अनाविष्कुर्वन्नन्वयात् ।। 49 ।। “पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” इति बाल्यमित्यविशेषेण(अविशेषश्रुतावपि A1.) श्रुतावपि, बालकर्म स्वमाहात्म्यानाविष्काररूपं विद्यान्वययोग्यतया विधीयते ।