तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ।। 40 ।।
नैष्ठिकादिनिष्ठस्य(नैयमिकादिभूतस्य M1.) प्रच्युत्य(प्रच्युतस्य M1.) स्थितिर्न संभवत्येव, नियमात् (तद्रूपाभावेभ्यः A1.)तद्रूपनिवृत्तिभ्यः । यथा नियच्छन्ति हि “अत्यन्तमात्मानमाचार्यकुलेऽवसादयन् " इति “अरण्यमियात्ततो न पुनरेयात् " इति “संन्यस्याग्निं(अग्निन् M2.)न पुनरावर्तयेत्” इति च । अतस्तेषां(प्रच्युतिभावात् m 3.) प्रच्युत्य स्थित्यभावाद्विद्यानधिकारः । जैमिनेरप्येवम्(जैमिनिरप्येवम् M3.) ।
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ।। 41 ।।
“अवकीर्णिपशुश्च तद्वत् " इत्यधिकारपक्षमोक्तं प्रायश्चित्तमपि तस्य न संभवति, तस्य प्रायश्चित्तानधिकारस्मृतेस्तदसंभवात्। “आरूढोनैष्ठिकं धर्मम् " इत्यारभ्य “प्रायश्चित्तं न पश्यामि” इत्यादिस्मृतेः ।
उपपुर्वमपीत्येके भावमशनवत्तदुक्तम् ।। 42 ।।
उपपातकत्वात् (प्रायश्चित्तमेके 1 2,pr)प्रायश्चित्तस्य भावमेके मध्वशननिषेधतत्प्रायश्चित्तवदिति मन्यन्ते । तदुक्तम् – " (इतरेषां M 2.)उत्तरेषां चैतविरेधि” इति ।
बहिस्तूभयथापि स्मृतेराचाराच्च ।। 43 ।।
उपपातकत्वेऽप्यन्यथापि कर्माधिकारबहिष्कृता एते; तथा स्मृतेः “प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा " इति । शिष्टबहिष्काराच्च।