समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ।।7।।
अर्चिरादिगत्युपक्रमात्प्रागुत्क्रान्तिर्विद्वदविदुषोः समाना, विदुषोऽर्चिरादिगत्या ब्रह्मप्राप्तिश्रुतेः। “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते”
इत्यत्रैवामृतत्वब्रह्मप्राप्तिवचनं शरीरेन्द्रियादिसंबन्धमदग्वैवोपासनारम्भाभिप्रायमित्यभ्युपगन्तव्यमित्यर्थः ।।
तदापीतेः संसारव्यपदेशात् ।। 8 ।।
अर्चिरादिगमनेन ब्रह्मप्रप्तेः प्राक् शरीरसंबन्धव्यपदेशात् तदमृतत्वादिवचनमुक्तप्रकारमेव ।।
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ।। 9 ।।
शरीरादुत्क्रान्तस्यापि सूक्ष्मशरीरमनुवर्तते, अन्यथा गत्यनुपपत्तेः। न केवलं गत्यनुपपत्तिमात्रं सूक्ष्मशरीरवत्तवे प्रमाणम् , चन्द्रमसा संवादादिप्रमाणान्तरतश्च सूक्ष्मशरीरक्त्वोपलब्धेः “तं प्रति ब्रूयात्” “सत्यं ब्रूयात्” इति ।।
नोपमर्देनातः ।। 10 ।।
अत उक्ताद्धेतोः “अथ मर्त्योऽमृतो भवति” इत्याद्यमृतत्वचनं न देहसंबन्धोपमर्देन ।।
अस्यैव चोपपत्तेरूष्मा ।। 11 ।।
अस्य सूक्ष्मशरीरस्य विद्यमानत्वोपपत्तेश्च न तदुपमर्दन । उपलभ्यते ह्युत्क्रामतो विदुषः क्वचित् (क्वचिदूष्मा सूक्ष्मदेहगुणः, न स्थूलदेहगुणः। अन्यत्रानुपलब्धोः।अतो विद्वान् सूक्ष्मशरीरेणोत्क्रमति । M2.) सूक्ष्मदेहगुण ऊष्मा । अन्यत्रानुपलम्भान्न स स्थूलगुणः ।।
प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम् ।। 12 ।।
“अथाकामयमानो न तस्य प्राणा उत्क्रामन्ति” इति विदुष उत्क्रान्तिप्रतिषेधादत्रैव साक्षाद् ब्रह्मप्राप्तिरिति चेत्; नैतत् । विदुष उत्क्रममाणस्यार्चिरादिकया गमनाय प्राणा न विश्लिष्यन्त इति ह्युच्यते “न तस्य प्राणा उत्क्रामन्ति” इति । अयमर्थो माध्यंदिनानां पाठे स्पष्टोऽभिधीयते “योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति” इति ।अयमर्थो माध्यंदिनानां पाठे स्पष्टोऽभिधीयते “योऽकामो निष्काम आप्तकाम आत्मकामो न तस्मात्प्राणा उत्क्रामन्ति” इति ।।
स्मर्यते च ।। 13।।
विदुषोऽपि(अपि omitted M3.) मूर्धन्यनाड्या गमनं(निष्क्रमणम् M3.) स्मर्यते च —
“ऊर्ध्वमेकः स्थितस्तेषां यो भित्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् “।। इति ।