स्तुतिमात्रमुपादानादिति चोन्नापूर्वत्वात् ।। 21 ।।
उद्गीथादिषु रसतमत्वादिदृष्टिविधिर्न संभवति ; “इयमेव जुहुः स्वर्गो लोक आहवनीयः " इतिवत् कर्माङ्गभूतोद्गीथाद्युपादाय तस्य रसत्मत्ववचनं तत्त्स्तुतिमात्रमिति चेत्, नैतत् । जुह्वादिविधिवदुद्गीथादिविधेरत्रासंनिधानात् । रसतमत्वादेश्चाप्राप्तत्वाद्रसतमत्वादिदृष्टिविधिरेव।
भावशब्दाच्च ।। 22 ।।
“उद्गीथमुपासीत " इति विधिप्तत्ययाच्च ।