आवृत्तिरसकृदुपदेशात् ।। 1 ।।
“ब्रह्मविदाप्नोति परम् " इत्यादिषु मोक्षसाधनं वेदनमसकृदावृत्तम्, “+विद्यात्, उपासीत” इति विद्युपास्योरुपक्रमोपसंहारयोर्व्यतिरेकेणोपदेशात् ।।
लिङ्गाच्च ।। 2 ।।
लिङ्गं स्मृतिः। “मां ध्यायन्त उपासते । तेषामहं समुद्धर्ता” “तद्रूपप्रत्यये चैका संततिश्चान्यनिःस्पृहा । तद्धयानम्” इत्यदिस्मृतेश्च।।