04 आदित्यादिमत्यधिकरणम्

आदित्यादिमतयश्चाङ्ग उपपत्तेः।। 6 ।।
“य एवासौ तपति तमुद्गीथमुपासीत” इत्यादावप्यादित्यादेरेवोत्कृष्टत्वात् उद्गीथादौ तद्दष्टयः कार्यः ।।