इतरस्याप्येवमसंश्लेषः पाते तु ।। 14 ।। विदुषः पुण्यस्यापि मोक्षविरोधित्वेनानिष्टफलहेतुत्वसाम्यादेवमश्लेषविनाशौ । वृष्ट्यन्नायुरारोग्यादिविद्यानुगुणफलस्य कर्मणः शरीरपातादूर्ध्वमफलत्वम् ।।