजातस्यैककारणत्वं पितृहृदि निहितमजानन् पुत्रः परस्परविलक्षणेषु वस्तुष्वन्यस्य ज्ञानेन तदन्यविज्ञानस्याघटमानतां बुद्ध्वा परिचोदयति कथं नु भगवः स आदेश (छा.उ.६.१.३) इति। परिचोदितः पुनस्तदेव हृदि निहितं ज्ञानानन्दामलत्वैकस्वरूपमपरिच्छेद्य-माहात्म्यं सत्यसंकल्पत्वमिश्रैः अनवधिकातिशयासंख्येयकल्याणगुणगणैर्जुष्टमविकारस्वरूपं परं ब्रह्मैव नामरूपविभागानर्हासूक्ष्मचिदचिद्वस्तुशरीरं स्वलीलायै स्वसंकल्पेनानन्तविचित्रस्थिर-त्रसस्वरूपजगत्संस्थानं स्वांशेनावस्थितमिति।
तज्ज्ञानेनास्य निखिलस्य ज्ञाततां ब्रुवन् लोकदृष्टं कार्यकारणयोरनन्यत्वं दर्शयितुं दृष्टान्तमाह – यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् (छा.उ.६.१.४) इति। एकमेव मृद्द्रव्यं स्वैकदेशेन नानाव्यवहारास्पदत्वाय घटशरावादि-नानासंस्थानावस्थारूपविकारापन्नं नानानामधेयमपि मृत्तिकासंस्थानविशेषत्वात् मृद्द्रव्यमेवेत्थमवस्थितं न वस्त्वन्तरमिति । यथा मृत्पिण्डविज्ञानेन तत्संस्थानविशेषरूपं घटशरावादि सर्वं ज्ञातमेव भवतीत्यर्थः।
श्वेतकेतुप्रश्नमनुरुद्ध्य सतः जगदुपादानतानिमित्तत्वयोः प्रतिपादनम्
ततः कृत्स्नस्य जगतो ब्रह्मैककारणतामजानन् पुत्रः पृच्छति भगवांस्त्वेव मे तद्ब्रवीतु (छा.उ.६.१.७) इति । ततः सर्वज्ञं सर्वशक्ति ब्रह्मैव सर्वकारणमित्युपदिशन् स होवाच सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति । अत्रेदम् इति जगन्निर्दिष्टम् । अग्र इति च सृष्टेः पूर्वकालः। तस्मिन् काले जगतः सदात्मकतां सदेव इति प्रतिपाद्य, तत्सृष्टिकालेऽप्यविशिष्टमिति कृत्वा एकमेव इति सदापन्नस्य जगतस्तदानीमविभक्तनामरूपतां प्रतिपाद्य तत्प्रतिपादनेनैव सतो जगदुपादानत्वं प्रतिपादितमिति स्वव्यतिरिक्तनिमित्तकारणं अद्वितीयपदेन प्रतिषिद्धम् ।
तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति (छा.उ.६.१.३) इत्यादावेव प्रशास्तितैव जगदुपादानमिति हृदि निहितमिदानीमभिव्यक्तम् । (एतदेवोपपादयति) स्वयमेव जगदुपादानं जगन्निमित्तं च सत् तदैक्षत बहु स्यां प्रजायेय (छा.उ.६.२.३) इति । तदेतच्छब्दवाच्यं परं ब्रह्म सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पमवाप्तसमस्तकाममपि लीलार्थं विचित्रानन्तचिदचिन्मिश्रजगद्रूपेणाहमेव बहु स्यां तदर्थं प्रजायेयेति स्वयमेव संकल्प्य स्वांशैकदेशादेव वियदादिभूतानि सृष्ट्वा पुनरपि सैव सच्छब्दाभिहिता परा देवतैवमैक्षत –
नामरूपव्याकरणश्रुति-तदर्थविचारः
हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि (छा.उ.६.३.२) इति । अनेन जीवेनात्मनेति जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य ब्रह्मात्मजीवानुप्रवेशादेव कृत्स्नस्याचिद्वस्तुनः पदार्थत्वमेवंभूतस्यैव सर्वस्य वस्तुनो नामभाक्त्वमिति च दर्शयति ।
नामरूपव्याकरणश्रुत्यर्थस्फुटीकरणम्
एतदुक्तं भवति – जीवात्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद्ब्रह्मात्मकः । यस्यात्मा शरीरम् (बृ.उ.मा.पा.५.७.२६) इति श्रुत्यन्तरात् । एवंभूतस्य जीवस्य शरीरतया प्रकारभूतानि देवमनुष्यादिसंस्थानानि वस्तूनीति ब्रह्मात्मकानि तानि सर्वाणि । अतो देवो मनुष्यो राक्षसः पशुर्मृगः पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पट इत्यादयः सर्वे प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धाः शब्दा लोके तत्तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्म-पर्यन्तसंघातस्यैव वाचका इति ।
तत्त्वमसि श्रुतेरर्थोपपादनम्
एवं समस्तचिदचिदात्मकप्रपञ्चस्य सदुपादानतासन्निमित्ततासदाधारतासन्नियम्यता-सच्छेषतादि सर्वं च सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा (छा.उ.६.८.४) इत्यादिना विस्तरेण प्रतिपाद्य कार्यकारणभावादिमुखेन ऐतदात्म्यमिदं सर्वं तत्सत्यम् (छा.उ.६.८.७) इति कृत्स्नस्य जगतो ब्रह्मात्मकत्वमेव सत्यमिति प्रतिपाद्य कृत्स्नस्य जगतः स एवात्मा कृत्स्नं जगत्तस्य शरीरं तस्मात्त्वंशब्दवाच्यमपि जीवप्रकारं ब्रह्मैवेति सर्वस्य ब्रह्मात्मकत्वं प्रतिज्ञातं तत्त्वमसि (छा.उ.६.९.४) इति जीवविशेष उपसंहृतम् ।
जगतः ब्रह्मात्मकत्वं शरीरशरीरिभावनिबन्धनम्
एतदुक्तं भवति । ऐतदात्म्यमिदं सर्वं (छा.उ.८.६.७) इति चेतनाचेतनप्रपञ्चमिदं सर्वमिति निर्दिश्य तस्य प्रपञ्चस्यैष आत्मेति प्रतिपादितः, प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं पतिपादितमित्यर्थः । तदिदं ब्रह्मात्मकत्वं किमात्मशरीरभावेनोत स्वरूपेणेति विवेचनीयम् । स्वरूपेण चेद्ब्रह्मणः सत्यसङ्कल्पादयः तदैक्षत बहु स्यां (छा.उ.६.२.३) इत्युपक्रमावगता बाधिता भवन्ति । शरीरात्मभावेन च तदात्मकत्वं श्रुत्यन्तराद्विशेषतोऽवगतं अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा (तै.आ.३.११.३) इति प्रशासितृत्वरूपात्मत्वेन सर्वेषां जनानामन्तःप्रविष्टोऽतः सर्वात्मा सर्वेषां जनानामात्मा सर्वं चास्य शरीरमिति विशेषतो ज्ञायते ब्रह्मात्मकत्वम् । य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृत (बृ.उ.मा.पा.५.७.२६) इति च । अत्रापि अनेन जीवेनात्मना (छा.उ.६.३.२) इतीदमेव ज्ञायत इति पूर्वमेवोक्तम् ।
तत्त्वमसीति श्रुत्यर्थनिगमनम्
अतः सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वात्सर्वप्रकारं सर्वशब्दैर्ब्रह्मैवाभिधीयत इति तत्त्वमिति सामानाधिकरण्येन जीवशरीरतया जीवप्रकारं ब्रह्मैवाभिहितम् ।
एवमभिहिते सत्ययमर्थो ज्ञायते त्वमिति यः पूर्वं देहस्याधिष्ठातृतया प्रतीतः स परमात्मशरीरतया परमात्मप्रकारभूतः परमात्मपर्यन्तः । अतस्त्वमिति शब्दस्त्वत्प्रकारविशिष्टं त्वदन्तर्यामिणमेवाचष्ट इति ।
बुदधिशब्दयोः परमात्मपर्यन्तत्वे हेतुः
अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि (छा.उ.६.३.२) इति ब्रह्मात्मकतयैव जीवस्य शरीरिणः स्वनामभाक्त्वात्तत्त्वमिति सामानाधिकरण्यप्रवृत्तयोर्द्वयोरपि पदयोर्ब्रह्मैव वाच्यम्। तत्र च तत्पदं जगत्कारणभूतं सकलकल्याणगुणगणाकरं निर्वद्यं निर्विकारमाचष्टे । त्वमिति च तदेव ब्रह्म जीवान्तर्यामिरूपेण सशरीरप्रकारविशिष्टमाचष्टे । तदेवं प्रवृत्तिनिमित्तभेदेनैकस्मिन् ब्रह्मण्येव तत्त्वमिति द्वयोः पदयोर्वृत्तिरुक्ता । ब्रह्मणो निरवद्यं निर्विकारं सकलकल्याणगुणगणाकरत्वं जगत्कारणत्वं चाबाधितम् ।
वेदान्ततत्त्वज्ञानिनः इतरवैलक्षण्यम्
अश्रुतवेदान्ताः पुरुषाः पदार्थाः सर्वे जीवात्मनश्च ब्रह्मात्मका इति न पश्यति सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु वाच्यैकदेशेषु वाच्यपर्यवसानं मन्यन्ते । इदानीं वेदान्तवाक्यश्रवणेन ब्रह्मकार्यतया तदन्तर्यामितया च सर्वस्य ब्रह्मात्मकत्वं सर्वशब्दानां तत्तत्प्रकारसंस्थितब्रह्मवाचित्वं च जानन्ति ।
सर्वशब्दानां ब्रह्मवाचकत्वे लौकिकव्युत्पत्तिविरोधपरिहारौ
नन्वेवं गवादिशब्दानां तत्तत्पदार्थवाचितया व्युत्पत्तिर्बाधिता स्यात् । नैवं सर्वे शब्दा अचिज्जीवविशिष्टस्य परमात्मनो वाचका इत्युक्तम् । नामरूपे व्याकरवाणि (छा.उ.६.३.२) इत्यत्र । तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्दवाच्ये प्रधानांशस्य परमात्मनः प्रत्यक्षाद्यपरिच्छेद्यत्वाद्वाच्यैकदेशभूते वाच्यसमाप्तिं मन्यन्ते। वेदान्तश्रवणेन च व्युत्पत्तिः पूर्यते। एवमेव वैदिकाः सर्वे शब्दाः परमात्मपर्यन्तान् स्वार्थान् बोधयन्ति ।
लौकिकानां वैदिकानां च शब्दानामेकता
वैदिका एव सर्वे शब्दा वेदादवुद्धृत्योद्धृत्य परेणैव ब्रह्मणा सर्वपदार्थान् पूर्ववत्सृष्ट्वा तेषु परमात्मपर्यन्तेषु पूर्ववन्नामतया प्रयुक्ताः । तदाह मनुः
सर्वेषां तु नामानि कर्माणि च पृथक्पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ (मनु.स्मृ १.२१)
इति । संस्थाः संस्थानानि रूपाणीति यावत् । आह च भगवान् पराशरः
नाम रूपं भूतानां कृत्यानां प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ दैवादीनां चकार सः ॥ (वि.पु.१.५.६३)
इति । श्रुतिश्च सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् (तै.आ.उ.१.४४) इति । सूर्यादीन् पूर्ववत्परिकल्प्य नामानि च पूर्ववच्चकार इत्यर्थः ।
