41 पुरुषार्थाधिकरणम्

पुरुषार्थोऽतः शब्दादिति बातरायणः ।। 1 ।।
विद्यातः पुरुषार्थ इति भगवान् बादराणो मेने । “ब्रह्मविदाप्नोति परम् " “यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा " इत्यादिशब्दात् ।

शेषात्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ।। 2 ।।
“तत्वमसि " इत्यादिसामानाधिकरण्येन कर्मसु कर्तुरेव ब्रह्मत्वावगमात् तद्वेदनस्य तत्संस्कारतया कर्मशेषत्वात् द्रव्यादिष्विव फलश्रुतिरर्थवाद इति (इति जौमिनि राचार्यो मन्यते omitted A1.M2. pr .)जैमिनिराचार्यो मन्यते ।

आचारदर्शनात् ।। 3 ।।
अश्वपतिः केकयो ब्रह्मविदाह “यक्ष्यमाणो ह वै भगवन्तोऽहम् " इति । एवमादौ ब्रह्मविदः कर्मप्रधानाचारदर्शनात् विद्या कर्माङ्गम् ।

तच्छ्रुतेः।। 4 ।।
“यदेव विद्यया करोति " इति श्रुत्यैव विद्यायाः कर्मसु विनियोगात् विद्या कर्माङ्गम् (विद्या कर्माङ्गम् omitted A1. pr.) । यत्करोति तद्विद्ययेति हि श्रुति ः। यद्विद्यया साधनभूतया कर्म करोति तत्कर्म वीर्यवत्तरमिति वा ।

समन्वारम्भणात् ।। 5 ।।
“तं विद्याकर्मणी समन्वारभेते " इति विद्याकर्मणोरेकस्मिन् पुरुषे साहित्यदर्शनाच्च विद्या कर्माङ्गम् ।

तद्वतो विधानात् ।। 6 ।।
“आचार्यकुलाद्वेदमधीत्य +अभिसमावृत्य कुटुम्बे " इत्यादावर्थज्ञानपर्यन्ताध्ययनवतः कर्मविधानाच्च । अध्ययनं तद्वतो विधानात् ।। 6 ।।
“आचार्यकुलाद्वेदमधीत्य +अभिसमावृत्य कुटुम्बे " इत्यादावर्थज्ञानपर्यन्ताध्ययनवतः कर्मविधानाच्च । अध्ययनं ह्यर्थज्ञापर्यन्तम् ।

नियमाच्च (च omittted in A1,M1,pr.) ।। 7 ।।
“कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः (इत्यादावात्मविदः M3.)इत्यात्मविदो जीवनस्य कर्मसु विनियोगाच्च "

अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ।। 8।।
न विद्या कर्माङ्गम् । अपितु विद्यातः पुरुषार्थ इत्येवमेव भगवतो बादरायणस्य मतम् ; कर्तुः प्रत्यगात्मनोऽर्थान्तभूतस्यैव वेद्यतयोपदेशात् । (कथम् M2) तत्कथम् ? “बहुस्यां प्रजायेयेयि” “स कारणं करणाधिपाधिपः” इत्यादिवाक्येषु वेद्यस्याधिक्यदर्शनात् ।

तुल्यं तु दर्शनम् ।। 9 ।।
विद्यायाः प्राधान्येऽपि तुल्यमाचारदर्शनम् । “ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे " इत्यादौ ब्रह्मविदां कर्मत्यागो हि (हि omitted M3.) दृश्यते। अनुष्ठानं तु फलाभिसंधिरहितस्य विद्याङ्गत्वेन । त्यागस्तु फलाभिसंधियुक्तस्येति न विरोधः ।

असार्वत्रिकी ।। 10 ।।
“यदेव विद्यया करोति " इति न सार्वत्रिकी विद्योच्यते, “यदेव विद्यया " इति प्रसिद्धवन्निर्देशात् । प्रसिद्धिश्चोद्गीथविद्यायाः । “यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति " इति प्रकृतोद्गीथविद्यायुक्तस्य कर्मणो हि वीर्यवत्तरत्वसाधनभावो विधीयते ।

