51 स्वाम्यधिकरणम्

स्वामिनः फलश्रुतेरित्यात्रेयः ।। 44 ।।
उद्गीथाद्युपासनं यजमानेनानुष्टेयम्; तस्यैव क्रतुवीर्यवत्तरत्वादिफलश्रुतेरित्यात्रेयः ।

आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ।। 45 ।।
कर्मस्वरूपवत् तदङ्गाश्रयमप्यार्त्विज्यम्। साङ्गफलसाधनकर्मानुष्ठानायहि ऋत्विक् परिक्रीयते ।