रश्म्यनुसारी ।। 17 ।। “अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते” इति श्रुतेर्विद्वान् रश्म्यनुसार्येव गच्छति। निश्यपि रश्मयः संभवन्त्येव, निदाघादावूष्मोपलब्धेः। हेमन्तेऽनुपलब्धिस्तु हिमाभिभवकृता ।।