02 आत्मत्वोपासनाधिकरणम्

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।। 3 ।।
यद्यपि ‘‘अधिकं तु भेदनिर्देशात् ’’ ‘‘अधिकोपदेशात्" इत्यादिषु प्रत्यगात्मनोऽर्थान्तरस्त्वं ब्रह्मणः प्रतिपादितम्; “त्वं वा अहमस्मि भावो देवते, अहं वै त्वमसि भगवो देवते” ित्यात्मेत्येवोपगच्छन्ति। उपासितुरर्थान्तरभूतमपि ब्रह्म तानुपासितृन् स्वात्मभूतं ग्राहयन्ति। उपासितुरर्थान्तरभूतमपि ब्रह्म तानुपासितृन् स्वात्मभूतं ग्राहयन्तिच
शास्राणि “य आत्मनितिष्ठन्नात्मनोऽन्तरो यमात्मा न वेव यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मा " इत्यादीनि । यथा ‘मनुष्योऽहम् ’ इति मनुष्यशरीरस्य स्वात्मप्रकारतैकस्वभावतया प्रकारिणि स्वान्मनि (अहं शब्दस्य M2 pr)मनुष्यशब्दस्य तद्बुद्धेश्च पर्यवसानं, तथा स्वात्मनोऽपि परमात्म शरीरतया तत्प्रकारस्वभावत्वेनाहं शब्दतद्बुद्धयोः परमात्मनि पर्यवसानमिति “अहं ब्रह्म " इत्येवोपास्यमिति (उपासीतेति M1. )।।