47 सर्वान्नानुमत्यधिकरणम्

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ।। 28 ।।
प्राणविद्यानिष्टस्य “न ह वा एवं विदि किंचनानन्नं भवति” इति सर्वान्ननुमतिर्न सर्वदा ; अपितु प्राणात्ययापत्तावेव । अतिशयितशक्तेर्ब्रह्मविदोऽप्युच्छिष्टभक्षणादिः प्राणात्ययापत्तावेवेति दर्शनात् ।

अबाधाच्च ।। 29 ।।
“आहारशुद्धौ सत्वशुद्धिः” इत्याहारशुद्धिविधेरबाधाच्च प्राणसंशय एव ।

अपि स्मर्यते ।। 30 ।।
“प्राणसंशयामापन्नो योऽन्नमति यतस्ततः” इत्यादिना स्मर्यते च प्राणसंशय एवेति ।

शब्दश्चातोऽकामकारे ।। 31 ।।
“तस्माद्बाह्मण सुरां न पिबेत् " इति कामकारनिवृत्तिशब्दश्चात एव; यतः प्राणसंशय एव सर्वान्नानुमतिः ।