07 तदधिगमाधिकरणम्

तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ।। 13 ।।
उपासने प्ररब्धे तत्सामर्थ्यादेव पूर्वकृताघनाश उत्तराघाश्लेषश्चभवति; “एवं हास्य सर्वे पाप्मानः प्रदूयन्ते” “एवमेवंविदि पापं कर्म न श्लिष्यते” (इत्यादि M1.) इति श्रुतेः ।।