10 अग्निहोत्राद्यधिकरणम्

अग्निहेत्रादि तु तत्त्कार्यायैव तद्दर्शनात् ।। 16 ।।
अग्निहेत्राद्याश्रमकर्म विद्योत्पत्त्याख्यकार्यायैवाप्रयाणादनुष्टेयम् । “तमेतं वेदानुवचनेन” इत्यादिना विद्योत्पत्तिकार्यत्वं ह्याश्रमधर्मस्य दृष्टम्।।

अतोऽन्यापि ह्येकेषामुभयोः ।। 17 ।।
“तस्य पुत्रा दायमुपयन्ति” “द्विषन्तः पापकृत्यां सुहृदः साधुकृत्याम्” इत्यादिवचनस्याग्निहोत्रादेरन्याप्यनादिकालप्रवृत्ता साधुकृत्याप्रबल कर्मप्रतिबद्धफला उत्तरा वृत्तरा वृष्ट्यन्नादिद्यानुगुणफला प्रतिबद्धफला चेति पूर्वोत्तरकृतयोरूभयोरप्यस्त्येव विषयः ।।

यदेव विद्यतेति हि ।। 18 ।।
“यदेव विद्यया " इत्यत्र फलप्रतिबन्धोऽस्तीति ह्युक्तम् ।।