सोऽध्यक्षे तदुपगमादिभ्यः ।। 4 ।। स प्राणाऽनन्तरं जीवेन संयुज्यते, “एवमेवेममात्मनमन्तकाले सर्वे प्राणा अभिसमायन्ति” इति प्राणस्य जीवोपगमादिश्रुतेः ।।