निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वाद् दर्शयति च ।। 18 ।।
“दिवा च शुक्लपक्षश्च” इत्यारभ्य “विपरीतं तु गर्हितम् " इति (निशि M.2)निशामरणनिन्दनान्निशि मृतस्य विदुषो(विदुषः omitted pr. ) न ब्रह्मप्राप्तिरिति चेत् ; न, कर्म संबन्धस्य यावद्देहभावित्वात् प्रारब्धस्य यावच्चरमदेहावसानभावित्वाच्च ब्रह्म प्राप्तिविघ्नहेत्वभावात् । दर्शयति च “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये"इति । निशानिन्देतरपुरुषविषया(पुरुषार्थविषया pr.)।।