24 वाय्वधिकरणम्

वायुमब्दादविशेषविशेषाभ्याम् ।। 2 ।।
“मासेभ्यः संवत्सरं संवत्सरादादित्यम्” इत्यब्दादित्ययोर्मध्ये द्वयोःप्रकरणान्तरयोरेकत्र देवलोकः श्रुतः ; इतरत्र (वायुशब्दः pr.)वायुः । (तत्र देवलोकशब्दोऽपि A1,pr. )देवलोकशब्दो देवानां लोक इति वायोरविशेषाभ्यां देवलोकवायुशब्दाभ्यां वायुरेक एवाभिहितश्(विहितः A1,pr.) इत्यब्दादूर्ध्वमादित्यात्पूर्वं वायुमेव निवेशयेत् ।।