28 संपद्याविर्भावाधिकरणम्

संपद्याविर्भावः स्वेनशब्दात् ।। 1 ।।
“एवमेवैष संपारसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते” इति सिद्धस्यैव प्रत्यगात्मस्वरूपस्यानादिकर्मणा तिरोहितस्य परं ज्योतिरुपसंपद्याविर्भाव उच्यते, “स्वेन रूपेण” इति विशिष्याभिधानात् ।।

मुक्तः प्रतिज्ञानात् ।। 2 ।।
आत्मस्वरूपमात्रस्य प्रागेव सिद्धत्वेऽपि कर्मबन्धविनिर्मुक्तापरिच्छिन्नज्ञानादिस्वरूपस्य ह्यत्राविर्भाव उच्यते । “एतं त्वेव ते भूयोऽनुव्याख्यास्यामि” इति जागरिताद्यवस्थातिरोधानविनिर्मुक्तस्यैवात्र वक्तव्यतया प्रतिज्ञानात् ।।

आत्मा प्रकरणात् ।। 3 ।।
“भूयोऽनुव्याख्यास्यामि” इति (पिरकृतापहत M1 Pr.)प्रकृतोऽपहतपाप्मत्वादिगुणक आत्मेति प्रकरणादवगम्यते । “य आत्मापहतपाप्मा” इत्यारभ्य “सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः” इति प्रकृत्य “एतं त्वेव ते भूयोऽनुव्याख्यास्यामि” इत्युक्तम् ।।