11 इतरक्षपणाधिकरणम्

भोगेन त्वितरे क्षपयित्वाथ संपद्यते ।। 19 ।।
आरब्धकार्ययोः पुण्यपापयोर्यत्फलं तदेकशरीरावसानमनेकशरीरावसानं वा भूक्त्वैव तदनन्तरं ब्रह्म प्राप्नोति ।।