अन्तरा चापि तु तद् दृष्टेः ।। 36 ।।
आश्रमानन्तरा वर्तमानो विधुरादिरनाश्रमी । तस्यापि विद्याधिकारोऽस्ति, रैक्वादिष्वनाश्रमिषु ब्रह्मविद्याधिकारदर्शनात् ।
अपि स्मर्यते ।। 37 ।।
अनाश्रमिणोऽपि जपादिना विद्यानुग्रहः स्मर्यते “जप्येनापि च संसिध्येत् " इति ।
विशेषानुग्रहश्च ।। 38 ।।
आश्रमानियतधर्मविशेषैर्विद्यानुग्रहाश्च श्रूयते । “तपसा ब्रह्मचर्येणश्रद्धया विद्यया चात्मानम् " इत्यादिना ।
अतस्त्वितरज्जयायो लिङ्गाच्च ।। 39 ।।
अनाश्रमित्वादाश्रमित्वं ज्यायः, धर्मभूयस्त्वात् “अनाश्रमी न तिष्ठेत्तु (तिष्ठेत A1.)” इति स्मृतेश्च ।