प्रक्रान्तविचारोपसंहारः
एवं जगद्ब्रह्मणोरनन्यत्वं प्रपञ्चितम् । तेनैकेन ज्ञातेन सर्वस्य ज्ञाततोऽपपादिता भवति । सर्वस्य ब्रह्मकार्यत्वप्रतिपादनेन तदात्मकतयैव सत्यत्वं नान्यथेति तत्सत्यम् (छा.उ.६.८.६) इत्युक्तम्। यथा दृष्टान्ते सर्वस्य मृद्विकारस्य मृदात्मनैव सत्यत्वम् ।
शोधकवाक्यानां निर्विशेषपरत्वनिरासः
शोधकवाक्यान्यपि निरवद्यं सर्वकल्याणगुणाकरं परं ब्रह्म बोधयन्ति । सर्वप्रत्यनीकाकारताबोधनेऽपि तत्तत्प्रत्यनीकाकारतायां भेदस्यावर्जनीयत्वान्न निर्विशेषवस्तुसिद्धिः।
ननु च ज्ञानमात्रं ब्रह्मेति प्रतिपादिते निर्विशेषज्ञानमात्रं ब्रह्मेति निश्चीयते ।
नैवम् । स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन स्वरूपमपि प्रतिपादयन्ति । गवादिशब्दवत् । तदाह सूत्रकारः तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत् (ब्र.सू.२.३.२९)। यावदात्मभावितत्वाच्च न दोष (ब्र.सू.२.३.३०) इति ।
ब्रह्मणि ज्ञानधर्मकत्वासिद्धिशङ्कापरिहारौ
ज्ञानेन धर्मेण स्वरूपमपि निरूपितं न ज्ञानमात्रं ब्रह्मेति । कथमिदमवगम्यत इति चेत्, यस्सर्वज्ञः सर्ववित् (मु.उ.२.२.७) इत्यादिज्ञातृत्वश्रुतेः परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । विज्ञातारमरे केन विजानीयात्? (बृ.उ.४.४.१४) इत्यादिश्रुतिशतसमधिगतमिदम्। ज्ञानस्य धर्ममात्रत्वाद्धर्ममात्रस्यैकस्य वस्तुत्वप्रतिपादनानुपपत्तेश्च । अतः सत्यज्ञानादिपदानि स्वार्थभूतज्ञानादिविशिष्टमेव ब्रह्म प्रतिपादयन्ति।
तत्त्वमिति द्वयोरपि पदयोः स्वार्थप्रहाणेन निर्विशेषवस्तुस्वरूपोपस्थापनपरत्वे मुख्यार्थपरित्यागश्च ।
क्वचित् लक्षणाया अदोषत्वशङ्कापरिहारश्च
नन्वैक्ये तात्पर्यनिश्चयान्न लक्षणादोषः । सोऽयं देवदत्त इतिवत् । यथा सोऽयमित्यत्र स इति शब्देन देशान्तरकालान्तरसंबन्धी पुरुषः प्रतीयत अयमिति च संनिहितदेशवर्तमानकालसंबन्धी, तयोः सामानाधिकरण्येनाइक्यं प्रतीयते । तत्रैकस्य युगपद्विरुद्धदेशकालसंबन्धितया प्रतीतिर्न घटत इति द्वयोर्पदयोः स्वरूपमात्रोपस्थापनपरत्वं स्वरूपस्य चाइक्यं प्रतिपद्यत इति चेन्नैतदेवम् । सोऽयं देवदत्त इत्यत्रापि लक्षणागन्धो न विद्यते । विरोधाभावात् । एकस्य भूतवर्तमानक्रियाद्वयसंबंधो न विरुद्धः । देशान्तरस्थितिर्भूत्वा संनिहितदेशस्थितिर्वर्तते । अतो भूतवर्तमानक्रियाद्वयसंबन्धितया ऐक्यप्रतिपादनं अविरुद्धम्। देशद्वयविरोधश्च कालभेदेन परिहृतः । लक्षणायामपि न द्वयोरपि पदयोर्लक्षणासमाश्रयणम्। एतेनैव लक्षितेन विरोधपरिहारात् । लक्षणाभाव एवोक्तः । देशान्तरसंबन्धितया भूतस्यैवान्यदेशसंबन्धितया वर्तमानत्वाविरोधात् ।
सामानाधिकरण्यस्वरूपं स्वाभिमतार्थसिद्धिश्च
एवमत्रापि जगत्कारणबूतस्यैव परस्य ब्रह्मणो जीवान्तर्यामितया जीवात्मत्वमविरुद्धमिति प्रतिपादितम्। यथा भूतयोरेव हि द्वयोरैक्यं सामानाधिकरण्येन प्रतीयते । तत्परित्यागेन स्वरूपमात्राइक्यं न सामानाधिकरण्यार्थः भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् (कै.वृ) इति हि तद्विदः । तथाभूतयोरैक्यमुपपादितमस्माभिः ।
परपक्षे उपक्रमविरोधः
उपक्रमविरोध्युपसंहारपदेन वाक्यतात्पर्यनिश्चयश्च न घटते । उपक्रमे हि तदैक्षत बहु स्याम् प्रजायेय (छा.उ.६.२.३) इत्यादिना सत्यसंकल्पत्वं जगदेककारणत्वमप्युक्तम् । तद्विरोधि चाविद्याश्रयत्वादि ब्रह्मणः।
शब्दस्य निर्विशेषवस्त्वसाधकत्वम्
अपि चार्थभेदतत्संसर्गविशेषबोधनकृतपदवाक्यस्य स्वरूपतालब्धप्रमाणभावस्य शब्दस्य निर्विशेषवस्तुबोधनासामर्थान्न निर्विशेषवस्तुनि शब्दः प्रमाणम् ।
निर्विशेषस्य गतिकल्पनम्
निर्विशेष इत्यादिशब्दास्तु केनचिद्विशेषेण विशिष्टतयावगतस्य वस्तुनो वस्त्वन्तरगतविशेषनिषेधपरतया बोधकाः । इतरथा तेषमप्यनवबोधकत्वमेव । प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषगर्भत्वादनेकपदार्थसंसर्ग-बोधकत्वाच्च वाक्यस्य ।
स्वयंप्रकाशस्य निर्विशेषस्य प्रमाणानपेक्षा
अथ स्यात् नास्माभिर्निर्विशेषे स्वयंप्रकाशे वस्तुनि शब्दः प्रमाणमित्युच्यते । स्वतःसिद्धस्य प्रमाणानपेक्षत्वात् । सर्वैः शब्दैस्तदुपरागविशेषा ज्ञातृत्वादयः सर्वे निरस्यन्ते । सर्वेषु विशेषेषु निवृत्तेषु वस्तुमात्रमनवच्छिन्नं स्वयंप्रकाशं स्वत एवावतिष्ठत इति ।
तन्निरासः
नैतदेवम् । केन शब्देन तद्वस्तु निर्दिश्य तद्गतविशेषा निरस्यन्ते । ज्ञप्तिमात्रशब्देनेति चेन्न । सोऽपि सविशेषमेव वस्त्ववलम्बते । प्रकृतिप्रत्ययरूपेण विशेषगर्भत्वात् । ज्ञा अवबोधन इति सकर्मकः सकर्तृकः क्रियाविशेषः क्रियान्तरव्यावर्तकस्वभावविशेषश्च प्रकृत्यावगम्यते । प्रत्ययेन च लिङ्गसंख्यादयः । स्वतःसिद्धावप्येतत्स्वभावविशेषविरहे सिद्धिरेव न स्यात् । अन्यसाधन-स्वभावतया हि ज्ञप्तेः स्वतःसिद्धिरुच्यते ।
निर्विशेषत्वे अविद्यातिरोधानाद्यनुपपत्तिः
ब्रह्मस्वरूपं कृत्स्नं सर्वदा स्वयमेव प्रकाशते चेन्न तस्मिन्नन्यधर्माध्यासः संभवति । न हि रज्जुस्वरूपेऽवभासमाने सर्पत्वादिरध्यस्यते । अत एव हि भवद्भिराच्छादिकाविद्याभ्युपगम्यते । ततश्च शास्त्रीयनिवर्तकज्ञानस्य ब्रह्मणि तिरोहितांशो विषयः । अन्यथा तस्य निवर्तकत्वं च न स्यात्। अधिष्ठानातिरेकिरज्जुत्वप्रकाशनेन हि सर्पत्वं बाध्यते ।
एकश्चेद्विशेषो ज्ञानमात्रे वस्तुनि शब्देनाभिधीयते स च ब्रह्मविशेषणं भवतीति सर्वश्रुतिप्रतिपादितसर्वविशेषणविशिष्टं ब्रह्म भवति । अतः प्रामाणिकानां न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः ।
निर्विकल्पकस्य निर्विशेषग्राहितानिरासः
निर्विकल्पकप्रत्यक्षेऽपि सविशेषमेव वस्तु प्रतीयते । अन्यथा सविकल्पके सोऽयमिति पूर्वावगतप्रकारविशिष्टप्रत्ययानुपपत्तेः । वस्तुसंस्थानविशेषरूपत्वात् गोत्वादेर्निर्विकल्पतदशायामपि ससंस्थानमेव वस्त्वित्थमिति प्रतीयते । द्वितीयादिप्रत्ययेषु तस्य संस्थानविशेषस्यानेक-वस्तुनिष्ठतामात्रं प्रतीयते । संस्थानरूपप्रकाराख्यस्य पदार्थस्यानेकवस्तुनिष्ठतयानेकवस्तु-विशेषणत्वं द्वितीयादिप्रत्ययावगम्यमिति द्वितीयादिप्रत्ययाः सविकल्पका इत्युच्यन्ते ।
भेदाभेदवादनिरासः
अत एवैकस्य पदार्थस्य भिन्नाभिन्नत्वरूपेण द्व्यात्मकत्वं विरुद्धं प्रत्युक्तम् । संस्थानस्य संस्थानिनः प्रकारतया पदार्थान्तरत्वम् । प्रकारत्वादेव पृथक्सिद्ध्यनर्हात्वं पृथगनुपलम्भश्चेति न द्व्यात्मकत्वसिद्धिः ।
वेदान्तवाक्यानां भेदनिरासपरत्वानुपपत्तिः
अपि च निर्विशेषवस्त्वादिना स्वयंप्रकाशे वस्तुनि तदुपरागविशेषाः सर्वैः शब्दैर्निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् (छा.उ.६.१.४) इति विकारनामधेययोर्वाचारम्भणमात्रत्वात् । यत्तत्र कारणतयोपलक्ष्यते वस्तुमात्रं तदेव सत्यमन्यदसत्यमितीयं श्रुतिर्वदतीति चेन्नैतदुपपद्यते । एकस्मिन् विज्ञाते सर्वं विज्ञातं भवतीति प्रतिज्ञातेऽन्यज्ञानेनान्यज्ञानासंभवं मन्वानस्यैकमेव वस्तु विकाराद्यवस्थाविशेषेण पारमार्थिकेनैव नामरूपमवस्थितं चेत्तत्रैकस्मिन् विज्ञाते तस्माद्विलक्षणसंस्थानान्तरमपि तदेवेति तत्र दृष्टान्तोऽयं निदर्शितः।
वाचारम्भणश्रुत्यर्थः
नात्र कस्यचिद्विशेषस्य निषेधकः कोऽपि शब्दो दृश्यते । वाचारम्भणमिति वाचा व्यवहारेणारभ्यत इत्यारम्भणम् । पिण्डरूपेणावस्थितायाः मृत्तिकाया नाम वान्यद्व्यवहारश्चान्यः । घटशरावादिरूपेणावस्थितायास्तस्या एव मृत्तिकाया अन्यानि नामधेयानि व्यवहाराश्चान्यद्दशाः । तथापि सर्वत्र मृत्तिकाद्रव्यमेकमेव नानासंस्थाननानानामधेयाभ्यां नानाव्यवहारेण चारभ्यत इत्येतदेव सत्यमित्यनेनान्यज्ञानेनान्यज्ञानसंभवो निदर्शितः । नात्र किंचिद्वस्तु निषिध्यत्ा इति पूर्वमेवायमर्थः प्रपञ्चितः ।
अद्वैतिनां मते मृद्दृष्टान्तवैघट्यम्
अपि च येनाश्रुतं श्रुतम् (छा.उ.६.१.३) इत्यादिना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेत् यथा सोम्यैकेन मृत्पिण्डेन (छा.उ.६.१.४) इत्यादिदृष्टान्तः साध्यविकलः स्यात् । रज्जुसर्पादिवत् मृत्तिकाविकारस्य घटशरावादेरसत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाणान्तरेण युक्त्या चासिद्धमिति
