शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् ।। 27 ।।
गृहस्थो विहितकर्मव्यापृतोऽपि “शान्तो दान्तः” इत्यादिना शमदमादिविधेस्तद्युक्तः स्यात् । विद्यानिष्पत्तये शमदमादीनामवश्यानुष्ठेयत्वात्; शान्त्युपरतिप्रभृतिभिर्विना (विद्योत्पत्यनुपपत्तेः M2.)विद्यानिष्पत्त्यनुपपत्तेः।