26 आतिवाहिकाधिकरणम्

आतिवाहिकास्तल्लिङ्गात् ।। 4 ।।
अर्चिराद्यभिमानिदेवताविशेषा विदुषामातिवाहिकत्वेन परमपुरुषनियुक्ता इति विज्ञायते । “स एनान् ब्रह्म गमयति” इति तेष्वेकत्रगमयितृत्वदर्शनाल्लिङ्गात् ।।

वैद्युतेनैव ततस्तच्छ्रुतेः ।। 5 ।।
“चन्द्रमसो विद्यतं तत्त्पुरुषोऽमानवः स एनान् ब्रह्म गमयति” इति श्रुतेर्वैद्युत पुरुषात् (परतः M1.)परस्तात् स एव ब्रह्म गमयिता । वरुणेन्द्र प्रजापतीनां तदनुग्राहत्वमेव ।।