दृष्टान्ते साध्यवैकल्यपरिहारशङ्कातदसिद्धी
एतदपि सिषाधयिषितमिति चेत् । यथेति दृष्टान्तयोपादानं न घटते । सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.उ.६.२.१) इत्यत्र सदेवैकमेवेत्यवधारणद्वयेन अद्वितीयमित्यनेन च सन्मात्रातिरेकिसजातीयविजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्नेतदेवम् । कार्यकारणभावावस्थाद्वयावस्थितस्यैकस्य वस्तुन एकावस्थावस्थितस्य ज्ञानेनावस्थान्तरा-वस्थितस्यापि वस्त्वैक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोरप्रज्ञातं सर्वस्य ब्रह्मकारणत्वं च वक्तुं सदेव सोम्येदमित्यारब्धम् । इदमग्रे सदेवासीदिति । अग्र इति कालविशेषः । इदंशब्दवाच्यस्य प्रपञ्चस्य सदापत्तिरूपां क्रियां सद्रव्यतां च वदति । एकमेवेति चास्य नानानामरूपविकारप्रहाणम् ।
ब्रह्मणो जगदुपादाननिमित्तत्वसिद्धिः
एतस्मिन् प्रतिपादितेऽस्य जगतः सदुपादानता प्रतिपादिता भवति । अन्यत्रोपादानकारणस्य स्वव्यतिरिक्ताधिष्ठात्रपेक्षा-दर्शनेऽपि सर्वविलक्षणत्वादस्य सर्वज्ञस्य ब्रह्मणः सर्वशक्तियोगो न विरुद्ध इत्यद्वितीयपदमधिष्ठात्रन्तरं निवारयति ।
सर्वशक्तियुक्तत्वादेव ब्रह्मणः । काश्चन श्रुतयः प्रथममुपादानकारणत्वं प्रतिपाद्य निमित्तकारणमपि तदेवेति प्रतिपादयन्ति । यथेयं श्रुतिः । अन्याश्च श्रुतयो ब्रह्मणो निमित्तकारणत्वमनुज्ञायास्यैवोपादानतादि कथमिति परिचोद्य, सर्वशक्तियुक्तत्वादुपादानकारणं तदितराशेषोपकरणं च ब्रह्मैवेति परिहरन्ति ।
किंस्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टक्षुर्मणीषिणो मनसा पृच्छतेदुत्द्यदध्यतिष्ठद्भुवनानि धारयन् । (तै.ब्रा.२.८.९.१५)
ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुर्मनीषिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद्भुवनानि धारयन् (तै.ब्रा.२.८.९.१५) इति सामान्यतो दृष्टेन विरोधमाशङ्क्य ब्रह्मणः सर्वविलक्षणत्वेन परिहार उक्तः।
सदेवेति कारणवाक्यस्यापि सविशेषप्रतिपादकता
अतः सदेव सोम्येदमग्र आसीत् (छा.उ.६.२.१) इत्यत्राप्यग्र इत्याद्यनेकविशेषा ब्रह्मणो प्रतिपादिताः । भवदभिमतविशेषनिषेधवाची कोऽपि शब्दो न दृश्यते ।
प्रत्युत जगद्ब्रह्मणोः कार्यकारणभावज्ञापनायाग्र इति कालविशेषसद्भावः। आसीदिति क्रियाविशेषो, जगदुपादानता जगन्निमित्तता च, निमित्तोपादानयोर्भेदनिरसनेन तस्यैव ब्रह्मणः सर्वशक्तियोगश्चेत्यप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः।
यतो वास्तवकार्यकारणभावादिविज्ञाने प्रवृत्तमत एव असदेवेदमग्र आसीत् (छा.उ.६.२.१) इत्यारभ्य असत्कार्यवादनिषेधश्च क्रियते कुतस्तु खलु सोम्यैवं स्यात् (छा.उ.६.२.२) इति ।प्रागसत उत्पत्तिरहेतुकेत्यर्थः। तदेवोपपादयति कथमसतः सज्जायेत (छा.उ.६.२.१) इति। असत उत्पन्नमसदात्मकमेव भवतीत्यर्थः। यथा मृदुत्पन्नं घटादिकं मृदात्मकम् । सत उत्पत्तिर्नाम व्यवहारविशेषहेतुभूतोऽवस्थाविशेषयोगः।
असत्कार्यवादे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावैघट्यम्
एतदुक्तं भवति – एकमेव कारणभूतं द्रव्यमवस्थान्तरयोगेन कार्यमित्युच्यत इत्येकविज्ञानेन सर्वविज्ञानं प्रतिपिपादयिषितम् । तदसत्कार्यवादे न सेत्स्यति । तथा हि निमित्त-समवाय्यसमवायिप्रभृतिः कारणैरवयव्याख्यं कार्यं द्रव्यान्तरमेवोत्पद्यत इति कारणभूताद्वस्तुनः कार्यस्य वस्त्वन्तरत्वान्न तज्ज्ञानेनास्य ज्ञातता कथमपि संभवतीति । कथमवयवि द्रव्यान्तरं निरस्यत इति चेत् । कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पत्तिवादिनः संप्रतिपन्नस्यैव एकत्वनामान्तरादेरुपपादकत्वाद्द्रव्यान्तरादर्शनाच्चेति कारणमेवावस्थान्तरापन्नं कार्यमित्युच्यत इत्युक्तम् ।
प्रकरणस्य शून्यवादनिरासपरत्वासम्भवः
ननु निरधिष्ठानभ्रमासंभवज्ञापनायासत्कार्यवादनिरासः क्रियते । तथा ह्येकं चिद्रूपं सत्यमेवाविद्याच्छादितं जगद्रूपेण विवर्तत इत्यविद्याश्रयत्वाय मूलकारणं सत्यमित्यभ्युपगन्तव्यं इत्यसत्कार्यवादनिरासः । नैतदेवम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादृष्टान्तमुखेन सत्कार्यवादस्यैव प्रसक्तत्वादित्युक्तम् । भवत्पक्षे निरधिष्ठानभ्रमासंभवस्य दुरुपपादत्वाच्च । यस्य हि चेतनगतदोषः पारमार्थिको दोषाश्रयत्वं च पारमार्थिकं तस्य पारमार्थिकदोषेण युक्तस्यापारमार्थिक-गन्धर्वनगरादिदर्शनमुपपन्नं, यस्य तु दोषश्चापारमार्थिको दोषाश्रयत्वं चापारमार्थिकं तस्यापारमार्थिकेनाप्याश्रयेण तदुपपन्नमिति भवत्पक्षे न निरधिष्ठानभ्रमासंभवः ।
शोधकवाक्यानां निर्विशेषपरत्वनिरासः
शोधकेष्वपि सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आन.१.१), आनन्दो ब्रह्म (तै.उ.भृ.६.१) इत्यादिषु वाक्येषु सामान्याधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्टैकार्थावबोधनमविरुद्धमिति सर्वगुण-विशिष्टं ब्रह्माभिधीयत इति पूर्वमेवोक्तम् ।
नेति नेति श्रुत्यर्थविचारः
अथात आदेशो नेति नेति (बृ.उ.४.३.६) इति बहुधा निषेधो दृष्यत इति चेत् । किमत्र निषिध्यत इति वक्तव्यम्। द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च (बृ.उ.४.३.१) इति मूर्तामूर्तात्मकः प्रपञ्चः सर्वोऽपि निषिध्यत इति चेन्नैवम्। ब्रह्मणो रूपतयाप्रज्ञातं सर्वं रूपतयोपदिश्य पुनर्तदेव निषेद्धुमयुक्तम् । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमिति न्यायात् । कस्तर्हि निषेधवाक्यार्थः । सूत्रकारः स्वयमेव वदति प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः (ब्र.सू.३.२.१) इति। उत्तरत्र अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम् (बृ.उ.४.३.६) इति सत्यादिगुणगणस्य प्रतिपादितत्वात्पूर्वप्रकृतैतावन्मात्रं न भवति ब्रह्मेति, ब्रह्मण एतावन्मात्रता प्रतिषिध्यत इति सूत्रार्थः।
नेह नाना इति श्रुत्यर्थः
नेह नानास्ति किंचन (बृ.उ.६.४.१९) इत्यादिना नानात्वप्रतिषेध एव दृष्यत इति चेत् । अत्राप्युत्तरत्र सर्वस्य वशी सर्वस्येशन (बृ.उ.६.४.२२) इति सत्यसङ्कल्पत्वसर्वेश्वरत्वप्रतिपादनात् चेतनवस्तुशरीर ईश्वर इति सर्वप्रकारसंस्थितः स एक एवेति तत्प्रत्यनीकाब्रह्मात्मकनानात्वं प्रतिषिद्धं न भवदभिमतम्। सर्वास्वेवंप्रकारासु श्रुतिष्वियमेव स्थितिरिति न क्वचिदपि ब्रह्मणः सविशेषत्वनिषेधकवाची कोऽपि शब्दो दृश्यते ।
अद्वैतिसम्मतस्य ब्रह्मणः अविद्यया तिरोधानस्यानुपपत्तिः
अपि च निर्विशेषज्ञानमात्रं ब्रह्म तच्चाछादिकाविद्यातिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्ययमर्थो न घटते । तिरोधानं नाम प्रकाशनिवारणम् । स्वरूपातिरेकिप्रकाशधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनाश एव स्यात् । प्रकाशपर्यायं ज्ञानं नित्यं स च प्रकाशोऽविद्यातिरोहित इति बालिशभाषितमिदम् । अविद्यया प्रकाशतिरोहित इति प्रकाशोत्पत्ति-प्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वाद्विनाश एव स्यात् । प्रकाशो नित्यो निर्विकारस्तिष्ठतीति चेत् । सत्यामप्यविद्यायां ब्रह्मणि न किंचित्तिरोहितमिति नानात्वं पश्यतीति भवतामयं व्यवहारः सत्स्वनिर्वचनीय एव ।
सिद्धान्ते जीवस्य स्वरूपतिरोधानानुपपत्तिशङ्कापरिहारौ
ननु च भवतोऽपि विज्ञानस्वरूप आत्माभ्युपगन्तव्यः । स च स्वयंप्रकाशः । तस्य च देवादिस्वरूपात्माभिमाने स्वरूपप्रकाशतिरोधानमवश्यमाश्रयणीयम् । स्वरूपप्रकाशे सति स्वात्मन्याकारान्तराध्यासायोगात् । अतो भवतश्चायं समानो दोषः । किं चास्माकमेकस्मिन्नेव आत्मनि भवदुदीरितं दुर्घटत्वं भवतामात्मानन्त्याभ्युपगमात्सर्वेष्वयं दोषः परिहरणीयः ।
अत्रोच्यते – स्वभावतो मलप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपं स्वाभाविकानवधिकातिशय- अपरिमितोदारगुणसागरं निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितव्यवच्छेदस्वरूपसर्वोत्पत्ति-स्थितिविनाशादि-सर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पष्टानन्तमहाविभूति स्वलीलापरिकर-स्वांशभूतानन्तबद्धमुक्तनानाविधचेतनतद्भोग्यभूतानन्तविचित्रपरिणामशक्तिचेतनेतरवस्तुजात-अन्तर्यामित्वकृतसर्वशक्तिशरीरत्वसर्वप्रकर्शावस्थानावस्थितं परं ब्रह्मैव वेद्यं, तत्साक्षात्कार-क्षमभगवद्द्वैपायनपराशर-वाल्मीकिमनुयाज्ञवल्क्यगौतमापस्तम्बप्रभृतिमुनिगणप्रणीतविध्यर्थवाद मन्त्रस्वरूपवेदमूलेतिहासपुराण-धर्मशास्त्रोपभृंहितपरमार्थभूतानादिनिधनाविच्छिन्नपाठसंप्रदाय-ऋक् –यजुस्-साम-अथर्वरूपानन्त शाखं वेदं चाभ्युपगच्छतामस्माकं किं न सेत्स्यति ।
