अतश्चायनेऽपि दक्षिणे ।। 19 ।।
(अतः) बन्धहेत्वभावादेव,(हेतोः added after M2.) दक्षिणायने मृतस्यापि विदुषो ब्रह्मप्राप्तिरस्त्येव।।
योगिनः प्रति स्मर्येते स्मार्ते चैते ।। 20 ।।
“यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः” इति न मरणकालः स्मर्यते ; अुपितु योगिनो विद्यानिष्ठान् प्तत्यर्चिरादिका तद्विपरीता चेति एते स्मार्ते स्मृतिविषयभूते गती स्मर्येते “नैते सृती पार्थ जानन् योगी मुह्यति कश्चन” इति वचनात् ।।