45 सर्वापेक्षाधिकरणम्

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ।। 26 ।।
कर्मवत्सु गृहस्थेष्वग्निहोत्रादिसर्वकर्मापेक्षा विद्या, “ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन " इत्यादिश्रुतेः । यथा चाश्वोगमनसाधनभतोऽपि स्वपरिकर बन्धापेक्षो गमने, तथा । ऊर्ध्वरेतःसु च स्वाश्रमकर्मापेक्षा ।