सिद्धान्तिसम्मते अर्थे प्रमाणानि
यथोक्तं भगवता द्वैपायनेन महाभारते –
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ॥ (भ.गी.१०.३)
द्वाविमौ पुरषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ (भ.गी.१५.१६)
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः ॥ (भ.गी.१५.१७)
कालं च पचते तत्र न कालस्तत्र वै प्रभूः । (म.भा.शा.१९६.९)
एते वै निरयास्तात स्थानस्य परमात्मनः ॥ (म.भा.शा.१९६.६)
अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुक्तम् ।
क्रीडा हरेरिदं सर्वं क्षरमित्यवधार्यताम् ॥ (म.भा.शा.२०६.५८)
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः ।
कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् ॥ (म.भा.शा.३८.२३)
इति । कृष्णस्य हि कृत इति कृष्णस्य शेषभूतं सर्वमित्यर्थः । भगवता पराशरेणाप्युक्तम् –
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते ।
मैत्रेय! भगवच्छब्दः सर्वकारणकारणे ॥ (वि.पु.६.५.७२)
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ (वि.पु.६.५.७९)
एवमेष महाशब्दो मैत्रेय भगवानिति ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ (वि.पु.६.५.७६)
तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।
शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥ (वि.पु.६.५.७७)
एवं प्रकारममलं सत्यं व्यापकमक्षयम् ।
समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ (वि.पु.१.२२.५५)
कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ॥ (वि.पु.४.३८)
क्रीडतो बालकस्येव चेष्टास्तस्य निशामय ॥ (वि.पु.१.२.२०) इत्यादि । मनुनापि
प्रशासितारं सर्वेषामणीयांसमणीयसाम् । (म.स्मृ. १२.१२२) इत्युक्तम् ।
याज्ञवल्क्येनापि
क्षेत्रस्येश्वरज्ञानाद्विशुद्धिः परमा मता । (याज्ञ.स्मृ.३४)
इति । आपस्तम्बेनापि पूः प्राणिनः सर्व एव गुहाशयस्य (आप.ध.सू.२२.४) इति । सर्वे प्राणिनो गुहाशयस्य – परमात्मनः पूः – पुरं शरीरमित्यर्थः । प्राणिन इति सजीवात्मभूतसंघातः ।
स्वपरमतविमर्शः
ननु च किमनेनाडम्बरेण । चोद्यं तु न परिहृतम् । उच्यते । एवमभ्युपगच्छतामस्माकं आत्मधर्मभूतस्य चैतन्यस्य स्वाभाविकस्यापि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वमिदं परिहृतम् । भवस्तु प्रकाश एव स्वरूपमिति प्रकाशो न धर्मभूतस्तस्य संकोचविकासौ वा नाब्युपगम्येते। प्रकाशप्रसारानुत्पत्तिमेव तिरोधानभूताः कर्मादयः कुर्वन्ति । अविद्या चेत्तिरोधानं तिरोधानभूततयाविद्यया स्वरूपभूतप्रकाशनाश इति पूर्वमेवोक्तम् । अस्माकं त्वविद्यारूपेण कर्मणा स्वरूपनित्यधर्मभूतप्रकाशः संकुचितः । तेन देवादिस्वरूपात्माभिमानो भवतीति विशेषः । यथोक्तम् –
अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते ।
यथा क्षेत्रशक्तिः सा वेष्टिता नृप सर्वगा ॥ (वि.पु.६.७.६२)
संसारतापानखिलानवाप्नोत्यतिसंततान् ॥ (वि.पु.६.७.६१)
तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाले तारतम्येन वर्तते ॥ (वि.पु.६.७.६३)
इति । क्षेत्रज्ञानां स्वधर्मभूतस्य ज्ञानस्य कर्मसंज्ञाविद्यया संकोचं विकासं च दर्शयति ।
अविद्यायाः स्वरूपानुपपत्तिः
अपि चाच्छादिकाविद्या श्रुतिभिश्चाइक्योपदेशबलाच्च ब्रह्मस्वरूपतिरोधानहेयदोषरूपाश्रीयते तस्याश्च मिथ्यारूपत्वेन प्रपञ्चवत्स्वदर्शनमूलदोषापेक्षत्वात् । न सा मिथ्या दर्शनमूलदोषः स्यादिति ब्रह्मैव मिथ्यादर्शनमूलं स्यात् । तस्याश्चानादित्वेऽपि मिथ्यारूपत्वादेव ब्रह्मदृश्यत्वेनैवानादित्वात् तद्दर्शनमूलपरमार्थदोषानभ्युपगमाच्च ब्रह्मैव तद्दर्शनमूलं स्यात् । तस्य नित्यत्वादनिर्मोक्ष एव ।
एकजीववादप्रतिपादनम्
अत एवेदमपि निरस्तम् एकमेव शरीरं जीववत्, निर्जीवानीतराणि शरीराणि स्वप्नदृष्टनानाविधानन्तशरीराणां यथा निर्जीवत्वम् । तत्र स्वप्ने द्रष्टुः शरीरमेकमेव जीववत् । तस्य स्वप्नवेलायां दृश्यभूतनानाविधशरीराणां निर्जीवत्वमेव । अनेनैकेनैव परिकल्पितत्वाज्जीवा मिथ्याभूता इति।
उक्तवादनिरासः
ब्रह्मणा स्वस्वरूपव्यतिरिक्तस्य जीवभावस्य सर्वशरीराणां च कल्पितत्वादेकस्मिन्नपि शरीरे शरीरवज्जीवभावस्य च मिथ्यारूपत्वात्सर्वाणि शरीराणि मिथ्यारूपाणि, तत्र जीवभावश्च मिथ्यारूप इत्येकस्य शरीरस्य तत्र जीवभावस्य च न कश्चिद्विशेषः । अस्माकं तु स्वप्ने द्रष्टुः स्वशरीरस्य तस्मिन्नात्मसद्भावस्य च प्रबोधवेलायामबाधितत्वानन्येषां शरीराणां तद्गतजीवानां च बाधितत्वात्ते सर्वे मिथ्याभूताः स्वशरीरमेकं तस्मिञ्जीवभावश्च परमार्थ इति विशेषः ।
अविद्याया निवर्तकस्य निवृत्तेश्चानुपपत्तिः
अपि च केन वा विद्यानिवृत्तिः सा कीदृशीति विवेचनीयम् । ऐक्यज्ञानं निवर्तकं निवृत्तिश्चानिर्वचनीयप्रत्यनीकाकारेति चेत् । अनिर्वचनीयप्रत्यनीकं निर्वचनीयं तच्च सद्वासद्वा द्विरूपं वा कोट्यन्तरं न विद्यते । ब्रह्मव्यतिरेकेणैतदभ्युपगमे पुनरविद्या न निवृत्ता स्यात् । ब्रह्मैव चेन्निवृत्तिस्तत्प्रागप्यविशिष्टमिति वेदान्तज्ञानात्पूर्वमेव निवृत्तिः स्यात् । ऐक्यज्ञानं निवर्तकं तदभावात्संसार इति भवद्दर्शनं विहन्यते ।
किञ्च निवर्तकज्ञानस्याप्यविद्यारूपर्वात्तन्निवर्तनं केनेति वक्तव्यम् । निवर्तकज्ञानं स्वेतरसमस्तभेदं निवर्त्य क्षणिकत्वादेव स्वयमेव विनश्यति दावानलविषनाशनविषान्तरवदिति चेन्न । निवर्तकज्ञानस्य ब्रह्मव्यतिरिक्तत्वेन तत्स्वरूपतदुत्पत्तिविनाशानां मिथ्यारूपत्वात्तद्विनाशरूपा विद्या तिष्ठत्येवेति तद्विनाशदर्शनस्य निवर्तकं वक्तच्यमेव । दावाग्न्यादीनामपि पूर्वावस्थाविरोधिपरिणामपरंपरावर्जनीयैव।
अविद्यायाः ज्ञात्रनुपपत्तिः सर्वस्य ज्ञानस्य त्रिरूपता च
अपि च चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य कोऽयं ज्ञाता । अध्यासरूप इति चेन्न। तस्य निषेधतया निवर्तकज्ञानकर्मत्वात्तत्कर्तृत्वानुपपत्तेः । ब्रह्मस्वरूप एवेति चेन्न । ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपमुताध्यस्तम् । अध्यस्तं चेदयमध्यासस्तन्मूलविद्यान्तरं च निवर्तकज्ञानविषयतया तिष्ठत्येव । तन्निवर्तकान्तराभ्युपगमे तस्यापि त्रिरूपतयानवस्थैव । सर्वस्य हि ज्ञानस्य त्रिरूपकत्वविरहे ज्ञानत्वमेव हीयते । कस्यचित्कंचनार्थविशेषं प्रति सिद्धिरूपत्वात् । ज्ञानस्य त्रिरूपत्वविरहे भवतां स्वरूपभूतज्ञानवन्निवर्तकज्ञानमप्यनिवर्तकं स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमेऽस्मदीय एव पक्षः परिगृहीतः स्यात् । निवर्तकज्ञानस्वरूपज्ञातृत्वं च स्वनिवर्त्यान्तर्गतमिति वचनं भूतलव्यतिरिक्तं कृत्स्नं छिन्नं देवदत्तेनेत्यस्यामेव छेदनक्रियायामस्याश्छेदनक्रियायाश्छेत्तृत्वस्य च छेद्यान्तर्भाववचनवदुपहास्यम्।
अविद्यानिवर्तकज्ञानसामग्र्यनुपपत्तिः
अपि च निखिलभेदनिवर्तकमिदमैक्यज्ञानं केन जातमिति विमर्शनीयम् । श्रुत्यैवेति चेन्न । तस्या ब्रह्मव्यतिरिक्ताया अविद्यापरिकल्पितत्वात्प्रपञ्चबाधकज्ञानस्योत्पादकत्वं न संभवति । तथा हि दुष्टकारणजातमपि रज्जुसर्पज्ञानं न दुष्टकारणजन्येन रज्जुरियं न सर्प इति ज्ञानेन बाध्यते । रज्जुसर्पज्ञानभये वर्तमाने केनचिद्भ्रान्तेन पुरुषेण रज्जुरियं न सर्प इत्युक्तेऽप्ययं भ्रान्त इति ज्ञाते सति तद्वचनं रज्जुसर्पज्ञानस्य बाधकं न भवति भयं च न निवर्तते । प्रयोजकज्ञानवतः श्रवणवेलायामेव हि ब्रह्मव्यतिरिक्तत्वेन श्रुतेरपि भ्रान्तिमूलत्वं ज्ञातमिति । निवर्तकज्ञानस्य ज्ञातुस्तत्सामग्रीभूतशास्त्रस्य च ब्रह्मव्यतिरिक्ततया यदि बाध्यत्वमुच्यते हन्त तर्हि प्रपञ्चनिवृत्तेर्मिथ्यात्वमापततीति प्रपञ्चस्य सत्यता स्यात् । स्वप्नदृष्टपुरुषवाक्यावगत-पित्रादिमरणस्य मिथ्यात्वेन पित्रादिसत्यतावत् । किञ्च तत्त्वमस्यादिवाक्यं न प्रपञ्चस्य बाधकम् । भ्रान्तिमूलत्वाद्भ्रान्तप्रयुक्तरज्जुसर्पबाधकवाक्यवत् ।
