15 भूताधिकरणम्

भूतेषु तच्छ्रुतेः ।। 5 ।।
“प्राणस्तेजसि” इति भूतान्तरसंसृष्टं तेजोऽभिधीयत इति प्राणो भूतेषु संयुज्यते(प्राणा भूतेषु संयुज्यन्ते M2, Pr.)।।

नैकस्मिन् दर्शयतो हि ।। 6 ।।
“तेजसि” इति न तेजोमात्रे, त्रिवृत्करणश्रुतिस्मृतिभ्यां केवलस्यतेजसोऽनवस्थानात् ।।