विभागः शतवत् ।। 11 ।।
“तं विद्याकर्मणी समन्वारभेते " इति विद्याकर्मणोर्भिन्नफलत्वेन स्वस्मै फलायान्येतीति विभागः । यथा क्षेत्ररत्नविक्रयिणं (शतद्वयमन्वेतीत्यत्र pr.) शतद्वयमित्यत्र क्षेत्रार्थे शतं, रत्नार्थं शतमिति ।

अध्ययनमात्रवतः ।। 12 ।।
“वेदमधीत्य” इत्यध्ययनमात्रवतः कर्मविधानात् न विद्या कर्माङ्गम् । अध्ययनविधिर्हक्षरराणिग्रहणमात्रे पर्यवस्यतीत्युक्तम् । अर्थावबोधपर्यन्तत्वेऽप्यर्थज्ञानादर्थान्तरभूता ‘विद्यात्, उपासीत ’ इति विहिता विद्या प्रत्यया वृत्तिरूपा ।

नाविशेषात् ।। 13 ।।
“कुर्वन्नेवेह कर्माणि " इत्यत्र स्वतन्त्रे कर्मणि विद्वदायुषो विनियोग इति विशेषहेत्वभावात् “ईशा वास्यमिदं सर्वम् " इति प्रकरणाच्च विद्याङ्ग भूतमे तत्कर्मेति ज्ञायते । अतो न विद्या कर्माङ्गम् ।

स्तुतयोऽनुमतिर्वा ।। 14 ।।
विद्यास्तुतये कर्मानुमतिर्वा । विद्यामाहात्म्यात् सर्वदा कर्म कुर्वन्नपि तैर्न लिप्यते इति हि विद्या स्तुता स्यात् ष
“न कर्म लिप्यते नरे " इति च वाक्यशेषः ।

फामकारेण चैके ।। 15 ।।
“किं प्रजया करिष्यामः " इत्यादिना कामकारेण गार्हस्थ्यत्यागमधीयत एके । अतश्च विद्यैव प्रधानभाता ।

उपमर्दं च ।। 16 ।।
विद्यया सर्वकर्मोपमर्दं(मर्दनं A1.) चाधीयत एके(एके omitted M1,2.pr.) “क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे " इत्यादिना ।

ऊर्ध्वरेतः सु च शब्दे हि ।। 17 ।।
ऊर्ध्वरेतःस्वाश्रमेषु च (च omitted pr. )विद्यादर्शनात् नेषु चाग्निहोत्राद्यभावान्न विद्या कर्माङ्गम् । ते चाश्रमाः सन्त्येव । “त्रयो धर्मस्कन्धाः " इति हि वैदिके शब्दे दृश्यते ।

परामर्शं जैमिनिरचोदनाचापवदति हि ।। 18 ।।
“त्रयो धर्मस्कन्धाः " इत्यत्र(इत्यादौ M3.) चोदनाभावादुपासनस्तुत्यर्थमनुवादमेव जैमिनिर्मेने । “वीरहा वा एष दैवानां योऽग्निमुद्वासयते” इत्यपवदति चाश्रमान्तरम् ।

अनुष्ठेयं बादरायणः साम्यश्रुतेः ।। 19 ।।
गृहस्थाश्रमदाश्रमान्तरमप्युष्टेयमिति (भगवत् omitted M1,pr.) भगवद्बादरायणमतम् , “त्रयोधर्मश्कन्धाः " इति सर्वाश्रमसाम्यश्रुतोः ।

विधिर्वा धारणवत् ।। 20 ।।
“उपरि हि देवेभ्योधारयति " इत्यप्राप्तत्वेन यथा विधिः, तद्वत् ।