52 सहकार्यन्तराधिकरणम्

सहकार्यन्तरविधिःपक्षेणतृतीयं तद्वतोविध्यादिवत् ।। 46 ।।
“तस्मात् ब्रह्मणः पाण्डित्यं निर्विद्य” इत्यारभ्य “अथ मुनिः” इत्यत्र (विद्यावतः omitted A1.)विद्यावतो यज्ञादिवत् बाल्यपाण्डित्ययोस्तृतीयं सहकार्यन्तरं मौनं विधीयते, पक्षेण प्रकृष्टमननशीले मुनिशब्दप्रयोगात् । विद्याभ्यासरूपं मननमिदमप्राप्तमेव ।

कृत्स्नभावात्तु गृहिणोपसंहारः ।। 47 ।।
कृत्स्नेष्वाश्रमिषु विद्यासद्भावात्(संभवात् M3.) छान्दोग्ये “अभिसमावृत्य कुटुम्बे” इत्यारभ्य “स खल्वेवं वर्तयन्यावदायुषम्” इति गृहिणोपसंहारः सर्वेषां प्रदर्शनार्थः। तुशब्दो गृहिण एवेति शङ्गाव्यावृत्यर्थः ।

मौनवदितरेषामप्युपदेशात् ।। 48 ।।
“अथ मुनिः " इत्यत्रापि “अथ भिक्षाचर्यं चरति” इति पारिव्रज्येनोपसंहारः प्रदर्शनार्थः, मौनभिक्षाचर्यवदितराश्रमधर्माणां यज्ञादीनामप्युपदेशात् ।