ननु च स्वप्ने कस्मिंश्चिद्भये वर्तमाने स्वप्नदशायामेवायं स्वप्न इति ज्ञाते सति पूर्वभयनिवृत्तिर्दृष्टा। तद्वदत्रापि संभवतीति । नैवम् । स्वप्नवेलायामेव सोऽपि स्वप्न इति ज्ञाते सति पुनर्भयानिवृत्तिरेव दृष्टेति न कश्चिद्विशेषः। श्रवणवेलायामेव सोऽपि स्वप्न इति ज्ञातमेवेत्युक्तम् ।
ब्रह्मणः मिथ्याभूतशास्त्रसिद्धत्वेपि सत्यत्वसिद्धिशङ्कातत्परिहारौ
यदपि चेदमुक्तं भ्रान्तिपरिकल्पितत्वेन मिथ्यारूपमपि शास्त्रमद्वितीयं ब्रह्मेति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात्तनबाधादर्शनाद्ब्रह्म सुस्थितमेवेति । तदयुक्तम् । शून्यमेव तत्त्वमिति वाक्येन तस्यापि बाधितत्वात् । इदं भ्रान्तिमूलवाक्यमिति चेत् । सदद्वितीयं ब्रह्मेति वाक्यमपि भ्रान्तिमूलमिति त्वयैवोक्तम् । पश्चात्तनबाधादर्शनं तु सर्वशून्यवाक्यस्यैवेति विशेषः ।
वादानधिकारापादकहेतुप्रदर्शनम्
सर्वशून्यवादिनो ब्रह्मव्यतिरिक्तवस्तुमिथ्यात्ववादिनश्च स्वपक्षसाधनप्रमाण पारमार्थ्यानभ्युपगमेन अभियुक्तैर्वादानधिकार एव प्रतिपादितः । अधिकारोऽनभ्युपायत्वान्न वादे शून्यवादिनः। इति ।
शास्त्रस्य प्रत्यक्षबाधकत्वसिद्धिः
अपि च प्रत्यक्षदृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते । प्रत्यक्षस्य दोषमूलत्वेनान्यथासिद्धिसंभवान्निर्दोषं शास्त्रमनन्यथासिद्धं प्रत्यक्षस्य बाधकमिति चेत् । केन दोषेण जातं प्रत्यक्षमनन्तभेदविषयमिति वक्तव्यम् । अनादिभेदवासनाख्यदोषजातं प्रत्यक्षमिति चेत्। हन्त तर्ह्यनेनैव दोषेण जातं शास्त्रमपीत्येकदोषमूलत्वाच्छास्त्रप्रत्यक्षयोर्न बाध्यबाधकभावसिद्धिः।
शास्त्रप्रत्यक्षयोर्विषयभेदप्रदर्शनम्
आकाशवाय्वादि भूततदारब्धशब्दस्पर्शादियुक्तमनुष्यत्वादिसंस्थानसंस्थितपदार्थग्राहि प्रत्यक्षम्। शास्त्रं तु प्रत्यक्षाद्यपरिच्छेद्यसर्वान्तरात्मत्वसत्यत्वाद्यनन्तविशेषणविशिष्ट ब्रह्मस्वरूपतदुपासनाद्याराधन प्रकारतत्प्राप्ति पूर्वकतत्प्रसादलभ्यफलविशेष-तदनिष्टकरणमूल -निग्रहविशेषविषयमिति न शात्रप्रत्यक्षयोर्विरोधः । अनादिनिधनाविच्छिन्न पाटसंप्रदायताद्यनेक-गुणविशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्षपारमार्थ्यमवश्यमभ्युपगन्तव्यमित्यलमनेन श्रुतिशतविततिवातवेगपराहतकुदृष्टिदुष्टयुक्ति जालतूलनिरसनेनेत्युपरम्यते ।
इति शाङ्करमतनिराकरणपरकरणम्
भास्करमतनिराकरणारम्भः
द्वितीये तु पक्ष उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तरानभ्युपगमात् ब्रह्मण्येवोपाधि-संसर्गादौपाधिकाः सर्वे दोषा ब्रह्मण्येव भवेयुः । ततश्चापहतपाप्मत्वादिनिर्दोषत्वश्रुतयः सर्वे विहन्यन्ते ।
यथा घटाकाशादेः परिच्छिन्नतया महाकाशाद्वैलक्षण्यं परस्परभेदश्च दृश्यते तत्रस्था गुणा वा दोषा वानवच्छिन्ने महाकाशे न संबध्यन्ते एवमुपाधिकृतभेदव्यवस्थितजीवगता दोषा अनुपहिते परे ब्रह्मणि न संबध्यन्त इति चेत् ।
नैतदुपपद्यते । निरवयवस्याकाशस्यानवच्छेद्यस्य घटादिभिश्छेदासंभवात्, तेनैवाकाशेन घटादयः संयुक्ता इति ब्रह्मणोऽप्यच्छेद्यत्वाद्ब्रह्मैवोपाधिसंयुक्तं स्यात्।
घटसंयुक्ताकाशप्रदेशोऽन्यस्मादाकाशप्रदेशाद्भिद्यत इच्चेत् । आकाशस्यैकस्यैव प्रदेशभेदेन घटादिसंयोगाद्घटादौ गच्छति तस्य च प्रदेशभेदस्यानियम इति तद्वद्ब्रह्मण्येव प्रदेशभेदानियमेनोपाधिसंसर्गादुपाधौ गच्छति संयुक्तवियुक्तब्रह्मप्रदेशभेदाच्च ब्रह्मण्येवोपाधि-संसर्गः क्षणे क्षणे बन्धमोक्षौ स्यातामिति सन्तः परिहसन्ति ।
श्रोत्रदृष्टान्तेन ब्रह्मणि व्यवस्थाशङ्का – तत्परिहारौ
निरवयवस्यैवाकाशस्य श्रोत्रेन्द्रियत्वेऽपीन्द्रियव्यवस्थावद्ब्रह्मण्यपि व्यवस्थोपपद्यत इति चेत् । न वायुविशेषसंस्कृतकर्णप्रदेशसंयुक्तस्यैवाकाशप्रदेशस्येन्द्रियत्वात्तस्य च प्रदेशान्तराभेदे अपीन्द्रिय-व्यवस्थोपपद्यते । आकाशस्य तु सर्वेषां शरीरेषु गच्छत्स्वनियमेन सर्वप्रदेशसंयोग इति ब्रह्मण्युपाधिसंयोगप्रदेशानियम एव ।
(इन्द्रियाणामाहङ्कारिकत्वम्)
आकाशस्य स्वरूपेणैव श्रोत्रेन्द्रियत्वमभ्युपगम्यापीन्द्रियव्यवस्थोकता । परमार्थतस्त्वाकाशो न श्रोत्रेन्द्रियम् । वैकारिकादहंकारादेकादशेन्द्रियाणि जायन्त इति हि वैदिकाः । यथोक्तं भगवता पराशरेण
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ (वि.पु.१.२.४७) इति ।
अयमर्थः । वैकारिकस्तैजसो भूतादिरिति त्रिविधोऽहंकारः । स च क्रमात्सात्त्विको राजसस्तामसश्च। तत्र तामसाद्भूतादेराकाशादीनि भूतानि जायन्त इति सृष्टिक्रममुक्त्वा तैजसाद्राजसात् अहंकारादेकदशेन्द्रियाणि जायन्त इति परमतमुपन्यस्य सात्त्विकाहंकारात् वैकारिकानीन्द्रियाणि जायन्त इति स्वमतमुच्यते देवा वैकारिकाः स्मृताः (वि.पु.१.२.४७) इति । देवा इन्द्रियाणि । एवमिन्द्रियाणामाहंकारिकाणां भूतैश्चाप्यायनं महाभारत उच्यते । भौतिकत्वेऽपीन्द्रियाणां आकाशादिभूतविकारत्वादेवाकाशादिभूतपरिणामविशेषा व्यवस्थिता एव शरीरवत्पुरुषाणामिन्द्रियाणि भवन्तीति ब्रह्मण्यच्छेद्ये निरवयवे निर्विकारे त्वनियमेनानन्तहेयोपाधिसंसर्गदोषो दुष्परिहर एवेति श्रद्दधानानामेवायं पक्ष इति शास्त्रविदो न बहु मन्यन्ते ।
भास्करमतनिरासोपसंहारः
स्वरूपपरिणामाभ्युपगमादविकारत्वश्रुतिर्बाध्यते । निरवद्यता च ब्रह्मणः शक्तिपरिणाम इति चेत् । केयं शक्तिरुच्यते । किं ब्रह्मपरिणामरूपा । उत ब्रह्मणोऽनन्या कापीति । उभयपक्षेऽपि स्वरूपपरिणामोऽवर्जनीय एव ।
इति भास्करमतनिरासः
तत्र ब्रह्मणि अपुरुषार्थसम्बन्धोपपादनम्
यादवप्रकाशमतनिरासारम्भः
तृतीयेऽपि पक्षे जीवब्रह्मणोर्भेदवदभेदस्य चाभ्युपगमात्तस्य च तद्भावात्सौभरिभेदवच्च स्वावतारभेदवच्च सर्वस्येश्वरभेदतात्सर्वे जीवगता दोषास्तस्यैव स्युः । एतदुक्तं भवति । ईश्वरः स्वरूपेणैव सुरनरतिर्यक्स्थावरादिभेदेनावस्थित इति हि तदात्मकत्ववर्णनं क्रियते । तथा सत्येकमृत्पिण्डारब्धघटशरावादिगतान्युदकाहरणादीनि सर्वकार्याणि यथा तस्यैव भवन्ति, एवं सर्वजीवगतसुखदुःखादि सर्वमीश्वरगतमेव स्यात् ।
अंशभेदेन परिहारेऽपि असामञ्जस्यम्
घटशरावादिसंस्थानानुपयुक्तमृद्द्रव्यं यथा कार्यान्तरान्वितमेवमेव सुरपशुमनुजादि-जीवत्वानुपयुक्तेश्वरः सर्वज्ञः सत्यसंकल्पत्वादिकल्याणगुणाकर इति चेत्सत्यं स एवेश्वर एकेनांशेन कल्याणगुणगणाकरः स एवान्येनांशेन हेयगुणाकर इत्युक्तम् । द्वयोरंशयोरीश्वराविशेषात् ।
भेदाभेदपक्षस्य अत्यन्तहेयत्वम्
द्ववंशौ व्यवस्थितविति चेत् । कस्तेन लाभः । एकस्यैवानेकांशेन नित्यदुःखित्वादंशान्तरेण सुखित्वमपि नेश्वरत्वाय कल्पते । यथा देवदत्तस्यैकस्मिन् हस्ते चन्दनपङ्कानुलेपकेयूर-कटकाङ्गुलीयालंकाः तस्यैवान्यस्मिन् हस्ते मुद्गराभिघातः कालानलज्वालानुप्रवेशश्च तद्वदेव ईश्वरस्य स्यादिति ब्रह्माज्ञानपक्षादपि पापीयानयं भेदाभेदपक्षः । अपरिमितदुःखस्य पारमार्थिकत्वात्संसारिणाम् अन्तत्वेन दुस्तरत्वाच्च ।
तादात्म्यस्य शरीरात्मभावनिबन्धनतया सर्वदोषासंस्पर्शः
तस्माद्विलक्षणोऽयं जीवांश इति चेत् । आगतोऽसि तर्हि मदीयं पन्थानम् । ईश्वरस्य स्वरूपेण तादात्म्यवर्णने स्यादयं दोषः । आत्मशरीरभावेन तु तादात्म्यप्रतिपादने न कश्चिद्दोषः । प्रत्युत निखिलभुवननियमनादिर्महानयं गुणगणः प्रतिपादितो भवति । सामानाधिकरण्यं च मुख्यवृत्तम् ।
भेदाभेदपक्षदूषणम्
अपि चैकस्य वस्तुनो भिन्नाभिन्नत्वं विरुद्धत्वान्न संभवतीत्युक्तम् । घटस्य पटाद्भिन्नत्वे सति तस्य तस्मिन्नभावः । अभिन्नत्वे सति तस्य च भाव इति । एकस्मिन् काले चैकस्मिन् देशे चैकस्य हि पदार्थस्य युगपत्सद्भावोऽसद्भावश्च विरुद्धः ।
जात्यात्मना भावो व्यक्त्यात्मना चाभाव इति चेत् । जातेर्मुण्डेन चाभावे सति खण्डे मुण्डस्यापि सद्भावप्रसङ्गः । खण्डेन च जातेरभिन्नत्वे सद्भावो भिन्नत्वे चासद्भावः अ_ो महिशत्वस्यैवेति विरोधो दुष्परिहर एव । जात्यादेर्वस्तुसंस्थानतया वस्तुनः प्रकारत्वात्प्रकार-प्रकारिणोश्च पदार्थान्तरत्वं प्रकारस्य पृथक्सिद्ध्यनर्हात्वं पृथगनुपलम्भश्च तस्य च संस्थानस्य चानेकवस्तुषु प्रकारतयावस्थितश्चेत्यादि पूर्वमुक्तम् ।
