12 वागधिकरणम्

वाङ् मनसि दर्शनाच्छब्दाच्च ।। 1 ।।
“अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि संपद्यते” इति शब्दात् ,उक्रान्तौ मनसः प्रागेव वाच उपरतिदर्शनाच्च वाङ् मनसि संपद्यते संयुज्यत इति(संयुज्यत इति omitted,M1,2 pr.)।।

अत एव सर्वाण्यनु ।। 2 ।।
अतः “(सर्व omitted M3, pr.) सर्वेन्द्रनयैर्मनसि संपद्यमानैः” इति शब्दात् , उपरतिदर्शनाच्च वाचमनु सर्वाणीन्द्रियाणि मनसि (च addad after pr.) संयुज्यन्ते ।।