आसीनाधिकरणम् 5 आसीनः संभवात् ।। 7 ।।
आसीन उपासनं कुर्यात्, तस्यैवैकाग्रतासंभवात् (ऐकाग्र्य pr.) ।।
ध्यानाच्च ।। 8 ।।
“निदिध्यासितव्यः” इत्युपासनस्य ध्यानरूपत्वाच्चासीनः ।।
अचलत्वं चापेक्ष्य ।। 9 ।।
पृथिव्यादेरचलत्वं चापेक्ष्य “ध्यायतीव पृथिवी” इति प्रयोगात् मनसो वनिश्चलत्वमासीनस्यैव ।।
स्मरन्ति च ।। 10 ।।
“उपविश्यासने युज्ज्यात्” (इत्यादि M1.)इत्यादिना ।।
यत्रैकाग्रता तत्राविशेषात् ।।11।।
यत्रैकाग्रता तत्र देशे तत्र काल उपासीत,(उपासीतेति M1 pr. ) देशकालविशेषाश्रवणात् ।।