सोऽयमिति बुद्धिः प्रकाराइक्यादयमपि दण्डीति बुद्धिमत् । अयं च जात्यादिप्रकारो वस्तुनो भेद इत्युच्यते। तद्योग एव वस्तुनो भिन्नमिति व्यवहारहेतुरित्यर्थः । स च वस्तुनो भेदव्यवहारहेतुः स्वस्य च संवेदनवत् । यथा संवेदनं वस्तुनो व्यवहारहेतुः स्वस्य व्यवहारहेतुश्च भवति ।
प्रत्यक्षस्य सन्मात्रग्राहित्वादिनिरासः, यादवप्रकाशमतनिरासोपसंहारश्च
अत एव सन्मात्रग्राहि प्रत्यक्षं न भेदग्राहीत्यादिवादा निरस्ताः । जात्यादिसंस्थानसंस्थितस्यैव वस्तुनः प्रत्यक्षेण गृहीतत्वात्तस्यैव संस्थानरूपजात्यादेः प्रतियोग्यपेक्षया भेदव्यवहारहेतुत्वाच्च । स्वरूपपरिणामदोषश्च पूर्वमेवोक्तः ।
इति यादवप्रकाशमतनिराकरणम्
यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः । (बृ.उ.५.७७) य आत्मनि तिष्ठन्नात्मनोऽन्तरो य आत्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः । (बृ.उ.५.२६) यः पृथिवीमन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद (सुबा.उ.७) इत्यादि योऽक्षरमन्तरे संचरन् यस्याक्षरं शरीरमक्षरं न वेद (सुबा.उ.७) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति (मुण्ड.उ.३.१.१) अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा (तै.आ.३.११.३) तत्सृष्ट्वा तदेवानुप्राविशत्। तदनुप्रविश्य सच्च त्यच्चाभवत् (तै.उ.आ.६.२.३) इत्यादि। सत्यं चानृतं च सत्यमभवत् (तै.उ.आ.६.३) अनेन जीवेनात्मना (छा.उ.६.३.२) इत्यादि । पृथगात्मानं प्रेरितारं मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.उ.१.६) भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म, एतत् (श्वे.उ.१.१२) नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वे.६.१३) प्रधानक्षेत्रज्ञपतिर्गुणेशः (श्वे.उ.६.१६) ज्ञाज्ञौ द्ववजवीशानीशौ (श्वे.उ.१.९) इत्यादिश्रुतिशतैस्तदुपबृंहणैः
जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ॥ (वा.रा.यु.१२६.१६)
यत्किंचित्सृज्यते येन सत्त्वजातेन वै द्विज ।
तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस्तनुः ॥ (वि.पु.१.२२.३८)
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ॥ (भ.गी.१०.२०)
सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ॥ (भ.गी.१५.१५)
इत्यादिवेदविदग्रेसरवाल्मीकिपराशरद्वैपायनवचोभिश्च परस्य ब्रह्मणः सर्वस्यात्मत्वावगमात् चिदचिदात्मकस्य वस्तुनस्तच्छरीरत्वावगमाच्च शरीरस्य शरीरिणं प्रति प्रकारतयैव पदार्थत्वाच्शरीरशरीरिणोश्च धर्मभेदेऽपि तयोरसंकरात्सर्वशरीरं ब्रह्मेति ब्रह्मणो वैभवं प्रतिपादयद्भिः सामानाधिकरण्यादिभिर्मुख्यवृत्तैः सर्वचेतनाचेतनप्रकारं ब्रह्मैवाभिधीयते ।
सामानाधिकरण्यस्य स्वमते मुख्यता
सामानाधिकरण्यं हि द्वयोः पदयोः प्रकारद्वयमुखेनैकार्थनिष्ठत्वम्। तस्य चैतस्मिन् पक्षे मुख्यता । तथा हि तत्त्वमिति सामानाधिकरण्ये तदित्यनेन जगत्कारणं सर्वकल्याणगुणगणाकरं निरवद्यं ब्रह्मोच्यते । त्वमिति च चेतनसामानाधिकरण्यवृत्तेन जीवान्तर्यामिरूपि तच्छरीरं तदात्मतयावस्थितं तत्प्रकारं ब्रह्मोच्यते। इतरेषु पक्षेषु सामानाधिकरण्यहानिर्ब्रह्मणः सदोषता च स्यात् ।
चिदचितोः ब्रह्मप्रकारत्वसमर्थनम्
एतदुक्तं भवति । ब्रह्मैवमवस्थितमित्यत्रैवंशब्दार्थभूतप्रकारतयैव विचित्रचेतनाचेतनात्मक-प्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्भावः । तथा च बहु स्यां प्रजायेय इत्ययमर्थः संपन्नो भवति । तस्यैवेश्वरस्य कार्यतया कारणतया च नानासंस्थानसंस्थितस्य संस्थानतया चिदचिद्वस्तुजातमवस्थितमिति ।
ननु च संस्थानरूपेण प्रकारतयैवंशब्दार्थत्वं जातिगुणयोरेव दृष्टं न द्रव्यस्य । स्वतन्त्रसिद्धियोग्यस्य पदार्थस्यैवंशब्दार्थतयेश्वरस्य प्रकारमात्रत्वमयुक्तम् । उच्यते द्रव्यस्यापि दण्डकुण्डलादेर्द्रव्यान्तरप्रकारत्वं दृष्टमेव ।
शरीरवाचिनां आत्मपर्यन्तत्वेन सामानाधिकरण्यम्
ननु च दण्डादेः स्वतन्त्रस्य द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्टः । यथा दण्डी कुण्डलीति। अतो गोत्वादितुल्यतया चेतनाचेतनस्य द्रव्यभूतस्य वस्तुन ईश्वरप्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते । अत्रोच्यते – गौरश्वो मनुष्यो देव इति भूतसंघातरूपाणां द्रव्याणामेव देवदत्तो मनुष्यो जातः पुण्यविशेषेण, यज्ञदत्तो गौर्जातः पापेन, अन्यश्चेतनः पुण्यातिरेकेण देवो जात इत्यादिदेवादिशरीराणां चेतनप्रकारतया लोकदेवयोः सामानाधिकरण्येन प्रतिपादनं दृष्टम् ।
अयमर्थः जातिर्वा गुणो वा द्रव्यं वा न तत्रादरः । कंचन द्रव्यविशेषं प्रति विशेषणतयैव यस्य सद्भावस्तस्य तदपृथक्सिद्धेस्तत्प्रकारतया तत्सामानाधिकरण्येन प्रतिपादनं युक्तम् । यस्य पुनर्द्रव्यस्य पृथक्सिद्धस्यैव कदाचित्क्वचिद्द्रव्यान्तरप्रकारत्वमिष्यते तत्र मत्वर्थीयप्रत्यय इति विशेषः ।
(सर्वेषां शब्दानां ईश्वरपर्यन्तता, एकविज्ञानेन सर्वविज्ञानोपपत्तिश्च)
एवमेव स्थावरजङ्गमात्मकस्य सर्वस्य वस्तुन ईश्वरशरीरत्वेन तत्प्रकारतयैव स्वरूपसद्भाव इति । तत्प्रकारीश्वर एव तत्तच्छब्देनाभिधीयत इति तत्सामानाधिकरण्येन प्रतिपादनं युक्तम् । तदेवैतत्सर्वं पूर्वमेव नामरूपव्याकरणश्रुतिविवरणे प्रपञ्चितम् ।
अतः प्रकृतिपुरुषमहदहंकारतन्मात्रभूतेन्द्रियतदारब्धचतुर्दशभुवनात्मकब्रह्माण्ड-तदन्तर्वर्ति-देवतिर्यङ्मनुष्यस्थावरादि सर्वप्रकारसंस्थानसंस्थितं कार्यमपि सर्वं ब्रह्मैवेति कारणभूतब्रह्मविज्ञानादेव सर्वं विज्ञातं भवतीत्येकविज्ञानेन सर्वविज्ञानमुपपन्नतरम् । तदेवं कार्यकारणभावादिमुखेन कृत्स्नस्य चिदचिद्वस्तुनः परब्रह्मप्रकारतया तदात्मकत्वमुक्तम् ।
ब्रह्मणो जगदुपादानतायाः निर्विकारत्वविघटकत्वाक्षेपः
ननु च परस्य ब्रह्मणः स्वरूपेण परिणामास्पदत्वं निर्विकारत्वनिरवद्यत्व-श्रुतिव्याकोपप्रसञ्गेन निवारितम् । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् (ब्र.सू.१.४.२३) इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा-मृत्तत्कार्यदृष्टान्ताभ्यां परमपुरुषस्य जगदुपादानकारणत्वं च प्रतिपादितम् । उपादानकारणत्वं च परिणामास्पदत्वमेव । कथमिदमुपपद्यते ।
ब्रह्मणः उपादानतायाः निर्विकारत्वाविघटकत्वं, तस्य चिद्रूपेण अचिद्रूपेण च परिणामाभ्युपगमे दोषोपपादनम्
अत्रोच्यते सजीवस्य प्रपञ्चस्याविशेषेण कारणत्वमुक्तम् । तत्रेश्वरस्य जीवरूपपरिणामाभ्युपगमेन नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः (ब्र.सू.२.३.१८) इति विरुध्यते । वैषम्यनैर्घृण्यपरिहारश्च जीवनमनादित्वाभ्युपगमेन तत्कर्मनिमित्ततया प्रतिपादितः वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र.सू.२.१.३४) न कर्मविभागादिति चेन्न अनादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू. २.१.३५) इति । अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्चानित्यत्वेऽभिहितः ।
तथा प्रकृतेरप्यनादिता श्रुतिभिः प्रतिपदिता
अजामेकां लोहितशुक्लकृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ (तै.ना.उ.१०.५)
इति प्रकृतिपुरुषयोरजत्वं दर्शयति ।
अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया संनिरुद्धः (श्वे.उ.४.९)
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे.उ.४.१०)
इति प्रकृतिरेव स्वरूपेण विकारास्पदमिति च दर्शयति-
गौरनाद्यन्तवती सा जनित्री भूतभाविनी (मन्त्रि.उ.१.५) इति च ।
स्मृतिश्च भवति,
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभवपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ (भ.गी.१३.१९)
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ (भ.गी.७.४)
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ (भ.गी.७.५)
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । (भ.गी.९.८)
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ॥ (भ.गी.९.१०)
इत्यादिका ।
एवं च प्रकृतेरपीश्वरशरीरत्वात्प्रकृतिशब्दोऽपि तदात्मभूतस्येश्वरस्य तत्प्रकारसंस्थितस्य वाचकः। पुरुषशब्दोऽपि तदात्मभूतस्येश्वरस्य पुरुषप्रकारसंस्थितस्य वाचकः । अतस्तद्विकाराणामपि तथेश्वर एवात्मा । तदाह –
