विहितत्वाच्चाश्रमकर्मापि ॥32॥
यज्ञादिकर्म “यावज्जीवमग्निहोत्रम्” इत्यादिना विहितत्वात् विद्यारहितकेवलाश्रमिणामप्यनुष्ठेयम् ।
सहकारित्वेन च ।।33।।
“तमेतं वेदानुवचनेन” इत्यादिश्रुतेर्विद्याङ्गतया विधेर्विद्यासहकारित्वेन विदुषा चानुष्ठेयम् ।
सर्वथापि च एवोभयलिङ्गात् ।। 34 ।।
उभयत्र विनियोगेऽपि यज्ञादयस्त एव, उभयत्र प्रत्यभिज्ञानाख्याल्लिङ्गात्। कर्मस्वरूपैक्येऽपि विनियोगपृथक्त्वेन न विरोधः ।
अनभिभवं च दर्शयति ॥35॥
“धर्मेण पापमपनुदति” इति विद्योत्पत्तिबन्धकपापनिवर्तनेन विद्याया अनभिभवं कर्मानुष्ठानकार्यं च दर्शयति ।