तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ।। 16 ।।
हार्दपरमपुरुषाराधनरूपविद्यासामर्थ्यात् तदङ्गतिचिन्तनेन च , पिरीतपरमपुरुषानुगृहीतस्तदनुग्रहतः प्रकाशिततद् द्वारो जीवः शताधिकया मूर्धन्यनाड्या गच्छति । तदनुग्रे प्रकाशवद्भवति । हार्दः परमात्मा परमपुरुषः “तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः” “सर्वस्य चाहं हृदि संनिविष्टः” इति हि श्रुतिमृती ।।