व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च । (वि.पु.१.२.२०)
सा एव क्षोभको ब्रह्मन् क्षोभ्यश्च परमेश्वरः ॥ (वि.पु.१.२.३३)
इति । अतः प्रकृतिप्रकारसंस्थिते परमात्मनि प्रकारभूतप्रकृत्यंशे विकारः प्रकार्यंशे चाविकारः । एवमेव जीवप्रकारसंस्थिते परमात्मनि च प्रकारभूतजीवांशे सर्वे चापुरुषार्थाः प्रकार्यंशो नियन्ता निरवद्यः सर्वकल्याणगुणाकरः सत्यसंकल्प एव ।
तथा च सति कारणावस्थ ईश्वर एवेति तदुपादानकजगत्कार्यावस्थोऽपि स एवेति कार्यकारणयोरनन्यत्वं सर्वश्रुत्यविरोधश्च भवति ।
ब्रह्मण एव कारणत्व-कार्यत्वसमर्थनम्
तदेवं नामरूपविभागानर्हासूक्ष्मदशापन्नप्रकृतिपुरुषशरीरं ब्रह्म कारणावस्थं, जगतस्तदापत्तिरेव च प्रलयः । नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यत्वं, ब्रह्मणस्तथाविधस्थूलभाव एव जगतः सृष्टिरित्युच्यते । यथोक्तं भगवता पराशरेण –
प्रधानपुंसोरजयोः कारणं कार्यभूतयोः । (वि.पु.१.९.३७) इति ।
तस्मादीश्वरप्रकारभूतसर्वावस्थप्रकृतिपुरुषवाचिनः शब्दास्तत्प्रकारविशिष्टतयावस्थिते परमात्मनि मुख्यतया वर्तन्ते । जीवात्मवाचिदेवमनुष्यशब्दवत् । यथा देवमनुष्यादिशब्दा देवमनुष्यादिप्रकृतिपरिणामविशेषाणां जीवात्मप्रकारतयैव पदार्थत्वात्प्रकारिणि जीवात्मनि मुख्यतया वर्तन्ते । तस्मात्सर्वस्य चिदचिद्वस्तुनः परमात्मशरीरतया तत्प्रकारत्वात्परमात्मनि मुख्यतया वर्तन्ते सर्वे वाचकाः शब्दाः ।
शरीरात्मनोः लक्षणनिर्वचनम्
अयमेव चात्मशरीरभावः पृथक्सिद्ध्यनर्हाधाराधेयभावो नियन्तृनियाम्यभावः शेषशेषिभावश्च। सर्वात्मनाधारतया नियन्तृतया शेषितया च आप्नोतीत्यात्मा सर्वात्मनाधेयतया नियाम्यतया शेषतया च अपृथक्सिद्धं प्रकारभूतमित्याकारः शरीरमिति चोच्यते । एवमेव हि जीवात्मनः स्वशरीरसंबन्धः। एवमेव परमात्मनः सर्वशरीरत्वेन सर्वशब्दवाच्यत्वम् ।
उक्तेर्थे श्रुतिसम्मतिः पुराणवचस्सम्मतिश्च
तदाह श्रुतिगणः – सर्वे वेदा यत्पदमामनन्ति (कठ.उ.२.१५) सर्वे वेदा यत्रैकं भवन्ति (तै.आ.उ.११.२) इति । तस्यैकस्य वाच्यत्वादेकार्थवाचिनो भवन्तीत्यर्थः । एको देवो बहुधा निविष्टः (तै.आर.३.१४.१), सहैव सन्तं न विजानन्ति देवाः (तै.आर.३.११.१२) इत्यादि । देवा – इन्द्रियाणि । देवमनुष्यादीनामन्तर्यामितयात्मत्वेन निविश्य सहैव सन्तं तेषामिन्द्रियाणि मनःपर्यन्तानि न विजानन्तीत्यर्थः । तथा च पौराणिकानि वचांसि –
नताः स्म सर्ववचसां प्रतिष्ठा यत्र शश्वाती । (वि.पु.१.१२.२३)
वाच्ये हि वचसः प्रतिष्ठा ।
कार्याणां कारणां पूर्वं वचसां वाच्यमुत्तमम् । (जित.स्तो.७.४)
वेदैश्च सर्वैरहमेव वेद्यः । (भ.गी.१५.१५)
इत्यादीनि सर्वाणि हि वचांसि सशरीरात्मविशिष्टमन्तर्यामिणमेवाचक्षते । हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मानुप्रविश्य नामरूपे व्याकरवाणीति हि श्रुतिः । तथा च मानवं वचः –
परमात्मनः सर्वशब्दवाच्यतायाः हेतुः
प्रशासितारं सर्वेषामणीयांसमणीयसाम्
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥ (मनु.स्मृ.१२.१२२)
अन्तः प्रविश्यान्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् अणीयांस आत्मानः कृत्स्नस्याचेतनस्य व्यापकतया सूक्ष्मभूतास्ते तेषामपि व्यापकत्वात्तेभ्योऽपि सूक्ष्मतर इत्यर्थः रुक्माभः आदित्यवर्णः स्वप्नकल्पबुद्धिप्राप्यः, विशदतमप्रत्यक्षतापन्नानुध्यानैकलभ्य इत्यर्थः ।
एनमेके वदन्त्यग्निं मारुतोऽन्ये प्रजापतिम् ।
इन्द्रमेके परे प्रमाणमपरे ब्रह्म शाश्वतम् ॥ (मनु.स्मृ.१२.१२३)
ये यजन्ति पित्न् देवान् ब्राह्मणान् सहुताशनान् ।
सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥ (द.स्मृ) इति । पितृदेवब्राह्मणहुताशनादिशब्दास्तन्मुखेन तदन्तरात्मभूतस्य विष्णोरेव वाचका इत्युक्तं भवति ।
जीवात्मनां स्वाभाविकं रूपम्, तत्सहारहेतुनिवारणं च
अत्रेदं सर्वशास्त्रहृदयम् – जीवात्मानः स्वयमसंकुचितापरिच्छिन्ननिर्मलज्ञानस्वरूपाः सन्तः कर्मरूपाविद्यावेष्टितास्तत्तत्कर्मानुरूपज्ञानसंकोचमापन्नाः, ब्रह्मादिस्तम्बपर्यन्तविविधविचित्रदेहेषु प्रविष्टाः तत्तद्देहोचितलब्धज्ञानप्रसरास्तत्तद्देहात्माभिमानिनस्तदुचितकर्माणि कुर्वाणास्तदनुगुण-सुखदुःखोपभोग-रूपसंसारप्रवाहं प्रतिपद्यन्ते । एतेषां संसारमोचनं भगवत्प्रपत्तिमन्तरेण नोपपद्यत इति तदर्थः प्रथममेषां देवादिभेदरहित- ज्ञानैकाकारतया सर्वेषां साम्यं प्रतिपाद्य, तस्यापि स्वरूपस्य भगवच्छेषतैकरसतया भगवदात्मकतामपि प्रतिपाद्य, भगवत्स्वरूपं च हेयप्रत्यनीक-कल्याणैकतानतया सकलेतरविसजातीयमनवधिकातिशयासंख्येयकल्याणगुणगणाश्रयं स्वसंकल्प-प्रवृत्तसमस्तचिदचिद्वस्तुजाततया सर्वस्यात्मभूतं प्रतिपाद्य, तदुपासन साङ्गं तत्प्रापकं प्रतिपदयन्ति शास्त्राणीति ।
जीवात्मनां ज्ञानानन्दस्वरूपता
यथोक्तम् – निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ।
दुःखाज्ञानमला धर्मा प्रकृतेस्ते न चात्मनः ॥ (वि.पु.६.७.२२)
इति प्रकृतिसंसर्गकृतकर्ममूलत्वान्नात्मस्वरूपप्रयुक्ता धर्मा इत्यर्थः । प्राप्ताप्राप्तविवेकेन प्रकृतेरेव धर्मा इत्युक्तम् ।
आत्मसु ज्ञानैकाकारतादर्सनमेव पाण्डित्यम्
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पाण्डिताः समदर्शिनः ॥ (भ.गी.५.१८)
इति । देवतिर्यङ्मनुष्यस्थावररूपप्रकृतिसंसृष्टस्यात्मनः स्वरूपविवेचनी बुद्धिरेषां ते पण्डिताः । तत्तत्प्रकृतिविशेषवियुक्तात्मयाथात्म्यज्ञानवन्तस्तत्र तत्रात्यन्तविषमाकारे वर्तमानमात्मानं समानाकारं पश्यन्तीति समदर्शिन इत्युक्तम् ।
तदिदमाह
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ (भ.गी.५.१९)
इति । निर्दोषं देवादिप्रकृतिविशेषसंसर्गरूपदोषरहितं स्वरूपेणावस्थितं सर्वमात्मवस्तु निर्वाणरूपज्ञानैकाकारतया सममित्यर्थः ।
जीवात्मनां भगवच्छेषतैकरसत्वादि
तस्यैवंभूतस्यात्मनो भगवच्छेषतैकरसता तन्नियाम्यता तदेकाधारता च तच्छरीरतत्तनु-प्रभृतिभिः शब्दैस्तत्समानाधिकरण्येन च श्रुतिस्मृतीतिहासपुराणेषु प्रतिपाद्यत इति पूर्वमेवोक्तम् ।
प्रपदनस्य अत्यन्तावश्यकता
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ (भ.गी.७.१४)
इति तस्यात्मनः कर्मकृतविचित्रगुणमयप्रकृतिसंसर्गरूपात्संसारान्मोक्षो भगवत्प्रपत्तिमन्तरेण नोपपदयत इत्युक्तं भवति । नान्यः पन्था अयनाय विद्यते (तै.आ.३.१२.१७) इत्यादिश्रुतिभिश्च ।
भगवतो विचित्रैश्वर्यम्
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेषु अवस्थितः ॥ (भ.गी.९.४)
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥ (भ.गी.९.५)
इति सर्वशक्तियोगात्स्वैश्वर्यवैचित्र्यमुक्तम् । तदाह –
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् । (भ.गी.१०.४२)
इति अनन्तविचित्रमहाश्चर्यरूपं जगन्ममायुतांशेनात्मतया प्रविश्य सर्वं मत्संकल्पेन विष्टभ्यानेन रूपेणानन्तमहाविभूतिपरिमितोदारगुणसागरो निरतिशयाश्चर्यभूतः स्थितोऽहमित्यर्थः ।
ब्रह्मणो दुर्ज्ञेयाश्चर्यरूपता
तदिदमाह
एकत्वे सति नानात्वं नानात्वे सति चैकता ।
अचिन्त्यं ब्रह्मणो रूपं कुतस्तद्वेदितुमर्हाति ॥
इति । प्रशासितृत्वेनैक एव सन्विचित्रचिदचिद्वस्तुष्वन्तरात्मतया प्रविश्य तत्तद्रूपेण विचित्रप्रकारो विचित्रकर्म कारयन्नानारूपां भजते । एवं स्वल्पांशेन तु सर्वाश्चर्यं नानारूपं जगत्तदन्तरात्मतया प्रविश्य विष्टभ्य नानात्वेनावस्थितोऽपि सन्ननवधिकातिशयासंख्येय कल्याणगुणगणः सर्वेश्वरः परब्रह्मभूतः पुरुषोत्तमो नारायणो निरतिशयाश्चर्यभूतो नीलतोयदसंकाशः पुण्डरीकदलामलायतेक्षणः सहस्रांशुसहस्रकिरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमन्, (तै.उ.आन.१.१) तदक्षरे परमे व्योमन् (तै.ना.उ.१.२) इत्यादिश्रुतिसिद्ध एक एवातिष्ठते ।
ब्रह्मणः समाभ्यधिकरहितत्वम्
ब्रह्मव्यतिरिक्तस्य कस्यचिदपि वस्तुन एकस्वभावस्यैककार्यशक्तियुक्तस्यैकरूपस्य रूपान्तरयोगः स्वभावान्तरयोगः शक्त्यन्तरयोगश्च न घटते । तस्यैतस्य परब्रह्मणः सर्ववस्तुविजातीयतया सर्वस्वभावत्वं सर्वशक्तियोगश्चेत्येकस्यैव विचित्रानन्तरूपता च पुनरप्यनन्तापरिमिताश्चर्ययोगेनैकरूपता च न विरुद्धेति वस्तुमात्रसाम्याद्विरोधचिन्ता न युक्तेत्यर्थः । यथोक्तं
शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।
यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥
भवन्ति तपसां श्रेष्ट पावकस्य यथोष्णता ॥ (वि.पु.१.३.२-३) इति ।
एतदुक्तं भवति सर्वेषामग्निजलादीनां भावानामेकस्मिन्नपि भावे दृष्टैव शक्तिस्तद्विजातीयभावान्तरेऽपीति न चिन्तयितुं युक्ता जलादावदृष्टापि तद्विजातीयपावके भास्वरत्वोष्णतादिशक्तिर्यथा दृश्यते, एवमेव सर्ववस्तुविसजातीये ब्रह्मणि सर्वसाम्यं नानुमातुं युक्तमिति।
फलितार्थकथनम्
अतो विचित्रानन्तशक्तियुक्तं ब्रह्मैवेत्यर्थः । तदाह –
जगदेतन्महाश्चर्यं रूपं यस्य महात्मनः ।
तेनाश्चर्यवरेणाहं भवता कृष्ण संगतः ॥ (वि.पु.५.१९.७) इति ।
विविधश्रुतिसमन्वयः
तदेतन्नानाविधानन्तश्रुतिनिकरशिष्टपरिगृहीततद्व्याख्यानपरिश्रमादवधारितम् । तथा हि प्रमाणान्तरापरिदृष्टापरिमितपरिणामानेक तत्त्वनियतक्रमविशिष्टौ सृष्टिप्रलयौ ब्रह्मणोऽनेकविधाः श्रुतयो वदन्ति निरवद्यं निरञ्जनं (श्वे.उ.६.१९), विज्ञानम् (तै.उ.भृ.५.१), आनन्दं (तै.उ.आन.९.१), निर्विकारं (यो.शि.३.२१), निष्कलं निष्क्रियं शान्तं (श्वे.उ.६.१९), निर्गुणः (श्वे.उ.६.११) इत्यादिकाः निर्गुणं ज्ञानस्वरूपं ब्रह्मेति काश्चन श्रुतयोऽभिदधति । नेह नानास्ति किंचन, मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति (बृ.उ.६.४.१९), यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्तत्केन कं विजातीयात् (बृ.उ.४.१४.१४) इत्यादिका नानात्वनिषेधवादिन्यः सन्ति काश्चन श्रुतयः । यः सर्वज्ञः सर्ववित्, यस्य ज्ञानमयं तपः (मुण्ड.उ.१.१.१०), सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते (तै.आ.पु.३.१२.१६), सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि (तै.ना.उ.१.८), अपहतपाप्मा विजरो विमृत्युर्विशोको विजघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः (छा.उ.८.१.५) इति सर्वस्मिञ्जगति हेयतयावगतं सर्वगुणं प्रतिषिध्य निरतिशयकल्याणगुणानन्त्यं सर्वज्ञता सर्वशक्तियोगं सर्वनामरूपव्याकरणं सर्वस्यावधारतां च काश्चन श्रुतयो ब्रुवते । सर्वं खल्विदं ब्रह्म तज्जलान् (छा.उ.१४.१) इति ऐतदात्म्यमिदं सर्वं (छा.उ.६.८.७) एकः सन् बहुधा विचार (तै.आ.३.११.२) इत्यादिका ब्रह्मसृष्टं जगन्नानाकारं प्रतिपाद्य तदैक्यं च प्रतिपादयन्ति काश्चन । पृथगात्मानं प्रेरितारं च मत्वा (श्वे.उ.१.६), भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.१.१२), प्रजापतिरकामयत प्रजाः सृजेयेति (तै.सं.उ.१.१.१), पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतं (तै.ना.उ.११.३), तमीश्वराणां परमं महेश्वरं तं देवतानां परं च दैवतं (श्वे.उ.६.७), सर्वस्य वशी सर्वस्येशानः (बृ.उ.६.४.२२) इत्यादिका ब्रह्मणः सर्वस्मादन्यत्वं सर्वस्येशितव्यमीश्वरत्वं च ब्रह्मणः सर्वस्य शेषतां पतित्वं चेश्वरस्य काश्चन । अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा (तै.आ.३.११.३), एष त आत्मान्तर्याम्यमृतः (बृ.उ.५.७.७), यस्य पृथिवी शरीरं…, यस्यापः शरीरं…., यस्य तेजः शरीरं… (सुबा.उ.७) इत्यादि यस्याव्यक्तं शरीरं…, यस्याक्षरं शरीरं…, यस्य मृत्युः शरीरं… (सुबा.उ.७), यस्यात्मा शरीरं… (बृ.उ.मा.पा.५.७.२६) इति ब्रह्मव्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश्च शरीरात्मभावं दर्शयन्ति काश्चनेति। नानारूपाणां वाक्यानामविरोधो मुख्यार्थापरित्यागश्च यथा संभवति तथा वर्णनीयम् । वर्णितं च ।
सर्वासां श्रुतीनां सामरस्यप्रकारः
अविकारश्रुतयः स्वरूपपरिणामपरिहारादेव मुख्यार्थाः । निर्गुणवादाश्च प्राकृतहेयगुणनिषेध-परतया व्यवस्थिताः । नानात्वनिषेधवादाश्चैकस्य ब्रह्मणः शरीरतया प्रकारभूतं सर्वं चेतनाचेतनं वस्त्विति सर्वस्यात्मतया सर्वप्रकारं ब्रह्मैवावस्थितमिति सुरक्षिताः । सर्वप्रकारविलक्षणत्व-पतित्वेश्वरत्वसर्वकल्याणगुणगणाकारत्व सत्यकामत्वसत्यसंकल्पत्वादिवाक्यं तदभ्युपगमादेव सुरक्षितम् । ज्ञानानन्दमात्रवादि च सर्वस्मादन्यस्य सर्वकल्याणगुणगणाश्रयस्य सर्वेश्वरस्य सर्वशेषिणः सर्वाधारस्य सर्वोत्पत्तिस्थितिप्रलयहेतुभूतस्य निरवद्यस्य निर्विकारस्य सर्वात्मभूतस्य परस्य ब्रह्मणः स्वरूपनिरूपकधर्मो मलप्रत्यनीकानन्दरूपज्ञानमेवेति स्वप्रकाशतया स्वरूपमपि ज्ञानमेवेति च प्रतिपादनादनुपालितम् । ऐक्यवादाश्च शरीरात्मभावेन सामानाधिकरण्य-मुख्यार्थतोपपादनादेव सुस्थिताः।
भेदादिषु मध्ये कस्यार्थस्य श्रुतितात्पर्यविषयता? इत्यस्योत्तरम्
एवं च सत्यभेदो वा भेदो वा द्व्यात्मकता वा वेदान्तवेद्यः कोऽयमर्थः समर्थितो भवति । सर्वस्य वेदवेद्यत्वात्सर्वं समर्थितम् । सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितमित्यभेदः समर्थितः । एकमेव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेनावस्थितमिति भेदाभेदौ । अचिद्वस्तुनश्चिद्वस्तुनश्चेश्वरस्य च स्वरूपस्वभाववैलक्षण्यादसंकराच्च भेदः समर्थितः ।
ऐक्यज्ञानस्य मोक्षसाधनत्वशङ्का, तन्निरासश्च
ननु च तत्त्वमसि श्वेतकेतो (छा.उ.६.८.७), तस्य तावदेव चिरं (छा.उ.६.१४.२) इत्यैक्यज्ञानमेव परमपुरुषार्थलक्षणमोक्षसाधनमिति गम्यते । नैतदेवम् । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.उ.१.६) इत्यात्मानं प्रेरितारं चान्तर्यामिणं पृथग्मत्वा ततः पृथक्त्वज्ञानाद्धेतोस्तेन परमात्मना जुष्टोऽमृतत्वमेतीति साक्षादमृतत्वप्राप्तिसाधनमात्मनो नियन्तुश्च पृथग्भावज्ञानमेवेत्यवगम्यते ।
सगुणब्रह्मणः अपरमार्थत्वाभावः
ऐक्यवाक्यविरोधादेतदपरमार्थसगुणब्रह्मप्राप्तिविषयमित्यभ्युपगन्तव्यमिति चेत् । पृथक्त्वज्ञानस्यैव साक्षादमृतत्वप्राप्तिसाधनत्वश्रवणाद्विपरीतं कस्मान्न भवति ।
एतदुक्तं भवति । द्वयोस्तुल्ययोर्विरोधे सत्यविरोधेन तयोर्विषयो विवेचनीय इति । कथमविरोध इति चेत् –
तत्त्वमसिश्रुतिलभ्योऽर्थः
अन्तर्यामिरूपेणावस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज्जीवात्मनस्तत्प्रकारं ब्रह्मैव त्वमिति शब्देनाभिधीयते । तथैव ज्ञातव्यमिति तस्य वाक्यस्य विषयः । एवंभूताज्जीवात् तदात्मतया-अवस्थितस्य परमात्मनो निखिलदोषरहिततया सत्यसंकल्पत्वात् अनवधिकातिशय- असंख्येयकल्याणगुणगणाकरत्वेन च यः पृथग्भावः सोऽनुसंधेय इत्यस्य वाक्यस्य विषय इत्ययमर्थः पूर्वमसकृदुक्तः ।
तत्त्वत्रयस्वभावविवेकस्य मोक्षोपयोगिता
भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.१.१२) इति भोग्यरूपस्य वस्तुनोऽचेतनत्वं परमार्थत्वं सततं विकारास्पदत्वमित्यादयः स्वभावाः, भोक्तुर्जीवात्मनश्चामलापरिच्छिन्नज्ञानानन्द-स्वभावस्यैव अनादि-कर्मरूपाविद्याकृत-नानाविधज्ञानसंकोचविकासौ भोग्यभूताचिद्वस्तुसंसर्गश्च परमात्मो-पासनात् मोक्षश्चेत्यादयः स्वभावाः, एवंभूतभोक्तृभोग्ययोरन्तर्यामिरूपेणावस्थानं स्वरूपेण चापरिमितगुणौघाश्रयत्वेनावस्थानमिति परस्य ब्रह्मस्त्रिविधावस्थानं ज्ञातव्यमित्यर्थः ॥
सगुणस्यैव सद्विद्योपास्यत्वम्
तत्त्वमसि (छा.उ.६.८.७) इति सद्विद्यायामुपास्यं ब्रह्म सगुणं सगुणब्रह्मप्राप्तिश्च फलमित्यभियुक्तैः पूर्वाचार्यैर्व्याख्यातम्। यथोक्तं वाक्यकारेण युक्तं तद्गुणकोपासनात् (ब्र.न.वा) इति । व्याख्यातं च द्रमिडाचार्येण विद्याविकल्पं वदता यद्यपि सच्चितो न निर्भुग्नदैवतं गुणगणं मनसानुधावेत्तथाप्यन्तर्गुणामेव देवतां भजत इति तत्रापि सगुणैव देवता प्राप्यत (द्र.भा) इति। सच्चित्तः-सद्विद्यानिष्ठः । न निर्भुग्नदैवतं गुणगणं मनसानुधावेत, अपहतपाप्मत्वादि-कल्याणगुणगणं दैवताद्विभक्तं यद्यपि दहरविद्यानिष्ठ इव सच्चितो न स्मरेत्, तथापि अन्तर्गुणामेव देवतां भजते देवतास्वरूपानुबन्धित्वात्सकलकल्याणगुणगणस्य केनचिद्परदेवता-साधारणेन निखिलजगत्कारणत्वादिना गुणेनोपास्यमानापि देवता वस्तुतः स्वरूपानुबन्धि सर्वकल्याणगुणगणविशिष्टैवोपास्यते । अतस्सगुणमेव ब्रह्म तत्रापि प्राप्यमिति सद्विद्यादहरविद्ययोर्विकल्प इत्यर्थः ।
……Continued