27 कार्याधिकरणम्

कार्यं बादरिरस्य गत्युपपत्तेः ।। 6 ।।
कार्यं हिरण्यगर्भमुपासीनानर्चिरादिरनयति, अस्यैव गत्युपपत्तेः । न हि सर्वगतं परं ब्रह्मोपासीनानां गतिरस्तीति बादरिर्मेने ।।

विशेषितत्वाच्च ।। 7 ।।
“पुरुषो एत्य ब्रह्मलोकान् गमयति” “प्रजापतेःसभां वेश्म प्रपद्ये” इति च विशेषितत्वात् हिरण्यगर्भमव ।।

सामीप्यात्तु तद्व्यपदेशः ।। 8 ।।
“ब्रह्म गमयति” इति ब्रह्मव्यपदेशस्तत्सामीप्यात् । अस्य “यो ब्रह्माणं विदधाति पूर्वम्” इति सामीप्यमस्ति हि(हि omitted A1.)।।

कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ।। 9 ।।
हिरण्यगर्भप्राप्तावप्यपुनरावृत्तिश्रुत्यविरोधः । हिरण्यगर्भलोकात्यये तदध्यक्षेण सहातः परं गच्छति, “ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे” इति श्रुतेः ।।

स्मृतेश्च ।। 10 ।।
“ब्रह्मणा सह ते सर्वे” इत्यारभ्य “प्रविशन्ति परं पदम्” इति स्मृतेश्च ।।

परं जैमिनिर्मुख्यत्वात् ।। 11 ।।
परमुपासीनानर्चिरादिर्नवतीति (अर्चिरादिर्नयति omitted pr.) जैमिनिः, “ब्रह्म गमयति” इति (ब्रह्मशब्दस्य omitted pr.)ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् ।।

दर्शनाच्च ।। 12 ।।
“अस्माच्छरीरीत्समुत्थाय परं ज्योतिरुपसंपद्य” इति श्रुतेश्च ।।

न च कार्ये प्तत्यभिसंधिः ।। 13 ।।
“प्रजापतेः सभाम्” इति प्तत्यभिसंधिश्च न कार्ये, प्रजापतिशब्दस्य “पतिं विश्वस्य” इत्यादिश्रुतेः परस्मिन् ब्रह्मण्येव(ब्रह्मण्येव omitted pr.) मुख्यत्वात्। ब्रह्मलोकशब्दश्च कर्मधारयवृत्त्या तत्रैवेत्यभिप्रायः । “तेब्रह्मलोके” इति श्रुतिर्ब्रह्मैव लोक इति परब्रह्मविषयैव । “ब्रह्मणा सह ते सर्वे” इति स्मृतेश्च “तदुपर्यपि” इति न्यायेन चतुर्मुखलोकस्थोपासन विषया(उपासीनविषया M1.)।।

अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च ।। 14 ।।
प्रतीकालम्बना हि नामादिप्राणशब्दनिर्दिष्टप्रतयगात्मस्वरुपपर्यन्तं सर्वं चिदचिद्वस्तुजातं ब्रह्मदृष्ट्या स्वरूपेण वा य उपासते,ते। अप्रतीकालम्बनास्तद्व्यतिक्ता ये प़ञ्चाग्नि विदो ये च परं ब्रह्मोपासते; तान्नयत्यर्चिरादिरिति भावान् बादरायणो मन्यते । कार्यमिति पक्षे परमेवेति च पक्षे सकलोपनिषद्विरोधरूपदोषः प्रसज्यते । कार्यपक्षे “ब्रह्म गमयति " “परं
ज्योतिरुपसंपद्य” इत्याद्याः प्रकुप्येयुः। परमेवेति पक्षे “य एवमेतद्विदुर्येचेमेऽरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसंभवन्ति " इति श्रुतिः प्रकुप्येत् । कार्यपक्षे तत्क्रतुन्यायश्च विरुध्यते । अर्चिरादिना गतानां हि ब्रह्मप्राप्तिरपुनरावृत्तिश्चश्रूयते। पञ्चाग्निविदस्तु, प्रकृतिवियुक्तात्मस्वरूपं “य आत्मनितिष्ठन्” इत्यादिनावगतब्रह्मात्मभावमुपासत इति तेषामप्रतीकालम्बनत्वम् । तत्क्रतुन्यायाविरोधश्च । उभयेऽपि हि परिपूर्णं ब्रह्मोपासते मुखभेदेन-स्वात्मशरीरकं ब्रह्म केचन, ब्रह्मात्मकं स्वात्मनमितर इति ।।

विशेषं च दर्शयति ।। 15 ।।
कार्यमुपासीनानां ब्रह्मप्राप्तिव्यतिरिक्तपरिमितदेशकालफलविशेषं च दर्शयति श्रुतिः “यावन्नाम्नो गतम्” इत्यादिका ।।